15 नादत्ते कस्यचित्पापम्

विश्वास-प्रस्तुतिः …{Loading}…

नादत्ते +++(पुत्रादेः)+++ कस्यचित् पापं
चैव सुकृतं विभुः +++(←सर्व-शरीर-साधारणत्वात्)+++।
अज्ञानेनावृतं ज्ञानं
तेन +++(शरीर-विशेषाभिमानेन)+++ मुह्यन्ति जन्तवः॥5.15॥

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥5.15॥ कस्यचित् स्व-सम्बन्धितया ऽभिमतस्य पुत्रादेः
पापं दुःखं नादत्ते नापनुदति,
कस्यचित् प्रतिकूलतया ऽभिमतस्य
सुकृतं सुखं च नादत्ते नापनुदति।
यतो ऽयं विभुर् न क्वाचित्को,
न देवादि-देहाद्य्-असाधारण-देशो
अत एव न कस्यचित् सम्बन्धी, न कस्यचित् प्रतिकूलश् च।

सर्वम् इदं वासनाकृतम्।

एवं-स्वभावस्य
कथम् इयं विपरीत-वासनोत्पद्यते?
अज्ञानेनावृतं ज्ञानम्;
ज्ञान-विरोधिना पूर्व-पूर्व-कर्मणा स्व-फलानुभव-योग्यत्वाय
अस्य ज्ञानम् आवृतं सङ्कुचितं,
तेन ज्ञानावरणरूपेण कर्मणा देवादि-देह-संयोगस्,
तत्-तद्-आत्माभिमान-रूप-मोहश् च जायते।
ततश् च तथा-विधात्माभिमान-वासना तद्-उचित-कर्म-वासना च।
वासनातो विपरीतात्माभिमानः कर्मारम्भश् चोपपद्यते।

इति पूर्वोक्तं स्वकाले सङ्गमयति —

सर्वं ज्ञान-प्लवेनैव
वृजिनं सन्तरिष्यसि (गीता ४।३६)

ज्ञानाग्निः सर्वकर्माणि
भस्मसात् कुरुते तथा (गीता ४।३७)

न हि ज्ञानेन सदृशं पवित्रम् (गीता ४।३८)

वेदान्तदेशिकः

॥5.15॥ आत्मनोऽकर्तृत्वादिकस्य वासनायाः कर्तृत्वादिकस्य च विवरणन्नादत्ते इति श्लोकस्यार्धद्वयम्। परगतपापसुकृतयोरादानप्रसङ्गाभावात्तत्प्रतिषेधोऽनुचितः अतस्तत्कार्यं दुःखं सुखं च लक्ष्यते तत्रापि परगतसुखदुःखयोः स्वस्मिन्नाकर्षणं न शक्यम् अतस्तदपनयनमात्रं विवक्षितमित्यभिप्रायेणाह कस्यचिदिति। कस्यचित् इत्यनेन सूचितमपनोदनहेतुविशेषं दर्शयितुंस्वसम्बन्धितयाऽभिमतस्येत्याद्युक्तम्। आदत्ते इत्यस्य करोत्याद्यर्थत्वानौचित्यादपहरणार्थत्वे च प्रयोगादपहरणनिषेधेनैव तुल्यतया करणनिषेधसिद्धेःनापनुदतीति व्याख्यातम्। विभुरिति न परिमाणविशेषाद्यभिप्रायं जीवस्याणुतया श्रुत्यादिसिद्धेः। नापि प्रभुत्वपरम् अत्रानुपयुक्तत्वात्। अतस्तत्तत्कर्मानुकूलसमस्तदेहानुप्रवेशयोग्यतामात्रं प्रतिनियतदेशराहित्यं विवक्षितम्। अतएव आगन्तुकेषु मित्रामित्रादिषु सम्बन्धित्वं प्रतिकूलत्वं च आगन्तुकानां तत्तद्देहानामेव न त्वात्मन इति सिध्यति। तत एव चानुकूलप्रतिकूलपुरुषविषयदुःखाद्यपनयनमौपाधिकमित्यायातम्। तदेवं कार्याभावौपयिकहेत्वभावप्रतिपादनपरो विभुशब्द इत्यभिप्रायेणाह यतोऽयमिति। उत्तरार्धोत्थानाय शङ्कते एवंस्वभावस्येति। विपरीतवासना स्वभावविरुद्धवासनेत्यर्थः। अत्रोत्तरम् अज्ञानेनावृतं ज्ञानम् इति। अविद्या कर्मसञ्ज्ञाऽन्या तृतीया शक्तिरिष्यते। यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा॥ संसारतापानखिलानवाप्नोत्यतिसन्ततान्। तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसञ्ज्ञिता॥ सर्वभूतेषु भूपाल तारतम्येन वर्तते वि.पु.6।8।6163 इति भगवत्पराशरवचनमनुस्मरन्नाहज्ञानविरोधिनेति। अत्र नञस्तदन्यतदभावार्थत्वमावरणानुपयुक्तमिति भावः। स्वफलेत्यादि नह्यसावसङ्कुचितज्ञानसंसारतापानुभवयोग्य इति भावः। अत्यन्तविलोपपरिहारायावरणशब्दोपचरितमाह सङ्कुचितमिति। नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते बृ.उ.4।3।30 इत्यादिश्रुतिसिद्धमनेन स्मारितम्। देवादिदेहसंयोग इति जन्तुशब्दाभिप्रेतोऽर्थः। स च मोहजनने कर्मणो द्वारम्। शङ्कोत्तरत्वमाह ततश्चेति। आत्मनि प्रतिषिद्धस्येष्टानिष्टाचरणस्यान्यहेतुतामाह वासनात इति।

आदिदेवानन्दः

5.15 Because, It, the Atman is ‘all-pervading’, i.e., is not limited to particular area or space included in the bodies of gods, men etc.; It is not the relative or the enemy of any one. For this reason It does not take away or remove the evil or suffering of anyone such as a son who is related and therefore dear to one; nor does It take away, i.e., remove the happiness of anyone whom It deems with aversion. All this is the effect of Vasanas or subtle impressions of Prakrti. How does do these contrary Vasanas originte in the case of one whose intrinsic nature is a described above; In answer it is said that knowledge is enveloped by the darkness of ignorance. The Atman’s knowledge is enveloped, i.e., contracted by preceding Karmas which are opposed to knowledge, so that a person may be alified to experience the fruits of his own Karma. It is by this Karma, which contracts knowledge, and can join the Jiva with the bodies of gods etc., that the misconception that the bodies are the selves is produced. Conseently there will originate the Vasanas or the unconscious subtle impressions born of such misapprehension of the self and the inclination to undertake actions corresponding to them. Sri Krsna now brings into proper seence what has been taught before in the following verses: ‘You will completely cross over the sea of all your sins with the boat of knowledge’ (4.36), and ‘The fire of knowledge reduces all Karmas to ashes in the same way’ (4.37), and ‘For there is no purifier here eal to knowledge’ (4.38).

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥5.15॥ न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम्।चैव आदत्ते सुकृतं भक्तैः प्रयुक्तं विभुः। किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यते इत्याह अज्ञानेन आवृतं ज्ञानं विवेकविज्ञानम् तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामि इत्येवं मोहं गच्छन्ति अविवेकिनः संसारिणो जन्तवः

गम्भीरानन्दः

5.15 Vibhuh, the Omnipresent; na adatte, neither accetps; kasyacit, anybody’s-even a adevotee’s; papam, sin; na ca eva, nor even; does He accept sukrtam, virtue offered by devotees. Why then are such virtuous acts as worship etc. as also sacrifices, charity, oblation, etc. worship etc. as also sacrifices, charity, oblation, etc. offered by devotees; To this the Lord says: Jnanam, knowledge, discriminating wisdom; remains avrtam, covered; ajnanena, by ignorance. Tena, thery; jantavah, the creatures, the non-discriminating people in the world; muhyanti, become deluded thus-‘I do; I make others do; I eat; I make others eat.’

हरिकृष्णदासः

॥5.15॥ वास्तवमें तो विभु ( सर्वव्यापी परमात्मा ) किसी भक्तके पापको भी ग्रहण नहीं करता और भक्तोंद्वारा अर्पण किये हुए सुकृतको भी वह नहीं लेता। तो फिर भक्तोंद्वारा पूजा आदि अच्छे कर्म एवं यज्ञ दान होम आदि सुकृत कर्म किस लिये अर्पण किये जाते हैं इसपर कहते हैं जीवोंका विवेकविज्ञान अज्ञानसे ढका हुआ है। इस कारण अविवेकी संसारी जीव ही करता हूँ कराता हूँ खाता हूँ खिलाता हूँ इस प्रकार मोहको प्राप्त हो रहे हैं।

आनन्दगिरिः

॥5.15॥ कर्तृत्वभोक्तृत्वैश्वर्याण्यात्मनोऽविद्याकृतानीत्युक्तमिदानीमीश्वरे संन्यस्तसमस्तव्यापारस्य तदेकशरणस्य दुरितं सुकृतं वा तदनुग्रहार्थं भगवानादत्ते मदेकशरणो मत्प्रीत्यर्थं कर्म कुर्वाणो दुष्कृताद्यनुमोदनेनानुग्राह्यो मयेति प्रत्ययभाक्त्वादित्याशङ्क्य सोऽपि परमार्थतो नास्यास्त्यविक्रियत्वादित्याह परमार्थतस्त्विति। पूर्वार्धगतान्यक्षराणि व्याख्यायाकाङ्क्षापूर्वकमुत्तरार्धमवतार्य व्याचष्टे किमर्थमित्यादिना।

नीलकण्ठः

॥5.15॥ ननुएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते इति श्रुत्या परमेश्वरे कारयितृत्वं बोध्यते। तत्कथमुच्यतेस्वभावस्तु प्रवर्तते इति तत्राह नादत्त इति। कस्यचित्कर्तुः पापमयं नादत्ते नापि सुकृतम्। कारयितृत्वाभावात्। यतो विभुर्व्यापकः। निष्क्रिय इति यावत्। सक्रियो ह्यन्यं प्रवर्तयति तदीयं पापं पुण्यं वा लभते। अयं तु न तथा किंतु सूर्यवत् प्रकाशत एव नतु स्वप्रकाश्यानां कर्त्रादीनां कर्मणा संबध्यते इति भावः। कारयितृत्वमप्यस्य सत्तामात्रेण सूर्यवत्। यथा घटः प्रकाशते सविता प्रकाशयतीति नोदाहृतश्रुतिविरोधः। कथं तर्हि ईश्वराराधनार्थं कर्माणि कुर्वन्ति तदकरणाच्च बिभ्यतीत्याशङ्क्याह अज्ञानेनेति। यथा हि महाराजस्य सार्वभौमस्याहं सर्वेश्वरो निर्वृतोऽस्मीति ज्ञानं अज्ञानेन सौषुप्तेनावृतं चेत्स तत्र विविधानि परचक्रादीनि महान्ति संकटशतानि पश्यति अहो अहं दीनोऽस्मिदुःख्यस्मीति च मुह्यति तद्वदेते जन्तवः स्वस्याहं ब्रह्मास्मीति प्रमाणेन ब्रह्मभावमजानन्त ईश्वरादात्मानं पृथङ्मन्यमाना ईशात्मनोः सेव्यसेवकभावं च पश्यन्तो मुह्यन्ति। तथाच श्रुतिःअथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमिति न स वेद यथा पशुरेव स देवानाम् इति। एष ह्येवेति श्रुतिरपि भ्रान्तजनव्यवहारविषयैवेति भावः।

धनपतिः

॥5.15॥ ननु यः परमेश्वरैकशरणो ब्रह्मणि संन्यस्तसमस्तकर्मा यानि पुण्यपापानि करोति तानि क्व गच्छन्ति। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा इत्यनेन तस्य लेपाभावोक्तेः। तथाच स्वस्य भक्तस्य पुण्यं च पापं च तदसुग्रहार्थ भगवानादत्ते इति चेत्तत्राह नेति। विभुः परमेश्वरः कस्यचित्स्वभक्तस्यापि पापं नादत्ते न गृह्णाति। तथा भक्तैः समर्पितं सुकृतं पूर्णकामत्वान्न चैवादत्ते। ननु परमार्थतो जीवस्यापीश्वराव्यतिरेकात्कर्तृत्वाद्यभावः ईश्वरस्य सुतरां अतः किमर्थमीश्वरात्स्वस्य भेदं प्रकल्प्य परमेश्वरो भजनीयोऽहं तस्य भक्तस्तदर्थं मया पूजायागदानहोमादिलक्षणं कर्मानुष्ठेयमिति बुद्य्धा परमेश्वरैकशरणैरन्यैश्चाहं कर्म करोमि कारयामि तस्य फलं भोक्ष्ये भोजयामीति बुद्य्धा कर्माण्यनुष्ठीयन्त इति चेत्तत्राह। अज्ञानेनावृतं कर्तृत्वादिविनिर्मुक्तोऽहमस्मीति विवेकज्ञानम्। वसिष्ठोऽप्याहविवेकमाच्छादयति जगन्ति जनयत्यलम् इति। पूर्वप्रस्तुताऽविद्या तेन जन्तवो मुह्यन्ति मोहं गच्छन्ति। यथा शुक्तिज्ञानं शुक्त्यज्ञानेनावृतं तेन रजतमिदमिति पुरुषाणां मोहस्तथाहमुपासक ईश्वरार्थं कर्म करोभ्यहं कर्ता कारयिता भोक्ता भोजयितेत्येवं मुह्यन्तीत्यर्थः। ज्ञानं जीवेश्वरजगद्भेदभ्रमाधिष्ठानभूतं स्वप्रकाशं सच्चिदानन्दरुपं परमार्थमिति तु लोकप्रसिद्धज्ञानपदार्थत्यागे बीजाभावमभिप्रेत्याचार्यैर्न व्याख्यातमिति बोध्यम्। एतेन ननु भक्ताननुगृह्णतोऽभक्तान्निगृह्णतश्च वैषम्योपलम्भात्कथमाप्तकामत्वमत आह अज्ञानेनेति। निग्रहोऽपि दण्डरुपोऽनुग्रह एवेत्येवमज्ञानेन सर्वत्र समः परमेश्वर इत्येवंभूतं ज्ञानमावृतं तेन हेतुना जन्तवो जीवा मुह्यन्ति। भगवति वैषम्यं मन्यन्त इत्यर्थ इति प्रत्युक्तम्। ज्ञानं प्रकाशयति। ज्ञाननिर्धूतकल्मषा इत्यत्राभिमततद्य्वतिरिक्तज्ञानपदार्थकल्पनानुपपतेश्च। यत्त्वितरैः स्वभावस्तु प्रवर्तत इत्यत्रान्तःकरणं प्रवर्तत इति व्याख्याय৷৷৷৷नन्वेवंसति देवदत्तः पापी यज्ञदत्तः सुकृतीत्यादिव्यवहाराणां का गतिरित्यत आह नादत्ते इति। चिच्चिदात्मा कस्य ज्ञानशक्तिक्रियाशक्त्याधारत्वगुणयोगात्कशब्दस्यान्तःकरणस्य पापं सुकृतं च नादत्ते नात्मसंबन्धि करोति। तत्र हेतुमाह विभुरिति। अपरिणामीत्यर्थः। कथंतर्ह्ययं लोकव्यवहारस्तत्राह अज्ञानेनेति। अज्ञानेनाज्ञानपरिणामरुपेणान्तःकरणेन ज्ञानं स्वरुपमावृतम्। अन्योन्यतादात्म्याध्यासविषयभावं गमितमित्यर्थः। तेन कारणेन जन्तवोऽज्ञामनुष्या मुह्यन्ति। आत्मगतत्वेन सुकृतदुष्कृतादिव्यवहरन्तीत्यर्थ इति व्याख्यातं तदुपेक्ष्यम्। मुख्यवृत्त्या सभ्यक् वाक्यार्थसंभवे गौण्यादिवृत्त्याश्रयणस्य क्लिष्टकल्पनायाश्चान्याय्यत्वात्।

मधुसूदन-सरस्वती

॥5.15॥ नन्वीश्वरः कारयिता जीवः कर्ता। तथाच श्रुतिःएष उ ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमधो निनीषते इत्यादिः। स्मृतिश्चअज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा॥ इति। तथाच जीवेश्वरयोः कर्तृत्वकारयितृत्वाभ्यां भोक्तृत्वभोजयितृत्वाभ्यां चपापपुण्यलेपसंभवात्कथमुक्तं स्वभावस्तु प्रवर्तत इति तत्राह परमार्थतः विभुः परमेश्वरः कस्यचिज्जीवस्य पापं सुकृतं च नैवादत्ते परमार्थतो जीवस्य कर्तृत्वाभावात् परमेश्वरस्य च कारयितृत्वाभावात्। कथं तर्हि श्रुतिः स्मृतिर्लोकव्यवहारश्च तत्राह अज्ञानेनावरणविक्षेपशक्तिमता मायाख्येनानृतेन तमसा आवृतमाच्छादितं ज्ञानं जीवेश्वरजगद्भेदभ्रमाधिष्ठानभूतं नित्यं स्वप्रकाशं सच्चिदानन्दरूपमद्वितीयं परमार्थसत्यं तेन स्वरूपावरणेन मुह्यन्ति प्रमातृप्रमेयप्रमाणकर्तृकर्मकरणभोक्तृभोग्यभोगाख्यनवविधसंसाररूपं मोहमतस्मिंस्तदवभासरूपं विक्षेपं गच्छन्ति जन्तवो जननशीलाः संसारिणो वस्तुस्वरूपादर्शिनः। अकर्त्रभोक्तृपरमानन्दाद्वितीयात्मस्वरूपादर्शननिबन्धनो जीवेश्वरजगद्भेदभ्रमःप्रतीयमानो वर्तते मूढानाम्। तस्यां चावस्थायां मूढप्रत्ययानुवादिन्यावेते श्रुतिस्मृती वास्तवाद्वैतबोधिवाक्यशेषभूते इति न दोषः।

रामरायः - १५

नादत्त इति। ‘स्वभावस्तु प्रवर्तते’ इति मायिकस्य कार्यस्योक्तत्वादाह— परमार्थतस्त्विति। तुशब्दो वैलक्षण्यार्थः। न पुनः स्वभावत इति तदर्थः। विभुः कस्यचित् पापं नादत्ते, कस्यचित् सुकृतं च नैवादत्ते। अज्ञानेन ज्ञानमावृतं तेन जन्तवो मुह्यन्ति।

यो हि ब्रह्महत्यादिमहापातकापनुत्तये जन्मान्तरसंचितपापापनुत्तये वा भगवति भक्तिं तनोति, तस्य भक्तस्य पापं विभुरीश्वरः आत्मा नादत्ते। यश्चेश्वरार्पणबुद्ध्या यज्ञदानजपादिकर्माणि करोति, तस्य यज्ञादिकर्मजन्यं सुकृतमपि नादत्ते न स्वीकरोति, असङ्गस्यात्मनः पुण्यपापसम्बन्धाभावात्। सति तु पुण्यपापसम्बन्धे धर्माधर्मवश्यत्वेनेश्वरत्वस्यैव व्याघातात् इत्याह— नादत्ते न गृह्णातीत्यादि। प्रयुक्तं दत्तं समर्पितमिति यावत्।1

न च - भक्त्या ईश्वराय विष्णवे शिवायान्याय[यान्यस्मै] दैवताय वा सुकृतादिकं समर्पयन्ति, न त्वात्मन इति - वाच्यम् ‘आकाशात् पतितं तोयं यथा गच्छति सागरम्। सर्वदेवनमस्कारः केशवं प्रति गच्छती’ति स्मरणाच्छिवादिदेवतान्तरसमर्पितमपि सुकृतादिकमात्मानमेव प्राप्नोति।

न च - केशवमिति विष्णुपर्यायदर्शनात् शिवादिदेवतान्तरसमर्पितस्य विष्णुगामित्वमेव, न त्वात्मगामित्वमिति - वाच्यम् ; विष्णोरेवात्मत्वात्। न च विष्णुरपि शिवादिवदनात्मैवेति वाच्यम् ; शिवादेरनात्मत्वस्यैवासिद्धेः। न च त्र्यक्षत्वादिधर्मविशिष्टानां शिवादीनां कथमात्मत्वमिति वाच्यम् ; चतुर्भुजत्वादिधर्मविशिष्टविष्णावपीदं चोद्यं समानम्। न चैवं शिवविष्ण्वादयः सर्वेऽप्यनात्मान एवेति वाच्यम् ; देहबुद्ध्या अनात्मत्वेऽपि अन्तर्यामिबुद्ध्या आत्मत्वात्। तस्माच्छिवादिबुद्ध्या समर्पितमपि सर्वं शिवादिदेहस्थितात्म- समर्पितमेव भवति। यस्तु शिवादिदेहस्थित आत्मा स एव भक्तदेहस्थितोऽपीति युक्तमुक्तमात्मने समर्पयन्तीति। अत एव आकाशात् पतितमिति स्मृतिश्च सङ्गच्छते, कथमन्यथा देहान्तरसमर्पितं वस्तु देहान्तरगामि भवेत् , येन शिवाद्यर्पितं वस्तु विष्ण्वर्पितं भवतीत्युच्येत।

न च केशवपदं चतुर्भुजत्वादिविशिष्टविग्रहविशेषपरमिति वाच्यम् ; कः आत्मा, ‘को ब्रह्मात्मे’ति कोशात् , ईशः प्रभुः, वाति गच्छति जानातीति वः, वातेर्डः, द्रष्टेत्यर्थः। कश्चासावीशः केशः, केशश्चासौ वश्च केशव इति व्युत्पत्त्या आत्मपरत्वात् केशवशब्दस्य। न च ‘योगाद् रूढिर्बलीयसी’ति यौगिकाद् योगरूढोऽर्थ एव बलवानिति वाच्यम् ; बलवत्त्वेऽपि तस्यार्थस्येहानन्वयेनोपेक्ष्यत्वात्।

ननु यद्ययमात्मा नादत्ते कस्यचित्पापं, न चैव सुकृतं, तर्हि ‘ईश्वरार्पणमस्तु’ इति कथं स्वानुष्ठितयागादिसुकृतस्येश्वरे प्रयोगो

[[२८६]]

भक्तानाम्? कथं वेश्वरस्य पूजादिकम्? इति शङ्कते— किमर्थमिति। प्रयुज्यते समर्प्यते। अज्ञानम् अविद्या, न तु ज्ञानाभावः, तस्यावरणत्वायोगात्। आवरणं हि भावकार्यम् , यथा घटाद्यावरणं तमः भावरूपम् , तद्वत्। न च तमोऽपि तेजोऽभाव एवेति वाच्यम् ; तमसि तम इत्येव सर्वः प्रत्येति, न तु तेजोऽभाव इति कृत्वा सर्वलोकव्यवहारविरोधात्। आवृतं नाशितमित्यर्थः। अथवा ज्ञानं बुद्धिरित्यर्थः। आवृतं छादितं, मलेन दर्पणमिवेति भावः। तेन ज्ञानस्याज्ञानावृतत्वेन हेतुना करोम्यहं पूजादिकमिति शेषः। कारयाम्यहं पूजादिकं पुत्रादिनेति शेषः। भोक्ष्ये अहमन्नादिकमिति शेषः। भोजयामि अहमन्नादिकमतिथ्यादिनेति शेषः।

अत्र मत्त ईश्वरोऽन्योऽस्ति, स मत्पापं नाशयति, मया दत्तमल्पमपि सुकृतं गृहीत्वा मम बहुफलं दास्यतीत्याकारकोऽपि मोहो ज्ञेयः। एतन्मोहप्रयुक्तत्वादेव कर्मणां कर्तृत्वस्य कारयितृत्वस्य च, ईश्वरादात्मनि भेदभ्रमे सत्येव कर्ताऽहं, कारकोऽहं, भोक्ताऽहम् , फलदाता त्वीश्वरः इत्यादिभ्रमसम्भवात्। तस्मादात्मानात्मविवेकशून्या एवैते य ईश्वरार्थमपि कर्माण्यनुतिष्ठन्तीत्याह— अविवेकिन इति। अत एवैते जन्ममरणादिलक्षणं संसारं प्राप्नुवन्तीत्याह— संसारिण इति। जायन्ते पुनः पुनरुत्पद्यन्ते अविवेकवशादिति जन्तव इति व्युत्पत्तेरिति भावः।

यत्तु रामानुजः— नादत्ते नापनुदति। अज्ञानेन प्राचीनकर्मणाऽस्य ज्ञानम् आवृतं सङ्कुचितम्। तेन अज्ञानेनेति, तत्तुच्छम् , आदानस्य अपनोदनाभेदानौचित्यात् , आदानापनोदनयोर्भिन्नक्रियात्वात्। आदत्त इत्यस्यापनोदनार्थकत्वस्य व्याकरणकोशादि- विरुद्धत्वात् , आत्मज्ञानस्य सर्वपुण्यपापतूलाग्नित्वस्य ‘ज्ञानाग्निदग्धकर्माणमि’त्यनेनोक्तत्वादात्मनः सुखदुःखापनोदनासम्भवाच्च। तथा पुत्रादेः पापं दुःखं च नादत्त इत्यप्ययुक्तम् , पुत्रादेरात्मत्वादात्मनि च पापाद्ययोगात्। यदि पुत्रादिः सङ्घात इति मतं, तर्हि तस्य सङ्घातस्य आत्मसम्बन्धित्वमेव नास्तीति कथमुक्तं स्वसम्बन्धितयाऽभिमतस्य पुत्रादेरिति।

ननु सङ्घातो न स्वसम्बन्धी, किन्तु तथाऽभिमत इति चेत्? नैतदपि युज्यते, स्वप्रभे निर्विशेषे आत्मन्यभिमानायोगात्। यस्तु ममायं पुत्रोऽहमन्यः पितेत्यभिमन्यते, स हि सङ्घात एव। न च सङ्घातस्याचेतनस्य कथमभिमान इति वाच्यम् ; तत्र चिदाभाससत्त्वात् , कथमन्यथा अन्तःकरणस्य केवलस्य सङ्कल्पादिव्यापार उपपद्येत? य एवं पुत्रादिकं स्वसम्बन्धिनं मन्यते स पुत्रादेर्दुःखं यथाशक्त्यपनुदत्येवेति कथमुक्तम्— नापनुदतीति।

तथा रावणादिर्देहादिसङ्घातो रामादेः प्रतिकूलस्य देहादिसङ्घातस्य भार्यापहारादिना सुखमपनुनोदैवेति कथमुक्तं प्रतिकूल- तयाऽभिमतस्य सुखं नापनुदतीति। तथा अज्ञानशब्दस्य कर्मार्थकत्वमप्यनुपपन्नम् , अज्ञानकर्मणोः कार्यकारणभावेन भेदात्। यदि ज्ञानविरोधि कर्माज्ञानशब्देन विवक्षितं, तर्हि मूलकर्ता ‘कर्मणा’ [ ‘कर्मणा ह्यावृतं ज्ञानम्’ ] इत्येव ब्रूयात् , न त्वज्ञानेनेति।

कर्मणो ज्ञानावरणत्वं चानुपपन्नमद्रव्यत्वात् कर्मणः, आवरणस्य च द्रव्यकार्यत्वात्। ननु कर्मणा ज्ञानस्यावरणं नाम कर्मणा हेतुना ज्ञानस्य सङ्कोच इत्यर्थः इति चेत्, मैवमपि , ज्ञानावरणरूपेण कर्मणेति त्वयोच्यमानत्वात्। न हि कर्मणो ज्ञानसङ्कोचनं स्वरूपं, किन्तु गुण एव। न च कर्मापि गुण एवेति वाच्यम् ; गुणकर्मणोर्भेदात्। न च पुण्यापुण्यसंस्काररूपमिदं कर्म गुण एवेति वाच्यम् ; तादृशस्य गुणस्य संस्काररूपत्वेन ज्ञानावरणरूपत्वाभावात्।

किञ्च न कर्मणो ज्ञानविरोधित्वमपि युक्तम् , कर्मणो ज्ञानोपायत्वात्। न च यज्ज्ञानविरोधि कर्म तदेवेह गृह्यत इति वाच्यम् ; अज्ञानशब्दस्य ज्ञानविरोधिवस्तुमात्रोपस्थापनक्षमत्वेन ज्ञानविरोधिवस्तुविशेषाबोधकत्वात्। सति ज्ञानविरोधितया प्रत्यक्षे अज्ञाने मायाख्ये तद् विहायान्यार्थबोधनस्यासम्भवात्। न ह्यसुरशब्दो राक्षसान् विहायान्यान् बोधयितुमीष्टे। तस्मात् नञो विरोधार्थमभ्युपेत्य न ज्ञानमज्ञानं ज्ञानविरोधीत्यर्थस्य वचनेऽपि तादृशमज्ञानं मायैव भवितुमर्हति, तस्या एव तथात्वात्। न हि कर्म वा अन्यद्वा एकान्तेन ज्ञानविरोधि, यज्ञादिकर्मणां गुरुशास्त्रादिद्वैतस्य च ज्ञानोपायत्वेन ज्ञानाविरोधदर्शनात्। तथा तेनेत्यस्य प्रकृतवाक्यार्थपरामर्शं न्याय्यं विहाय अज्ञानेनेत्यर्थकल्पनं चान्याय्यम् , अज्ञानं ज्ञानावरणद्वारैव मोहयति, न तु साक्षादिति कृत्वा अज्ञानेन मुह्यन्तीति वचनं पुनरयुक्तम् ॥१५॥

[[२८७]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥5.15॥ Sri Madhvacharya did not comment on this sloka.

जयतीर्थः

॥5.15॥ Sri Jayatirtha did not comment on this sloka.

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥5.15॥ अत एव क्रियातत्फलयोरभावे विधिफलस्यापि नादृष्टकृतता काचित् इत्यर्धेन अभिधाय अर्धान्तरेण संसारिणः प्रति तत्समर्थनं कर्तुमाह नादत्ते इति। पापादीनि नैतत्कृतानि किं तु निजेन अज्ञानेन कृतानि शङ्कयेव अमृते विषयम् +++(omits पापादीनि विषम्)+++।

शङ्करनारायणः

5.15 Nadatte etc. The sinful acts and the like have been effected not by the Soul; but they have been effected by the Illusion belonging to It, just as a poison is effected in the nectar by a doubt. Therefore-

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥5.15॥ यस्मादेवं तस्मान्नादत्ते न भजते पापं पुण्यं च कारयितृत्वं च तत्साधकतमविसर्जनादेवोपयुज्यते। बुद्धीन्द्रियमनःप्राणान् भाग.10।87।2 इत्यादिवाक्यात्तैर्भोगमोक्षोपायप्रवृत्तौ तदात्मैवेह हेतुरिति तत्त्वम्। अतः स्वभावकृतं सर्वम्। ननु तदेशभूता अपि एते आत्मनः कथं प्राकृतत्वभावेन सम्मुह्यन्ति स्वरूपाज्ञानादित्याह अज्ञानेनेति। तत्र ज्ञानं स्वरूपविषयकं अज्ञानेनाविद्यायाः प्रथमपर्वस्वरूपाज्ञानेनावृतं ततोऽन्यपर्वभिः प्राणान्तःकरणेन्द्रियदेहाध्यासैः वस्तुतस्तु विचित्ररिरंसावतो भगवतो नित्या आज्ञाकारिण्यो द्वादशशक्तयो मुख्याःगिरा पृष्ट्या इत्यादिना निरूपिता भागवते। तत्र मायाख्याया अशंद्वयं विद्याविद्येति। भगवदाज्ञयैव विद्यया आत्मनां स्वरूपगमकात्सत्त्वानुगुण्यात् अविद्यया च विपरीतस्वभावया कर्मजन्ममरणादिपर्यावर्तगम इतरानुगुण्यात् अन्यथा स्वरूपवैचित्र्यं न स्यादित्यज्ञानेनावृतमात्मनां स्वरूपज्ञानम्। उक्तं चविद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्। मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते भाग.11।11।3 इति। पञ्चपर्वा त्वविद्येयं जीवगा मायया कृता इति। अतस्तेन जन्तवो भवन्तो मुह्यन्ति। स्वयमेवात्मनि कर्तृत्वादिस्वभावं सृजन्ति न परमात्मेति सिद्धान्तः।

पुरुषोत्तमः

॥5.15॥ यतः प्रभुर्न सृजत्यतः कस्यचित् पापपुण्यादिकमङ्गीकृत्य फलं न ददातीत्याह नादत्त इति। विभुः अनियम्यः स्वेच्छयैव सर्वफलदानसमर्थः कस्यचित् जीवस्य पापं पापरूपं कर्म न आदत्ते नाङ्गीकरोति तदङ्गीकृत्य नरकादिफलं न ददातीत्यर्थः। सुकृतं च नैवाङ्गीकरोति तदङ्गीकारेण स्वर्गादिसुखं न ददातीत्यर्थः। विभुत्वात् स्वक्रीडेच्छयैव यथासुखं करोतीति भावः। तर्हि एष एव तं ह्येवैनं साधु कर्म कारयति कौ.उ.3।9 इत्यादिश्रुतिभ्य ईश्वर एव तत्तत्कर्म कारयित्वा सर्वेभ्यः फलं ददातीति कथमुच्यते तत्राह अज्ञानेनेति। अज्ञानेन प्रकृत्युत्पन्नेन ज्ञानं भगवत्स्वरूपात्मकं श्रुत्यर्थरूपं वा तेन जन्तवः जीवा मुह्यन्ति मोहं प्राप्नुवन्ति अन्यथा वदन्तीत्यर्थः। श्रुतौ तु पूर्वं तादृक्फलदानेच्छां निरूप्य पश्चात् कर्मकारणत्वमुच्यते न तु कर्मफलत्वमागच्छति किन्तु विचित्रेच्छात्वमेवायातीति।

श्रीधर-स्वामी …{Loading}…

॥5.15॥ यस्मादेवं तस्मात् नादत्त इति। प्रयोजकोऽपि सन्प्रभुः कस्यचित्पापं सुकृतं च नैवादत्ते न भजते। तत्र हेतुःविभुः परिपूर्णः। आप्तकाम इत्यर्थः। यदि हि स्वार्थकामनया कारयेत्तर्हि तथा स्यात् नत्वेतदस्ति। आप्तकामस्यैवाचिन्त्यनिजमायया तत्तत्पूर्वकर्मानुसारेण प्रवर्तकत्वात्। ननु भक्ताननुगृह्णतोऽभक्तान्निगृह्णतश्च वैषम्योपलम्भात्कथमाप्तकामत्वमित्यत आह अज्ञानेनेति। निग्रहोऽपि दण्डरूपोऽनुग्रह एवेत्येवमज्ञानेन सर्वत्र समः परमेश्वर इत्येवंभूतं ज्ञानमावृतम्। तेन हेतुना जन्तवो जीवा मुह्यन्ति। भगवति वैषम्यं मन्यन्त इत्यर्थः।

English …{Loading}…

आदिदेवानन्दः

5.15 The all-pervading One takes away neither the sin nor the merit of any one. Knowledge is enveloped by ignorance. Creatures are thery deluded.

गम्भीरानन्दः

5.15 The Omnipresent neither accepts anybody’s sin nor even virtue. Knowledge remains covered by ignorance. Thery the creatures become deluded.

पुरोहितस्वामी

5.15 The Lord does not accept responsibility for any man’s sin or merit. Men are deluded because in them wisdom is submerged in ignorance.

शङ्करनारायणः

5.15. The Omnimanifest (Soul) takes [upon Itself] neither sin nor merit [born] of any [action]. But, the perfect knowledge is clouded by Illusion and hence the creatures are deluded.

शिवानन्दः - अनुवादः

5.15 The Lord takes neither the demerit nor even the merit of any; knowledge is enveloped by ignorance, thery beings are deluded.

शिवानन्दः - टीका

5.15 न not; आदत्ते takes; कस्यचित् of anyone; पापम् demerit; न not; च and; एव even; सुकृतम् merit; विभुः the Lord; अज्ञानेन by ignorance; आवृतम् enveloped; ज्ञानम् knowledge; तेन by that; मुह्यन्ति are deluded; जन्तवः beings.Commentary Knowledge is enveloped by ignorance. Conseently man is deluded. He thinks; I act. I enjoy. I have done such and such a meritourious act. I will get such and such a fruit. I will enjoy in heaven. I will get a birth in a rich family.Of anyone even of His devotees.Man is bound when he is identifies himself with Nature and its effects – body; mind; Prana or the lifeforce; and senses. He attains freedom or Moksha when he identifies himself with the immortal; actionless Self that dwells within his heart.When I does not act how can God accept good or evil deeds (Cf.V.29)

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।5.15।। सर्वव्यापी परमात्मा न किसीके पापकर्मको और न शुभकर्मको ही ग्रहण करता है; किन्तु अज्ञानसे ज्ञान ढका हुआ है, उसीसे सब जीव मोहित हो रहे हैं।

रामसुखदासः - टीका

5.15।।**व्याख्या–‘नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः’–**पूर्वश्लोकमें जिसको ‘प्रभुः’ पदसे कहा गया है, उसी परमात्माको यहाँ ‘विभुः’ पदसे कहा गया है। कर्मफलका भागी होना दो प्रकारसे होता है–जो कर्म करता है, वह भी कर्मफलका भागी होता है और जो दूसरेसे कर्म करवाता है, वह भी कर्मफलका भागी होता है। परन्तु परमात्मा न तो किसीके कर्मको करनेवाला है और न कर्म करवानेवाला ही है; अतः वह किसीके भी कर्मका फलभागी नहीं हो सकता। सूर्य सम्पूर्ण जगत्को प्रकाश देता है और उस प्रकाशके अन्तर्गत मनुष्य पाप और पुण्य-कर्म करते हैं; परन्तु उन कर्मोंसे सूर्यका किञ्चिन्मात्र भी सम्बन्ध नहीं है। इसी प्रकार परमात्मतत्त्वसे प्रकृति सत्ता पाती है अर्थात् सम्पूर्ण संसार सत्ता पाता है। उसीकी सत्ता पाकर प्रकृति और उसका कार्य संसार-शरीरादि क्रियाएँ करते हैं। उन शरीरादिसे होनेवाले पाप-पुण्योंका परमात्मतत्त्वसे किञ्चिन्मात्र भी सम्बन्ध नहीं है। कारण कि भगवान्ने मनुष्यमात्रको स्वतन्त्रता दे रखी है; अतः मनुष्य उन कर्मोंका फलभागी अपनेको भी मान सकता है और भगवान्को भी मान सकता है अर्थात् सम्पूर्ण कर्मों और कर्मफलोंको भगवान्के अर्पण भी कर सकता है। जो भगवान्की दी हुई स्वतन्त्रताका दुरुपयोग करके कर्मोंका कर्ता और भोक्ता अपनेको मान लेता है, वह बन्धनमें प़ड़ जाता है। उसके कर्म और कर्मफलको भगवान् ग्रहण नहीं करते। परन्तु जो मनुष्य उस स्वतन्त्रताका सदुपयोग करके कर्म और कर्मफल भगवान्के अर्पण करता है, वह मुक्त हो जाता है। उसके कर्म और कर्मफलको भगवान् ग्रहण करते हैं।

जैसे सातवें अध्यायके पचीसवें श्लोकमें ‘सर्वस्य’ पदसे और छब्बीसवें श्लोकमें ‘कश्चन’ पदसे सामान्य मनुष्योंकी बात कही गयी है, ऐसे ही यहाँ ‘कस्यचित्’ पदसे अपनेको कर्ता और भोक्ता मानकर कर्म करनेवाले सामान्य मनुष्योंकी बात कही गयी है, न कि भक्तोंकी। कारण कि भावग्राही होनेसे भगवान् भक्तोंके द्वारा अर्पण किये हुए पत्र, पुष्प आदि पदार्थोंको और सम्पूर्ण कर्मोंको ग्रहण करते हैं (गीता 9। 26 27)।

‘अज्ञानेनावृतं ज्ञानम्’–स्वरूपका ज्ञान सभी मनुष्योंमें स्वतः सिद्ध है; किन्तु अज्ञानके द्वारा यह ज्ञान ढका हुआ है। उस अज्ञानके कारण जीव मूढ़ताको प्राप्त हो रहे हैं। अपनेको कर्मोंका कर्ता मानना मूढ़ता है (गीता 3। 27)। भगवान्के द्वारा मनुष्यमात्रको विवेक दिया हुआ है, जिसके द्वारा इस मूढ़ताका नाश किया जासकता है। इसलिये इस अध्यायके आठवें श्लोकमें कहा गया है कि साङ्ख्ययोगी कभी भी अपनेको किसी कर्मका कर्ता न माने और तेरहवें श्लोकमें कहा गया है कि सम्पूर्ण कर्मोंके कर्तापनको विवेकपूर्वक मनसे छोड़ दे। शरीरादि सम्पूर्ण पदार्थोंमें निरन्तर परिवर्तन हो रहा है। स्वरूपमें कभी कोई परिवर्तन नहीं होता। स्वरूपसे अपरिवर्तनशील होनेपर भी अपनेको परिवर्तनशील पदार्थोंसे एक मान लेना अज्ञान है। शरीरादि सब पदार्थ बदल रहे हैं–ऐसा जिसे अनुभव है वह स्वयं कभी नहीं बदलता। इसलिये स्वयंके बदलनेका अनुभव किसीको नहीं होता। अतः मैं बदलनेवाला नहीं हूँ–इस प्रकार परिवर्तनशील पदार्थोंसे अपनी असङ्गताका अनुभव कर लेनेसे अज्ञान मिट जाता है और तत्त्वज्ञान स्वतः प्रकाशित हो जाता है। कारण कि प्रकृतिके कार्यसे अपना सम्बन्ध मानते रहनेसे ही तत्त्वज्ञान ढका रहता है।‘अज्ञान’ शब्दमें जो **‘नञ्’**समास है, वह ज्ञानके अभावका वाचक नहीं है, प्रत्युत अल्पज्ञान अर्थात् अधूरे ज्ञानका वाचक है। कारण कि ज्ञानका अभाव कभी होता ही नहीं, चाहे उसका अनुभव हो या न हो। इसलिये अधूरे ज्ञानको ही अज्ञान कहा जाता है। इन्द्रियोंका और बुद्धिका ज्ञान ही अधूरा ज्ञान है। इस अधूरे ज्ञानको महत्त्व देनेसे, इसके प्रभावसे प्रभावित होनेसे वास्तविक ज्ञानकी ओर दृष्टि जाती ही नहीं–यही अज्ञानके द्वारा ज्ञानका आवृत होना है। इन्द्रियोंका ज्ञान सीमित है। इन्द्रियोंके ज्ञानकी अपेक्षा बुद्धिका ज्ञान असीम है। परन्तु बुद्धिका ज्ञान मन और इन्द्रियोंके ज्ञान-(जानने और न जानने-) को ही प्रकाशित करता है अर्थात् बुद्धि अपने विषय-पदार्थोंको ही प्रकाशित करती है। बुद्धि जिस प्रकृतिका कार्य है और जिस बुद्धिका कारण प्रकृति है, उस प्रकृतिको बुद्धि प्रकाशित नहीं करती। बुद्धि जब प्रकृतिको भी प्रकाशित नही कर सकती, तब प्रकृतिसे अतीत जो चेतन-तत्त्व है, उसे कैसे प्रकाशित कर सकती है! इसलिये बुद्धिका ज्ञान अधूरा ज्ञान है।

‘तेन मुह्यन्ति जन्तवः’–भगवान्ने ‘जन्तवः’ पद देकर मानो मनुष्योंकी ताड़ना की है कि जो मनुष्य अपने विवेकको महत्त्व नहीं देते, वे वास्तवमें जन्तु अर्थात् पशु ही हैं,(टिप्पणी प₀ 303) क्योंकि उनके और पशुओंके ज्ञानमें कोई अन्तर नहीं है। आकृतिमात्रसे कोई मनुष्य नहीं होता। मनुष्य वही है, जो अपने विवेकको महत्त्व देता है। इन्द्रियोंके द्वारा भोग तो पशु भी भोगते हैं; पर उन भोगोंको भोगना मनुष्य-जीवनका लक्ष्य नहीं है। मनुष्य-जीवनका लक्ष्य सुख-दुःखसे रहित तत्त्वको प्राप्त करना है। जिनको अपने कर्तव्य और अकर्तव्यका ठीक-ठीक ज्ञान है, वे मनुष्य साधक कहलानेयोग्य हैं। अपनेको कर्मोंका कर्ता मान लेना तथा कर्मफलमें हेतु बनकर सुखी-दुःखी होना ही अज्ञानसे मोहित होना है। पापपुण्य हमें करने पड़ते हैं इनसे हम कैसे छूट सकते हैं सुखीदुःखी होना हमारे कर्मोंका फल है, इनसे हम अतीत कैसे हो सकते हैं;–इस प्रकारकी धारणा बना लेना ही अज्ञानसे मोहित होना है। जीव स्वरूपसे अकर्ता तथा सुख-दुःखसे रहित है। केवल अपनी मूर्खताके कारण वह कर्ता बन जाता है और कर्मफलके साथ सम्बन्ध जोड़कर सुखीदुःखी होता है। इस मूढ़ता(अज्ञान) को ही यहाँ ‘तेन’ पदसे कहा गया है। इस मूढ़तासे अज्ञानी मनुष्य सुखी-दुःखी हो रहे हैं, इस बातको यहाँ ‘तेन मुह्यन्ति जन्तवः’ पदोंसे कहा गया है।

***सम्बन्ध–***पूर्वश्लोकमें भगवान्ने बताया है कि अज्ञानके द्वारा ज्ञान ढका जानेके कारण सब जीव मोहित हो रहे हैं। अपने विवेकके द्वारा उस अज्ञानका नाश कर देनेपर जिस ज्ञानका उदय होता है, उसकी महिमा आगेके श्लोकमें कहते हैं।

चिन्मयानन्दः

।।5.15।। विभु अर्थात् सर्वव्यापी परमात्मा न किसी के पापकर्म को ग्रहण करता है और न पुण्य कर्म को। यह कथन पुराणों में वर्णित देवताओं की कल्पना से भिन्न है क्योंकि वहाँ देवताओं को जीवों के पाप और पुण्य कर्मों का लेखाजोखा रखने वालों के रूप में वर्णन किया गया है। कथा प्रेमी भक्त लोगों को वेदान्त सिद्धांत उनके प्रेम को आघात पहुँचाने वाला प्रतीत होता है और इसलिये वे गीता के स्थान पर श्रीकृष्ण की लीलाओं का अध्ययन कर भाव विभोर होना अधिक पसन्द करते हैं। ईश्वर के विषय में यह धारणा है कि मेघों के ऊपर कहीं आकाश में बैठा विश्व भर के प्राणियों के शुभअशुभ कर्मों का निरीक्षण करते हुए उनका ख्याल रखता है जिससे प्र्ालय के पश्चात् न्याय के दिन जब समस्त जीव उसके पास पहुँचें तो वह उनका कर्मानुसार न्याय कर सके। यह रोचक धारणा केवल सामान्य जनों की ही हो सकती है जिनकी बुद्धि अधिक विकसित नहीं है। समस्त विश्व के अधिष्ठानस्वरूप परमात्मा को जीवन के कर्मों से कोई प्रयोजन हो या परिच्छिन्न वस्तुओं में उसकी कोई विशेष रुचि हो ऐसा हम नहीं मान सकते। परमार्थ की दृष्टि से तो परिच्छिन्न जगत् का आत्यन्तिक अभाव है। केवल आत्म विस्मृति के कारण ही उपाधियों में व्यक्त हुआ वह आत्मा कर्तृत्व कर्म फलभोग आदि से जुड़ा हुआ प्रतीत होता है। समतल काँच के माध्यम से निर्गत सूर्यप्रकाश में कोई विकार नहीं होता परन्तु यदि वही प्रकाश एक प्रिज्म (आयत) में से निकले तो सात रंगों में विभाजित हो जाता है। इसी प्रकार एकमेव अद्वितीय सर्वव्यापी परिपूर्ण परमात्मा शरीर मन और बुद्धि इन आविद्यक उपाधियों में व्यक्त होकर नानारूप जगदाभास के रूप में प्रतीत होता है। यहाँ ज्ञान और अज्ञान के सम्बन्ध का सुन्दर वर्णन किया गया है। अज्ञान ज्ञान नहीं हो सकता और न ज्ञान अज्ञान का एक अंश। परस्पर विरोधी स्वभाव के कारण इन दोनों का सह अस्तित्व सम्भव नहीं हो सकता हैं। परन्तु यहाँ कहा गया है कि अज्ञान के द्वारा ज्ञान आवृत हुआ है यह ऐसे ही है जैसे किसी जंगल में सर्वत्र व्याप्त अंधकार में दूर कहीं प्रकाश की किरण को देखकर कहा जा सकता है कि वह प्रकाश अंधकार से आवृत है। अगले श्लोक में अज्ञान आवरण को दूर करने के उपाय तथा उसकी निवृत्ति के फल को विस्तार से बताया गया है। सत्य के अनावरण की प्रक्रिया में अज्ञान की निवृत्ति मात्र अपेक्षित है न कि ज्ञान की उत्पत्ति। इसलिए सत्य की प्राप्ति वास्तव में सिद्ध वस्तु की ही प्राप्ति है और कोई नवीन उपलब्धि नहीं। इसी बात को स्पष्ट करते हुए कहते हैं

तेजोमयानन्दः - अनुवादः

।।5.15।। विभु परमात्मा न किसी के पापकर्म को और न पुण्यकर्म को ही ग्रहण करता है; (किन्तु) अज्ञान से ज्ञान ढका हुआ है, इससे सब जीव मोहित होते हैं।।


  1. ननु तर्हि कथं वक्ष्यति ‘तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः’(भ.गी. ९-२६) इति? उच्यते— व्यवहारदृष्ट्या मुमुक्षोः सत्त्वशुद्ध्यर्थं साधनोपदेशपरत्वात् तस्य। इह तु परमार्थदृष्टिर्विवक्षिता। अत एव भाष्यम्—परमार्थतस्तु इति। ↩︎