विश्वास-प्रस्तुतिः …{Loading}…
ज्ञानं तेऽहं सविज्ञानम्
इदं वक्ष्याम्य् अशेषतः।
यज् ज्ञात्वा नेह भूयो ऽन्यज्
ज्ञातव्यम् अवशिष्यते॥7.2॥
मूलम् …{Loading}…
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥7.2॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥7.2॥अहं ते मद्विषयम् इदं ज्ञानं विज्ञानेन सह अशेषतो वक्ष्यामि। विज्ञानं हि विविक्ताकारविषयं ज्ञानं यथा अहं मद्व्यतिरिक्तात् समस्तचिदचिद्वस्तुजातान् निखिलहेयप्रत्यनीकतया अनवधिकातिशयासख्येकल्याणगुणगणानन्तमहाविभूतितया च विविक्त तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयज्ञानं वक्ष्यामि। किं बहुना यद् ज्ञानं ज्ञात्वा मयि पुनो ऽन्यद् ज्ञातव्यं न अवशिष्यते। वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह
वेदान्तदेशिकः
ां.उ.7.26।2 इत्यादिसिद्धं सा च ध्रुवा स्मृतिः सर्वग्रन्थिविप्रमोक्षहेतुतया विहिता दर्शनं च तद्धेतुतया विहितं न चेदमुपायद्वयं गुरुलघुतारतम्यात् फलस्य चाविशिष्टत्वाल्लघौ सति नियमेन गुरोरपरिग्रहेणानुपायत्वप्रसङ्गात् न च द्वारद्वारिभावः एकस्मिन्वाक्ये विशिष्टैकविधिसम्भवे पृथग्विधेः परिग्रहायोगात् न च दर्शने स्मृतिशब्देनोपचारे कश्चिद्गुणः अतो ध्रुवा स्मृतिरेव दर्शनशब्देन विशेषिता स्मृतेश्च दर्शनसमानत्वं नाम विशदतमतया दर्शनसमानाकारत्वमेव। भवति च स्मृतेर्भावनाप्रकर्षाद्दर्शनसमानाकारता भीरुकामुकादिषु। यथावृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्। गृहीतधनुषं रामं पाशहस्तमिवान्तकं वा.रा.3।14।15 इत्यादि। तथालीनेव प्रतिबिम्बितेव मा.मा.अं.5 इत्यादि। एवं च स्मृतिदर्शनशब्दयोरैकार्थ्ये सिद्धे द्रष्टव्यः ৷৷. निदिध्यासितव्यः इत्यनयोरेकवाक्यस्थयोरपि सामान्यविशेषरूपेणैकार्थ्यमेवेति।
अथ द्वितीयां प्रतिज्ञामुपपादयितुमाह पुनश्चेति। एतदुक्तं भवतिनायमात्मा इत्यादिना केवलश्रवणमनननिदिध्यासननिषेधः अत्यन्तनिषेधे त्वनेकप्रमाणविरोधात्। यमेवैषः इत्यादिनापि वरणीयत्वहेतुभूतस्वक्रियासाध्यो गुणविशेषो विधीयते ईश्वरस्वाच्छन्द्यमात्राभिधाने वैषम्यनैर्घृण्यादिदोषप्रसङ्गाच्छास्त्रानर्थक्याच्च। तथा सिद्धगुणाभिधानेऽपि शास्त्रानर्थक्यमेव विधेयान्तराभावात्। स च वरणीयताहेतुः साध्यो गुणो भक्तिरेव। प्रियतम एव हि वरणीयो भवति। परमात्मविषयप्रीतिमानेव च परमात्मना वरणीयः। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः 7।17 इति स्ववचनादिभिस्तथावगतेः इति। तस्याश्च प्रीतेः स्वयमपि स्वावृतमत्वमुपायान्तरेष्वदृष्टपूर्वं दर्शयतिस्मर्यमाणेत्यादिना। तेषु तेष्वच्युता भक्तिरच्युताऽस्तु सदा त्वयि वि.पु.1।20।18 इत्यारभ्यया प्रीतिरविवेकानां वि.पु.1।20।19क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्। क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमं वि.पु.2।6।44 इत्यादिभिर्भगवद्भक्ते स्वादुतमत्वं सिद्धम्। स्मृतिः सन्तन्यते यत्रेति वा स्मृतेः सन्तानो यत्रेति वा स्मृतिसन्तानशब्देन प्रकृतं वेदनं विशेष्यते इति नपुंसकत्वोपपत्तिः। पुल्ँ लिङ्गतया वा पठितव्यम्। अस्त्वेवं तथापि भक्तेर्मोक्षोपायत्वं कथमित्यत्राह तदेव हीति। महनीयविषये प्रीतिरेव हि भक्तिरिति भावः। तत्र प्रमाणमाह स्नेहेति। महनीयविषये स्नेहपूर्वमनुध्यानमिति भाव्यम् अन्यथा स्नेहपूर्वस्वप्रियतमानुध्यानस्यापि भक्तित्वप्रसङ्गात्। एवं भक्तिरूपत्वानभ्युपगमे श्रुतिस्मृत्योः परस्परविरोधः।
अभ्युपगमे तदुपबृंहणीयत्वोपबृंहणत्वाभ्यां परस्परानुकूल्यमित्यभिप्रायेणाह अत इति। वेदनशब्दनिर्दिष्टस्य मुक्त्युपायस्य भक्तिरूपत्वादित्यर्थः। परमपुरुषव्यतिरिक्तोपायनिषेधमुखेन तज्ज्ञानव्यतिरिक्तोपायनिषेधः श्रुतौ सिद्धः। तद्भक्तिव्यतिरिक्तोपायनिषेधः स्मृतौ। तदेतद्भक्तिवेदनशब्दयोरैकार्थ्ये हि घटते। अन्यथा तु मिथो व्याघात इति। एवं प्रतिज्ञाद्वयं कण्ठोक्त्योपपादितम् अन्यत्प्रतिज्ञाद्वयं त्वर्थतः स्थापितम्। तथा हि वेदनव्यतिरिक्तनिषेधात्समुच्चयपक्षो निरस्तः। कर्मापेक्षणं त्वङ्गतयेति तत्तद्वाक्यार्थनिरूपणेन सिद्धं भवति। श्वेताश्वतरपुरुषसूक्तवाक्यविषययोरेकविषयतयोपादानात्सर्वशाखागतपुरुषसूक्तवाक्यैकार्थ्यं सर्वोपनिषदां दर्शितम्। तत्रच महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः श्वे.उ.3।12 इत्यादिबलात्पुरुषविषयत्वमेव व्यक्तम्। शिवादिशब्दास्तु शुद्धिगुणयोगादिना परमपुरुष एव मुख्याः। अथर्वशिरःप्रतर्दनविद्यादिष्वपि रुद्रेन्द्राद्यन्तर्यामिपरमपुरुषोपासनमेव विधेयमिति स्थापितं शारीरके। तत्रेति मध्यमषट्क इत्यर्थः। उपास्यभूतेत्यनेन प्रकृतसङ्गतिः सूचिता। उपास्यभूतः परमपुरुषो हि षष्ठाध्यायान्तिमश्लोकेमाम् 6।47 इति प्रसक्तः। एतेनस्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः। भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते गी.सं.11 इति सङ्ग्रहश्लोकोऽपि व्याख्यातः॥
अथ भजनीयतयामाम् 6।47 इति प्रस्तुतं स्वात्मानं भजननिर्वृत्तये यथावस्थितमुपदिशामीति भगवानुवाचमय्यासक्तमना इति। आसक्तः इत्यत्रोपासनार्थमाभिमुख्यमुपसर्गविवक्षितमित्याह आभिमुख्येनेति। तदेव सहेतुकं प्रपञ्चयति मत्प्रियत्वेत्यादिना। अहं प्रियः प्रीतिविषयो यस्य स मत्प्रियस्तस्य भावस्तत्त्वम्। यद्वा मम प्रियत्वातिरेकेण मत्प्रियत्वातिरेकेणेत्यर्थः। मद्विभूतिशब्देनात्र भगवदसाधारणपरिजनपरिबर्हभूषणादीनिगृह्यन्ते नतु विभूतिमात्रं कदाचिदपि तद्विश्लेषायोगात्। यद्वा विभूतित्वेनाननुभवो विभूत्या विश्लेषः। स्वरूपादिभिरपि हि विश्लेषो यथाभिलषितानुभवाभाव एव। विशीर्यमाणस्वरूपतयेति कार्याक्षमत्वलक्षणशैथिल्येनेत्यर्थः। तेन चाप मनो विशेष्यते। पौनरुक्त्यप्रसङ्गं परिहर्तुंस्वयं चेत्युक्तम्। मदाश्रयः इत्यत्रअब्भक्षः इत्यादाविवावधारणं विवक्षितमिति दर्शयतिमदेकाधार इति मदनुभवैकधारक इत्यर्थः। योगोपकारकं भजनीयविषयतत्त्वज्ञानमिहोच्यते न तु योगस्य साक्षादनुष्ठानमित्यभिप्रायेणयुञ्जन् इति शत्रभिप्रेतमाहयोक्तुं प्रवृत्त इति। प्रारब्धापरिसमाप्तिरूपवर्तमाने प्रारम्भोऽत्र विवक्षित इति भावः। योगात्पूर्वमेव तत्त्वतो ज्ञातव्यत्वार्थंयोगविषयभूतमित्युक्तम्। असंशयं समग्रम् इत्युभयं क्रियाविशेषणम्। समग्रशब्दो निस्संशयत्वाय सर्वप्रकारविशिष्टत्वपर इति दर्शयितुंसकलपदं विशेषदर्शनेन हि संशयनिवृत्तिः। तच्छृणु इति प्रतिनिर्देशवशादुत्तरश्लोकालोचनया उक्तिश्रवणयोरेकविषयत्वसिद्धेश्चात्रयथा इतिशब्दो ज्ञानपर इत्यभिप्रायेणयेन ज्ञानेनोक्तेन ज्ञास्यसीत्युक्तम्। उक्तेन वक्ष्यमाणवाक्यप्रतिपाद्येनेत्यर्थः। श्रूयमाणविषयस्यादृष्टचरत्वाच्छ्रोतुरवधानकरणं प्रथमश्लोकप्रयोजनमिति दर्शयति अवहितमना इति॥।7.2॥ तच्छृणु इत्युक्तमर्थं पुनः सावधानत्वातिशयसम्पादनायाहमपि सर्वज्ञः सर्वशक्तिर्वक्ष्यामीति वदन्असंशयं समग्रं माम् 7।1 इत्युक्तमर्थं किञ्चिद्विशदयति ज्ञानं तेऽहम् इति श्लोकेन। ज्ञानविज्ञानशब्दयोः पौनरुक्त्यव्युदासाय उपसर्गसिद्धं विशेषं दर्शयति विज्ञानं विविक्ताकारविषयं ज्ञानमिति। अत्र ज्ञानविज्ञानशब्दाभ्यां तज्जनकवाक्यलक्षणा। श्रोतव्यत्ववक्तव्यत्वे वा तज्जनकवाक्यद्वारा तत्रोपचरिते। ज्ञानं ज्ञात्वेति ओदनपाकं पचतीतिवत्। एतेन विज्ञानशब्दस्यात्र निदिध्यासनविषयत्वं परोक्तं प्रत्युक्तम्। अर्थस्थितिपरिज्ञानं ह्यत्रयज्ज्ञात्वा इत्यादिनाऽपि व्यज्यते। अतः स्वरूपनिरूपकनिरूपितस्वरूपविशेषकधर्मविषयतया ज्ञानविज्ञानशब्दयोरपुनरुक्तिः। उभयलिङ्गतयोभयविभूतिविशिष्टतया च वक्ष्यमाणं विविक्तत्वं दर्शयति यथाऽहमिति। अनवधिकातिशयासङ्ख्येयकल्याणगुणगणश्चानन्तमहाविभूतिश्चेति पृथग्बहुव्रीहिभ्याञ्ज्ञानं तु विज्ञानगुणोपपन्नं कर्माशुभं पश्यति वर्जनीयम् इत्यत्रापि विज्ञानशब्देनैतदेव विवक्षितम् अतिशयित विषयज्ञानस्यान्यानादरहेतुत्वात्। अशेषतः इत्येतस्यैव विवरणे ज्ञानप्रशंसारूपं चोत्तरार्धं व्याख्याति किं बहुनेति। इह भूयः इत्यस्यार्थोमयि पुनरिति। अवश्यज्ञातव्यसमस्ताकारविशिष्टमिहोपदिशामीत्युक्तं भवति।
आदिदेवानन्दः
7.2 I will declare to you in full this knowledge having Me for its object, along with Vijnana or distinguishing knowledge. Vijnana is that knowledge of God in which His nature is distinguished form all things. I am distinguished from all things, animate and inanimate, as the only Being opposed to all that is evil and endowed with infinitely great manifestation of countless multiples of attributes of all kinds which are auspicious, unsurpassed and without limit. I will declare to you that knowledge which has My essence as its object. Why say much; I shall declare to you that knowledge knowing which nothing else remains to be known again in relation to Myself. Sri Krsna declares that this knowledge, which will now be taught, is difficult to attain:
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥7.2॥ ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तम् इदं वक्ष्यामि कथयिष्यामि अशेषतः कात्स्न्र्येन। तत् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाय यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा न इह भूयः पुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते नावशिष्टं भवति। इति मत्तत्त्वज्ञो यः सः सर्वज्ञो भवतीत्यर्थः। अतो विशिष्टफलत्वात् दुर्लभं ज्ञानम्॥ कथमित्युच्यते
गम्भीरानन्दः
7.2 Aham, I; vaksyami, shall tell; te, you; asesatah, in detail, fully; of that (Knowledge) about Myself, which is idam, this; jnanam, Knowlege; which is savijnanam, combined with realization, associated with personal enlightenment; yat jnatva, after experiencing which Knowledge; avasisyate, there remains; na anyat, nothing else, anything that can be a means to human ends; jnatavyam, to be known; bhuyah, again; iha, here. (In this way) the Lord praises that Knowledge which is intended to be spoken, in order ot draw the attention of the hearer. Thus, ‘he who knows Me in reality becomes omniscient.’ This is the idea. Therefore Knowledge is difficult to attain because of its superexcellent result. How so; This is being answered:
हरिकृष्णदासः
॥7.2॥ वहीं यह अपने स्वरूपका ज्ञान मैं तुझे विज्ञानके सहित अर्थात् अपने अनुभवके सहित निःशेषतःसम्पूर्णतासे कहूँगा। श्रोताको सम्मुख अर्थात् सावधान करनेके लिये जिसका वर्णन करना है उस ज्ञानकी स्तुति करते हैं। जिस ज्ञानको जान लेनेपर फिर इस जगत्में पुरुषार्थका कोई साधन जानना शेष नहीं रहता अर्थात् जो मेरे तत्त्वको जाननेवाला है वह सर्वज्ञ हो जाता है। अतः यह ज्ञान अति उत्तम फलवाला होनेके कारण दुर्लभ है।
आनन्दगिरिः
॥7.2॥ ज्ञास्यसीत्युक्त्या परोक्षज्ञानशङ्कायां तन्निवृत्त्यर्थं तदुक्तिप्रकारमेव विवृणोति तच्चेति। इदमपरोक्षं ज्ञानं चैतन्यम्। तस्य सविज्ञानस्य प्रतिलम्भे किं स्यादित्याशङ्क्याह यज्ज्ञात्वेति। इदमा चैतन्यस्य परोक्षत्वं व्यावर्त्यते। तदेव सविज्ञानमिति विशेषणेन स्फुटयति। अनवशेषेण तद्वेदनफलोपन्यासेन श्रोतारं तच्छवणप्रवणं करोति तज्ज्ञानमिति। एकविज्ञानेन सर्वविज्ञानश्रुतिमाश्रित्योत्तरार्धतात्पर्यमाह यज्ज्ञात्वेति। भगवत्तत्त्वज्ञानस्य विशिष्टफलत्वमुक्त्वा फलितमाह अत इति।
नीलकण्ठः
॥7.2॥ एतदेवाह ज्ञानमिति। ज्ञानं शुद्धप्रज्ञानघनं ब्रह्मसत्यं ज्ञानमनन्तं ब्रह्मविज्ञानमानन्दं ब्रह्म इति श्रुतेः। ते तुभ्यमहं वक्ष्यामि। अशेषतः साधनकलापसहितम्। किं वचनमात्रजेन परोक्षज्ञानेन शब्दस्य स्वविषये परोक्षज्ञानजनकत्वनियमादित्याशङ्क्याह सविज्ञानमनुभवसहितम्। दशमस्त्वमसीत्यादौ शब्दादप्यपरोक्षज्ञानोत्पत्तिदर्शनात्कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम् इत्येकविज्ञानात्सर्वविज्ञानप्रतिज्ञां श्रौतीमेव वर्णयति यज्ज्ञात्वेति। जगत्कारणाधिष्ठानस्य ज्ञानरूपस्य ब्रह्मणो ज्ञाने संशयोच्छेदात्सर्वस्यात्ममात्रत्वेन ज्ञातव्यानवशेषो युक्त इत्यर्थः।
धनपतिः
॥7.2॥ ज्ञास्यसीत्युक्तं तत्र ज्ञां स्तौति ज्ञानमिति। अत्र भाष्ये तच्च मद्विषयं ज्ञानं ते तुभ्यमहं सविज्ञानं विज्ञानसहितं स्वानुभवेन संयुक्तमिदं वक्ष्यामि कथयिष्याम्यशेषतः कात्स्त्रर्येन। तज्ज्ञानं विवक्षितं स्तोति श्रोतुरभिमुखीकरणाय। यज्ज्ञात्वा यज्ज्ञानं ज्ञात्वा नेह भूयः पुनर्ज्ञातव्यं पुरुषार्थसाधनमवशिष्यते नावशेषो भवतीति मत्तत्त्वशो यः स सर्वज्ञो भवतीत्यर्थ इति। अस्मिन्भाष्ये ज्ञास्यसीत्युक्त्या परोक्षज्ञानशङ्क्यां तन्निवृत्त्यर्थं तदुक्तिप्रकारमेव विवृणोति तच्चेति। इदमपरोक्षज्ञानं चैतन्यम्। तस्य सविज्ञानस्य प्रतिलम्मे किं स्यादित्याशङ्क्याह यज्ज्ञातक्वेति। इदमा चैतन्यस्य परोक्षत्वं व्यावर्त्यते तदेव सविज्ञानमिति विशेषणेन स्फुटयत इति तद्दीकाकृतः। तदेवाह ज्ञाममति। ज्ञानं शुद्धप्रधानंशुद्धप्रज्ञानघनं ब्रह्मसत्यं ज्ञानमनन्तं ब्रह्मविज्ञानमानन्दं ब्रह्म इति श्रुतं ते तुभ्यमहं वक्ष्यामि। अशेषतः साधनकलापसहितं किं वचनमात्रजेन परोक्षज्ञानेन शब्दस्य स्वविषये परोक्षज्ञानजनकत्वानियमादित्याशङ्क्याह। सविज्ञानमनुभवसहितं दशमस्त्वमसीत्यादौ शब्दादप्यपरोक्षज्ञानोत्पत्तिदर्शनादित्यन्ये। वस्तुस्तु तच्च मद्विषयं ज्ञानमिति भाष्याद्भाष्यकृतामयमर्थो नाभिप्रेतोः। सविज्ञानमिति मूलान्मूलानुगुणोऽपि न भवति। त्मान्मूलतद्भाष्यानुरोधेन ज्ञानं शास्त्रजन्यं विज्ञानमनुभव इति व्याख्येयम्। यज्ज्ञोत्वेत्यस्य तुयज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव इति श्लोकस्थभाष्यानुसारेण मद्विषयं ज्ञानं शास्त्रजन्यं सविज्ञानं लब्ध्वेत्यर्थं इत्यविरोधः। मद्विषयस्य ज्ञानस्य सकलाधिष्ठानविषयत्वात्। अन्यज्ज्ञातव्यं नावशिष्यतेयेनाश्रुतं श्रुतं भवति इत्यादिश्रुतिरिति भावः। यत्त्विदं मद्विषयं विज्ञानेन सहितमपरोक्षमेव ज्ञानं शास्त्रजन्यं ते तुम्यमहं वक्ष्यामि जज्ज्ञानं नित्यचैतन्यरुपं ज्ञात्वा वेदान्तजन्यमनोवृत्तिविषयीकृत्येति। तत्र यजज्ञानमित्याद्युपेक्ष्यं यच्छब्दस्य प्रस्तुतपरामर्शकत्वेन सविज्ञानस्य ज्ञानस्य यदा परामृष्टस्य चैतन्यरुपार्थकत्वायोगात्।
मधुसूदन-सरस्वती
॥7.2॥ ज्ञास्यसीत्युक्ते परोक्षमेव तज्ज्ञानं स्यादिति शङ्कां व्यावर्तयन्स्तौति श्रोतुराभिमुख्याय इदं मद्विषयं स्वतोऽपरोक्षज्ञानम् असंभावनादिप्रतिबन्धेन फलमजनयत्परोक्षमित्युपचर्यते। असंभावानादिनिरासे तु विचारपरिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात्फलं जनयदपरोक्षमित्युच्यते। विचारपरिपाकनिष्पन्नत्वाच्च तदेव विज्ञानं तेन विज्ञानेन सहितमिदमपरोक्षमेव ज्ञानं शास्त्रजन्यं ते तुभ्यमहं परमाप्तो वक्ष्याम्यशेषतः साधनफलादिसहितत्वेन निरवशेषं कथयिष्यामि। श्रौतीमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञामनुसरन्नाह यज्ज्ञानं नित्यचैतन्यरूपं ज्ञात्वा वेदान्तजन्यमनोवृत्तिविषयीकृत्येह व्यवहारभूमौ भूयः पुनरपि अन्यत्किंचिदपि ज्ञातव्यं नावशिष्यते। सर्वाधिष्ठानसन्मात्रज्ञानेन कल्पितानां सर्वेषां बाधे सन्मात्रपरिशेषात्तन्मात्रज्ञानेनैव त्वं कृतार्थो भविष्यसीत्यभिप्रायः।
रामरायः - २
ज्ञानमिति। किंविषयं ज्ञानम्? अत आह—तच्च मद्विषयमिति। ज्ञानं शास्त्रार्थपरिज्ञानम् , विज्ञानं तस्य स्वानुभवकरणमिति प्रागुक्तम्। ज्ञानस्य विज्ञानसाहित्यप्रतिपादनं च - ज्ञानस्यानुभवपर्यवसायित्वं, स्वानुभवसिद्धस्यैव ज्ञानस्य प्रामाण्यं चेत्येतद् द्योतयितुं कृतम्। एवं च स्वानुभवयुक्तं नाम स्वस्य सर्वज्ञेश्वरस्यानुभवसिद्धमित्यर्थः। तेन च वक्ष्यमाणज्ञानस्य परमप्रामाण्यं सिद्धं भवति। यथानुभवं तव शास्त्रार्थज्ञानं वक्ष्यामीति परमार्थः। यद्वा सविज्ञानं यथा तथेति क्रियाविशेषणम्। तथा च मदुक्तं ज्ञानं यथा तवानुभवारूढं भवेत् तथा ज्ञानं वक्ष्यामीत्यर्थः। अस्य च ज्ञानस्य ईश्वरविषयत्वादाह—मत्तत्त्वज्ञ इति। सर्वज्ञो भवतीति। ईश्वरतत्त्वस्यैवात्मत्वादीश्वरस्य च सर्वज्ञत्वादात्मवित् पुरुषः सर्वज्ञ एवेत्यर्थः। अथवा ममेश्वरस्य तत्त्वं प्रत्यगभिन्नं ब्रह्मैव, यस्तद् वेद स सर्वज्ञ एव, सर्वस्य ब्रह्मत्वादित्यभिप्रायः।
एतेन - तत्त्वविदः कथं सर्वज्ञत्वम्? सर्वप्रपञ्चसाक्षात्काराभावादिति - निरस्तम् ; ब्रह्मज्ञानस्यैव सर्वज्ञानत्वात् , एकविज्ञानेन सर्वविज्ञानस्यैतदभिप्रायेणैव श्रुत्या प्रतिज्ञातत्वात् , घटपटादिसर्वप्रपञ्चज्ञानस्य निष्प्रयोजनत्वात् , प्रत्युत द्वैतज्ञानस्य बन्धहेतुत्वाच्चेति। अनेन श्लोकेन आत्मज्ञानमेव परमपुरुषार्थसाधनम् , तद्वानात्मैवेश्वरः इति सिद्धम्।
यत्तु रामानुजः— विज्ञानं विविक्ताकारविषयं ज्ञानम् , यथा ‘अहं मद्व्यतिरिक्तात् समस्तचिदचिद्वस्तुजातान्निखिलहेय- प्रत्यनीकतया, अनवधिकातिशयासङ्ख्येयकल्याणगुणगणानन्तमहाविभूतितया च विविक्तः’। तेन विविक्तविषयज्ञानेन सह मत्स्वरूप- विषयं ज्ञानं वक्ष्यामीति, तत् तुच्छम्। विविक्ताकारविषयज्ञानस्य विज्ञानत्वे अविविक्ताकारविषयज्ञानस्य अज्ञानत्वापत्तेः स्वरूप- विषयज्ञानस्य नैव ज्ञानत्वमुपपद्यते, ईश्वरस्वरूपस्य त्वदुक्तविधया विविक्तत्वेन 1तज्ज्ञानस्यापि विविक्तविषयज्ञानत्वेन विज्ञानत्वापत्तेः। १न च - ‘ईश्वरश्चिदचिद्वस्तुजाताद् विविक्तः’ इति ज्ञानं विज्ञानम् , ‘ईश्वरः सच्चिदानन्दमयः’ इत्यादिज्ञानं ज्ञानमिति - वाच्यम् , तथात्वे ज्ञानविज्ञानयोरन्योन्याश्रयदोषापत्तेरुभयस्याप्यसिद्धेः, ईश्वरस्य प्रपञ्चाद् विविक्तत्वविज्ञानं विना सच्चिदानन्दमयत्वज्ञानानुदयात् , सच्चिदानन्दमयत्वज्ञानं विना प्रपञ्चविविक्तत्वविज्ञानानुदयाच्च। ‘ईश्वरः सच्चिदानन्दरूपः, प्रपञ्चोऽनृतजडदुःखात्मकः’ इति ज्ञाने सति ‘ईश्वरः प्रपञ्चाद् विविक्तः’ इति विवेकस्योपदेशं विनैव सिद्धत्वेन सविज्ञानत्वविशेषणानर्थक्यप्रसङ्गात् , अविवेकस्याज्ञानत्वेन विवेक- ज्ञानरूपविज्ञानातिरिक्तज्ञानसद्भावस्याप्रमाणत्वाच्च, घटपटविवेकं विना ‘घटः’ इति ‘पटः’ इति च स्वरूपज्ञानस्यानुदयाच्च।
[[३६२]]
ननु सर्वथाऽपि ‘घटः’ इति स्वरूपज्ञानाद् ‘घटः पटाद्भिन्नः’ इति विवेकज्ञानं भिन्नमेव, ज्ञाने घटमात्रस्यैव विषयत्वात् , विवेकज्ञाने घटपटयोस्तद्भेदस्य च विषयत्वात्। तथा ‘ईश्वरः’इति ज्ञानाद् ‘ईश्वरः सच्चिदानन्दरूपः’ इति ज्ञानाद्वा ‘ईश्वरः प्रपञ्चाद्भिन्नः’ इति विज्ञानस्य विवेकज्ञानरूपस्य वैलक्षण्यमवश्यमभ्युपेयमिति चेत् ; तर्ह्याकारभेदात् ज्ञानविज्ञानभेद इवाकारभेदात् ज्ञानभेदोऽपि स्यादेव - घटः पटः कुड्यं कुसूलमिति। न चेष्टापत्तिः, विषयभेदेऽपि विषयिणो ज्ञानस्याभेद इति सिद्धान्तात्। अन्यथा प्रतिविषयं ज्ञानमिव प्रतिज्ञानं ज्ञाताऽपि भिद्यत एव। तथात्वे एकस्मिन्नेव देहे नानाजीवसत्त्वप्रसङ्गः। न च - चैतन्यरूपज्ञानस्यैकत्वेऽपि बुद्धिवृत्ति- रूपज्ञानानामनेकत्वात् स्वत एव भेदः , वृत्तेः क्षणिकत्वात् , क्षणे क्षणे जायमानानां वृत्तीनामभेदस्य दुर्वचत्वादिति - वाच्यम् , वृत्तेः क्रियारूपाया जडत्वेनाज्ञानत्वाद् , वृत्तिप्रतिफलितचैतन्यस्यैव ज्ञानत्वात् तत्रापि। तस्माद् वृत्तिभेदेऽपि न ज्ञानभेदः। ज्ञानस्य नित्यत्वात् स्वप्रभत्वाच्च न जन्मादिकम् , किन्तु वृत्तेरेव। तदेव ज्ञानं चैतन्यात्मकमीश्वर इति सिद्धमीश्वरस्यात्मनो ज्ञानैकाकारत्वम्।
ननु वृत्तावेव ज्ञानत्वमुपचारादुच्यते; सैव वृत्तिर्ज्ञानविज्ञानभेदभिन्ना; सा चेश्वरविषयेहोच्यते ‘सच्चिदानन्दरूप ईश्वरः’ इति, ‘ईश्वरः प्रपञ्चाद् विविक्तः’ इति च; इति चेत्, मैवम्। वृत्तिज्ञानं वृत्तिविज्ञानं चेति वृत्तिद्वैविध्यस्य क्वाप्यप्रसिद्धेः। त्वदुक्तवृत्ति- विज्ञानस्यापि वृत्तिज्ञानत्वात् , यथा ‘घटः’ इत्येतद् वृत्तिज्ञानं, तथा ‘घटः पटाद्भिन्नः’ इत्येतदपि वृत्तिज्ञानमेव हि।
ननु घटादिप्रत्यक्षस्थलेऽन्तःकरणस्य चक्षुर्द्वारा विषयदेशं गतस्य विषयाकारेण यः परिणामः स वृत्तिरिति परिभाषितत्वाद् ‘घटः’ इत्यस्य वृत्तिज्ञानत्वेऽपि ‘घटः पटाद्भिन्नः’ इत्यस्य न वृत्तिज्ञानत्वम् , घटपटयोरप्रत्यक्षत्वेऽपि ‘घटः पटाद्भिन्नः’ इत्यस्य ज्ञानस्य जायमानत्वाद्घटपटरूपेणान्तःकरणपरिणामाभावात् , घटपटभेदाकारेणान्तःकरणस्य परिणामासम्भवाच्च। ततश्च ‘घटः पटाद् भिन्नः’ इतीदं विज्ञानमेव न वृत्तिज्ञानमिति चेन्न, एवमपि वृत्तिज्ञानचैतन्यज्ञानातिरिक्तविज्ञानस्याप्रसिद्धत्वात् , तत्कल्पनाया गौरव- [कर]त्वात् , सुखाद्याकारान्तःकरणपरिणामवद् घटपटभेदाकारान्तःकरणपरिणामस्य भवितव्यत्वाद् घटपटभेदज्ञानस्यापि वृत्तिज्ञान- त्वसम्भवात्।
ननु भवतु नाम विज्ञानमपि वृत्तिज्ञानम् , तथापि घटपटज्ञानयोरिव ज्ञानविज्ञानयोर्दर्शितयोरस्त्याकारभेदाद्भेदः कल्पित इति चेत् , सत्यम् ; कल्पितोऽस्तु नाम भेदः, न तस्येह प्रयोजनम् , ईश्वरस्वरूपस्यैवेह वक्ष्यमाणत्वात् तावतैवेश्वरजगतोर्वैलक्षण्यसिद्धेः। प्रपञ्चवैलक्षण्यस्यैवेश्वरस्वरूपत्वाच्च। यः प्रपञ्चविलक्षणत्वेनेश्वरं न जानाति, स ईश्वरस्वरूपानभिज्ञ एव हि, ईश्वरस्वरूपस्य प्रपञ्चविलक्षणत्वात्। तस्मात् प्रपञ्चविलक्षणसच्चिदानन्दमयेश्वरस्वरूपज्ञानमेव ज्ञानमित्युच्यते, न तु प्रपञ्चविलक्षणेश्वरज्ञानस्य विज्ञानत्वं तदेकदेशस्य।
अथ यदुक्तं चिदचिद्वस्तुवैलक्षण्यमीश्वरस्य, तत्राचिद्वैलक्षण्यसत्त्वेऽपीश्वरे चिद्वैलक्षण्यं नास्ति, चिद्रूपत्वादीश्वरस्य। न हि चिद्रूपश्चिद्विलक्षणो भवेत्। न च - किञ्चिज्ज्ञसावद्यजीववाची चिच्छब्दोऽत्र, तस्माच्च जीवात् सर्वज्ञो निरवद्य ईश्वरो विलक्षण एवेति - वाच्यम् , चैतन्यवाचिनश्चिच्छब्दस्य तादृशजीववाचित्वासम्भवात्। जीवेश्वरयोर्द्वयोरपि वस्तुतश्चिन्मात्रत्वात् , किञ्चिज्ज्ञत्वसर्वज्ञत्वादी- नामुपाधिधर्मत्वात्। उपाध्योर्घटमठयोर्भेदेऽप्युपहितस्याकाशस्यैकरूपत्ववद् मायाऽविद्ययोरुपाध्योर्भेदेऽपि चैतन्यस्यैकरूपत्वात्। तस्मान्न चिति किञ्चिज्ज्ञत्वादिजीवधर्माः [सर्वज्ञत्वादीश्वरधर्माः] वा भवितुमर्हन्ति, निर्धर्मकत्वाच्चितः।
[[३६३]]
नापि चिन्मात्रे ईश्वरे कल्याणगुणसम्भवः, सत्त्वगुणविकारत्वात् कल्याणगुणानाम् , चैतन्यस्य च निर्गुणत्वात्। न च - सत्ताचित्यानन्दादिगुणानां सत्त्वात् कथं निर्गुणत्वं ब्रह्मण इति - वाच्यम् , ब्रह्मणोऽपृथग्भूतत्वात् तेषां सत्तादीनामेव ब्रह्मस्वरूपत्वात्। न च सद्रूपत्वं सत्तारूपत्वं च कथमेकस्येति वाच्यम् , नारायणस्य तद्रूपत्वतत्त्वरूपत्वयोर्भवताऽप्यभ्युपगतत्वात्। ‘तदैक्षत’ ‘तत्त्वं नारायणः परः’ इति श्रुतेश्च। तस्मात् तच्छब्दतत्त्वशब्दयोर्यथा ब्रह्मवाचकत्वम् , तद्वत् सच्छब्दसत्ताशब्दयोः चिच्छब्दचित्त्वशब्दयोश्च ब्रह्मवाचकत्वमेव, न तु धर्मधर्मिवाचकत्वम्।
न च - निर्गुणे ब्रह्मणि निर्गुणत्वधर्मसत्त्वात् कथं निर्धर्मकत्वमिति - वाच्यम् , तथा सति निर्धर्मकत्वस्यापि धर्मरूपत्वेन निर्धर्मकत्वाभावस्यैव धर्माभावरूपत्वापत्तेः। न चेष्टापत्तिः, निर्धर्मकत्वाभावस्य धर्मस्वरूपत्वेन धर्माभावरूपत्वासम्भवात्। अथ यदि निर्धर्मकत्वं धर्माभाव इत्येव मतम् , तर्हि निर्गुणत्वमपि गुणाभाव इत्येवेष्यताम्। गुणस्यैव धर्मत्वाद् गुणाभावो हि धर्माभावः। तथा च निर्गुणब्रह्मणो निर्धर्मकत्वमव्याहतम्।
किञ्च यन्निर्गुणे ब्रह्मणि वर्तमानं निर्गुणत्वं तद् ब्रह्मरूपमेव, सत्तादिवत्। अपि च निर्गुणत्वं हि गुणाभावः, स च ब्रह्मरूप एव, सर्वाभावस्यैव ब्रह्मरूपत्वात्। निष्प्रपञ्चं हि ब्रह्म। न च भावरूपस्य ब्रह्मणः कथमभावरूपत्वमिति वाच्यम् , अभावरूपस्य सर्वस्य यथा भावरूपत्वं, तथैव भावरूपस्य ब्रह्मणोऽभावरूपत्वम् , भावाभावविषये भ्रान्तत्वाल्लोकस्य। लोको हि कालत्रयेऽप्यविद्यमानत्वा- दभावरूपं जगद् भावं मन्यते, तद्विलक्षणं ब्रह्म अभावं मन्यते।
तथा लोकैः सर्वाभावत्वेन व्यवह्रियमाणो भावपदार्थ एव ब्रह्म, सर्वत्वेन व्यवह्रियमाणोऽभावपदार्थ एव प्रपञ्चः। तस्माद् भाव एव सर्वाभावो ब्रह्मेति। न च कथं सर्वाभावस्य भावत्वमिति वाच्यम् , यथा घटाभावाभावस्य भावत्वं तथैवेति, सर्वस्याभावरूपत्वे सर्वाभावो ह्यभावाभावः। स च भाव एवेति भावः इत्यलं प्रसक्तानुप्रसक्तेन॥२॥
[[३६४]]
मध्वः …{Loading}…
मध्वः - मूलम्
॥7.2॥ इदं मद्विषयं ज्ञानम्। विज्ञानं विशेषज्ञानम्।
जयतीर्थः
॥7.2॥ ननु ज्ञानं वक्ष्यते न तूक्तं तत्कथमिदं इति परामर्श इत्यत आह इदमिति। मामिति स्वस्य प्रकृतत्वात् तत्सम्बन्धित्वेन ज्ञानमपि प्रकृतमिति भावः। सविज्ञानं स्वानुभवसंयुक्तं (शां.भा.) इत्येतदपाकर्तुं विज्ञानपदार्थमाह विज्ञानमिति। अस्यैव वक्ष्यमाणत्वादपरस्य तदभावादिति भावः।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥7.1 7.2॥ मय्यासक्तेति ज्ञानमिति। ज्ञानविज्ञाने ज्ञानक्रिये एव। ततो न किञ्चिदवशिष्यते सर्वस्य ज्ञेयजातस्य ज्ञानक्रियानिष्ठत्वात्।
शङ्करनारायणः
7.1-2 Mayi etc. Jnanam etc. The words jnana and vijnana mean [respectively] ‘knowledge’ and ‘action’. There remains nothing apart from these [two]. For, all the knowables are rooted in the knowledge and action.
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥7.2॥ वक्ष्यमाणं स्तौति ज्ञानमिति। माहात्म्यविषयकं ज्ञानं विज्ञानं विविधतया चिदचिद्रूपतया च तत्तद्विभूतिधर्मरूपतयाऽवान्तरविशेषैश्च यथार्थज्ञानं तेन सहितं अशेषतो वक्ष्यामि। यद्याथात्म्यं ज्ञात्वा भूयोऽन्यज्ज्ञातव्यमविशष्टं न भवति।
पुरुषोत्तमः
॥7.2॥ ननु योगस्वरूपनिरूपणे पूर्वमपि स्वरूपज्ञानमुक्तमेव पुनरेतज्ज्ञानं किंरूपं इत्याशङ्क्याह ज्ञानं तेऽहमिति। अहं पुरुषोत्तमः ते तव त्वदर्थं ज्ञानं शास्त्रोक्तप्रकारेण मत्स्वरूपविषयं अशेषतः सम्पूर्णं लीलादिसहितं वक्ष्यामि। कीदृशं तत् सविज्ञानं स्वरूपानुभवसहितम्। अनुभवस्वरूपमेवाह इदमिति अनुभूयमानस्वस्वस्पात्मकम्। एतज्ज्ञानान्तरं पुनरन्यज्ज्ञेयं नास्तीत्याह यदिति। यत् स्वस्वरूपानुभवसहितं स्वस्वरूपं ज्ञात्वा इह अस्मिन् मद्भक्तिमार्गे भरतखण्डे अस्मिन्मनुष्यजन्मनि वा ज्ञातव्यं न अवशिष्यते। एतज्ज्ञानेनैव दास्यानुभवो भवतीत्यर्थः।
श्रीधर-स्वामी …{Loading}…
॥7.2॥ वक्ष्यमाणं स्तौति ज्ञानमिति। ज्ञानं शास्त्रीयं विज्ञानमनुभवस्तत्सहितम्। इदं मद्विषयम्। अशेषतः साकल्येन वक्ष्यामि। यज्ज्ञात्वेह श्रेयोमार्गे वर्तमानस्य पुनरन्यज्ज्ञातव्यमवशिष्टं न भवति। तेनैव कृतार्थो भवतीत्यर्थः।
English …{Loading}…
आदिदेवानन्दः
7.2 I will declare to you in full, this knowledge (of God) along with the knowledge which makes it distinguished (Vijnana), knowing which nothing else remains to be known.
गम्भीरानन्दः
7.2 I shall tell you in detail of this Knowledge which is combined with realization, [From the statement, ‘jnasyasi, you will know’, in the earlier verse, one may conclude that the Lord is speaking of indirect or theoretical knowledge. The word ‘idam, this’ rules out such a conclusion; and it has also been said that this Knowledge is ‘savijnanam, combined with direct experienece, realization’; it is Consciousness.] after experience which there remains nothing else here to be known again.
पुरोहितस्वामी
7.2 I will reveal to this knowledge unto thee, and how it may be realised; which, once accomplished, there remains nothing else worth having in this life.
शङ्करनारायणः
7.2. I Shall teach you this knowledge in full together with action; for a person who has known this there remains in this world nothing else to be known.
शिवानन्दः - अनुवादः
7.2 I shall declare to thee in full this knowledge combined with realisation, after knowing which nothing more here remains to be known.
शिवानन्दः - टीका
7.2 ज्ञानम् indirect knowledge of Sastras; ते to thee; अहम् I; सविज्ञानम् combined with realisation (direct knowledge of the Atman through experience); इदम् this; वक्ष्यामि will declare; अशेषतः in full; यत् which; ज्ञात्वा having known; न not; इह here; भूयः more; अन्यत् anything else; ज्ञातव्यम् what ought to be known; अवशिष्यते remains.Commentary Jnanam is Paroksha Jnanam or indirect knowledge of Brahman obtained through the study of the Upanishads. Vijnanam is Visesha Jnanam; i.e.; Aparoksha Jnanam obtained through direct Selfrealisation (intuitional wisdom).In this verse the Lord praises knowledge in order to make Arjuna follow His instruction closely with rapt attention; faith and interest. The Lord says I shall teach thee in full. You will attain to omniscience or perfect knowledge of the Self; after knowing which nothing more remains to be known here. If anyone attains the knowledge of the Self; he will know everything. That is the reason why Saunaka; the great householder; approacehd Angirasa respectfully and asked What is that; O Lord; which being known all this becomes known (Cf.XIII.11)
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।7.2।। तेरे लिये मैं विज्ञानसहित ज्ञान सम्पूर्णतासे कहूँगा, जिसको जाननेके बाद फिर यहाँ कुछ भी जानना बाकी नहीं रहेगा।
रामसुखदासः - टीका
।।7.2।।**व्याख्या–‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः’–**भगवान् कहते हैं कि भैया अर्जुन! अब मैं विज्ञानसहित ज्ञान कहूँगा (टिप्पणी प₀ 392.1), तुम्हें कहूँगा और मैं खुद कहूँगा तथा सम्पूर्णतासे कहूँगा। ऐसे तो हरेक आदमी हरेक गुरुसे मेरे स्वरूपके बारेमें सुनता है और उससे लाभ भी होता है; परन्तु तुम्हें मैं स्वयं कह रहा हूँ। स्वयं कौन; जो समग्र परमात्मा है, वह मैं स्वयं! मैं स्वयं मेरे स्वरूपका जैसा वर्णन कर सकता हूँ, वैसा दूसरे नहीं कर सकते; क्योंकि वे तो सुनकर और अपनी बुद्धिके अनुसार विचार करके ही कहते हैं (टिप्पणी प₀ 392.2)। उनकी बुद्धि समष्टि बुद्धिका एक छोटा-सा अंश है, वह कितना जान सकती है !वे तो पहले अनजान होकर फिर जानकार बनते हैं, पर मैं सदा अलुप्तज्ञान हूँ। मेरेमें अनजानपना न है, न कभी था, न होगा और न होना सम्भव ही है। इसलिये मैं तेरे लिये उस तत्त्वका वर्णन करूँगा, जिसको जाननेके बाद और कुछ जानना बाकी नहीं रहेगा।
दसवें अध्यायके सोलहवें श्लोकमें अर्जुन कहते हैं कि आप अपनी सब-की-सब विभूतियोंको कहनेमें समर्थ हैं–‘वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः’ तो उसके उत्तरमें भगवान् कहते हैं कि मेरे विस्तारका अन्त नहीं है इसलिये प्रधानतासे कहूँगा–‘प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे’(10। 19)। फिर अन्तमें कहते हैं कि मेरी विभूतियोंका अन्त नहीं है–‘नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप’ (10। 40)। यहाँ (7। 2 में) भगवान् कहते हैं कि मैं विज्ञानसहित ज्ञानको सम्पूर्णतासे कहूँगा, शेष नहीं रखूँगा–‘अशेषतः। ‘ इसका तात्पर्य यह समझना चाहिये कि मैं तत्त्वसे कहूँगा। तत्त्वसे कहनेके बाद कहना, जानना कुछ भी बाकी नहीं रहेगा। दसवें अध्यायमें विभूति और योगकी बात आयी कि भगवान्की विभूतियोंका और योगका अन्त नहीं है। अभिप्राय है कि विभूतियोंका अर्थात् भगवान्की जो अलग-अलग शक्तियाँ हैं, उनका और भगवान्के योगका अर्थात् सामर्थ्य, ऐश्वर्यका अन्त नहीं आता। रामचरितमानसमें कहा है–
चिन्मयानन्दः
।।7.2।। श्री शंकराचार्य के अनुसार शास्योक्त पदार्थों का परिज्ञान ज्ञान है तथा शास्त्र से ज्ञात तत्त्व का यथार्थ रूप में स्वानुभव होना विज्ञान है। जहाँ भगवान् श्रीकृष्ण अर्जुन को वचन देते हैं कि वे न केवल शास्त्रीय सिद्धांतों का वर्णन करेंगे वरन् प्रवचनकाल में ही वे उसे आत्मानुभव के सर्वोच्च शिखर तक पहुँचा भी देंगे। उनका यह कथन कुछ अविश्वसनीय प्रतीत हो सकता है क्योंकि योग साधना तथा भारतीय दर्शन की अन्य शाखाओं में साधक को लक्ष्य का ज्ञान प्राप्त करने के पश्चात् उसकी प्राप्ति के लिये विशेष साधना करनी होती है। परन्तु वेदान्त शास्त्र इनसे भिन्न है क्योंकि इसमें साधक को उसके नित्यसिद्ध स्वरूप का ही बोध कराया गया है न कि स्व्ायं से भिन्न किसी वस्तु का। अत एक सुयोग्य विद्यार्थी को उपदेश ग्रहण के पश्चात् आत्मानुभव के लिये कहीं किसी वन प्रान्त में जाने की आवश्यकता नहीं होती है। यदि शिष्य ज्ञान के लिये आवश्यक गुणों से सम्पन्न है और गुरु के बताये हुए तर्कों को समझने में समर्थ है तो उसे अध्ययन काल में ही आत्मानुभव हो सकता है। यही कारण है कि वेदान्त केवल सुयोग्य विद्यार्थियों को ही पढ़ाया जाता है। उत्तम शिष्य के लिये आत्मानुभूति तत्काल प्राप्य है। उसे कालान्तर अथवा देशान्तर की अपेक्षा नहीं होती। यदि वेदान्त एक पूर्ण शास्त्र है और उपदेश काल में ही आत्मानुभव सिद्ध हो सकता है तो फिर क्या कारण है कि विश्वभर में ऐसे ज्ञानी पुरुष विरले ही होते हैं भगवान् कहते हैं
तेजोमयानन्दः - अनुवादः
।।7.2।। मैं तुम्हारे लिए विज्ञान सहित इस ज्ञान को अशेष रूप से कहूँगा जिसको जानकर यहाँ (जगत् में) फिर और कुछ जानने योग्य (ज्ञातव्य) शेष नहीं रह जाता है।।
-
अविविक्ताकारेश्वरविषयज्ञानस्यापि वस्तुतो विविक्तेश्वरविषयज्ञानत्वादिति भावः। ↩︎