विश्वास-प्रस्तुतिः …{Loading}…
+++(अर्जुन उवाच)+++
संन्यासं कर्मणां कृष्ण
पुनर् योगं च शंससि।
यच् छ्रेय एतयोर् एकं
तन्मे ब्रूहि सुनिश्चितम्॥5.1॥
मूलम् …{Loading}…
अर्जुन उवाच
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥5.1॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
चतुर्थे ऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदो ज्ञानांशस्य च प्राधान्यम् उक्तम्; ज्ञानयोगाधिकारिणो ऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वाद् अप्रमादत्वात् सुकरत्वान् निरपेक्षत्वाच् च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश् शैघ्र्यं कर्मयोगान्तर्गताकर्ट्र्त्वानुसन्धानप्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यते ॥
॥5.1॥ अर्जुन उवाच कर्मणां सन्यासं ज्ञानयोगं पुनः कर्मयोगं च शंससि। एतद् उक्तं भवति द्वितीये अध्यायेमुमुक्षोः प्रथमं कर्मयोग एव कार्यः कर्मयोगेन मृदितान्तःकरणकषायस्य ज्ञानयोगेन आत्मदर्शनं कार्यम् इति प्रतिपाद्य पुनस् तृतीयचतुर्थयोःज्ञानयोगाधिकारदशाम् आपन्नस्य अपि कर्मनिष्ठा एव ज्यायसी सा एव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्त्येकसाधनम् इति कर्मनिष्ठां प्रशंससि इति। तत्र एतयोः ज्ञानयोगकर्मयोगयोर् आत्मप्राप्तिसाधनभावे यद् एकं सौकर्यात् शैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितं तन् मे ब्रूहि।
वेदान्तदेशिकः
॥5.1॥ अथ पञ्चमस्यांशतस्तृतीयचतुर्थाभ्यां सङ्गतिप्रदर्शनायोक्तानुक्तांशविवेकेन पञ्चमस्यानुक्तांशे तात्पर्यप्रदर्शनाय चाह चतुर्थेऽध्याय इति। कर्मयोगस्य ज्ञानाकारतेत्यादिकं चतुर्थाध्यायप्रधानार्थोऽयमिति द्योतनार्थं सङ्गतिप्रदेशप्रदर्शनार्थं च। तृतीय एवेति कर्तव्यतोपदेशलक्षण एवेत्यर्थः। पञ्चमार्थमाह इदानीमिति। अत्रैवं सङ्ग्रहश्लोकः कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः। ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते गी.सं.9 इति। अत्रसौकर्यं शैघ्र्यम् इति सङ्गृहीतत्वेऽपि भाष्ये शैघ्र्यमात्रवचनं सौकर्यस्य तृतीयाध्यायोक्तस्यैवानुवादः पञ्चमे शैघ्र्यौपयिकतया क्रियत इति ज्ञापनार्थं शैघ्र्यं तु तत्रानुक्तत्वादत्र साक्षात्प्रतिपाद्यम्। काश्चन तद्विधाःब्रह्मज्ञानप्रकारश्च इत्युभयोर्व्याख्यानरूपेणकर्मयोगेत्यादिना तृतीयचतुर्थाभ्यामंशतः सङ्गतिरुक्ता भवति। ज्ञाननिष्ठाया इति पञ्चमी। तत्रप्रकारशब्देनविशोध्यत इति वचनाच्चानुक्तांशतात्पर्येणापौनरुक्त्यं दर्शितम्। तन्मूलं ज्ञानमिति विपाकदशापन्नज्ञानं विवक्षितम्।
अथतद्विद्धि प्रणिपातेन 4।34 इत्येतदनुसन्दधानोऽनुक्तमपेक्षितमंशं सञ्चिज्ञासुरुक्तमेवार्थं परिपृच्छन्नर्जुन उवाचसन्न्यासम् इति। सन्न्यासयोगशब्दावत्र प्रकृतवक्ष्यमाणसाङ्ख्ययोगविषयतया नाथान्तरपरावित्यभिप्रायेणाह कर्मणां सन्न्यासं ज्ञानयोगमिति। कर्मणामित्येतदुभयान्वितम्। ननु कर्मयोगस्य त्याज्यत्वं क्वचिदपि नोक्तम् प्रत्युत तदेवोपादेयतया प्रपञ्चितं न च ज्ञानयोगस्य प्रशंसा क्वापि कृता येनसन्न्यासं৷৷.योगं च शंससि इत्युच्यते उभयोः प्रशंसने कृतेऽपि विकल्प इत्येव मन्तव्यं न पुनरन्यतराधिक्यप्रश्नावकाश इत्यत्राह एतदुक्तमिति। प्रतिपाद्येत्यन्तेनसन्न्यासं कर्मणाम् इत्यस्याभिप्रायो विवृतः। कषायनिवृत्त्यर्थः कर्मयोगः तन्निवृत्तौ कर्मयोगं परित्यज्य ज्ञानयोग उपादेयः अतो ज्ञानयोग एवात्मदर्शने साक्षात्साधनमिति द्वितीये प्रतिपादितमिति भावः। पूर्वं सन्न्यस्तस्य पुनर्योगं शंससीति भ्रमव्युदासायशंससि इत्यनेन पुनःशब्दान्वयमाह तृतीयचतुर्थयोरिति। द्वितीये इत्येतत्तृतीयचतुर्थयोः इत्येतच्च भाष्यकारैः स्वानुसन्धानेनोक्तं न पुनरर्जुनवाक्यानुकारः। अत्र मृदितकषायस्य कर्मयोगस्त्याज्यश्चेत्कथमुपादेयः ज्ञानयोगस्य दर्शनसाधनत्वे कथमव्यवधानेन तत्सम्भव इति भावः। कर्म ज्यायो ह्यकर्मणः 3।8 इति ज्यायस्त्वेन शंसनमित्यभिप्रायेणाहप्रशंससीति। तत्रेति द्वयोरप्यव्यवहितसाधनत्वे विवक्षिते इत्यर्थः। एतयोरित्यत्र निर्धारितान्यतरविषय एकशब्दः। तत्र सामान्याकारविवक्षया नपुंसकत्वं श्रेयश्शब्दविशेषणतया वा। सौकर्याच्छैघ्र्याच्चेति फलस्यैकत्वात्तन्निबन्धनं श्रैष्ठ्यमिहायुक्तमिति भावः। श्रेयः सुनिश्चितमित्यन्वयः। श्रेयस्त्वेन सुनिश्चितमित्यर्थः। क्रियाविशेषणत्वं तु निरर्थकमित्यभिप्रायेणाहश्रेष्ठमिति। सुनिश्चितमिति श्रेयश्शब्दस्य फलादिष्वपि प्रयोगप्राचुर्यात्तद्व्युदासाय तारतम्यप्रश्नानुगुण्येन प्रकृतिप्रत्ययार्थव्यञ्जनाय श्रेष्ठशब्देन व्याख्यातम्। अत्रैकफलसाधनत्वाद्विकल्पे प्राप्ते सौकर्यादिगुणयोगाच्छ्रेयस्त्वोक्तिः।
आदिदेवानन्दः
5.1 Arjuna said ‘You praise the renunciation of actions, i.e., Jnana Yoga at one time, and next Karma Yoga’. This is what is objected to: In the second chapter, you have said that Karma Yoga alone should be practised first by an aspirant for release; and that the vision of the self should be achieved by means of Jnana Yoga by one whose mind has its blemishes washed away by Karma Yoga. Again, in the third and fourth chapters, you have praised Karma Yoga or devotion to Karma as better than Jnana Yoga even for one who has attained the stage of Jnana Yoga, and that, as a means of attaining the self, it (Karma Yoga) is independent of Jnana Yoga. Therefore, of these two, Jnana Yoga and Karma Yoga - tell me precisely which by itself is superior, i.e., most excellent, being more easy to practise, and icker to confer the vision of the self.
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥5.1॥ संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशेषाणां शंससि प्रशंससि कथयसि इत्येतत्। पुनः योगं च तेषामेव अनुष्ठानम् अवश्यकर्तव्यंत्वं शंससि। अतः मे कतरत् श्रेयः इति संशयः किं कर्मानुष्ठानं श्रेयः किं वा तद्धानम् इति। प्रशस्यतरं च अनुष्ठेयम्। अतश्च यत् श्रेयः प्रशस्यतरम् एतयोः कर्मसंन्यासकर्मयोगयोः यदनुष्ठानात् श्रेयोऽवाप्तिः मम स्यादिति मन्यसे तत् एकम् अन्यतरत् सह एकपुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति॥ स्वाभिप्रायम् आचक्षाणो निर्णयाय श्रीभगवानुवाच
गम्भीरानन्दः
5.1 (O Krsna,) samsasi, You praise, i.e. speak of; sannyasam, renunciation; karmanam, of actions, of performance of various kinds of rites enjoined by the scriptures; punah ca, and again; You praise yogam, yoga, the obligatory performance of those very rites! Therefore I have a doubt as to which is better-Is the performance of actions better, or their rejection; And that which is better should be undertaken. And hence, bruhi, tell; mam, me; suniscitam, for certain, as the one intended by You; tat ekam, that one-one of the two, since performance of the two together by the same person is impossible; yat, which; is sreyah, better, more commendable; etayoh, between these two, between the renunciation of actions and the performance of actions [Ast. reads karma-yoga-anusthana (performance of Karma-yoga) in place of karma-anusthana (performance of actions).-Tr.], by undertaking which you think I shall acire what is beneficial. While stating His own opinion in order to arrive at a conclusion-
हरिकृष्णदासः
॥5.1॥ केवल संन्यास करनेमात्रसे ही सिद्धिको प्राप्त नहीं होता है इस वचनसे ज्ञानसहित संन्यासको ही सिद्धिका साधन माना है साथ ही कर्मयोगका भी विधान किया है इसलिये ज्ञानरहित संन्यास कल्याणकर हैअथवा कर्मयोग इन दोनोंकी विशेषता जाननेकी इच्छासे अर्जुन बोला आप पहले तो शास्त्रोक्त बहुत प्रकारके अनुष्ठानरूप कर्मोंका त्याग करनेके लिये कहते हैं अर्थात् उपदेश करते हैं और फिर उनके अनुष्ठानकी अवश्यकर्तव्यतारूप योगको भी बतलाते हैं। इसलिये मुझे यह शङ्का होती है कि इनमेंसे कौनसा श्रेयस्कर है। कर्मोंका अनुष्ठान करना कल्याणकर है अथवा उनका त्याग करना जो श्रेष्ठतर हो उसीका अनुष्ठान करना चाहिये इसलिये इन कर्मसंन्यास और कर्मयोगमें जो श्रेष्ठ हो अर्थात् जिसका अनुष्ठान करनेसे आप यह मानते हैं कि मुझे कल्याणकी प्राप्ति होगी उस भलीभाँति निश्चय किये हुए एक ही अभिप्रायको अलग करके कहिये क्योंकि एक पुरुषद्वारा एक साथ दोनोंका अनुष्ठान होना असम्भव है।
आनन्दगिरिः
॥5.1॥ पूर्वोत्तराध्याययोः संबन्धमभिदधानो वृत्तानुवादपूर्वकमर्जुनप्रश्नस्याभिप्रायं प्रदर्शयितुं प्रक्रमते कर्मणीत्यादिना। इत्यारभ्य कर्मण्यकर्मदर्शनमुक्त्वा तत्प्रशंसा प्रसारितेत्याह स युक्त इति। ज्ञानवन्तं सर्वाणि कर्माणि लोकसंग्रहार्थं कुर्वन्तं ज्ञानलंक्षणेनाग्निना दग्धसर्वकर्माणं कर्मप्रयुक्तबन्धविधुरं विवेकवन्तो वदन्तीति ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन्विविदिषोः साधनरूपमपि संन्यासं भगवान्विवक्षितवानित्याह ज्ञानाग्नीति। निराशीरित्यारभ्य शरीरस्थितिमात्रकारणं कर्म शरीरस्थितावपि सङ्गरहितः सन्नाचरन्धर्माधर्मफलभागी न भवतीत्यपि पूर्वोत्तराभ्यामध्यायाभ्यां द्विविधं संन्यासं सूचितवानित्याह शारीरमिति। यदृच्छेत्यादावपि संन्यासः सूचितस्तद्धर्मफलायोपदेशादित्याह यदृच्छेति। ज्ञानस्य यज्ञत्वसंपादनपूर्वकं प्रशंसावचनादपि कर्मसंन्यासो दर्शितो ज्ञाननिष्ठस्येत्याह ब्रह्मार्पणमिति। ज्ञानयज्ञस्तुत्यर्थं नानाविधान्यज्ञाननूद्य तेषां देहादिव्यापारजन्यत्ववचनेनात्मनो निर्व्यापारत्वविज्ञानफलाभिलाषादपि यथोक्तमात्मानं विविदिषोः सर्वकर्मसंन्यासेऽधिकारो ध्वनित इत्याह कर्मजानिति। समस्तस्यैवावशेषवर्जितस्य कर्मणो ज्ञाने पर्यवसानाभिधानाच्च जिज्ञासोः सर्वकर्मसंन्यासः सूचित इत्याह सर्वमिति। तद्विद्धीत्यादिना ज्ञानप्राप्त्युपायं प्रणिपातादि प्रदर्श्य प्राप्तेन ज्ञानेनातिशयमाहात्म्यवता सर्वकर्मणां निवृत्तिरेवेति वदता च ज्ञानार्थिनः संन्यासेऽधिकारो दर्शितो भगवतेत्याह ज्ञानाग्निरिति। ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात्कर्माणि संन्यस्य व्यवस्थितमप्रमत्तं वशीकृतकार्यकरणसंघातवन्तं प्रातिभासिकानि कर्माणि न निबध्नन्तीत्यपि द्विविधः संन्यासो भगवतोक्त इत्याह योगेति। कर्मणीत्यारभ्य योगसंन्यस्तकर्माणमित्यन्तैरुदाहृतैर्वचनैरुक्तं संन्यासमुपसंहरति इत्यन्तैरिति। तर्हि कर्मसंन्यासस्यैव जिज्ञासुना ज्ञानवता चादरणीयत्वात्कर्मानुष्ठानमनादेयमापन्नमित्याशङ्क्योक्तमर्थान्तरमनुवदति छित्त्वैनमिति। कर्मतत्त्यागयोरुक्तयोरेकेनैव पुरुषेणानुष्ठेयत्वसंभवान्न विरोधोऽस्तीत्याशङ्क्य युगपद्वा क्रमेण वानुष्ठानमिति विकल्प्याद्यं दूषयति उभयोश्चेति। द्वितीयं प्रत्याह कालभेदेनेति। उक्तयोर्द्वयोरेकेन पुरुषेणानुष्ठेयत्वासंभवे कथं कर्तव्यत्वसिद्धिरित्याशङ्क्याह अर्थादिति। द्वयोरुक्तयोरेकेन युगपत्क्रमाभ्यामनुष्ठानानुपपत्तेरित्यर्थः। अन्यतरस्य कर्तव्यत्वे कतरस्येति कुतो निर्णयो द्वयोः संनिधानाविशेषादित्याशङ्क्याह यत्प्रशस्यतरमिति। भगवता कर्मणां संन्यासो योगश्चोक्तो नच तयोः समुच्चित्यानुष्ठानं तेनान्यतरस्य श्रेष्ठस्यानुष्ठेयत्वे तद्बुभुत्सया प्रश्नोपपत्तिरित्युपसंहरति इत्येवमिति। नायं प्रष्टुरभिप्रायः कर्मसंन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेयत्वस्योक्तत्वादेकस्मिन्पुरुषे प्राप्त्यभावादिति शङ्कते नन्विति। चोद्यमङ्गीकृत्य परिहरति सत्यमेवेति। कीदृशस्तर्हि प्रष्टुरभिप्रायो येन प्रश्नप्रवृत्तिरिति पृच्छति कथमिति। एकस्मिन्पुरुषे कर्मतत्त्यागयोरस्ति प्राप्तिरिति प्रष्टुरभिप्रायं प्रतिनिर्देष्टुं प्रारभते पूर्वोदाहृतैरिति। यथास्वर्गकामो यजेत इति स्वर्गकामोद्देशेन यागो विधीयते नतु तस्यैवाधिकारो नान्यस्येत्यपि प्रतिपाद्यते वाक्यभेदप्रसङ्गात्तथानात्मवित्कर्ता संन्यासपक्षे प्राप्तोऽनूद्यते नचात्मवित्कर्तृकत्वमेव संन्यासस्य नियम्यते वैराग्यमात्रेणाज्ञस्यापि संन्यासविधिदर्शनात्। तस्मात्कर्मतत्त्यागयोरविद्वत्कर्तृकत्वमस्तीति मन्वानस्यार्जुनस्य प्रश्नः संभवतीति भावः। भवतु संन्यासस्य कर्तव्यत्वविवक्षा तथापि कथं प्रशस्यतरबुभुत्सया प्रश्नप्रवृत्तिरित्याशङ्क्याह प्राधान्यमिति। तथापि कथमेकस्मिन्पुरुषे तयोरप्राप्तावुक्ताभिप्रायेण प्रश्नवचनं प्रकल्प्यते तत्राह अनात्मविदपीति। आत्मविदो विद्यासामर्थ्यात्कर्मत्यागध्रौव्यवदितरस्यापि सति वैराग्ये तत्त्यागस्यावश्यकत्वात्तत्र कर्तासौ प्राप्तोऽत्रानूद्यते। तथाच कर्मतत्त्यागयोरेकस्मिन्नविदुषि प्राप्तेर्व्यक्तत्वादुक्ताभिप्रायेण प्रश्नप्रवृत्तिरविरुद्धेत्यर्थः। संन्यासस्यात्मवित्कर्तृकत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्य कर्त्रन्तरपर्युदासः संन्यासविधिश्चेत्यर्थभेदे वाक्यभेदप्रसङ्गान्मैवमित्याह इति न पुनरिति। इतिशब्दो वाक्यभेदप्रसङ्गहेतुद्योतनार्थः। ततः किमित्याशङ्क्य फलितमाह एवमिति। कर्मानुष्ठानकर्मसंन्यासयोरविद्वत्कर्तृकत्वमप्यस्तीत्येवं मन्वानस्यार्जुनस्य प्रशस्यतरविविदिषया प्रश्नो नानुपपन्न इति संबन्धः। तयोः समुच्चित्यानुष्ठानसंभवे कथं प्रशस्यतरविविदिषेत्याशङ्क्याह पूर्वोक्तेनेति। उभयोश्चेत्यादावुक्तप्रकारेण कर्मतत्त्यागयोर्मिथो विरोधान्न समुच्चित्यानुष्ठानं सावकाशमित्यर्थः। भवतु तर्हि यस्य कस्यचिदन्यतरस्यानुष्ठेयत्वमिति कुत उक्ताभिप्रायेण प्रश्नप्रवृत्तिरित्याशङ्क्याह अन्यतरस्येति। उभयप्राप्तौ समुच्चयानुपपत्तावन्यतरपरिग्रहे विशेषस्यान्वेष्यत्वादुक्ताभिप्रायेण प्रश्नोपपत्तिरित्यर्थः। इतश्चाविद्वत्कर्तृकयोः संन्यासकर्मयोगयोः कतरः श्रेयानिति प्रष्टुरभिप्रायो भातीत्याह प्रतिवचनेति। किं तत्प्रतिवचनं कथं वा तन्निरूपणमिति पृच्छति कथमिति। तत्र प्रतिवचनं दर्शयति संन्यासेति। तन्निरूपणं कथयति एतदिति। तदुभयमिति निःश्रेयसकरत्वं कर्मयोगस्य श्रेष्ठत्वं चेत्यर्थः। गुणदोषविभागविवेकार्थं पृच्छति किंचेति। अतोऽस्मिन्नाद्ये पक्षे किं दूषणमस्मिन्वा द्वितीये पक्षे किं फलमिति प्रश्नार्थः। तत्र सिद्धान्ती प्रथमपक्षे दोषमादर्शयति अत्रेत्यादिना। तदेवानुपपन्नत्वं व्यतिरेकद्वारा विवृणोति यदीत्यादिना। निःश्रेयसकरत्वोक्तिरित्यत्र पारम्पर्येणेति द्रष्टव्यम् विशिष्टत्वाभिधानमिति प्रतियोगिनोऽसहायत्वादस्य च शुद्धिद्वारा ज्ञानार्थत्वादित्यर्थः। आत्मज्ञस्य कर्मसंन्यासकर्मयोगयोरसंभवे दर्शिते चोदयति अत्राहेति। चोदयिता निर्धारणार्थं विमृशति किमित्यादिना। अन्यतरासंभवेऽपि संदेहात्प्रश्नोऽवतरतीत्याह यदा चेति। यस्य कस्यचिदन्यतरस्यासंभवो भविष्यतीत्याशङ्क्य कारणमन्तरेणासंभवो भवन्नतिप्रसङ्गः स्यादिति मन्वानः सन्नाह असंभव इति। आत्मविदः सकारणं कर्मयोगासंभवं सिद्धान्ती दर्शयति अत्रेति। संग्रहवाक्यं विवृण्वन्नात्मवित्त्वं विवृणोति जन्मादीति। तस्य यदुक्तं निवृत्तमिथ्याज्ञानत्वं तदिदानीं व्यनक्ति सम्यगिति। विपर्ययज्ञानमूलस्येत्यादिनोक्तं प्रपञ्चयति निष्क्रियेति। यथोक्तसंन्यासमुक्त्वा ततो विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इति संबन्धः। वैपरीत्यं स्फोरयन्कर्मयोगमेव विशिनष्टि मिथ्याज्ञानेति। मिथ्या च तदज्ञानं चेत्यनाद्यनिर्वाच्यमज्ञानं तन्मूलोऽहं कर्तेत्यात्मनि कर्तृत्वाभिमानस्तज्जन्यस्तस्येति यावत्। यथोक्तं संन्यासमुक्त्वा यथोक्तकर्मयोगस्यासंभवप्रतिपादने हेतुमाह सम्यग्ज्ञानेति। कुत्र तदभावप्रतिपादनं तदाह इहेति। उक्तं हेतुं कृत्वात्मज्ञस्य कर्मयोगसंभवे फलितमाह यस्मादिति। इह शास्त्रे तत्र तत्रेत्यादावुक्तमेव व्यक्तीकर्तुं पृच्छति केषु केष्विति। तानेव प्रदेशान्दर्शयति अत्रेति। आत्मस्वरूपनिरूपणप्रदेशेषु संन्यासप्रतिपादनादात्मविदः संन्यासो विवक्षितश्चेत्तर्हि कर्मयोगोऽपि तस्य कस्मान्न भवति प्रकरणाविशेषादिति शङ्कते ननु चेति। आत्मविद्याप्रकरणे कर्मयोगप्रतिपादनमुदाहरति तद्यथेति। प्रकरणादात्मविदोऽपि कर्मयोगस्य संभवे फलितमाह अतश्चेति। आत्मज्ञानोपायत्वेनापि प्रकरणपाठसिद्धौ ज्ञानादूर्ध्वं न्यायविरुद्धं कर्म कल्पयितुमशक्यमिति परिहरति अत्रोच्यत इति। सम्यग्ज्ञानमिथ्याज्ञानयोस्तत्कार्ययोश्च भ्रमनिवृत्तिभ्रमसद्भावयोर्मिथो विरोधात्कर्तृत्वादिभ्रममूलं कर्म सम्यग्ज्ञानादूर्ध्वं न संभवतीत्यर्थः। आत्मज्ञस्य कर्मयोगासंभवे हेत्वन्तरमाह ज्ञानयोगेनेति। इतश्चात्मविदो ज्ञानादूर्ध्वं कर्मयोगो न युक्तिमानित्याह कृतकृत्यत्वेनेति। ज्ञानवतो नास्ति कर्मेत्यत्र कारणान्तरमाह तस्येति। तर्हि ज्ञानवता कर्मयोगस्य हेयत्ववज्जिज्ञासुनापि तस्य त्याज्यत्वं ज्ञानप्राप्त्या तस्यापि पुरुषार्थसिद्धेरित्याशङ्क्य जिज्ञासोरस्ति कर्मयोगापेक्षेत्याह न कर्मणामिति। स्वरूपोपकार्यङ्गमन्तरेणाङ्गिस्वरूपानिष्पत्तेर्ज्ञानार्थिना कर्मयोगस्य शुद्ध्यादिद्वारा ज्ञानहेतोरादेयत्वमित्यर्थः। तर्हि ज्ञानवतामपि ज्ञानफलोपकारित्वेन कर्मयोगो मृग्यतामित्याशङ्क्याह योगारूढस्येति। उत्पन्नसम्यग्ज्ञानस्य कर्माभावे शरीरस्थितिहेतोरपि कर्मणोऽसंभवान्न तस्य शरीरस्थितिस्तदस्थितौ च कुतो जीवन्मुक्तिस्तदभावे च कस्योपदेष्ट्टत्वमुपदेशाभावे च कुतो ज्ञानोदयः स्यादित्याशङ्क्याह शारीरमिति। विदुषोऽपि शरीरस्थितिरास्थिता चेत्तन्मात्रप्रयुक्तेषु दर्शनश्रवणादिषु कर्तृत्वाभिमानोऽपि स्यादित्याशङ्क्याह नैवेति। तत्त्वविदित्यनेन च समाहितचेतस्तया करोमीति प्रत्ययस्य सदैवाकर्तव्यत्वोपदेशादिति संबन्धः। यत्तु विदुषः शरीरस्थितिनिमित्तकर्माभ्यनुज्ञाने तस्मिन्कर्तृत्वाभिमानोऽपि स्यादिति तत्राह शरीरेति। आत्मयाथात्म्यविदस्तेष्वपि नाहं करोमीति प्रत्ययस्य नैव किंचित्करोमीत्यादावकर्तृत्वोपदेशान्न कर्तृत्वाभिमानसंभावनेत्यर्थः। यथोक्तोपदेशानुसंधानाभावे विदुषोऽपि करोमीति स्वाभाविकप्रत्ययद्वारा कर्मयोगः स्यादित्याशङ्क्याह आत्मतत्त्वेति। यद्यपि विद्वान्यथोक्तमुपदेशं कदाचिन्नानुसंधत्ते तथापि तत्त्वविद्याविरोधान्मिथ्याज्ञानं तन्निमित्तं कर्म वा तस्य संभावयितुमशक्यमित्यर्थः। आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरयोगात्तयोर्निःश्रेयसकरत्वमन्यतरस्य विशिष्टत्वमित्येतदयुक्तमिति सिद्धत्वाद्द्वितीयं पक्षमङ्गीकरोति यस्मादित्यादिना। तदीयाच्च कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वाभिधानमिति संबन्धः। ननु कर्मयोगेन शुद्धबुद्धेः संन्यासो जायमानस्तस्मादुत्कृष्यते कथं तस्मात्कर्मयोगस्योत्कृष्टत्ववाचोयुक्तिर्युक्तेति तत्राह पूर्वोक्तेति। वैलक्षण्यमेव स्पष्टयति सत्येवेति।
स्वाश्रमविहितश्रवणादौ कर्तृत्वविज्ञाने सत्येव पूर्वाश्रमोपात्तकर्मैकदेशविषयसंन्यासात्कर्मयोगस्य श्रेयस्त्ववचनंनैतादृशं ब्राह्मणस्यास्ति वित्तम् इत्यादिस्मृतिविरुद्धमित्याशङ्क्याह **यमनियमादीति।**आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम्। प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश॥ दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ। व्रतोपवासौ मौनं च स्नानं च नियमा दश॥ इत्युक्तैर्यमनियमैरन्यैश्चाश्रमधर्मैर्विशिष्टत्वेनानुष्ठातुमशक्यत्वादुक्तसंन्यासात्कर्मयोगस्य विशिष्टत्वोक्तिर्युक्तेत्यर्थः। नहि कश्चिदिति न्यायेन कर्मयोगस्येतरापेक्षया सुकरत्वाच्च तस्य विशिष्टत्ववचनं श्लिष्टमित्याह सुकरत्वेन चेति। प्रतिवचनवाक्यार्थालोचनात्सिद्धमर्थमुपसंहरति इत्येवमिति। संन्यासकर्मयोगयोर्मिथोविरुद्धयोः समुच्चित्यानुष्ठातुमशक्ययोरन्यतरस्य कर्तव्यत्वे प्रशस्यतरस्य तद्भावात्तद्भावस्य चानिर्धारितत्वात्तन्निर्दिधारयिषया प्रश्नः स्यादिति प्रश्नवाक्यार्थपर्यालोचनया प्रष्टुरभिप्रायो यथा पूर्वमुपदिष्टस्तथा प्रतिवचनार्थनिरूपणेनापि तस्य निश्चितत्वात्प्रश्नोपपत्तिः सिद्धेत्यर्थः। ननु तृतीये यथोक्तप्रश्नस्य भगवता निर्णीतत्वान्नात्र प्रश्नप्रतिवचनयोः सावकाशत्वमित्याशङ्क्य विस्तरेणोक्तमेव संबन्धं पुनः संक्षेपतो दर्शयति ज्यायसी चेदिति। साङ्ख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वान्न पुनः प्रश्नयोग्यत्वमित्यर्थः। इतोऽपि न तयोः प्रश्नविषयत्वमित्याह नचेति। एवकारविशेषणाज्ज्ञानसहितसंन्यासस्य सिद्धसाधनत्वं भगवतोऽभिमतंछित्त्वैनं संशयं योगमातिष्ठ इति च कर्मयोगस्य विधानात्तस्यापि सिद्धसाधनत्वमिष्टं ततश्च निर्णीतत्वान्न प्रश्नस्तद्विषयः सिध्यतीत्यर्थः। केनाभिप्रायेण तर्हि प्रश्नः स्यादित्याशङ्क्य ज्ञानरहितसंन्यासात्कर्मयोगस्य प्रशस्यतरत्वबुभुत्सयेत्याह ज्ञानरहित इति। प्रष्टुरभिप्रायमेवं प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति संन्यासमिति। तर्हि द्वयं त्वयानुष्ठेयमित्याशङ्क्य तदशक्तेरुक्तत्वात्प्रशस्यतरस्यानुष्ठानार्थं तदिदमिति निश्चित्य वक्तव्यमित्याह यच्छ्रेय इति। काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते न सर्वेषामित्याशङ्क्य कर्मण्यकर्मेत्यादौ विशेषदर्शनान्मैवमित्याह शास्त्रीयाणामिति। अस्तु तर्हि शास्त्रीयाशास्त्रीययोरशेषयोरपि कर्मणोस्त्यागो नेत्याह पुनरिति। तर्हि कर्मत्यागस्तद्योगश्चेत्युभयमाहर्तव्यमित्याशङ्क्य विरोधान्मैवमित्यभिप्रेत्याह अत इति। द्वयोरेकेनानुष्ठानायोगस्योक्तत्वात्कर्तव्यत्वोक्तेश्च संशयो जायते तमेव संशयं विशदयति किं कर्मेति। प्रशस्यतरबुभुत्सा किमर्थेत्याशङ्क्याह प्रशस्यतरं चेति। तस्यैवानुष्ठेयत्वे प्रश्नस्य सावकाशत्वमाह अतश्चेति। तदेव प्रशस्यतरं विशिनष्टि यदनुष्ठानादिति। तदेकमन्यतरन्मे ब्रूहीति संबन्धः। उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते तत्राह सहेति। कर्मतत्त्यागयोर्मिथो विरोधादित्यर्थः।
नीलकण्ठः
॥5.1॥ तृतीयेऽध्यायेलोकेऽस्मिन्द्विविधा निष्ठा इति विभिन्नाधिकारिकं निष्ठाद्वयं प्रस्तुत्यन कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते इत्यादिना कर्मनिष्ठाया ज्ञाननिष्ठाङ्गत्वेन भूयसा निर्बन्धेनानुष्ठेयत्वमुक्तङ्कर्मण्येवाधिकारस्ते इत्यादिना। चतुर्थे तूत्पन्नसम्यग्दर्शनैः कृतमपि कर्माकृतमेव भवति ज्ञानेन कर्तृत्वादिबाधात्। अतस्तैर्वृथाचेष्टावत्कर्म वा कर्तव्यं संन्यासो वा कर्तव्य इत्यनास्थया प्रोक्तम्। अथेदानीं पञ्चमषष्ठयोरज्ञानिना ज्ञानार्थिना वैराग्योत्पत्तेः प्राक्कर्मैवानुष्ठेयम्। संपन्ने तु वैराग्ये दृष्टविक्षेपनिवृत्त्यर्थं कर्मसंन्यासं कृत्वा ज्ञानोत्पत्त्यर्थं योगोऽनुष्ठेय इत्युच्यते। तत्र चतुर्थेत्यक्तसर्वपरिग्रहः इति संन्यासोयोगमातिष्ठ इति कर्मयोगश्चैकं मां प्रति विहितः। न चैतयोः स्थितिगतिवद्युगपदेकेन मयानुष्ठानं कर्तुं शक्यते परस्परविरुद्धत्वादिति मन्वानोऽर्जुन उवाच संन्यासमिति। हे कृष्ण पापकर्षण मे मह्यं ज्ञानार्थिने संन्यासं कर्मयोगं चेति द्वयं परस्परविरुद्धं कथं शंससि कथयसि। पुनरित्यनेन प्रागपि त्वया वेदकर्त्रा इदं द्वयं विहितमस्तीति गम्यते। तथाच श्रुतिस्मृति भवतःएतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिसंसारमेवं निःसारं दृष्ट्वा सारदिदृक्षया। प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमास्थिताः। इति च। तथातमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इतिमहायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः इति च। ब्राह्मी ब्रह्मदर्शनयोग्या। अत एतयोः श्रुतिविहितत्वेन प्रशस्यतयोर्मध्ये एकं श्रेयः प्रशस्तरं यत्तन्मे सुनिश्चितं ब्रूहीति प्रश्नः।
धनपतिः
॥5.1॥ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्। यदृच्छालाभसंतुष्टः इत्यादिना सर्वकर्मसन्यासंछित्त्वैनं संशयं योगमातिष्ठोतिष्ठ भारत इति कर्मयोगं च श्रुत्वोभयोश्च स्थितिगतिवत्परस्परविरोधादेकेन सह कर्तुमशक्यत्वात् कालभेदेन विधानाभावादर्थात्तयोरन्यतरस्य कर्तव्यताप्राप्तौ सत्यामज्ञस्याशुद्धचेतस एतयोः संन्यासकर्मयोग्योः किं श्रेयस्करमिति बुभुत्सयार्जुन उवाच संन्यासमिति। संन्यासं परित्यागं कर्मणां शास्त्रीयाणामनुष्ठानविशेषाणां पुनस्तेषामनुष्ठानं च। एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रवजन्तितमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इत्यादि वेदमूलकैः पूर्वोक्तैर्वचनैः शंससि कथयसि। कृष्णेति संबोधयन् मया त्यागः कर्तव्य उत कर्मानुष्ठेयमिति तत्रतत्र मच्चित्ताकर्षणं करोषीति सूचयति। अतो मे कतरच्छ्रेय इति संशयो भवति तस्माद्यदेतयोरेकं प्रशस्यतरं सुनिश्चितं तन्मे ब्रूहि निःसंशयाय।
मधुसूदन-सरस्वती
॥5.1॥ अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्मबोधयोः। कर्मतत्त्यागयोर्द्वाभ्यां निर्णयः क्रियतेऽधुना॥
तृतीयेऽध्यायेज्यायसी चेत्कर्मणस्ते इत्यादिनाऽर्जुनेन पृष्टो भगवाञ्ज्ञानकर्मणोर्विकल्पसमुच्चयासंभवेनाधिकारिभेदव्यवस्थयालोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मया इत्यादिना निर्णयं कृतवान्। तथाचाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्तिमिरयोरिव युगपदसंभवात् कर्माधिकारहेतुभेदबुद्ध्यपनोदकत्वेन ज्ञानस्य तद्विरोधित्वात्। नापि विकल्प्यते एकार्थत्वाभावात् ज्ञानकार्यस्याज्ञाननाशस्य कर्मणा कर्तुमशक्यत्वात्। तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय इति श्रुतेः। ज्ञाने जाते तु कर्मकार्यं नापेक्ष्यत एवेत्युक्तंयावानर्थ उदपाने इत्यत्र। तथाच ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्धकर्मवशाद्वृथाचेष्टारूपेण तदनुष्ठानं वा सर्वकर्मसंन्यासो वेति निर्विवादं चतुर्थे निर्णीतम्। अज्ञेन त्वन्तःकरणशुद्धिद्वारा ज्ञानोत्पत्तये कर्माण्यनुष्ठेयानितमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इति श्रुतेःसर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति भगवद्वचनाच्च। एवं सर्वाणि कर्माणि ज्ञानार्थानि तथा सर्वकर्मसंन्यासोऽपि ज्ञानार्थः श्रूयतेएतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिशान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम्सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् इत्यादौ। तत्र कर्मतत्त्यागयोरारादुपकारकसन्निपत्योपकारकयोः प्रयाजावघातयोरिव न समुच्चयः संभवति विरुद्धत्वेन यौगपद्याभावात्। नापि कर्मतत्त्यागयोरात्मज्ञानमात्रफलत्वेनैकार्थत्वादतिरात्रार्थयोः षोडशिग्रहणाग्रहणयोरिव विकल्पः स्यात् द्वारभेदेनैकार्थत्वाभावात्। कर्मणो हि पाक्षयरूपमदृष्टमेव द्वारम् संन्यासस्य तु सर्वविक्षेपाभावेन विचारावसरदानरूपं दृष्टमेव द्वारम् नियमापूर्वं तु दृष्टसमवायित्वादवघातादाविव न प्रयोजकम्। तथा चादृष्टार्थयोरारादुपकारकसन्निपत्योपकारकयोरेकप्रधानार्थत्वेऽपि विकल्पो नास्त्येव। प्रयाजावघातादीनामपि तत्प्रसङ्गात्। तस्मात्क्रमेणोभयमप्यनुष्ठेयम्। तत्रापि संन्यासानन्तरं कर्मानुष्ठानं चेत्तदा परित्यक्तपूर्वाश्रमस्वीकारेणारूढपतित्वात्कर्मानधिकारित्वं प्राक्तनसंन्यासवैयर्थ्यं च तस्यादृष्टार्थत्वाभावात्। प्रथमकृतसंन्यासेनैव ज्ञानाधिकारलाभे तदुत्तरकाले कर्मानुष्ठानवैयर्थ्यं च। तस्मादादौ भगवदर्पणबुद्ध्या निष्कामकर्मानुष्ठानादन्तःकरणशुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्वकर्मसंन्यासः श्रवणमननादिरूपवेदान्तवाक्यविचाराय कर्तव्य इति भगवतो मतम्। तथाचोक्तंन कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते इति। वक्ष्यते चआरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते॥ इति। योगोऽत्र तीव्रवैराग्यपूर्विका विविदिषा। तदुक्तं वार्तिककारैःप्रत्यग्विविदिषासिद्ध्यै वेदानुवचनादयः। ब्रह्मावाप्त्यै तु तत्त्यागमीप्सन्तीति श्रुतेर्बलात्॥ इति। स्मृतिश्चकषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः। कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते॥ इति। मोक्षधर्मे चकषायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु। प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्॥ भावितैः करणैश्चायं बहुसंसारयोनिषु। आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे॥ तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः। त्रिष्वाश्रमेषु कोन्वर्थो भवेत्परमभीप्सितः॥ इति। मोक्षं वैराग्यम्। एतेन क्रमाक्रमसंन्यासौ द्वावपि दर्शितौ। तथाच श्रुतिःब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनीभूत्वा प्रव्रजेद्यदिवेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् इति। तस्मादज्ञस्याविरक्ततादशायां कर्मानुष्ठानमेव। तस्यैव विरक्ततादशायां संन्यासः श्रवणाद्यवसरदानेन ज्ञानार्थ इति दशाभेदेनाज्ञमधिकृत्यैव कर्मतत्त्यागौ व्याख्यातुं पञ्चमषष्ठावध्यायावारभ्येते। विद्वत्संन्यासस्तु ज्ञानबलादर्थसिद्धि एवेति संदेहाभावान्नात्र विचार्यते। तत्रैकमेव जिज्ञासुमज्ञं प्रति ज्ञानार्थत्वेन कर्मतत्त्यागयोर्विधानात्तयोश्च विरुद्धयोर्युगपदनुष्ठानासंभवान्मया जिज्ञासुना किमिदानीमनुष्ठेयमिति संदिहानः अर्जुन उवाच हे कृष्ण सदानन्दरूप भक्तदुःखकर्षणेति वा। कर्मणां यावज्जीवादिश्रुतिविहितानां नित्यानां नैमित्तिकानां च संन्यासं त्यागं जिज्ञासुमज्ञं प्रति कथयसि वेदमुखेन पुनस्तद्विरुद्धं योगं च कर्मानुष्ठानरूपं शंससि। एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तितमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इत्यादिवाक्यद्वयेन। निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥ छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत इति गीतावाक्यद्वयेन वा। तत्रैकमज्ञं प्रति कर्मतत्त्यागयोर्विधानाद्युगपदुभयानुष्ठानासंभवादेतयोः कर्मतत्त्यागयोर्मध्ये यदेकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्त्यागं वा तन्मे ब्रूहि सुनिश्चितं तव मतमनुष्ठानाय।
रामरायः - १
द्वितीयेऽध्याये कर्मयोगं ज्ञानयोगं च प्रतिपाद्य तत्र कर्मणो ज्ञानस्य श्रेयस्त्वमुपपादितं भगवता। अत एव तृतीये— ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन’ इत्यर्जुनेनोक्तम्। ततस्तृतीये ज्ञानयोगस्य साङ्ख्यविषयत्वात् कर्मयोगस्य च योगिविषयत्वाद् अर्जुनस्य चासाङ्ख्यत्वात् कर्मयोग एव कर्तव्य इति प्रतिपादितम्। चतुर्थे स्वयमेव भगवान् ज्ञानयोगं पुनः प्रशशंस। तदन्ते च ‘ज्ञानेन संशयं छित्त्वा योगमातिष्ठे’त्यर्जुनाय योग एवोपदिष्टः। एवं स्थिते अर्जुनः पृच्छति पञ्चमाध्याये— संन्यासमिति।
ननु कर्मयोगज्ञानयोगयोर्द्वयोरपि निःश्रेयसहेतुत्वं भगवतोक्तम्। तत्र मुक्तिं प्रति साक्षात्साधनत्वं, कर्मयोगसाध्यत्वं च ज्ञानस्य प्रतिपादयन् , कर्मयोगस्य ज्ञानयोगद्वारा मुक्तिहेतुत्वं न तु साक्षादिति च प्रतिपादयन् , कर्मयोगाज्ज्ञानयोगमेव श्रेयांसं स्थापयामास भगवान्। अर्जुनस्य च ज्ञानयोगानधिकारित्वेन ‘कुरु कर्मैव तस्मात्त्वम्’ इति कर्मयोगमेव श्रेयस्करं प्रतिपादयामास। एवं स्थिते कथमर्जुनस्येह प्रश्नावकाशः, स्वस्य कर्मयोग एव श्रेयानिति, द्वयोर्ज्ञानयोग एव श्रेयानिति च स्फुटमुक्तत्वाद् भगवता, अर्जुनेन च सावधानं ज्ञातत्वात् तदर्थस्येति चेत्? उच्यते— नायमर्जुनस्य प्रश्नः कर्मयोगज्ञानयोगयोस्तारतम्यज्ञानार्थः; नापि कर्मज्ञानयोः; किं तर्हि? संन्यासकर्मयोगयोः। प्रश्नसामर्थ्याच्चास्य संन्यासस्य ज्ञानरहितसंन्यासत्वमवगम्यते। यद्यपि ‘न च संन्यसनादेव सिद्धिं समधिगच्छती’ति ज्ञानरहितसंन्यासस्य सिद्ध्यहेतुत्वमुक्तम्; ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति कर्मयोगस्य सिद्धिहेतुत्वं चोक्तं भगवता; तेन च संन्यासाज्ज्ञानहीनात् कर्मयोगः श्रेयानिति ज्ञातुं शक्यम् , तथापि विस्तरेण बुभुत्सया पृष्टमर्जुनेनेति बोध्यम्।
[[२६०]]
‘संन्यासं योगं च शंससी’त्यर्जुनेनोक्तम्। तत्र क्व संन्यास उक्तः? क्व वा योगः? इत्यत आह— कर्मणीत्यादि।
कालभेदेनेति। ‘योगमादौ कृत्वा पश्चात् संन्यासं कुरु’ इत्यनुक्तत्वादित्यर्थः।
शङ्कते— ननु चेति। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ !। ज्ञानयोगेन साङ्ख्यनां कर्मयोगेन योगिनाम्॥’ इति भिन्नपुरुषविषययोः ज्ञानकर्मणोरन्यतरस्य श्रेयस्करत्वज्ञानेन नार्जुनस्य किमपि फलम्; सत्यपि ज्ञानयोगस्य कर्मयोगस्य वा उत्कर्षे कर्मिणा ज्ञानस्य, ज्ञानिना कर्मणश्च कर्तुमशक्यत्वात् ; अतो व्यर्थोऽयं प्रश्न इति शङ्कितुराशयः। अङ्गीकृत्य परिहरति— सत्यमिति। न त्वदुक्तविधोऽर्जुनस्याभिप्रायः, किन्तु भिन्नविधः। तमेवार्जुनाभिप्रायं दर्शयति— पूर्वेति। प्राधान्यमन्तरेण प्राधान्यज्ञानं विनेत्यर्थः। अनयोरिदं प्रधानमिति ज्ञात्वैव प्रधाने ज्ञानयोगे कर्ता प्रवर्तते। एवं प्रधानत्वादेव संन्यासः कर्तव्यतया भगवता चतुर्थाध्यायेऽभिहितः। नन्वेवं कर्मयोगात् कर्मसंन्यासः प्रधान इत्यभिहितप्राय एवेति पुनः प्रश्नोऽनुपपन्न इत्यत आह— अनात्मविदपीति। अज्ञः प्राज्ञो वा सर्वोऽपि जनः प्रधानमेवानुतिष्ठासति, न त्वप्रधानमिति कृत्वा प्रधाने कर्मसंन्यासे अज्ञोऽपि प्रवर्तेतैव। तस्य चाज्ञस्य किं संन्यासः श्रेयान् उत कर्मयोग इति युज्यते प्रश्नोऽर्जुनस्येति भावः। ननु ‘ज्ञानयोगेन साङ्ख्याना’मिति प्राज्ञस्यैव संन्यासविधानात् कथमज्ञस्य पाक्षिक् यपि संन्यासे प्रवृत्तिः? अत आह— न पुनरिति। ‘कर्मसंन्यासस्यात्मवित्कर्तृकत्वमेव विवक्षितमिति तु न’ - एवं मन्वानस्या- र्जुनस्य प्रश्नो नानुपपन्न इति सम्बन्धः। यदि भगवता कर्मसंन्यास आत्मविद्विषय एव, न त्वज्ञविषय इति विवक्षितम् , तर्हि ‘न च संन्यसनादेव सिद्धिं समधिगच्छती’ति ज्ञानहीनसंन्यासास्तित्वं कथं बोध्येत? न हि ज्ञानहीनसंन्यासस्यैवाभावे ततः सिद्धिर्नास्तीति वक्तुं शक्यते। तस्मात् संन्यासस्याप्यनात्मविद्विषयत्वमस्तीत्यर्जुनस्याभिप्रायः। युक्तं चेदम् ; विद्वत्संन्यासस्येव विविदिषासंन्यासस्यापि शास्त्रसिद्धत्वात्। विविदिषुर्विद्यासिद्ध्यर्थं यज्ञादिकर्मयोगमिव पक्षे संन्यासमपि कुर्यादेव। तस्मादनात्मविदपि संन्यासे कर्ता पक्षे प्राप्त एवेति कृत्वा ‘किमज्ञस्य संन्यासः श्रेयानुत कर्मयोगः’ इति प्रश्न उचित एवार्जुनस्य।
[[२६१]] [[२६२]]
ननु संन्यासात् केवलात् सिद्धिर्नास्ति, ‘कर्मणैव संसिद्धिमास्थिताः’ इति च केवलसंन्यासात् कर्मयोगस्य प्राशस्त्यं प्रतिपादितमेवेति व्यर्थोऽयं प्रश्न इति चेत्? मैवम् ; संसिद्धिशब्दस्य चित्तशुद्ध्यर्थकत्वात् , सिद्धिशब्दस्य च मोक्षार्थकत्वात्। यथा केवलसंन्यासान्न मोक्षः, तथा कर्मयोगादपि नैव मोक्षः, यथा कर्मयोगाच्चित्तशुद्धिस्तथा केवलसंन्यासादपि स्यादेव चित्तशुद्धिः, अन्यथा विविदिषासंन्यासविधायकशास्त्रानर्थक्यप्रसङ्गात्। तस्मादज्ञकर्तृकयोः संन्यासकर्मयोगयोः समबलत्वमेव सिद्धमतीतग्रन्थे, न तु विषमबलत्वमिति कृत्वा तयोस्तारतम्यजिज्ञासया प्रश्नोऽयमुचित एवार्जुनस्य। न च - विस्तरेण बुभुत्सया पृष्टमिति स्ववचन- व्याघातस्तवेति - वाच्यम् ; प्रश्ने एकस्मिन्नप्यनेकाभिप्रायकल्पनस्य गुणत्वात्।
ननु परहृदयस्याप्रत्यक्षत्वात् कथं त्वया विदितोऽर्जुनस्याभिप्रायः? इत्यत आह— प्रतिवचनेति। किं तत् प्रतिवचनम् , कथं वा तन्निरूपणमिति पृच्छति— कथमिति। तत्र प्रतिवचनं दर्शयति— संन्यासेति। ‘संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते॥’ इति श्लोकरूपं प्रतिवचनमित्यर्थः। तन्निरूपणं कथयति— एतदिति। प्रतिवचनवाक्यम् एतच्छब्दार्थः। एतन्निरूप्यं वस्तु दर्शयिष्यामः, तथाहीति शेषः। यद्वा एषः अर्जुनाभिप्रायो निरूप्यो यस्य तद् एतन्निरूप्यमिति प्रतिवचनविशेषणम्। निरूपणप्रकारं दर्शयति— किमनेनेत्यादिना। अनेन प्रतिवचनेन कर्मयोगस्य विशिष्टत्वमुच्यते किमित्यन्वयः। तदुभयमिति। निःश्रेयसकरत्वं कर्मयोगस्य संन्यासाद् विशिष्टत्वं चेत्यर्थः। विशिष्टत्वम् उत्कृष्टत्वम्। गुणदोषविवेकार्थं पृच्छति— किञ्चात इति। यदि कर्मयोगस्य विशिष्टत्वमुच्येत, अतः अस्मिन् पक्षे, किम् , दूषणमिति शेषः। यदि वा संन्यासकर्मयोगयोः तदुभयमुच्येत, अतः अत्र पक्षे, किं च किं वा फलमिति प्रश्नार्थः। इतिशब्दः प्रश्नपरिसमाप्तौ।
[[२६३]]
सिद्धान्ती समाधानं वच्मीति प्रतिजानाति— अत्रोच्यत इति। अत्र शङ्कायामित्यर्थः। प्रश्ने इति वा। तदीयाच्चेति। आत्मवित्कर्तृकादित्यर्थः। ज्ञानसहितादिति यावत्। कर्मयोगकर्मसंन्यासयोरनात्मवित्कर्तृकत्वं यथा सम्भवति, तथा न सम्भवत्येव आत्मवित्कर्तृकत्वमिति कृत्वा प्रथमपक्षे अनुपपत्तिर्दूषणम् , द्वितीयपक्षे उपपत्तिः फलमिति भावः।
आत्मवित्कर्तृकयोः कर्मयोगकर्मसंन्यासयोरसम्भवं श्रुत्वा तदसहमानः पूर्वपक्षयति— अत्राहेत्यादिना। आहेत्यस्य पूर्वपक्षी इति कर्तुःशेषः। किमात्मवित्कर्तृकः संन्यासो नास्ति, यद्वा आत्मवित्कर्तृकः कर्मयोगो नास्तीति पूर्वपक्षस्य फलितार्थः।
[[२६४]]
उत्तरमाह— अत्रोच्यत इत्यादिना। आत्मवित्कर्तृकः संन्यासोऽस्त्येव, किन्तु कर्मयोगो नास्तीत्यर्थः। तत्र हेतुमाह— आत्मविदो निवृत्तमिथ्याज्ञानत्वादिति। मिथ्याज्ञानम् कर्ताऽहम् , ममेदं कर्मेत्याद्याकारकं भ्रमज्ञानम् , मिथ्याभूतमज्ञानमिति वा। आत्मविदः कर्मयोगासम्भवं प्रति मिथ्याज्ञाननिवृत्तेः कुतो हेतुत्वम्? अत आह— विपर्ययेति। कर्मयोगस्य विपर्ययज्ञानमूल- त्वादित्यर्थः। मिथ्याज्ञानमूलः कर्मयोगः कथं पुनर्मिथ्याज्ञानरहितस्यात्मविदः सम्भवेदिति भावः। संग्रहवाक्यमेव विवृणोति— जन्मादीति। निष्क्रियमात्मानमात्मत्वेन यो वेत्ति, तस्यात्मविदः कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः। आत्मनो निष्क्रियत्वे हेतुमाह— जन्मादीति। आदिपदात् सत्तावृद्ध्यादिभावविकारपञ्चकग्रहणम्। लोके सविक्रियस्यैव वस्तुनः सक्रियत्वदर्शनात् निर्विकार- स्यात्मनो निष्क्रियत्वमिति भावः। वैदिका योगिनश्च केचिन्निष्क्रियमात्मानमीश्वरत्वेन विदन्तीत्यत आह— आत्मत्वेनेति। एतेन आत्मेश्वरभेदवादिनोऽनात्मवित्त्वमेव, मिथ्याज्ञानवत्त्वादिति सिद्धम्। ननु स्वभिन्नस्येश्वरस्य कथमात्मत्वेन ग्रहणम्? अत आह— आत्मानमिति। ईश्वरो हि जीवस्यात्मैव, स्वरूपत्वात् , ‘स आत्मा तत्त्वमसी’ति श्रुतेश्चेति भावः। आत्मविदोऽपि मिथ्याज्ञानं किं न स्याद्? अत आह— सम्यगिति। सम्यग्दर्शनं तत्त्वज्ञानम् ‘निष्क्रियं सच्चिदानन्दं ब्रह्माहमस्मी’त्याकारकम् , तेन अपास्तं निरस्तं मिथ्याज्ञानं ‘कर्ताऽहं ब्राह्मणः’ इत्याद्याकारकमयथार्थज्ञानं, तन्मूलभूतमज्ञानं वा यस्य, तस्य तथोक्तस्य। नन्वेतादृशस्यात्मविदः कर्मसंन्यासोऽप्यनुपपन्न एवेत्यत आह— सर्वकर्मसंन्यासमुक्त्वेति। कस्मादस्य संन्यासः सम्भवतीत्यत आह— निष्क्रियेति। निष्क्रियो ह्यात्मा निष्क्रियात्मस्वरूपेणैव तिष्ठतीति कृत्वा तत्त्वविदो निष्क्रियात्मनः निष्क्रियात्मस्वरूपावस्थानलक्षणः कर्मसंन्यासः सम्भवत्येवेत्यर्थः। आत्मविदः कर्मसंन्यासस्येव कर्मयोगस्य कुतोऽसम्भवः? अत आह— तद्विपर्यय[परीत]स्येति। कर्मसंन्यास- विपरीतत्वात् कर्मयोगस्यात्मवित्कर्तृकत्वाभाव इत्यर्थः। कस्माद् विपरीतत्वमस्येत्यत आह— मिथ्येति। मिथ्याभूतमज्ञानं तत्प्रयुक्तोऽध्यासो वा मिथ्याज्ञानम् , तदेव मूलं कारणं यस्य, स चासौ कर्तृत्वाभिमानः पुरःसरः पूर्वो यस्य तस्य। सम्यग्ज्ञानमिथ्याज्ञानयोः तन्मूलकनिष्क्रियात्माभिमानकर्तृत्वाभिमानयोश्च संन्यासकर्मयोगकारणयोः परस्परं विपरीतत्वात् संन्यास- कर्मयोगयोश्च विपरीतत्वमिति भावः। न केवलं कारणद्वारैव, किन्तु स्वरूपतोऽपि तयोर्वैपरीत्यमित्याह— सक्रियेति। निष्क्रियात्म- स्वरूपावस्थानात् सक्रियात्मस्वरूपावस्थानं विपरीतमित्यर्थः। आत्मविदः कर्मयोगस्याभावः क्व प्रतिपाद्यते? अत आह— इहेति। तदर्थमाह— गीताशास्त्र इति। गीताशास्त्रेऽपि कुत्र प्रतिपाद्यतेऽत आह— तत्र तत्रेति। तेषु तेष्वित्यर्थः। तच्छब्दार्थमाह— आत्मेति। आत्मविदः कर्मयोगस्याभावे किं कारणम्? अत आह— सम्यगिति। सम्यग्ज्ञानमिथ्याज्ञानयोः तत्कार्ययोः कर्मसंन्यासकर्मयोगयोश्च विरोधात् सहानवस्थानलक्षणविरोधात्। न हि विरुद्धधर्मयोः सामानाधिकरण्यं क्वापि सम्भवतीति भावः। यद्वा सम्यग्ज्ञान- मिथ्याज्ञानयोः तत्कार्ययोर्भ्रमनिवृत्तिभ्रमसद्भावयोश्च मिथो विरोधात् कर्तृत्वादिभ्रममूलः कर्मयोगः निवृत्तभ्रमस्यात्मविदो न सम्भवतीति भावः। न चात्मवित्कर्तृकस्य कर्मयोगस्यैवासम्भवे कथं तत्त्वविदो जनकादेः कर्मसु प्रवृत्तिरिति वाच्यम् ; जनकादि- कर्तृकयज्ञादिकर्मणः आत्मवित्संन्यासिकर्तृकभिक्षाटनादिवद् वासुदेवकर्तृकसृष्ट्यादिवच्च कर्मत्वाभावस्य प्रागेव प्रतिपादितत्वात्। उपसंहरति— यस्मात् तस्मादिति। यस्मादात्मविदः कर्मयोगस्याभावो गीताशास्त्रे प्रतिपाद्यते, तस्मादित्यर्थः। गीताशास्त्रे आत्मविदः कर्मयोगाभावप्रतिपादनं तच्छब्दार्थः। तत्र तत्रेति पूर्वं सामान्येनोक्तत्वात् तद्विशेषबुभुत्सया पृच्छति कश्चित्— केषु केष्विति। प्रतिपाद्यत इति भगवतेति शेषः।
[[२६५]]
गीताशास्त्रे आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः कर्माभाव एव प्रतिपादित इति नियन्तुं न शक्यते, कर्मयोगस्यापि प्रतिपादितत्वादिति शङ्कते— ननु चेति। कर्मयोगप्रतिपादनप्रकारमेव दर्शयति— तद्यथेत्यादिना। आत्मविदः कर्मयोगस्यासम्भवे पूर्वोक्तं हेतुं पुनरनुवदति हेत्वन्तरकथनार्थम्— सम्यग्ज्ञानेति। हेत्वन्तरमाह— ज्ञानेति। अनात्मवित्कर्तृककर्मयोगनिष्ठातः साङ्ख्यानां ज्ञानयोगनिष्ठायाः पृथक्करणादित्यन्वयः। साङ्ख्यानां साङ्ख्यकर्तृकाया इत्यर्थः। केन वाक्येन पृथक्करणम्? अत आह— ज्ञानयोगेनेति। ननु अनात्मवित्कर्तृककर्मयोगनिष्ठातः साङ्ख्यकर्तृकज्ञाननिष्ठायाः पृथक्करणेऽपि आत्मवित्कर्तृकसंन्यासस्य न पृथक्करणमित्यत आह— आत्मतत्त्वविदामिति, निष्क्रियात्मस्वरूपावस्थानलक्षणाया इति च। आत्मविद एव सांख्याः, सर्वकर्मसंन्यास एव ज्ञानयोगनिष्ठेति भावः। पुनरपि हेत्वन्तरमाह— कृतकृत्यत्वेनेति। आत्मविदः कर्मयोगसाध्यप्रयोजनान्तराभावात् कर्माभावः। प्रयोजनान्तराभावे हेतुमाह— कृतकृत्यत्वेनेति। कृतं कृत्यं सर्वं येन स कृतकृत्यः, तद्भावेन, कर्तव्यशेषाभावेनेत्यर्थः। आत्मविदः कर्तव्यशेषाभावे प्रमाण- माह— तस्येति। आत्मवित् तच्छब्दार्थः। चकारेण कर्मयोगस्याकृतकृत्याज्ञविषयत्वं बोध्यते। अकृतकृत्याज्ञविषयत्वात् कर्मयोग- स्यात्मविदि असम्भव इति भावः। इतश्च पुनरात्मविदः कर्मासम्भव इत्याह— नेति। कर्मयोगस्यात्मज्ञानाङ्गत्वेन विधानात् प्रतिपन्नात्मज्ञानस्य कर्मयोगासम्भवः। केन वाक्येन तद्विधानम्? अत आह— न कर्मणामित्यादि। यथा अनात्मविदः कर्मयोगो विहितः, तथा आत्मविदः कर्मसंन्यासो विहितः इति आत्मविदः कर्मसंन्यासविधानाच्च कर्मासम्भव इत्याह— उत्पन्नेति। केन वाक्येनात्मविदः कर्माभाव उक्तः? इत्यत आह— योगारूढस्येति। कर्मसंन्यासविधानादित्यनुक्त्वा कर्मयोगाभाववचनादिति वचनेन कर्मसंन्यासो न विधिः[विहितः], किन्तु स्वाभाविक एवेति गम्यते, निष्क्रियत्वादात्मन इति भावः। इतश्चात्मविदः कर्मासम्भव इत्याह— शारीरमिति। शरीरस्थितिमात्रफलकभिक्षाटनादिकर्मव्यतिरिक्तकर्मनिवारणाद् आत्मविदः कर्मयोगासम्भवः। ननु यद्यात्मविदो भिक्षाटनादिकर्म सम्भवति, तर्हि स कर्म्येव स्याद्? अत आह— नैवेति। समाहितचेतास्तत्त्ववित् संन्यासी शरीरस्थितिमात्रफलकेष्वपि दर्शनश्रवणादिकर्मसु ‘अहं करोमी’ति कर्तृत्वाभिमानं न कुर्यादिति भगवदुपदेशादित्यर्थः। तत्त्ववित् संन्यासी पश्यन् शृण्वन्नपि ‘नाहं करोमी’ति यस्माद् मन्यते, तस्मादयं कर्मी नैव भवति, कर्तृत्वाभिमानपुरःसरं कर्मकर्तुरेव कर्मित्वादिति भावः। आत्मतत्त्वविदः कर्मयोगः स्वप्नेऽपि सम्भावयितुं न शक्यत इत्यन्वयः। तत्र हेतुगर्भं विशेषणद्वयमाह— सम्यगिति। सम्यग्दर्शनविरुद्धत्वान्मिथ्याज्ञानहेतुकत्वाच्चेत्यर्थः। सम्यग्दर्शनेन कर्मयोगमूलमिथ्याज्ञानस्य बाधात् कर्मयोगस्य तद्विरुद्धत्वमिति भावः। तस्मादिति। आत्मवित्कर्तृककर्मयोगासम्भवादित्यर्थः। तदीयादिति। अनात्मवित्कर्तृकादित्यर्थः। कर्म- संन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमित्यन्वयः। किमयम् अनात्मवित्कर्तृकः कर्मसंन्यास आत्मवित्कर्तृकसंन्यास[स]लक्षण इत्यत आह— पूर्वोक्तेति। ज्ञानसाहित्यराहित्याभ्यामुभयोर्वैलक्षण्यमिति भावः। भेदमेव दर्शयति— सत्येवेति। कर्तृत्वविज्ञाने सतीत्यन्वयः। अज्ञकर्तृकसंन्यासे कर्ताऽहमिति विपरीतज्ञानमस्ति, अहं भिक्षामटामि, पश्यामीत्याद्यभिमानसत्त्वादज्ञस्य। तत्त्ववित्कर्तृकसंन्यासे तु नैवं कर्तृत्वविज्ञानमस्ति, नाहं करोमीति तत्त्वविन्निश्चयादिति भावः। भेदान्तरमाह— कर्मैकदेशविषयादिति। कर्मण एकदेश एव विषयो यस्य सः कर्मैकदेशविषयः, तस्मात्। अज्ञो हि यज्ञयागादिकं कर्मैकदेशमेव संन्यस्तवान् , न तु सर्वं कर्म। अज्ञसंन्यासिनः दण्डतर्पणस्नानभिक्षाटनादिकर्मसत्त्वात् , तेषु च स्वाचरितेषु कर्मसु कर्तृत्वाभिमानसत्त्वात्। प्राज्ञकर्तृकसंन्यासस्तु सर्वकर्मविषय एवेति द्वयोर्भेद इति भावः। भेदान्तरमाह— यमेति। प्राज्ञकर्तृकसंन्यासस्य न यमनियमादिसापेक्षा, प्राज्ञस्याकर्तृत्वेन यमादिकर्तृत्वाभावादिति भावः। यद्वा अज्ञकर्तृकात् संन्यासादज्ञकर्तृकः कर्मयोगः कुतो भवति विशिष्टः? अत आह— यमेति। दुरनुष्ठेयात् स्वनुष्ठेयो हि विशिष्यते। ‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम्। प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश॥ दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ। व्रतोपवासौ मौनं च स्नानं च नियमा दश॥’ आदिपदादासनादिग्रहणम्। पूर्वोक्त इति। अविद्वत्कर्तृकयोः कर्मानुष्ठानकर्मसंन्यासयोर्मध्ये किं श्रेय इत्येवंरूप इति भावः।
[[२६६]] [[२६७]] [[२६८]]
ननु आत्मवित्कर्तृकात् संन्यासाद् अनात्मवित्कर्तृकः कर्मयोगः श्रेयानिति भगवत्प्रतिवचनवाक्यार्थनिरूपणं सुकरमिति चेत्? मैवम् ; साक्षान्मोक्षहेतोः विद्वत्संन्यासात् परम्परया मोक्षहेतोरविद्वत्कर्मयोगस्य वैशिष्ट्यं स्वप्नेऽपि सम्भावयितुं न शक्यमिति हेतोः। एवंविधज्ञानेन फलाभावाच्च। प्रशस्यतरं हि कर्तव्यत्वार्थं जिज्ञासितम्। न ह्यात्मविदः प्रशस्यतरमपि कर्म सम्भवति। तस्माद् आत्मवित् पुरुषः निवृत्तमिथ्याज्ञानत्वात् कर्मयोगं नैवानुतिष्ठेत् , किन्तु संन्यासमेव विदध्यादिति न तत्र मया ज्ञातव्यः अंशोऽस्ति। किन्तु यस्त्वनात्मविन्मुमुक्षुः स कर्मयोगं कुर्याद्वा, उत कर्मसंन्यासम्? किं तदुभयोः प्रशस्यतरमिति जिज्ञासया पृच्छत्यर्जुन इति भावः।
ननु ‘कर्मण्यकर्मे’त्यादिना यः कृष्णेन प्रोक्तः कर्मसंन्यासः स आत्मवित्कर्तृक एव, ज्ञानमार्गत्वात् तस्य। अतः कथं तस्यानात्मवित्कर्तृकत्वम्? येन अनात्मवित्कर्तृकसंन्यासकर्मयोगयोः प्रशस्यतरबुभुत्सा स्यादर्जुनस्येति चेत्? मैवम् ; यद्यपि कृष्णेन आत्मवित्कर्तृक एव संन्यास उक्तस्तथापि तत्रानात्मविदपि कर्ता पक्षे प्राप्त इति भाष्यकारैरुक्तत्वात् तस्यानात्मवित्कर्तृकत्वमप्यस्तीति।
अयमाशयः— कर्मसंन्यासे सम्यग्दर्शनाद्धेतोः यथा आत्मवित् कर्ता प्राप्तः, तथा कर्मफलानित्यत्वादिदर्शनप्रयुक्त- वैराग्यादिना अनात्मविदपि कर्ता पक्षे प्राप्त एव। न च - ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मित्यात्मविदः संन्यासोऽनात्मविदः कर्मयोगश्च नियमितः कृष्णेनेति - वाच्यम् ; ‘आत्मवित् संन्यासमेव कुर्यादि’ति आत्मविदः संन्यासस्य नियमितत्वेऽपि ‘आत्मविदेव संन्यासं कुर्यादि’ति संन्यासस्यात्मवित्कर्तृकत्वस्यानियमितत्वात्। न च - एवं कर्मयोगस्याप्यनात्मवित्कर्तृकत्वं न नियमितमिति आत्मवित्कर्तृकत्वमपि कर्मयोगस्य सम्भवतीति - वाच्यम् ; सम्यग्दर्शनमिथ्याज्ञानतत्कार्यविरोधान्मिथ्याज्ञानमूलकर्मयोगस्य सम्यग्दर्शनवत्पुरुषकर्तृकत्वासम्भवात्। न चैवं सम्यग्दर्शनमूलस्य कर्मसंन्यासस्यापि कथं मिथ्याज्ञानवत्पुरुषकर्तृकत्वसम्भव इति वाच्यम् ; सर्वकर्मसंन्यासस्य सम्यग्दर्शनमूलकत्वेऽपि कर्मैकदेशविषयसंन्यासस्य अतन्मूलकत्वेनाज्ञकर्तृकत्वसम्भवात्।
न च - सर्वकर्मसंन्यास इति कर्मैकदेशसंन्यास इति च द्विविधसंन्याससद्भावे प्रमाणं न पश्याम इति - वाच्यम् ; भाष्यकारवचनस्यैव प्रमाणत्वात्। कुटीचकादेः कर्मैकदेशसद्भावस्य, परमहंसस्यावधूतस्य सर्वकर्माभावस्य च शास्त्रे दर्शनाच्च। न च प्रमाणसद्भावेऽप्युपपत्तिसद्भावो नेति वाच्यम् ; एकस्मिन्नपि संन्यासे ज्ञानसाहित्यराहित्याभ्यां दर्शितद्वैविध्योपपत्तेः। तस्मात् सर्वकर्मसंन्यासात्मके ज्ञानसहितसंन्यासे विषये आत्मविदेव कर्ता, कर्मैकदेशसंन्यासात्मके ज्ञानरहितसंन्यासे अनात्मविदेव कर्तेति कृत्वा संन्याससामान्ये आत्मविद इवानात्मविदोऽपि कर्तुः प्राप्तिरस्त्येव।
ननु ‘कर्मयोगेन योगिना’मिति ‘अनात्मवित् कर्मयोगमेव कुर्यादि’ति कृष्णेन नियमितत्वात् कथं तस्य संन्यासे पाक्षिक्यपि प्रवृत्तिरिति चेत्? मैवम् ; यमनियमादिपूर्वकध्यानयोगात्मककर्मयोगानुष्ठानयोग्यतासम्पादककर्मैकदेशसंन्यासस्यानात्मवित्कर्तृकस्य कर्मयोगोपायत्वेन कर्मयोगानतिरिक्तत्वात्। तस्माद् अनात्मवित् पुरुषः संन्यस्य ध्यानयोगमभ्यसेत् , असंन्यस्य यज्ञादिकं वा कुर्याद् इत्यज्ञस्य संन्यासे पाक्षिकप्रवृत्तिरस्त्येव। न चाविद्वत्कर्तृकसंन्याससद्भावे प्रमाणं नास्तीति वाच्यम् ; ‘न च संन्यसनादेवे’ति भगवद्वाक् यस्यैव प्रमाणत्वादिति।
ननु -‘कर्मण्यकर्मे’त्यादिना दर्शितं ज्ञानं कर्मयोगोपकारकमेव, न तु संन्यासविषयम् , ‘तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिना ऽऽत्मनः। छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥’ इत्यध्यायोपसंहारे कर्मानुष्ठानेऽपि संशयनिरासार्थं ज्ञानमावश्यकमिति प्रतिपादितम्। ‘न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥’ इति चोपक्रमे ज्ञानपूर्वकं कर्मानुष्ठेयमिति दर्शितम्। एवमुपक्रमोपसंहारैकरूप्यात् ‘यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः॥’ ‘यज्ञायाचरतः कर्म समग्रं प्रविलीयते।’ ‘ज्ञानाग्निः सर्वकमाणि भस्मसात्कुरुतेऽर्जुन’ इति च मध्येऽपि ज्ञानपूर्वकं कर्मानुष्ठानस्य दर्शितत्वाच्च। आत्मवित्कर्तृकः कर्मयोगः सम्भवत्येव। वाक् यान्तरैरात्मविदः संन्यासोऽपि दर्शितः। अत एव ‘संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससी’त्युक्तमर्जुनेन। तथा च आत्मवित्कर्तृककर्मयोगसंन्यासयोस्तारतम्यबुभुत्सयैवायं प्रश्नोऽर्जुनस्येति युक्ततरम्। किञ्चाज्ञस्य कर्मसम्भवे सत्यपि विशिष्टकर्मयोगो न सम्भवति, कर्मयोगो हि कर्मसु फलाभिसन्ध्यादिपरित्यागप्रयुक्तः। स च त्याग आत्मज्ञानं विना नैव सम्भवति। अत एव हि ‘त्यक्त्वा कर्मफलासङ्ग’मिति श्लोकस्य प्रवृत्तिमार्गस्थात्मविद्विषयत्वं व्याख्यातं भाष्यकारैरपि। ‘ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षती’ति भगवत्प्रतिवचनादपि कर्मयोगस्यात्मवित्कर्तृकत्वमेव निश्चीयते। न हि ज्ञानं विना रागद्वेषक्षयः स्यात्। तस्मादात्मवित्कर्तृकयोरेव संन्यासकर्मयोगयोस्तारतम्यबुभुत्सया कृतोऽयं प्रश्नोऽर्जुनेनेति रामानुजादयः।
[[२६९]]
अत्रोच्यते— यज्ज्ञानं कर्मयोगस्योपकारकम् , यत्तु ज्ञानं कर्मसंन्यासस्य, तदुभयं विविच्य त्वं न वेत्सि, येनेयमाशङ्काऽऽसीत् तव। ‘आत्मा नित्यः, ईश्वरार्थमहं कर्म करोमि, मा भून्मम क्षयिष्णु स्वर्गादिफलम् , इन्द्रियाणां विषयप्रावण्यं मया वारणीयम् , मनश्च स्ववशे स्थापयितव्यम् , शीतोष्णादिर्द्वन्द्वजातं सोढव्यम् , कर्मणः सिद्ध्यसिद्ध्योः समचित्तेन भाव्यम्’ इत्यादिज्ञानं कर्मयोगस्योप- कारकम्। कर्मसंन्यासस्य तु ‘आत्माऽविक्रियोऽकर्ताऽभोक्ता सच्चिदानन्दब्रह्मरूपः, कर्माणि देहाद्याश्रयाण्येव’ इत्यादिज्ञानम्। इदमेव सम्यग्दर्शनमित्युच्यते। यस्यैतज्ज्ञानं स एव आत्मविदित्युच्यते। अत आत्मवित्कर्तृकस्य कर्मयोगस्यासम्भव एव। यस्तु आत्म- वित्कर्तृकः कर्मयोगो दर्शितः— ‘त्यक्त्वा कर्मफलासङ्गम्’ इत्यादिना, स न कर्मयोगः, किन्त्वकर्मैव, लोकसंग्रहार्थत्वात् , निरभिमानपूर्वकत्वाच्च तस्येति बहुशः प्रपञ्चितम्।
यत्तु ज्ञानासिना संशयं छित्वा योगमातिष्ठेत्युक्तं ज्ञानम् , तद्धि नात्मज्ञानम् , किन्तु शोकमोहादिदोषज्ञानमेव। तच्च कर्मयोगस्योपकारकम्। तथैव दर्शितं भाष्यकृद्भिः—शोकमोहादिदोषसम्यग्दर्शनमिति[^१_२५८]। न त्वात्मदर्शनमित्युक्तम्। अथवा तत्त्वविदा मया लोकसंग्रहार्थं कर्म कर्तव्यं वा न वेत्याकारकं संशयं छित्त्वा जनकादिदृष्टान्तेन कर्म कुरु इति तदर्थः। तथा च ज्ञानं नाम तत्र ‘लोकसंग्रहार्थं विदुषाऽपि कर्म कर्तव्यं मया क्षत्रियेणे’त्याकारकं बोध्यम्। यद्वा ज्ञानमात्मतत्त्वज्ञानमेवास्तु , संशयः—किमहं ब्रह्म उत नेत्याद्याकारक एवास्तु , तथापि न क्षतिः, लोकसंग्रहार्थं कर्मकर्तव्यत्वोपदेशात्।
सर्वथाऽपि कृतकृत्यस्याविक्रियब्रह्मरूपेणावस्थितस्य तत्त्वविदः कर्मासम्भव एव, किन्तु ब्रह्मरूपेणावस्थानलक्षणसर्वकर्म- संन्यासस्यैव सम्भव इति न कश्चिद् दोषः। न च - भगवता ‘कर्मण्यकर्मे’त्यादिना ज्ञानिकर्तृक एव संन्यासोऽभिहितः, अर्जुनस्तु तदविदित्वा पप्रच्छेति - वाच्यम् ; तथा सति कृष्णेन मयोक्तः संन्यासो ज्ञानिकर्तृक एव, न त्वज्ञानिकर्तृकः, स तु कर्मयोगाद् विशिष्ट एव, यस्त्वज्ञानिकर्तृकः संन्यासः स तु कर्मयोगादपकृष्ट इत्येव प्रतिवचनं ब्रूयात्[^२_२५८]। तस्मात् शङ्करोक्तमेवापङ्कम्।
संक्षेपविस्तराभ्यामुक्तोऽर्थो जिज्ञासोर्बुद्ध्यारूढो भवतीति न्यायाद् विस्तरेणोक्तमर्थं संक्षिप्याह— ज्यायसी चेदिति। इत्यत्रेति। गीताशास्त्रे तृतीयाध्याये इत्यर्थः। सहासम्भव इति। सहानुष्ठानासम्भव इत्यर्थः। युगपदेकपुरुषानुष्ठेयत्वासम्भव इति यावत्। यच्छ्रेय इति। ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुया’मिति पृष्टत्वादिति भावः। निर्णयं चकारेति। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति श्लोकेनेति भावः। सांख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वान्नाद्य पुनः प्रश्नावकाश इत्यर्थः। हेत्वन्तरादपि नेत्याह— न चेति। इष्टमिति। अभिमतम् , भगवत इति शेषः। कर्मयोगस्य चेति । कर्मयोगस्य च सिद्धिसाधनत्वमिष्टमित्यन्वयः, सिद्धिसाधनत्वम् इष्टमिति पदद्वयस्यात्राप्यनुकर्षणात्। कस्मात् कर्मयोगस्य सिद्धिसाधनत्वमिष्टम्? अत आह— विधानादिति। ‘छित्त्वैनं संशयं योगमातिष्ठे’ति कर्मयोगस्य भगवता विहितत्वात् , निरर्थकस्य च विध्ययोगादिति भावः। एवं ज्ञानसहितसंन्यासस्य कर्मयोगस्य च सिद्धिसाधनत्वस्य भगवदिष्टत्वान्नाद्य सांख्ययोगयोर्विशेषबुभुत्सया पुनः प्रश्नावकाश इत्यर्थः। तर्हि केनाभिप्रायेण प्रश्नोपपत्तिः? अत आह— ज्ञानेति। ज्ञानरहित इति। अज्ञकर्तृक इत्यर्थः। अज्ञस्य किं संन्यासः श्रेयान्? किं वा कर्मयोगः श्रेयान्? इत्यभिप्रायेणार्जुनप्रश्न उपपद्यत इत्यर्थः।
[[२७०]]
संन्यासमिति। हे कृष्ण! कर्मणां संन्यासम् , पुनः कर्मणां योगं च शंससि। एतयोर्यच्छ्रेयः सुनिश्चितं तदेकं मे ब्रूहीत्यन्वयः। काम्यानां निषिद्धानां च कर्मणां संन्यासं, 1विहितानां कर्मणां योगं चाहं शंसामीति न व्याघात इत्यभिप्रेत्याह2— शास्त्रीयाणामिति। शास्त्रेण विहितानां नित्यानां नैमित्तिकानां चेत्यर्थः। अनुष्ठानविशेषाः अग्निहोत्रादिक्रियाविशेषाः। शंसु स्तुताविति स्मरणात् स्तुतेरत्राभावात् कथनमात्रमेवाभिप्रेतमित्याह— कथयसीत्येतदिति। ‘कर्मण्यकर्म यः पश्येदि’त्यादिनेति भावः। योगं शंससीति। ‘योगमातिष्ठे’त्युक्तत्वादिति भावः। एवं कर्मसंन्यासकर्मानुष्ठानयोर्द्वयोरपि कर्तव्यत्वोपदेशादेकेन सह कर्तुमशक्यत्वाच्च ‘किं मया
[[२७१]]
कर्तव्य’मिति मम संशयो जात इत्याह— अत इति। किंशब्दाद् द्वयोर्निर्धारणे डतरच्प्रत्यये कतरदिति रूपं भवति। द्वयोर्मध्ये किं श्रेय इत्यर्थः। संशयमेवाभिनीय दर्शयति— किमिति। तद्धानमिति। कर्मत्याग इत्यर्थः। श्रेय इति। प्रशस्यस्य श्रादेशः। अतिशयेन प्रशस्यं श्रेयः। इदमेवाभिप्रेत्याह— प्रशस्यतरमिति। यद्यपि विहितत्वादुभयमपि प्रशस्यमेव, तथापि प्रशस्यतरबुभुत्सया पृच्छामीत्यर्थः। किं तव प्रशस्यतरज्ञानात् फलम्? तत्राह— प्रशस्यतरं चानुष्ठेयमिति। अतश्चेति। प्रशस्यतरस्यैवानुष्ठेयत्वादित्यर्थः। योगस्य प्रशस्यतरत्वं च श्रेयःप्रदत्वादेवेत्याह— श्रेयोऽवाप्तिरिति। निःश्रेयसप्राप्तिरित्यर्थः। योगद्वयमपि श्रेयोऽवापकत्वात् कर्तव्यमेवेत्यत्राह— सहैकेति। युगपदेकेन योगद्वयस्याप्यनुष्ठातुमशक्यत्वाद् नैकेनोभयं कर्तव्यमित्यर्थः। सर्वज्ञस्य तव यदभिप्रेतं तदेव मादृशेन कर्तव्यमित्याह— तवेति॥१॥
मध्वः …{Loading}…
मध्वः - मूलम्
॥5.1॥ तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेनयदृच्छालाभसन्तुष्टः 4।22 इत्यादिसन्न्यासंकुरु कर्मैव 4।15 इत्यादि कर्मयोगं च। नियमनादिना सकललोककर्षणात्कृष्णः। तच्चोक्तम् यतः कर्षसि देवेश नियम्य सकलं जगत्। अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः इति महाकौर्मे। सन्न्यासशब्दार्थं भगवानेव वक्ष्यति। अयं प्रश्नाशयः यदि सन्न्यासः श्रेयोऽधिकः स्यात् तर्हि सन्न्यासस्येषद्विरोधि युद्धमिति।
जयतीर्थः
॥5.1॥ पूर्वसङ्गतत्वेनैतदध्यायप्रतिपादनमर्थमाह तृतीयेति। कर्मयोगो नाम कर्माणि कृत्वा तेषां ब्रह्मात्मकत्वज्ञानमिति कश्चित् तद्व्यावर्तयितुमेवशब्दः। फलकामनादित्यागेनेश्वरार्पणबुद्ध्या वर्णाश्रमविहितकर्मानुष्ठानमेव कर्मयोगोऽत्र प्रपञ्च्यते तस्यैव पूर्वमुक्तत्वात् नान्यः तस्याप्रकृत्वात्। द्व्यंशश्चायं कर्मयोगः कामादिवर्जनमीश्वरार्पणबुद्ध्या कर्मानुष्ठानं चेति। तत्राद्यं सन्न्यासशब्दोक्तम् द्वितीयमुपचारेण कर्मयोगशब्दोक्तम् तदभिप्रायेण योगसन्न्यासयोर्लक्षणं स्पष्टयतीत्यन्यत्रोक्तमिति सन्न्यासमित्यादिना। कुत्रोक्तमर्जुनोऽनुवदति इत्यत आह यदृच्छेति। कर्मयोगं इति वदताकर्मणां इत्येतद्योगशब्देन सम्बध्यत इत्युक्तं भवति। तथा चकर्मणां सन्न्यासं त्यागं इति व्याख्यानमसदिति सूचितम्। शंससि इत्यनेनान्वयः। चतुर्थाध्यायोक्तस्यार्थस्यतदध्यायोत्थानबीजत्वात्तृतीयाध्यायार्थप्रपञ्चनात्मकस्याप्यस्य चतुर्थानन्तर्यं युक्तमित्यप्यनेन ज्ञापितम्। कृष्णशब्दो वर्णविशेषमात्रवचन इति प्रतीतिनिरासायाह नियमनादिनेति। नित्यनैमित्तिककाम्यनिषिद्धरूपसर्वकर्मत्यागः सन्न्यासशब्दार्थः इति व्याख्यानं दूषयति सन्न्यासेति। ज्ञेयः स नित्यसन्न्यासी 5।3 इति सन्न्यासशब्दस्य भगवतैवान्यथा व्याख्यातत्वात् तद्विरुद्धं परव्याख्यानमित्यर्थः। यदि सर्वकर्मपरित्यागो न सन्न्यासशब्दार्थः किन्तु द्वेषादिवर्जनमेव तर्हि तस्य योगेन विरोधाभावात्सन्न्यासयोगयोर्विरोधाभिप्रायेण श्रेयःप्रश्नोऽनुपपन्नः स्यादित्यत आह अयमिति। अत्र श्रेय इति यथास्थितं गीतापदमनूद्य सन्न्यासपदानुगुण्येनाधिक इति व्याख्यातम्। नन्वेतत्घोरः इति चोदितंश्रेयान् इति च परिहृतं च सत्यम् अतएवात्रेषदित्युक्तमिति अतस्तत्यक्त्वा सन्न्यास एव कर्तव्ये किं वैगुण्यमङ्गीकृत्यापि विधीयते युद्धमित्याशयशेषः।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥5.1॥ संन्यासमिति। संन्यासः प्रधानम् पुनः योगः इति ससंशयस्य प्रश्नः।
शङ्करनारायणः
5.1 Samnyasam etc. Is renunciation superior or Yoga ; this is the estion of the doubting person (Arjuna).
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥5.1॥ साङ्ख्ययोगैकार्थमतं स्वकर्मकरणं बहिः। इत्यबुद्ध्वा निजश्रेयोनिश्चये पृच्छति क्षमम्॥1॥ अर्जुन उवाच सन्न्यासमिति। साङ्ख्यानामेव कर्मणां सन्न्यासं त्यागं कथयसि योगं च। तत्र कर्मणां पुनर्योगे सम्बन्धं वा कथयसि। नहि कर्मसन्न्यासः कर्मयोगश्चैकस्यैकदैव सम्भवतः विरुद्धस्वरूपत्वात्। तस्मादेकं सुनिश्चितं मम श्रेयो वद।
पुरुषोत्तमः
॥5.1॥ सन्न्यासं कर्मयोगं च श्रीकृष्णोक्तं धनञ्जयः।
श्रुत्वा संशयमापन्नः पुनः प्रश्नं चकार ह॥
अर्जुन उवाच सन्न्यासमिति। हे कृष्ण सदानन्द आनन्दैकदानयोग्य कर्मणां सन्न्यासं त्यागंन मां कर्माणि 4।14 इत्यारभ्यकृत्वाऽपि न निबध्यते 4।22 इत्यन्तं शंससि पुनःयोगमातिष्ठ 4।42 इत्यनेन योगं च शंससि। एतयोरुभयोर्मध्ये एकं सुनिश्चितं निर्धारितं ब्रूहि। च पुनरेतयोरुभयोः सकाशादेकमन्यद्यच्छ्रेयः श्रेयोरूपं भक्तिरूपं भवेत् तन्मे मम त्वदीयस्य सुनिश्चितं संशयरूपं ब्रूहि।
श्रीधर-स्वामी …{Loading}…
॥5.1॥ निर्वाय संशयं जिष्णोः कर्मसंन्यासयोगयोः। जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिमब्रवीत्॥1॥
अज्ञानसंभूतं संशयं ज्ञानासिना छित्त्वा कर्मयोगमातिष्ठेत्युक्तं तत्र पूर्वापरविरोधं मन्वानोऽर्जुन उवाच **संन्यासमिति।**यस्त्वात्मरतिरेव स्यात् इत्यादिनासर्वं कर्माखिलं पार्थ इत्यादिना च ज्ञानिनः कर्मसंन्यासं कथयसि। ज्ञानासिना संशयं छित्त्वा योगमातिष्ठेति पुनर्योगं च कथयसि। न च कर्मसंन्यासः कर्मयोगश्चैकस्यैकदैव संभवतः विरुद्धस्वरूपत्वात्। तस्मादेतयोर्मध्ये एकस्मिन्ननुष्ठातव्ये सति मम यच्छ्रेयः श्रेष्ठं सुनिश्चितं तदेकं ब्रूहि।
English …{Loading}…
आदिदेवानन्दः
5.1 Arjuna said You praise, O Krsna, the renunciation of actions and then praise Karma Yoga also. Tell me with certainly which of these is the superior one leading to the ultimate good.
गम्भीरानन्दः
5.1 Arjuna said O Krsna, You praise renunciation of actions, and again, (Karma-) yoga. Tell me for certain that one which is better between these two.
पुरोहितस्वामी
5.1 “Arjuna said: My Lord! At one moment Thou praisest renunciation of action; at another, right action. Tell me truly, I pray, which of these is the more conducive to my highest welfare;
शङ्करनारायणः
5.1. Arjuna said O krsna, you commend renunciation of action and again the Yoga of action; which one of these two is superior [to the other] ; Please tell me that for certain.
शिवानन्दः - अनुवादः
5.1 Arjuna said Renunciation of actions, O Krishna, Thou praisest, and again Yoga. Tell me conclusively that which is the better of the two.
शिवानन्दः - टीका
5.1 संन्यासम् renunciation; कर्मणाम् of actions; कृष्ण O Krishna; पुनः again; योगम् Yoga; च and; शंससि (Thou) praisest; यत् which; श्रेयः better; एतयोः of these two; एकम् one; तत् that; मे to me; ब्रूहि tell; सुनिश्चितम् conclusively.Commentary Thou teachest renunciation of actions and also their performance. This has confused me. Tell decisively now which is better. It is not possible for a man to resort to both of them at the same time. Yoga here means Karma Yoga. (Cf.III.2)
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।5.1।। अर्जुन बोले – हे कृष्ण ! आप कर्मोंका स्वरूपसे त्याग करनेकी और फिर कर्मयोगकी प्रशंसा करते हैं। अतः इन दोनों साधनोंमें जो एक निश्चितरूपसे कल्याणकारक हो, उसको मेरे लिये कहिये।
रामसुखदासः - टीका
5.1।।**व्याख्या–‘संन्यासं कर्मणां कृष्ण’–**कौटुम्बिक स्नेहके कारण अर्जुनके मनमें युद्ध न करनेका भाव पैदा हो गया था। इसके समर्थनमें अर्जुनने पहले अध्यायमें कई तर्क और युक्तियाँ भी सामने रखीं। उन्होंने युद्ध करनेको पाप बताया (गीता 1। 45)। वे युद्ध न करके भिक्षाके अन्नसे जीवन-निर्वाह करनेको श्रेष्ठ समझने लगे (2। 5) और उन्होंने निश्चय करके भगवान्से स्पष्ट कह भी दिया कि मैं किसी भी स्थितिमें युद्ध नहीं करूँगा (2। 9)। प्रायः वक्ताके शब्दोंका अर्थ श्रोता अपने विचारके अनुसार लगाया करते हैं। स्वजनोंको देखकर अर्जुनके हृदयमें जो मोह पैदा हुआ, उसके अनुसार उन्हें युद्धरूप कर्मके त्यागकी बात उचित प्रतीत होने लगी। अतः भगवान्के शब्दोंको वे अपने विचारके अनुसार समझ रहे हैं कि भगवान् कर्मोंका स्वरूपसे त्याग करके प्रचलित प्रणालीके अनुसार तत्त्वज्ञान प्राप्त करनेकी ही प्रशंसा कर रहे हैं।
**‘पुनर्योगं च शंससि’–**चौथे अध्यायके अड़तीसवें श्लोकमें भगवान्ने कर्मयोगीको दूसरे किसी साधनके बिना अवश्यमेव तत्त्वज्ञान प्राप्त होनेकी बात कही है। उसीको लक्ष्य करके अर्जुन भगवान्से कह रहे हैं कि कभी तो आप ज्ञानयोगकी प्रशंसा (4। 33) करते हैं और कभी कर्मयोगकी प्रशंसा करते हैं (4। 41)।
चिन्मयानन्दः
।।5.1।। अर्जुन के इस प्रश्न से स्पष्ट होता है कि अनजाने में ही वह अपनी नैराश्य अवस्था से बहुत कुछ मुक्त हुआ भगवान् के उपदेश को ध्यानपूर्वक श्रवण करके विचार भी करने लगा था। स्वभाव से क्रियाशील होने के कारण अर्जुन को कर्मयोग रुचिकर तथा स्वीकार्य था। परन्तु अनेक स्थानों पर श्रीकृष्ण द्वारा अन्य यज्ञों की अपेक्षा ज्ञान अथवा कर्मसंन्यास को अधिक श्रेष्ठ प्रतिपादित करने से अर्जुन के मन में सन्देह उत्पन्न हुआ और यही कारण था कि वह स्वयं के लिए किसी मार्ग का निश्चय नहीं कर सका। अत इसका निश्चय कराना ही अर्जुन के प्रश्न का प्रयोजन है। और एक बात यह भी है कि मानसिक उन्माद का रोगी उस रोग के प्रभाव से कुछ मुक्त होने पर भी शीघ्र ही पूर्ण आत्मविश्वास नहीं जुटा पाता। यह सबका अनुभव है कि भयंकर स्वप्न से जागे हुए व्यक्ति को पुन संयमित होकर निद्रा अवस्था में आने के उपक्रम में कुछ समय लग जाता है। अर्जुन की ठीक ऐसी ही स्थिति थी। मानसिक तनाव एवं उन्माद की स्थिति से बाहर आने पर भी अपने सारथी श्रीकृष्ण के उपदेश को पूर्णरूप से समझने तथा विचार करने में वह स्वयं को असमर्थ पा रहा था। अर्जुन इस निष्कर्ष पर पहुँचा था कि भगवान् उसके सामने कर्मयोग तथा कर्मसंन्यास के रूप में दो विकल्प प्रस्तुत कर रहे हैं। अत वह श्रीकृष्ण से यह जानना चाहता है कि उसके आत्मकल्याण के लिये इन दोनों में से कौन सा एक निश्चित मार्ग अनुकरणीय है। इस अध्याय का प्रयोजन यह बताने का है कि ये दो मार्ग विकल्प रूप नहीं है और न ही परस्पर पूरक होते हुये युगपत अनुष्ठेय हैं। कर्मयोग तथा कर्मसंन्यास इनका इसी क्रम में आचरण करना है और न कि एक साथ दोनों का। यही इस अध्याय का विषय है।
तेजोमयानन्दः - अनुवादः
।।5.1।। अर्जुन ने कहा हे – कृष्ण ! आप कर्मों के संन्यास की और फिर योग (कर्म के आचरण) की प्रशंसा करते हैं। इन दोनों में एक जो निश्चय पूर्वक श्रेयस्कर है, उसको मेरे लिए कहिये।।