शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रति अन्तरङ्गस्य सूत्रभूताः श्लोकाः ‘स्पर्शान् कृत्वा बहिः’ (भ. गी. ५ । २७) इत्यादयः उपदिष्टाः । तेषां वृत्तिस्थानीयः अयं षष्ठोऽध्यायः आरभ्यते । तत्र ध्यानयोगस्य बहिरङ्गं कर्म इति, यावत् ध्यानयोगारोहणसमर्थः तावत् गृहस्थेन अधिकृतेन कर्तव्यं कर्म इत्यतः तत् स्तौति — अनाश्रित इति ॥
ननु किमर्थं ध्यानयोगारोहणसीमाकरणम् , यावता अनुष्ठेयमेव विहितं कर्म यावज्जीवम् । न, ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते’ (भ. गी. ६ । ३) इति विशेषणात् , आरूढस्य च शमेनैव सम्बन्धकरणात् । आरुरुक्षोः आरूढस्य च शमः कर्म च उभयं कर्तव्यत्वेन अभिप्रेतं चेत्स्यात् , तदा ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति शमकर्मविषयभेदेन विशेषणं विभागकरणं च अनर्थकं स्यात् ॥
तत्र आश्रमिणां कश्चित् योगमारुरुक्षुः भवति, आरूढश्च कश्चित् , अन्ये न आरुरुक्षवः न च आरूढाः ; तानपेक्ष्य ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति विशेषणं विभागकरणं च उपपद्यत एवेति चेत् , न ; ‘तस्यैव’ इति वचनात् , पुनः योगग्रहणाच्च ‘योगारूढस्य’ इति ; य आसीत् पूर्वं योगमारुरुक्षुः, तस्यैव आरूढस्य शम एव कर्तव्यः कारणं योगफलं प्रति उच्यते इति । अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणः । योगविभ्रष्टवचनाच्च — गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे अध्याये, सः योगविभ्रष्टोऽपि कर्मगतिं कर्मफलं प्राप्नोति इति तस्य नाशाशङ्का अनुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा — मोक्षस्य नित्यत्वात् अनारभ्यत्वे — स्वं फलं आरभत एव । नित्यस्य च कर्मणः वेदप्रमाणावबुद्धत्वात् फलेन भवितव्यम् इति अवोचाम, अन्यथा वेदस्य आनर्थक्यप्रसङ्गात् इति । न च कर्मणि सति उभयविभ्रष्टवचनम् , अर्थवत् कर्मणो विभ्रंशकारणानुपपत्तेः ॥
कर्म कृतम् ईश्वरे संन्यस्य इत्यतः कर्तुः कर्म फलं नारभत इति चेत् , न ; ईश्वरे संन्यासस्य अधिकतरफलहेतुत्वोपपत्तेः ॥
मोक्षायैव इति चेत् , स्वकर्मणां कृतानां ईश्वरे संन्यासो मोक्षायैव, न फलान्तराय योगसहितः ; योगाच्च विभ्रष्टः ; इत्यतः तं प्रति नाशाशङ्का युक्तैव इति चेत् , न ; ‘एकाकी यतचित्तात्मा निराशीरपरिग्रहः’ (भ. गी. ६ । १०) ‘ब्रह्मचारिव्रते स्थितः’ (भ. गी. ६ । १४) इति कर्मसंन्यासविधानात् । न च अत्र ध्यानकाले स्त्रीसहायत्वाशङ्का, येन एकाकित्वं विधीयते । न च गृहस्थस्य ‘निराशीरपरिग्रहः’ इत्यादिवचनम् अनुकूलम् । उभयविभ्रष्टप्रश्नानुपपत्तेश्च ॥
अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं च उक्तम् , प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत् , न ; ध्यानयोगं प्रति बहिरङ्गस्य यतः कर्मणः फलाकाङ्क्षासंन्यासस्तुतिपरत्वात् । न केवलं निरग्निः अक्रियः एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि, कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्ध्यर्थम् , ‘स संन्यासी च योगी च भवति’ इति स्तूयते । न च एकेन वाक्येन कर्मफलासङ्गसंन्यासस्तुतिः चतुर्थाश्रमप्रतिषेधश्च उपपद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसंन्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च — ‘सर्वकर्माणि मनसा संन्सस्य . . . नैव कुर्वन्न कारयन् आस्ते’ (भ. गी. ५ । १३) ‘मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) ‘विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः’ (भ. गी. २ । ७१) ‘सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि ; तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः । तस्मात् मुनेः योगम् आरुरुक्षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपेक्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण प्रतिपद्यते इति ‘स संन्यासी च योगी च’ इति स्तूयते ॥