शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
‘कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) इत्यारभ्य ‘स युक्तः कृत्स्नकर्मकृत्’ (भ. गी. ४ । १८) ‘ज्ञानाग्निदग्धकर्माणम्’ (भ. गी. ४ । १९) ‘शारीरं केवलं कर्म कुर्वन्’ (भ. गी. ४ । २१) ‘यदृच्छालाभसन्तुष्टः’ (भ. गी. ४ । २२) ‘ब्रह्मार्पणं ब्रह्म हविः’ (भ. गी. ४ । २४) ‘कर्मजान् विद्धि तान् सर्वान्’ (भ. गी. ४ । ३२) ‘सर्वं कर्माखिलं पार्थ’ (भ. गी. ४ । ३३) ‘ज्ञानाग्निः सर्वकर्माणि’ (भ. गी. ४ । ३७) ‘योगसंन्यस्तकर्माणम्’ (भ. गी. ४ । ४१) इत्येतैः वचनैः सर्वकर्मसंन्यासम् अवोचत् भगवान् । ‘छित्त्वैनं संशयं योगमातिष्ठ’ (भ. गी. ४ । ४२) इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणम् अनुतिष्ठ इत्युक्तवान् । तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः स्थितिगतिवत् परस्परविरोधात् एकेन सह कर्तुमशक्यत्वात् , कालभेदेन च अनुष्ठानविधानाभावात् , अर्थात् एतयोः अन्यतरकर्तव्यताप्राप्तौ सत्यां यत् प्रशस्यतरम् एतयोः कर्मानुष्ठानकर्मसंन्यासयोः तत् कर्तव्यं न इतरत् इत्येवं मन्यमानः प्रशस्यतरबुभुत्सया अर्जुन उवाच — ‘संन्यासं कर्मणां कृष्ण’ (भ. गी. ५ । १) इत्यादिना ॥
ननु च आत्मविदः ज्ञानयोगेन निष्ठां प्रतिपिपादयिषन् पूर्वोदाहृतैः वचनैः भगवान् सर्वकर्मसंन्यासम् अवोचत् , न तु अनात्मज्ञस्य । अतश्च कर्मानुष्ठानकर्मसंन्यासयोः भिन्नपुरुषविषयत्वात् अन्यतरस्य प्रशस्यतरत्वबुभुत्सया अयं प्रश्नः अनुपपन्नः । सत्यमेव त्वदभिप्रायेण प्रश्नो न उपपद्यते ; प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नः युज्यत एवेति वदामः । कथम् ? पूर्वोदाहृतैः वचनैः भगवता कर्मसंन्यासस्य कर्तव्यतया विवक्षितत्वात् , प्राधान्यमन्तरेण च कर्तारं तस्य कर्तव्यत्वासम्भवात् अनात्मविदपि कर्ता पक्षे प्राप्तः अनूद्यत एव ; न पुनः आत्मवित्कर्तृकत्वमेव संन्यासस्य विवक्षितम् , इत्येवं मन्वानस्य अर्जुनस्य कर्मानुष्ठानकर्मसंन्यासयोः अविद्वत्पुरुषकर्तृकत्वमपि अस्तीति पूर्वोक्तेन प्रकारेण तयोः परस्परविरोधात् अन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यम् न इतरत् इति प्रशस्यतरविविदिषया प्रश्नः न अनुपपन्नः ॥
प्रतिवचनवाक्यार्थनिरूपणेनापि प्रष्टुः अभिप्रायः एवमेवेति गम्यते । कथम् ? ‘संन्यासकर्मयोगौ निःश्रेयसकरौ तयोस्तु कर्मयोगो विशिष्यते’ (भ. गी. ५ । २) इति प्रतिवचनम् । एतत् निरूप्यम् — किं अनेन आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोः निःश्रेयसकरत्वं प्रयोजनम् उक्त्वा तयोरेव कुतश्चित् विशेषात् कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ? आहोस्वित् अनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः तदुभयम् उच्यते ? इति । किञ्चातः — यदि आत्मवित्कर्तृकयोः कर्मसंन्यासकर्मयोगयोः निःश्रेयसकरत्वम् , तयोस्तु कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ; यदि वा अनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः तदुभयम् उच्यते इति । अत्र उच्यते — आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोः असम्भवात् तयोः निःश्रेयसकरत्ववचनं तदीयाच्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येतत् उभयम् अनुपपन्नम् । यदि अनात्मविदः कर्मसंन्यासः तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः सम्भवेताम् , तदा तयोः निःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसंन्यासात् विशिष्टत्वाभिधानम् इत्येतत् उभयम् उपपद्येत । आत्मविदस्तु संन्यासकर्मयोगयोः असम्भवात् तयोः निःश्रेयसकरत्वाभिधानं कर्मसंन्यासाच्च कर्मयोगः विशिष्यते इति च अनुपपन्नम् ॥ अत्र आह — किम् आत्मविदः संन्यासकर्मयोगयोः उभयोरपि असम्भवः ? आहोस्वित् अन्यतरस्य असम्भवः ? यदा च अन्यतरस्य असम्भवः, तदा किं कर्मसंन्यासस्य, उत कर्मयोगस्य ? इति ; असम्भवे कारणं च वक्तव्यम् इति । अत्र उच्यते — आत्मविदः निवृत्तमिथ्याज्ञानत्वात् विपर्ययज्ञानमूलस्य कर्मयोगस्य असम्भवः स्यात् । जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन यो वेत्ति तस्य आत्मविदः सम्यग्दर्शनेन अपास्तमिथ्याज्ञानस्य निष्क्रियात्मस्वरूपावस्थानलक्षणं सर्वकर्मसंन्यासम् उक्त्वा तद्विपरीतस्य मिथ्याज्ञानमूलकर्तृत्वाभिमानपुरःसरस्य सक्रियात्मस्वरूपावस्थानरूपस्य कर्मयोगस्य इह गीताशास्त्रे तत्र तत्र आत्मस्वरूपनिरूपणप्रदेशेषु सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात् अभावः प्रतिपाद्यते यस्मात् , तस्मात् आत्मविदः निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो न सम्भवतीति युक्तम् उक्तं स्यात् ॥
केषु केषु पुनः आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः कर्माभावः प्रतिपाद्यते इति अत्र उच्यते — ‘अविनाशि तु तत्’ (भ. गी. २ । १७) इति प्रकृत्य ‘य एनं वेत्ति हन्तारम्’ (भ. गी. २ । १९) ‘वेदाविनाशिनं नित्यम्’ (भ. गी. २ । २१) इत्यादौ तत्र तत्र आत्मविदः कर्माभावः उच्यते ॥ ननु च कर्मयोगोऽपि आत्मस्वरूपनिरूपणप्रदेशेषु तत्र तत्र प्रतिपाद्यते एव ; तद्यथा — ‘तस्माद्युध्यस्व भारत’ (भ. गी. २ । १८) ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) ‘कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) इत्यादौ । अतश्च कथम् आत्मविदः कर्मयोगस्य असम्भवः स्यादिति ? अत्र उच्यते — सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात् , ‘ज्ञानयोगेन साङ्ख्यानाम्’ (भ. गी. ३ । ३) इत्यनेन साङ्ख्यानाम् आत्मतत्त्वविदाम् अनात्मवित्कर्तृककर्मयोगनिष्ठातः निष्क्रियात्मस्वरूपावस्थानलक्षणायाः ज्ञानयोगनिष्ठायाः पृथक्करणात् , कृतकृत्यत्वेन आत्मविदः प्रयोजनान्तराभावात् , ‘तस्य कार्यं न विद्यते’ (भ. गी. ३ । १७) इति कर्तव्यान्तराभाववचनाच्च, ‘न कर्मणामनारम्भात्’ (भ. गी. ३ । ४) ‘संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः’ (भ. गी. ५ । ६) इत्यादिना च आत्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानात् , ‘योगारूढस्य तस्यैव शमः कारणमुच्यते’ (भ. गी. ६ । ३) इत्यनेन च उत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनात् , ‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्’ (भ. गी. ४ । २१) इति च शरीरस्थितिकारणातिरिक्तस्य कर्मणो निवारणात् , ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्’ (भ. गी. ५ । ८) इत्यनेन च शरीरस्थितिमात्रप्रयुक्तेष्वपि दर्शनश्रवणादिकर्मसु आत्मयाथात्म्यविदः ‘करोमि’ इति प्रत्ययस्य समाहितचेतस्तया सदा अकर्तव्यत्वोपदेशात् आत्मतत्त्वविदः सम्यग्दर्शनविरुद्धो मिथ्याज्ञानहेतुकः कर्मयोगः स्वप्नेऽपि न सम्भावयितुं शक्यते यस्मात् , तस्मात् अनात्मवित्कर्तृकयोरेव संन्यासकर्मयोगयोः निःश्रेयसकरत्ववचनम् , तदीयाच्च कर्मसंन्यासात् पूर्वोक्तात्मवित्कर्तृकसर्वकर्मसंन्यासविलक्षणात् सत्येव कर्तृत्वविज्ञाने कर्मैकदेशविषयात् यमनियमादिसहितत्वेन च दुरनुष्ठेयात् सुकरत्वेन च कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येवं प्रतिवचनवाक्यार्थनिरूपणेनापि पूर्वोक्तः प्रष्टुरभिप्रायः निश्चीयते इति स्थितम् ॥
‘ज्यायसी चेत्कर्मणस्ते’ (भ. गी. ३ । १) इत्यत्र ज्ञानकर्मणोः सह असम्भवे ‘यच्छ्रेय एतयोः तद्ब्रूहि’ (भ. गी. ३ । २) इत्येवं पृष्टोऽर्जुनेन भगवान् साङ्ख्यानां संन्यासिनां ज्ञानयोगेन निष्ठा पुनः कर्मयोगेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार । ‘न च संन्यसनादेव केवलात् सिद्धिं समधिगच्छति’ (भ. गी. ३ । ४) इति वचनात् ज्ञानसहितस्य सिद्धिसाधनत्वम् इष्टम्’ कर्मयोगस्य च, विधानात् । ज्ञानरहितस्य संन्यासः श्रेयान् , किं वा कर्मयोगः श्रेयान् ? ’ इति एतयोः विशेषबुभुत्सया —