शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिः योगे बुद्धिः इति च । तत्र ‘प्रजहाति यदा कामान्’ (भ. गी. २ । ५५) इत्यारभ्य आ अध्यायपरिसमाप्तेः साङ्ख्यबुद्ध्याश्रितानां संन्यासं कर्तव्यमुक्त्वा तेषां तन्निष्ठतयैव च कृतार्थता उक्ता — ‘एषा ब्राह्मी स्थितिः’ (भ. गी. २ । ७२) इति । अर्जुनाय च ‘कर्मण्येवाधिकारस्ते . . . मा ते सङ्गोऽस्त्वकर्मणि’ (भ. गी. २ । ४७) इति कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य, न तत एव श्रेयःप्राप्तिम् उक्तवान् । तदेतदालक्ष्य पर्याकुलीकृतबुद्धिः अर्जुनः उवाच । कथं भक्ताय श्रेयोर्थिने यत् साक्षात् श्रेयःप्राप्तिसाधनं साङ्ख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थयुक्ते पारम्पर्येणापि अनैकान्तिकश्रेयःप्राप्तिफले नियुञ्ज्यात् इति युक्तः पर्याकुलीभावः अर्जुनस्य, तदनुरूपश्च प्रश्नः ‘ज्यायसी चेत्’ (भ. गी. ३ । १) इत्यादिः, प्रश्नापाकरणवाक्यं च भगवतः युक्तं यथोक्तविभागविषये शास्त्रे ॥
केचित्तु — अर्जुनस्य प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा च आत्मना सम्बन्धग्रन्थे गीतार्थो निरूपितः तत्प्रतिकूलं च इह पुनः प्रश्नप्रतिवचनयोः अर्थं निरूपयन्ति । कथम् ? तत्र सम्बन्धग्रन्थे तावत् — सर्वेषामाश्रमिणां ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे निरूपितः अर्थः इत्युक्तम् ; पुनः विशेषितं च यावज्जीवश्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानात् मोक्षः प्राप्यते इत्येतत् एकान्तेनैव प्रतिषिद्धमिति । इह तु आश्रमविकल्पं दर्शयता यावज्जीवश्रुतिचोदितानामेव कर्मणां परित्याग उक्तः । तत् कथम् ईदृशं विरुद्धमर्थम् अर्जुनाय ब्रूयात् भगवान् , श्रोता वा कथं विरुद्धमर्थमवधारयेत् ॥
तत्रैतत् स्यात् — गृहस्थानामेव श्रौतकर्मपरित्यागेन केवलादेव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणामिति । एतदपि पूर्वोत्तरविरुद्धमेव । कथम् ? सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानात् मोक्षं ब्रूयात् आश्रमान्तराणाम् ॥
अथ मतं श्रौतकर्मापेक्षया एतद्वचनम् ‘केवलादेव ज्ञानात् श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते’ इति ; तत्र गृहस्थानां विद्यमानमपि स्मार्तं कर्म अविद्यमानवत् उपेक्ष्य ‘ज्ञानादेव केवलात्’ इत्युच्यते इति । एतदपि विरुद्धम् । कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः शक्यमवधारयितुम् । किञ्च — यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैरेव समुच्चयो न श्रौतैः ॥
अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्ष इति । तत्रैवं सति गृहस्थस्य आयासबाहुल्यात् , श्रौतं स्मार्तं च बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥
अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षः स्यात् , न आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वात् इति । तदप्यसत् , सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन मुमुक्षोः सर्वकर्मसंन्यासविधानात् , आश्रमविकल्पसमुच्चयविधानाच्च श्रुतिस्मृत्योः ॥
सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः — न, मुमुक्षोः सर्वकर्मसंन्यासविधानात् । ‘पुत्रैषणाया वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) ‘तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९) ‘न्यास एवात्यरेचयत्’ (तै. ना. ७८) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. १२) इति च । ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्याद्याः श्रुतयः । ‘त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ’ (मो. ध. ३२९ । ४०) ‘संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः’ ( ? ) इति बृहस्पतिः । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१ । ७) इति शुकानुशासनम् । इहापि च ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादि ॥
मोक्षस्य च अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्यवायपरिहारार्थानि इति चेत् , न ; असंन्यासिविषयत्वात् प्रत्यवायप्राप्तेः । न हि अग्निकार्याद्यकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्मचारिणामसंन्यासिनामपि कर्मिणाम् । न तावत् नित्यानां कर्मणामभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, ‘कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति असतः सज्जन्मासम्भवश्रुतेः । यदि विहिताकरणात् असम्भाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्रमाणमित्युक्तं स्यात् ; विहितस्य करणाकरणयोः दुःखमात्रफलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकम् इत्यनुपपन्नार्थं कल्पितं स्यात् । न चैतदिष्टम् । तस्मात् न संन्यासिनां कर्माणि । अतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः ; ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति अर्जुनस्य प्रश्नानुपपत्तेश्च ॥
यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुच्चित्य त्वया अनुष्ठेयम् इत्युक्तं स्यात् , ततः अर्जुनस्य प्रश्नः अनुपपन्नः ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति । अर्जुनाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते, या कर्मणो ज्यायसी बुद्धिः सापि उक्तैव इति ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ (भ. गी. ३ । १) इति उपालम्भः प्रश्नो वा न कथञ्चन उपपद्यते । न च अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम् , येन ‘ज्यायसी चेत्’ इति विवेकतः प्रश्नः स्यात् ॥
यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधात् युगपदनुष्ठानं न सम्भवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं स्यात् , ततोऽयं प्रश्न उपपन्नः ‘ज्यायसी चेत्’ इत्यादिः । अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते । न च अज्ञाननिमित्तं भगवत्प्रतिवचनं कल्पनीयम् । अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात् ज्ञानकर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलादेव ज्ञानात् मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ॥
ज्ञानकर्मणोः ‘एकं वद निश्चित्य’ (भ. गी. ३ । २) इति च एकविषयैव प्रार्थना अनुपपन्ना, उभयोः समुच्चयसम्भवे । ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इति च ज्ञाननिष्ठासम्भवम् अर्जुनस्य अवधारणेन दर्शयिष्यति ॥