06 एतद्योनीनि भूतानि

विश्वास-प्रस्तुतिः …{Loading}…

एतद्-योनीनि भूतानि
सर्वाणीत्य् उपधारय।
अहं कृत्स्नस्य जगतः
प्रभवः प्रलयस् तथा॥7.6॥

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥7.6॥एतच्चेतनाचेतनसमष्टिरूपमदीयप्रकृतिद्वययोनीनि ब्रह्मादिस्तम्बपर्यन्तान्य् उच्चावचभावेन अवस्थितानि चिदचिन्मिश्राणि सर्वाणि भूतानि मदीयानि इत्य् उपधारय मदीयप्रकृतिद्वययोनीनि हि तानि मदीयान्य् एव। तथा प्रकृतिद्वययोनित्वेन कृत्स्नस्य जगतस् तयोर् द्वयोर् अपि मद्योनित्वेन मदीयत्वेन च कृत्स्नस्य जगतः अहम् एव प्रभवः अहम् एव प्रलयः अहम् एव च शेषी इत्य् उपधारय।

तयोश् चिदचित्समष्टिभूतयोः प्रकृतिपुरुषयोर् अपि परमपुरुषयोनित्वं श्रुतिस्मृतिसिद्धम्। महानव्यक्ते लीयते अव्यक्तमक्षरे अक्षरं तमसि लीयते तमः परे देवे एकीभवति (सु॰ उ॰ 2)विष्णोः स्वरूपात्परतोदिते द्वे रूपे प्रधानं पुरुषश्च (वि॰ पु॰ 1।2।24)प्रकृतिर्या मया ख्याता व्यक्ताव्यक्तस्वरूपिणी। पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि॥ परमात्मा च सर्वेषामाधारः परमेश्वरः। विष्णुनामा स वेदेषु वेदान्तेषु च गीयते॥ (वि॰ पु॰ 6।4।38 39) इत्यादिका हि श्रुतिस्मृतयः।

वेदान्तदेशिकः

॥7.6॥ एवं समष्टिदशोक्ताएतद्योनीनि इत्यर्धेन तु व्यष्टिरुच्यते। अहं कृत्स्नस्य इति तु समष्टिव्यष्ट्योः सङ्कलितयोः कार्यत्वादिकथनम्सर्वाणि भूतानि इति चिदचिन्मयकार्यनिर्देशात्। एतच्छब्दः प्रस्तुतप्रकारप्रकृतिपुरुषपरामर्शी न तु प्रकृतिमात्रपर इति दर्शयति एतच्चेतनेत्यादिना। एतेन स्वरूपतो निर्विकारस्यापि चेतनस्य देवादिशरीरेन्द्रियतदधीनज्ञानक्रियाभोगादिविशिष्टवेषापेक्षया तत्पूर्वाचित्कल्पावस्थस्य प्रकृतित्वमुपपन्नमिति सूचितम्। व्याख्येये मदीयानीत्येतन्न दृश्यते तत्कथमत्र निर्दिश्यते इत्यत्राह मदीयप्रकृतिद्वययोनीनीति। शब्दाप्रयोगेऽपि वाक्यार्थसिद्धावितिशब्दः स्वकीयत्वपरामर्शार्थ इति भावः। भगवदभिप्रायस्थवचनरूपत्वादत्र मदीयशब्दोक्तिः। तथेत्यस्य तथासतीत्यर्थः। तस्यैव विवरणम्प्रकृतिद्वयेत्यादि। पूर्वोक्तशेषित्वादिसमुच्चयार्थो वा तथाशब्दः। प्रभवप्रलयशब्दावत्रोत्पत्तिलयस्थानपरौ। ननु अजामेकां श्वे.उ.4।5 नित्यो नित्यानां श्वे.उ.6।13प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि 13।19 इत्यादिषु सत्सु कार्यविषये कृत्स्नशब्देन प्रकृतिद्वयस्यापि सङ्ग्रहः कथमवगम्यते इत्यत्राह चिदचित्समष्टीति। प्रकृतिपुरुषयोः परमात्मनि प्रलयश्रुतिबलात्तयोस्तस्मादुत्पत्तिरपि श्रुतिसिद्धैव स्यादित्यभिप्रायेणोपादत्ते महानिति। प्रकृतिपुरुषयोः परमात्मनि लयो नाम क्षीरे नीरस्येव विभागानर्हः संश्लेषविशेषः। तेन द्रव्यस्वरूपस्य नित्यत्वात्अजाम् इत्यादेरविरोधः। उक्तार्थे स्मृतिमुदाहरति विष्णोरिति। परतोदिते परत उदित इत्यर्थः। आर्षः सन्धिभेदः यद्वा स्मृतिरपीयं प्रलयपरैव तत्प्रकरणस्थत्वात्। दो अवखण्डने इत्यत्र दिते इति निष्ठान्तं पदम् पृथग्भूते इत्यर्थः। तेन प्रलयदशायामपि प्रधानपुरुषेश्वराणां मिथः स्वरूपभेदोऽस्त्येवेत्युक्तं भवति। अदिते वा इति पदच्छेदः अपृथग्भूते इत्यर्थः। तेन विभागानर्हः संश्लेष उक्तो भवति प्रलयप्रकरणस्थत्वादत्रापि पूर्वोत्तरोपादीयमानस्मृतिसमानार्थत्वाभिप्रायाच्च। स्वाभिमतार्थे स्फुटार्थं वचनमुदाहरति प्रकृतिरिति।

आदिदेवानन्दः

7.6 Know that all beings from Brahma down to a tuft of grass, who have their origin in these two Prakrtis of Mine, are aggregated forms of the self and of inanimate matter. Irrespective of whether they are existing in a superior or inferior form, the selves and inanimate matter are mixed together in them. On account of their origination in My two Prakrtis, they are Mine. So, know that because the entire universe has its origination in these two Prakrtis which have their origination in Me, I am myself the origin and dissolution of the entire universe. For the same reason, I am its Lord (Sesin). It is proved on the basis of the Srutis and Smrtis that these two, Prakrti and Purusa (matter and the self), which form the aggregate of all animate and inanimate beings, have the Supreme Person as their cause. This is evident from Sruti and Smrti texts like the following: ‘The Mahat resolves into Avyakta, Avyakta into Aksara, Aksara into Tamas, and Tamas becomes one with the Supreme Lord’ (Su. U., 2); ‘O sage, distinct from the form of Visnu, the Supreme Lord, the two forms, Prakrti and Purusa, arise’ (V. P., 1.2.24); and ‘What was described by Me as Prakrti in its dual form of the manifest and the unmanifest, and the Purusa do merge in the Supreme Self, and the Supreme Self is the support of all. He is the Supreme Lord named Visnu, exalted in the Vedas and Vedanta’ (V. P., 6.4.38-39).

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥7.6) एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः येषां भूतानां तानि एतद्योनीनि भूतानि सर्वाणि इति एवम् उपधारय जानीहि। यस्मात् मम प्रकृती योनिः कारणं सर्वभूतानाम् अतः अहं कृत्स्नस्य समस्तस्य जगतः प्रभवः उत्पत्तिः प्रलयः विनाशः तथा। प्रकृतिद्वयद्वारेण अहं सर्वज्ञः ईश्वरः जगतः कारणमित्यर्थः॥ यतः तस्मात्

गम्भीरानन्दः

7.6 Upadharaya, understand; iti, thus; that sarvani, all; bhutani, things; etat-yonini, have these (etat) as their source (yoni)-things that have these lower and higher Prakrtis, charcterized as the ‘field’ and the ‘Knower of the field (body)’, as their source are etat-yonini. Since My two Prakrtis are the source, the cause of all things, therefore, aham, I; am the prabhavah, origin; tatha, as also; the pralayah, end, the termination; krtsnasya, of the whole; jagatah, Universe. The maning is this: I, who am the ominscient God, am the source of the Univese through My two Prakrtis. Since this is so, therefore-

हरिकृष्णदासः

॥7.6॥ यह क्षेत्र और क्षेत्रज्ञरूप दोनों परा और अपरा प्रकृति ही जिनकी योनि कारण है ऐसे ये समस्त भूतप्राणी प्रकृतिरूप कारणसे ही उत्पन्न हुए हैं ऐसा जान। क्योंकि मेरी दोनों प्रकृतियाँ ही समस्त भूतोंकी योनि यानी कारण हैं इसलिये समस्त जगत्का प्रभव उत्पत्ति और प्रलय विनाश मैं ही हूँ अर्थात् इन दोनों प्रकृतियोंद्वारा मैं सर्वज्ञ ईश्वर ही समस्त जगत्का कारण हूँ।

आनन्दगिरिः

॥7.6॥ उक्तप्रकृतिद्वये कार्यलिङ्गकमनुमानं प्रमाणयति एतद्योनीनीति। प्रकृतिद्वयस्य जगत्कारणत्वे कथमीश्वस्य जगत्कारणत्वं तदुपगतमित्याशङ्क्याह अहमिति। एतद्योनीनीत्युक्ते समनन्तरप्रकृतजीवभूतप्रकृतावेतच्छब्दस्याव्यवधानात्प्रवृत्तिमाशङ्क्य व्याकरोति एतदिति। सर्वाणि चेतनाचेतनानि जनिमन्तीत्यर्थः। सर्वभूतकारणत्वेन प्रकृतिद्वयमङ्गीकृतं चेत्कथमहमित्याद्युक्तमित्याशङ्क्याह यस्मादिति। मम प्रकृती परमेश्वरस्योपाधितया स्थिते इत्यर्थः। तर्हि प्रकृतिद्वयं कारणमीश्वरश्चेति जगतोऽनेकविधकारणाङ्गीकरणं स्यादित्याशङ्क्याह प्रकृतीति। अपरप्रकृतेरचेतनत्वात्परप्रकृतेश्चेतनत्वेऽपि किंचिज्ज्ञत्वादीश्वरस्यैव सर्वकारणत्वं युक्तमित्याह सर्वज्ञ इति।

नीलकण्ठः

॥7.6॥एतदिति। एते परापरे क्षेत्रक्षेत्रज्ञरूपे प्रकृती योनिरुत्पत्तिलयस्थानं येषां भूतानां तानि एतद्योनीनि भूतानि चतुर्विधानि इत्येतदुपधारय सम्यग्जानीहि। किं पातञ्जलानामिव एते प्रकृती ईश्वरादन्ये इत्याशङ्क्याह अहमिति। कृत्स्नस्य स्वस्वप्रकृतिसहितस्य जगतो जडाजडरूपस्य प्रभवः प्रभवत्यस्मादिति प्रभव उत्पत्तिकारणं तथा प्रलीयतेऽस्मिन्निति प्रलयो लयस्थानं च। अतस्ते उभे अपि प्रकृती मत्तो नातिरिच्येते।

मधुसूदन-सरस्वती

॥7.6॥ उक्तप्रकृतिद्वये कार्यलिङ्गकमनुमानं प्रमाणयन्स्वस्य तद्द्वारा जगत्सृष्ट्यादिकारणत्वं दर्शयति एते अपरत्वेन परत्वेन च प्रागुक्ते क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिर्येषां तान्येतद्योनीनि भूतानि भवनधर्मकाणि सर्वाणि चेतनाचेतनात्मकानिजनिमन्ति निखिलानीत्येवमुपधारय जानीहि। कार्याणां चिदचिद्ग्रन्थिरूपत्वात्तकारणमपि चिदचिद्ग्रन्थिरूपमनुमिन्वित्यर्थः। एवं क्षेत्रक्षेत्रज्ञलक्षणे ममोपाधिभूते यतः प्रकृती भवतस्ततस्तद्द्वाराहं सर्वज्ञः सर्वेश्वरोऽनन्तशक्तिर्मायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः सर्वस्य कार्यवर्गस्य प्रभव उत्पत्तिकारणं प्रलयस्तथा विनाशकारणम् स्वाप्निकस्येव प्रपञ्चस्य मायिकस्य मायाश्रयत्वविषयत्वाभ्यां मायाव्यहमेवोपादानं द्रष्टा चेत्यर्थः।

रामरायः - ६

एतदिति। परापरे इति। क्षेत्रज्ञलक्षणा परा प्रकृतिः, क्षेत्रलक्षणा त्वपरेति विवेकः। इदम्प्रत्ययविषयः भूम्यादिः क्षेत्रम् , अहम्प्रत्ययविषयस्तु चिदात्मा क्षेत्रज्ञ इति विवेकः। न चाहङ्कारोऽप्यहम्प्रत्ययविषय इति वाच्यम् , ममाहङ्कार इति प्रतीत्या अहङ्कारस्य केवलाहम्प्रत्ययविषयत्वाभावात्। न च - ममात्मेति प्रतीत्या आत्माऽपि केवलाहम्प्रत्ययविषयो नेति - वाच्यम् , स्वरूपवाचित्वात् तत्रात्मशब्दस्य। न चाहम्प्रत्ययविषयत्वस्यापि सत्त्वादहङ्कारस्य पाक्षिकात्मत्वं स्यादिति वाच्यम् , अनात्मनः पाक्षिकात्मत्वस्या- सम्भवात् ; आत्मतादात्म्याध्यासप्रयुक्तत्वाच्च तदहम्प्रत्ययविषयत्वस्येति।

योनी कारणे, उपादाने इति यावत्। न च - क्षेत्रज्ञस्य कथं भूतप्रकृतित्वम् , कार्यकारणयोः सालक्षण्यनियमात् , भूतानां जडत्वात् क्षेत्रज्ञस्य च चेतनत्वादिति - वाच्यम् , परिणामपक्षे एव कार्यकारणसालक्षण्यनियमः, न तु विवर्तपक्षे इति सिद्धान्तात्। मायाप्रकृतेर्भूतानां परिणाम्युपादानत्वेऽपि क्षेत्रज्ञप्रकृतेर्भूतानां विवर्ताधिष्ठानत्वात्। एवं जगद्रूपविवर्ताधिष्ठानत्वलक्षणोपादानत्वसम्भवात् प्रकृतिशब्दवाच्यत्वं क्षेत्रज्ञस्य। प्रकृतिर्ह्युपादानम्। तस्माद् रज्जुः सर्पस्येव, जीवः सर्वभूतानामुपादानमिति स्थितम्। स्वाभिन्नकार्य- जनिहेतुत्वमुपादानत्वमिति लक्षणात्। इदं विवर्ताधिष्ठाने परिणामिनि चानुगतं साधारणं लक्षणम्। तदेवं सर्वभूतानां चेतनविवर्तत्वात् चेतनयोनित्वम् , मायापरिणामत्वान्मायायोनित्वम् इत्यस्ति परापरप्रकृतिद्वययोनित्वम्।

परिणामविवर्तलक्षणे तु— उपादानसमसत्ताककार्यापत्तिः परिणामः, तद्विषमसत्ताककार्यापत्तिः विवर्तः इति बोध्ये।

[[३७०]]

सत्ता च पारमार्थिकी व्यावहारिकी प्रातिभासिकी चेति त्रिविधा। तत्र आद्या ब्रह्मणि क्षेत्रज्ञे; द्वितीया जगति; तृतीया स्वप्नप्रपञ्चे रज्जुसर्पादौ चेति विवेकः। मृद्घटयोरिव मायाजगतोर्व्यावहारिकसत्तावत्त्वाद् उपादानसमसत्ताकं घटादिकमिव जगद्रूपं कार्यं परिणामः। रज्जुसर्पयोरिव व्यावहारिकप्रातिभासिकसत्ताकयोः, ब्रह्मजगतोः पारमार्थिकव्यावहारिकसत्ताकयोर्भिन्नसत्ताकत्वात् सर्परूपमिव जगद्रूपं कार्यं विवर्त इति बोध्यम्।

सर्वाणि भूतानि कार्यकरणसङ्घातात्मकानि भौतिकानि, पृथिव्यादिमहाभूतानि च कार्यमात्रं सर्वमित्यर्थः। महदादिसप्तकमपि मूलप्रकृतिक्षेत्रज्ञयोनिकमेव, कार्यत्वात्। मूलप्रकृतिस्तु न कस्यचित् कार्यम् , अनादित्वात्। अत एव तस्या मूलप्रकृतित्वव्यपदेशः। मूलं कारणमित्यर्थः। क्षेत्रज्ञस्त्वजो नित्यः शाश्वत इत्यनादिरेव। ततश्च मूलप्रकृतिं क्षेत्रज्ञं विहाय सर्वं जगत् कार्यभूतमेवेति बोध्यम्।

एवमनादिरपि मूलप्रकृतिः सान्तैव; नैयायिकाभिमतप्रागभाववत् ; न तु नित्या, क्षेत्रज्ञवत्। एवं क्षेत्रज्ञमूलप्रकृत्योः नित्यत्वानित्यत्वाभ्यां ज्ञानजाड्याभ्यां च महदस्ति वैलक्षण्यमिति सिद्धम्।

ननु सर्वभूतानां क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वययोनित्वकथनात् कृत्स्नस्य जगतः प्रभवः प्रलयश्च तत्प्रकृतिद्वयमेव स्यान्न त्वीश्वर इति स्थिते कथम् ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ इत्युच्यते? अत आह— यस्मादिति। प्रकृतिरिति। स्वरूपं स्वभावश्चेत्यर्थः। मत्स्वरूपस्य चैतन्यस्य क्षेत्रज्ञस्य, मत्स्वभावस्य मायाया मूलप्रकृतेश्च सर्वजगदुपादानत्वादीश्वरोऽहं सर्वजगदुपादानं भवामीत्यर्थः। उपादानान्मृदादेर्घटादि कार्यं जायते, पुनरुपादान एव लीयते, घटस्य मृद्येव लयदर्शनात्। तथा चोपादानमेव कार्योत्पत्तिप्रलययोरधिष्ठानमित्यभिप्रायादाह— प्रभवः प्रलयस्तथेति। अहं स्वरूपस्वभावद्वारा जगदुपादानभूतः सर्वेश्वर इत्यर्थः। कृत्स्नस्य प्रत्यक्षानुमानागमप्रमाणसिद्धस्य सर्वस्येत्यर्थः। जगतः, जायत इति जं, गच्छतीति गमिति जगत्। ‘ह्रस्वस्य पिति कृती’ति तुक्। उत्पत्तिविनाशरूपावस्थावदित्यर्थः। अनित्यमिति यावत्। तस्य प्रभवः, प्रभवत्यस्मादिति प्रभवः उत्पत्तिस्थानम्। प्रलीयते ऽस्मिन्निति प्रलयः विनाशस्थानम्। भवामीति शेषः। उपादानत्वादिति भावः।

भाष्ये उत्पत्तिविनाशशब्दावपि उत्पत्तिविनाशस्थानपरौ। अन्यथा जन्ममरणरूपधर्मपरत्वे अनन्वयप्रसङ्गात्। न हीश्वरो जगतो जन्मधर्मो मरणधर्मो वा भवेत्। जगतः कारणमिति सृष्टिस्थितिलयकारणमित्यर्थः। ‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति’ इति श्रुतेरिति भावः।

कृत्स्नजगदाकारपरिणतमायाधिष्ठानचैतन्यम् आत्मपरमार्थकूटस्थसाक्षिक्षेत्रज्ञेश्वरब्रह्मादिशब्दप्रतिपाद्यम् अहमेवेत्यत्र पर्यव- सन्नार्थः। अनेन जीवेश्वरभेदवादः समूलमुन्मूलितः।

यत्तु रामानुजः— चेतनाचेतनप्रकृत्योर्द्वयोरपीश्वरयोनित्वमित्युवाच, तत्तुच्छम् ; ‘अजो नित्यः शाश्वतोऽयं पुराणः’ इतीश्वरात् सकाशाज्जीवस्य जन्मनिषेधात्। सति तु जन्मनि ‘जातस्य हि ध्रुवो मृत्यु’रिति जीवस्य विनाशप्रसङ्गात्। प्रकृतिपुरुषकालादीना- मनादित्वस्य भवताऽप्यभ्युपगतत्वेन, अजामित्यादिश्रुत्यनुसारेण च मायायाः अनादित्वेनेश्वरात् सकाशात् तस्या अपि जन्माभावात्। सति तु मायायाः जन्मनि मायोत्पत्तेः प्रागीश्वरस्यामायित्वप्रसङ्गात्। ‘मायिनं तु महेश्वर’मिति श्रुतिविरोधात् , निर्मायस्येश्वरस्य मायाजननसामर्थ्याभावेन मायायाः उत्पत्त्ययोगात् , ईश्वरसामर्थ्यस्यैव शक्तिरूपस्य मायापदवाच्यत्वात् , एतन्मायाजननसामर्थ्य- रूपमायान्तरसत्त्वे तन्मायाजननसामर्थ्यरूपमायान्तरस्यापि कल्पनीयत्वात् , तस्याः अपि तदन्यमायायाः इत्येवमनवस्थाप्रसङ्गात् , ईश्वरसामर्थ्यातिरिक्तमायानामकतत्त्वान्तरस्याप्रसिद्धत्वात् , साङ्ख्यमतस्य चावैदिकत्वेनाप्रमाणत्वात्। तस्मात् सिद्धं जीवस्येव मायायाः अप्यनादित्वमिति कथमेतद्योनित्वमीश्वरस्य? अत एव हि परमेश्वरात् सकाशाज्जीवा जायन्त इति दोषाद् भागवतमतं प्रत्याख्यातं भगवद्बादरायणेन शारीरकशास्त्रे। न च बुद्ध्युपाधिपरिच्छिन्नत्वरूपेण जीवस्य जन्म, तद्भङ्गरूपेण च नाशो मोक्षरूप इति वाच्यम् , उपाधिगतजन्मनाशाभ्यामुपहितस्य न सम्बन्धः इति सिद्धान्तः। अन्यथा आकाशस्यापि घटजन्मनाशाभ्यां जन्मनाशप्रसङ्गात् , बुद्धिपरिच्छिन्नस्यापि शरीरोपाधिजन्मनाशाभ्यां जन्मनाशप्रसङ्गात्। न चेष्टापत्तिः; ‘न हन्यते हन्यमाने शरीरे’ इतीहैवोक्तत्वात् , तत्त्वकथनावसरे औपाधिकातात्त्विकजन्मनाशकथनायोगाच्च। तस्माज्जीवस्य मायायाः वा नेश्वरयोनित्वम्।

[[३७१]]

या तु श्रुतिस्तेनोपन्यस्ता ‘महानव्यक्ते लीयते, अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते, तमः परे देव एकीभवति’ इति, तस्याः श्रुतेर्न स्वाभिप्रेतार्थबोधकत्वम्। किन्तु अव्यक्तत्वाक्षरत्वतमस्त्वानि प्रकृतेरवस्थाविशेषा एव। प्रकृतेश्चात्मनि लयोऽस्मदभ्युपगत एव। न च तदकार्यस्य तस्मिन् कथं लय इति वाच्यम् , अकार्यस्यापि प्रागभावस्य लयदर्शनात् , गगनाकार्यस्यापि मेघस्य गगने लयदर्शनात् , कार्पासजन्यस्यापि पटस्याग्नौ लयदर्शनात् कार्यस्यैव कारण एव लय इति न नियमः। नाप्यनया श्रुत्या मायायाः लय उच्यते, किन्तु ‘तमः परे देव एकी भवति’ इत्येकीभाव एव। स च ब्रह्मणः पृथक्कार्यकरणादिरूपेणानवस्थानमेव।

न चात्राक्षरशब्दो जीववाचीति वाच्यम् , अक्षरमिति क्लीबस्य तस्य जीववाचित्वाभावात्। जीववाच्यक्षरशब्दो हि पुंलिङ्गः। न हि ‘अजो नित्यः शाश्वतः’ इति जीवं नित्यं ब्रुवाणा श्रुतिरेवेह जीवं विनाशिनं ब्रूयात् , स्ववचोव्याघातात्।

न च - जीवस्य ब्रह्मण्यज्ञानद्वारा सुषुप्तौ लयो दृश्यते, श्रूयते च, ‘सति सम्पत्स्य[द्य] न विदुः सति सम्पत्स्या[द्या]महे’ इति श्रुतेः, अनुभवाच्च। ततश्च जीवस्याज्ञाने लयः, सजीवस्य चाज्ञानस्य तमसो ब्रह्मणि परमात्मनि लय इति - वाच्यम् , जीवस्य सुषुप्तौ ब्रह्मणि सम्पत्तिर्नाम ब्रह्मस्वरूपेणावस्थानमेव। ‘प्राज्ञेनात्मना सम्परिष्वज्य’ इति श्रुत्यन्तरात्।

न च ब्रह्मणा जीवस्य सङ्गस्तत्राप्यभिप्रेत इति वाच्यम् , तथापि जीवस्य लयाभावात्। न हि नष्टस्य जीवस्य ब्रह्मणा सह सङ्गः स्यात् , विद्यमानपदार्थद्वयस्यैव परस्परसङ्गदर्शनात् , गगनकुसुमेन गगनस्य सङ्गादर्शनाच्च। तस्माज्जीवस्याविद्यकसंसारित्वरूपप्रहाण- पूर्वकब्रह्मस्वरूपस्थितिरेव सति सम्पत्तिः, वाक्यशेषात्। ‘सति सम्पत्स्या[द्या]महे’ इति, ‘न विदु’रिति हि वाक्यशेषः। नष्टानां जीवानां वेदनस्यैवाप्रसक्तेः कथमप्रसक्तस्य निषेधः। ‘न विदु’रिति ह्यज्ञानानुभवो जीवानाम्। अयं च बहुत्वनिर्देशः उपाध्यभिप्रायेण, न तु वस्तुतः, आत्मैकत्वात्।

अथवा जीवोपाधेरन्तःकरणस्याज्ञाने लयस्तस्य च ब्रह्मणीत्यौपाधिक एव जीवस्य लयः श्रुत्या विवक्षितः, न तु वस्तुतः, अपरिच्छिन्नस्य पूर्णस्य नित्यस्य तस्य नाशायोगात् , जीवस्यैव वस्तुतो ब्रह्मत्वाच्च। न हि घटाकाशान्महाकाशो भिद्यते, येन बुद्ध्युपाधिकाज्जीवादीश्वरो भिद्येत। एवमुपाधिविलयादेव हि जीवस्य ब्रह्मस्वरूपेणावस्थानं सुषुप्तौ प्रलये मुक्तौ वा। तत्र सुषुप्तिप्रलययोर्जीवोपाधेर्वासनारूपेण वर्तमानत्वात् पुनरागतिः। मुक्तौ तु सर्वात्मना लयान्न पुनरावृत्तिरुपाधेरिति बोध्यम्। 1इयं चोपाधिर्जीवेऽज्ञानकल्पितेति ज्ञानेन निवर्तत एव। अत एव ज्ञानात् केवलान्मुक्तिं ब्रुवन्ति श्रुतयः।

अथ यदि त्वयाऽपि जीवस्योपाधिभङ्ग एव जीवस्य ब्रह्मणि लय इति विवक्ष्यते, तर्ह्यपसिद्धान्तस्तव, त्वन्मते सायुज्यस्यै- वाभावात्। यदि तु वास्तवो जीवस्य लयो विवक्ष्यते, तर्हि नित्यत्वश्रुतिविरोधः। यदि प्रलये जीवानां लयः, प्रपञ्चे पुनः तदन्येषां जीवानामुदयश्च, तर्हि कृतनाशाकृताभ्यागमप्रसङ्गः। स्रष्टुरीश्वरस्य च वैषम्यनैर्घृण्यदोषप्रसक्तेः। न च कर्मसापेक्षत्वात् तदप्रसक्तिरिति वाच्यम् , कर्तुरेवाभावे कुतः कर्मसत्त्वम्? जीवादृष्टं हि कर्मशब्दवाच्यम्। ‘न जायते म्रियते वा विपश्चि[कदाचि]न्नायं भूत्वा भविता वा न भूयः’ इति हि स्मृतं भगवतेहैव, 2श्रुतं च तथा, व्याख्यातं च त्वया तथा; अतः स्ववचनविरोधोऽपि।

या तु स्मृतिरनेनोपन्यस्ता ‘प्रकृतिर्या मया ख्याता व्यक्ताव्यक्तस्वरूपिणी। पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि॥’ इति, सा च न प्रकृतिपुरुषयोः प्रलये परमात्मनि वास्तवं लयं ब्रूते, विरोधात्। किन्तु प्रकृतिरकार्यक्षमा लीनेव वर्तत इति, पुरुषश्च बुद्धिपरिच्छिन्नो जीवोऽज्ञानतादात्म्याध्यासमापद्य लीन इव वर्तत इति च औपचारिकलयं ब्रूते। अन्यथा प्रलये मायायाः स्वरूपतः सर्वात्मना नाशे सति, जीवाः विनाऽपि यतनं मुच्यन्त एवेति मोक्षशास्त्रवैयर्थ्यम्। सर्वजीवमुक्तौ प्रपञ्चे पुनर्जीवान्तरसृष्टिप्रसङ्गः। न चेष्टापत्तिः, जीवस्य जन्मनाशहीनस्य जन्मनाशप्रसङ्गः, कृतहानाकृताभ्यागमदोषप्रसङ्गः, ईश्वरस्य च वैषम्यादिदोषप्रसङ्गः। प्रलये जीवनाशपक्षे चेमे दोषाः सम्भवन्ति हि।

तस्माद् यथा सुप्तः पुरुषः ब्रह्मणि लीन इत्युच्यते, तथैव प्रलयेऽपीति न वास्तवो जीवस्य लयः। अन्यथा हि सतो जीवस्य नाशे असतो जीवस्य पुनरुत्पत्तौ च ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इति गीतावचनमेव विरुद्ध्येत। असतः सत्ताऽयोगात् सतश्चासत्ताऽयोगादनुपपन्ना चेयं कल्पना। न चैवं कथं सतः प्रपञ्चस्यापि लय इति वाच्यम् , प्रपञ्चस्यासत्त्वात्। न च - कथमसतः प्रतीतिः शशशृङ्गादेरनुपलम्भादिति - वाच्यम् , असतो रज्जुसर्पादेरुपलभ्यमानत्वात्। असतोऽप्युपलभ्यमानत्वादेव प्रपञ्चस्य शुक्ति- रजतादिवन्मिथ्यात्वस्यास्माभिरुच्यमानत्वात्। यत् प्रतीयते बाध्यते च, तद्धि मिथ्या इन्द्रजालादिवत्। तस्मान्नित्यस्य जीवस्य प्रलये मुक्तौ वा न लयः, मायायाश्च प्रलये न लयः, किन्तु मुक्तावेव। प्रलये प्रकृतिपुरुषयोर्लयस्मरणं त्वौपचारिकमेव। एवं प्रकृतिपुरुषयोः प्रलये लयाभावादेव प्रपञ्चे नोत्पत्तिः। अतो नेश्वरयोनित्वं प्रकृतिपुरुषयोरिति स्थितम्॥६॥

[[३७२]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥7.6॥ न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्मदैश्वर्यमित्याह अहमिति। प्रभवादेः सत्ताप्रतीत्यादेः कारणत्वात्तद्भोक्तृत्वाच्च प्रभव इत्यादि। तथा च श्रुतिः सर्वकामः सर्वकर्मा सर्वगन्धो सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः छां.उ.3।14।2 इति। आह च स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता। यतः सर्वस्य तेनाहं सर्वोऽस्मीत्यषिभिः स्तुतः। सुखरूपस्य भोक्तृत्वान्न तु सर्वस्वरूपतः। आगमिष्यत्सुखं चापि तच्चास्त्येव सदाऽपि तु। तथाप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव च। इति नारदीये।

जयतीर्थः

॥7.6॥ नन्वत्रापरपरनिरूपणपूर्वकं भगवतो यत्परतरत्वं वक्तुमभिप्रेतं तत्र शरीरेन्द्रियविषयलक्षणाख्यकार्यस्य जीवानां च तयोरेवान्तर्भाव इति दर्शयितुंएतद्योनीनि इत्युक्तम् इदानीमहं परतर इति वक्तव्यं इदं तुकिमर्थमुच्यते इत्यत आह न केवलमिति। पूर्वं वाक्यभेदेन प्रकृत्योरवरत्वं परत्वंमे इति स्ववशत्वं चोक्त्वाययेदं धार्यते जगत्एतद्योनीनि इति जगदाधारत्वकारणत्वे कथिते तत्रप्रकृती एव भगवद्वशे जगज्जन्मस्थितिलयास्तु प्रकृत्यधीना एव न भगवदधीनाः इति प्रतीतं तन्निरासार्थमेतदित्यर्थः। जगत्प्रतिममैश्वर्यं इत्येतावत् प्रकृतिद्वारकमुपचरितमिति यावत्। प्रकृत्योः कारणत्वादिकं मदायत्तमिति भावः। जगद्धर्मयोः प्रभवप्रलययोः साक्षाद्भगवदैक्यमुच्यत इति प्रतीतिनिरासार्थमाह प्रभवादेरिति। यथा पुत्रादिप्रभवो रिपुप्रलयश्चोपलब्धः सुखहेतुरित्युपलब्धः पित्रादेस्तद्भोक्तृत्वं तथा तद्भोक्तृत्वात्। भगवतः सर्वभोक्तृत्वं कुतः इत्यत आह तथा चेति। सर्वकामः इत्यादेर्द्विरुक्तत्वात् एकं भोगविषयमिति ज्ञायते। काम्यन्त इति कामा द्रव्याणि। गन्धरसशब्दौ गुणान्तरस्याप्युपलक्षकौ। सर्वमिदमभि अभितः आत्तो धृतः स्थित इत्यर्थः। न विद्यते वाक्यमनुग्रहमन्तरेण यस्यासाववाक्यः। न विद्यते आदरः आश्चर्यबुद्धिर्यस्यासौ नादरः अवाक्यश्चासौ नादरश्चेत्यवाक्यनादरः। कारणत्वादिनैवैक्यव्यपदेश इत्येतत्कुतः इत्यत आह आह चेति। सुखरूपस्य सुखकारणस्य। ननुस्रष्टा पाता इत्यादिकमयुक्तं कादाचित्कक्रियावेशे विकारित्वप्रसङ्गात्। भोगेन यद्भाव्यं सुखं तस्य पूर्वमभावेनापूर्णत्वप्रसङ्गाच्चेत्यत आह आगमिष्यदिति। यद्भोगेनागमिष्यत्सुखं तच्च सदाऽप्यस्त्येव। क्रियाश्च शक्तिरूपेण चेति चार्थः। तर्हि कथं भोगेन जातमित्युच्यते इति भावेन पृच्छति अपि त्विति। उत्तरमाह तथापीति। सदा सद्भावेऽपि यद्यपिप्रभवत्यस्मादिति प्रभवः प्रलीयतेऽस्मिन्निति प्रलयः इति शक्यते व्याख्यातुं तथापि महिमातिशयलाभायैवं व्याख्यातम्। एतेनयस्मान्मम प्रकृती योनी सर्वभूतानां ततोऽहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा शां. इति व्याख्यानमपहसितं भवति।

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥7.6 7.7॥ एतद्योनीनि इति। मत्तः इति। उपधारय अभ्यासाहितानुभवक्रमेण ( अभ्यासानुभव ) आत्मसमीपे कुरु। एवं च त्वमेवोपधारय यत् अहं वासुदेवो भूतः +++(S K वासुदेवीभूतः)+++ सर्वस्य प्रभवः प्रलयश्च। अहम् +++(N omit the sentence अहं प्रदर्शितम्)+++ इत्यनेन प्रकृतिपुरुषपुरुषोत्तमेभ्यो व्यतिरिक्तोऽपि ईश्वरः सर्वथा सर्वानुगतत्वेन स्थित इति साङ्ख्ययोगयोर्नास्ति भेदवादः इति प्रदर्शितम्। सूत्रे मणिगणा इव यथा तन्तुरनवध्रियमाणरूपोऽपि अन्तर्लीनतया स्थितः एवमहं सर्वत्र।

शङ्करनारायणः

7.6 See Comment under 7.7

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥7.6॥ अनयोरेव प्रकृतित्वं निर्वचनेन ज्ञापयन् स्वस्य तद्वाराऽसाधारणकार्यकारणत्वमाह एतद्योनीनीति। यत एव प्रकृष्टा कृतिरित्यत एतद्योनी एते एव जनिके येषां तानि स्थावरजङ्गमातमकान्युपधारय बुदध्यस्व। तत्र जडा प्रकृतिर्देहादिरूपेण परिणमते चेतना तु मदंशभूता भोक्तृत्वेन क्षेत्रज्ञरूपेण तत्राविश्य व्यामोहिकया तां धारयति इति ते यतो मत्तः कारणभूतात् प्रयोजकाद्वा सम्भूते मद्रूपे अतोऽहमेव जगतः प्रभवः प्रलयस्तथा घटपटादेर्भूरिव। प्रकृतिपुरुषद्वारा कारणमित्यर्थः।

पुरुषोत्तमः

॥7.6॥ एतज्ज्ञानेन किं स्यादित्यत आह एतदिति। सर्वाणि भूतानि स्थावरजङ्गमात्मकानि एतद्योनीनि एते प्रकृती योनी कारणरूपे येषां तथा तदुपधारय उप समीपे हृदये पोषय। एतद्योनिज्ञानेन मत्क्रीडौपयिकत्वं सर्वेषु भविष्यतीति भावः। यतस्तद्योनीनि सर्वाणि ते च मदंशे अतः कृत्स्नस्य सम्पूर्णस्य जगतोऽहं प्रभवः प्रकर्षेण भवत्यस्मादिति प्रभव उत्पत्तिस्थानं मूलकारणमित्यर्थः। तथा प्रकर्षेण लीयते अनेनेति लयस्थानं प्रलयकर्ताऽप्यहमेवेत्यर्थः।

श्रीधर-स्वामी …{Loading}…

॥7.6॥ अनयोः प्रकृतित्वं दर्शयन्स्वस्य तद्द्वारा सृष्ट्यादिकारणत्वमाह एतदिति। एते क्षेत्रक्षेत्रज्ञरूपे प्रकृती योनी कारणभूते येषां तान्येतद्योनीनि स्थावरजंगमात्मकानि सर्वाणि भूतानीत्युपधारय बुध्यस्व। तत्र जडा प्रकृतिर्देहरूपेण परिणमते। चेतना तु मदंशभूता भोक्तृत्वेन देहेषु प्रविश्य स्वकर्मणा तानि धारयति। ते च मदीये प्रकृती मत्तः संभूते। अतोऽहमेव कृत्स्नस्य सप्रकृतिकस्य जगतः प्रभवः प्रकर्षेण भवत्यस्मादिति प्रभवः। परं कारणमहमित्यर्थः। तथा प्रलीयतेऽनेनेति प्रलयः संहर्ताप्यहमेवेति भावः।

English …{Loading}…

आदिदेवानन्दः

7.6 Know that all beings have these two for the source of their birth. Therefore, I am the origin and the dissolution of the whole universe.

गम्भीरानन्दः

7.6 Understand thus that all things (sentient and insentient) have these as their source. I am the origin as also the end of the whole Universe.

पुरोहितस्वामी

7.6 It is the womb of all being; for I am He by Whom the worlds were created and shall be dissolved.

शङ्करनारायणः

7.6. All beings are born of this womb. Hence keep [them] nearby. I am the origin as well as the dissolution of the entire world.

शिवानन्दः - अनुवादः

7.6 Know that these two (Natures) are the womb of all beings. So I am the source and dissolution of the whole universe.

शिवानन्दः - टीका

7.6 एतद्योनीनि those of which these two (Prakritis) are the womb; भूतानि beings; सर्वाणि all; इति thus; उपधारय know; अहम् I; कृत्स्नस्य of the whole; जगतः of the world; प्रभवः source; प्रलयः dissolution; तथा also.Commentary These two Natures; the inferior and the superior; are the womb of all beings. As I am the source of these two Prakritis or Natures also; I am the cause of this universe. The whole universe originates from Me and dissolves in Me.In the Brahma Sutras (chapter 1; section 1; aphorism 2) it is said; Janmadyasya yatah meaning that Brahman is that omniscient and omnipotent cause from which proceed the origin; subsistence and dissolution of this world.Just as the mind is the material cause and also the seer (Drashta) for the objects seen in a dream; so also Isvara is the material cause of this world (UpadanaKarana) and also the seer (Drashta). He is also the efficient or the instrumental cause (NimittaKarana). (Cf.XIV.3)

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।7.6।। अपरा और परा – इन दोनों प्रकृतियोंके संयोगसे ही सम्पूर्ण प्राणी उत्पन्न होते हैं, ऐसा तुम समझो। मैं सम्पूर्ण जगत् का प्रभव तथा प्रलय हूँ।

रामसुखदासः - टीका

।।7.6।।व्याख्या–‘एतद्योनीनि भूतानि’ (टिप्पणी प₀ 401.1) जितने भी देवता, मनुष्य, पशु, पक्षी आदि जङ्गम और वृक्ष, लता, घास आदि स्थावर प्राणी हैं, वे सब-के-सब मेरी अपरा और परा प्रकृतिके सम्बन्धसे ही उत्पन्न होते हैं।

तेरहवें अध्यायके छब्बीसवें श्लोकमें भी भगवान्ने क्षेत्र और क्षेत्रज्ञके सम्बन्धसे सम्पूर्ण स्थावर-जङ्गम प्राणियोंकी उत्पत्ति बतायी है। यही बात सामान्य रीतिसे चौदहवें अध्यायके चौथे श्लोकमें भी बतायी है कि स्थावर, जङ्गम योनियोंमें उत्पन्न होनेवाले जितने शरीर हैं, वे सब प्रकृतिके हैं, और उन शरीरोंमें जो बीज अर्थात् जीवात्मा है, वह मेरा अंश है। उसी बीज अर्थात् जीवात्माको भगवान्ने ‘परा प्रकृति’ (7। 5) और ‘अपना अंश’ (15। 7) कहा है।

‘सर्वाणीत्युपधारय’–स्वर्गलोक, मृत्युलोक, पाताललोक आदि सम्पूर्ण लोकोंके जितने भी स्थावर-जङ्गम प्राणी हैं, वे सब-के-सब अपरा और परा प्रकृतिके संयोगसे ही उत्पन्न होते हैं। तात्पर्य है कि परा प्रकृतिने अपराको अपना मान लिया है,(टिप्पणी प₀ 401.2) उसका सङ्ग कर लिया है, इसीसे सब प्राणी पैदा होते हैं–इसको तुम धारण करो अर्थात् ठीक तरहसे समझ लो अथवा मान लो।**‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’–**मात्र वस्तुओंको सत्ता-स्फूर्ति परमात्मासे ही मिलती है, इसलिये भगवान् कहते हैं कि मैं सम्पूर्ण जगत्का प्रभव (उत्पन्न करनेवाला) और प्रलय (लीन करनेवाला) हूँ।

‘प्रभवः’का तात्पर्य है कि मैं ही इस जगत्का निमित्तकारण हूँ; क्योंकि सम्पूर्ण सृष्टि मेरे संकल्पसे (टिप्पणी प₀ 401.3) पैदा हुई है–‘सदैक्षत बहु स्यां प्रजायेयेति’ (छान्दोग्य0 6। 2। 3)। जैसे घड़ा बनानेमें कुम्हार और सोनेके आभूषण बनानेमें सुनार ही निमित्तकारण है ऐसे ही संसारमात्रकी उत्पत्तिमें भगवान् ही निमित्तकारण हैं।

चिन्मयानन्दः

।।7.6।। उपर्युक्त अपरा एवं परा प्रकृतियों के परस्पर संबंध से यह नानाविध वैचित्र्यपूर्ण सृष्टि व्यक्त होती है। जड़ प्रकृति के बिना चैतन्य की सार्मथ्य व्यक्त नहीं हो सकती और न ही उसके बिना जड़ उपाधियों में चेनवत् व्यवहार की संभावना ही रहती है। बल्ब में स्थित तार में स्वयं विद्युत् ही प्रकाश के रूप मे व्यक्त होती है। प्रकाश की अभिव्यक्ति के लिए विद्युत् और बल्ब दोनों का संबंध होना आवश्यक है। इसी प्रकार सृष्टि के लिए परा और अपरा जड़ और चेतन के संबंध की अपेक्षा होती है। इसी दृष्टि से भगवान् कहते हैं ये दोनों प्रकृतियां भूतमात्र की कारण हैं। एक मेधावी विद्यार्थी को इस कथन का अभिप्राय समझना कठिन नहीं है। बाह्य विषय भावनाएं तथा विचारों के जगत् की न केवल उत्पत्ति और स्थिति बल्कि लय भी चेतन पुरुष में ही होता है। इस प्रकार अपरा प्रकृति पारमार्थिक स्वरूप में पराप्रकृति से भिन्न नहीं है। आत्मा मानो अपने स्वरूप को भूलकर अपरा प्रकृति के साथ तादात्म्य करके जीवभाव के दुखों को प्राप्त होता है। परन्तु उसका यह दुख मिथ्या है वास्तविक नहीं। स्वस्वरूप की पहचान ही अनात्मबन्धन से मुक्ति का एकमात्र उपाय है। परा से अपरा की उत्पत्ति उसी प्रकार होती है जैसे मिट्टी के बने घटों की मिट्टी से। स्ाभी घटों में एक मिट्टी ही सत्य है उसी प्रकार विषय इन्द्रियां मन तथा बुद्धि इन अपरा प्रकृति के कार्यों का वास्तविक स्वरूप चेतन तत्त्व ही है। इसलिये

तेजोमयानन्दः - अनुवादः

।।7.6।। यह जानो कि समम्पूर्ण भूत इन दोनों प्रकृतियों से उत्पत्ति वाले हैं। (अत:) मैं सम्पूर्ण जगत् का उत्पत्ति तथा प्रलय स्थान हूँ।।


  1. अयमिति युक्तः पाठः। बुद्धिं विवक्षित्वा वा स्त्रीलिङ्गनिर्देशः। ↩︎

  2. ‘न जायते म्रियते वा’ इति कठोपनिषदि श्रुतम्। ↩︎