रामानुजः …{Loading}…
रामानुजः - मूलम्
वेङ्कटनाथः
अथ सङ्गतिं विवक्षुः
साक्षान्-मोक्षोपायं, वक्ष्यमाणं च तत्-स्वरूपं, तत्-प्राप्यं च दर्शयन्
द्वितीयाध्यायोक्तार्थस्य साक्षान्-मोक्षोपायत्वाभावेन
अपवर्ग-प्रधाने शास्त्रे सङ्गत्य्-अभाव-शङ्कां परिहर्तुम्
इति-कर्तव्यतात्वं प्रथयति तद् एवम् इति।
तद् एवम् मुमुक्षुभिः प्राप्यतया
वेङ्कटनाथः
तत् - छङ्कराद्य्-उक्त-प्रकार-निराकरणेन
यथावद् द्वितीयाध्याय-निर्वाहाद् इत्य् अर्थः।
एवम् इति स्वोक्तौचित्यं निर्दिशति।
वेदान्तोदित– निरस्त-निखिलाविद्यादि-दोष-गन्ध– +अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण– परब्रह्म-पुरुषोत्तम-प्राप्त्य्-उपाय-भूत– वेदनोपासन-ध्यानादि-शब्द-वाच्य– तदैकान्तिकात्यन्तिक-भक्तिं वक्तुं
तद्-अङ्ग-भूतं “य आत्मापहतपाप्मा” इत्यादि-प्रजापति-वाक्योदितं प्राप्तुर् आत्मनो याथात्म्य-दर्शनं
तन्-नित्यता-ज्ञान-पूर्वक– +असङ्ग-कर्म-निष्पाद्य– ज्ञान-योग-साध्यम् उक्तम्।
वेङ्कटनाथः
“ब्रह्मविद् आप्नोति परम्” तै.उ.2।1।1,
“परं ज्योतिर् उपसम्पद्य” छा.उ.8।3।4,
“परात् परं पुरुषम् उपैति” मुं.उ.3।2।8,
“रसं ह्य् एवायं लब्ध्वाऽऽनन्दी भवति” तै.उ.2।7,
“परमं साम्यम् उपैति” मुं.उ.3।2।7।
आत्म-दर्शनस्य पर-विद्याङ्गतायां प्रमाणं प्रपञ्चयति प्रजापतीति।
प्रजापति-वाक्ये हि
दहर-वाक्योदित– पर-विद्या-शेषतया
वेङ्कटनाथः
फलवत्-सन्निधाव् अफलं तद्-अङ्गम्।+++(5)+++
तत्र सन्निधिस् तावद् उच्यते दहरेति।
प्राप्तुर् आत्मनस् स्वरूप-दर्शनम्,
“यस् तम् आत्मानम् अनुविद्य विजानाति”
इत्य् उक्त्वा
जागरित-स्वप्न-सुषुप्त्य्-अतीतं प्रत्यग्-आत्म-स्वरूपम् अशरीरं प्रतिपाद्य,
वेङ्कटनाथः
प्रत्यग्-आत्म-विषयत्व-व्यक्त्य्-अर्थं
तत्-प्रकरणोदित-प्रत्यग्-आत्म-परिशोधन-प्रकारम् आह
जागरितेति।
प्रजापतिर् हि क्रमाज् जागरिताद्यवस्था-त्रय-विशिष्टं प्रत्यगात्मानम् उपदिदेश।
इन्द्रस् तु
“नाहम् अत्र भोग्यं पश्यामि”
छां.उ.8।9।10।2
इति तत्र-तत्र विमुखः
पुनः पुनः पप्रच्छ।
ततश् च शुश्रूषोर् योग्यतां विज्ञाय प्रजापतिः,
“अशरीरं वाव सन्तम्” छां.उ.8।12।1
इति परिशुद्धं स्वरूपम् उक्तवान्।
“एवम् एवैष सम्प्रसादो
ऽस्माच् छरीरात् समुत्थाय
परं ज्योतिर् उपसम्पद्य
स्वेन रूपेणाभिनिष्पद्यते”
इति दहर-विद्या-फलेनोपसंहृतम्।
वेङ्कटनाथः
अत्राङ्गत्व-सिद्ध्य्-अर्थं
दहर-विद्यातः पृथक्-फलाभावं, तद्-एक-फलत्वं चाह — एवम् एवेति।
एतद् उक्तं भवति — प्रजापति-वाक्यं हि दहर-विद्या-प्रकरण-गतं,
न च प्रजापति-वाक्योदित– प्रत्यग्-आत्म-दर्शनस्य निश्श्रेयसातिरिक्तं फलम् उक्तम्।
न च केवल-प्रत्यगात्म-दर्शनं निश्श्रेयस-साधनं,
“नान्यः पन्थाः” श्वे.उ.3।8,6।15 इत्यादि-विरोधात्,
तत्-क्रतु-न्यायाच् च।+++(5)+++
न चात्र जीव-प्राप्तिर् एव फलम् उच्यते,
“परं ज्योतिः” इति विशेषणात्, स्
“नारायणः परं ज्योतिः” म.ना.उ.11।4 इत्यादिना च पर-ज्योतिश्-शब्दस्य परमात्म-विषयत्व-प्रसिद्धेः,
दहर-विद्यायां पूर्वत्रापि तस्यैव पर-ज्योतिश्-शब्देनोक्तेः,
उपसम्पत्तुर् आत्म-सम्पत्तव्याद् भेदस्य च स्वरस-सिद्धेः,
प्राप्तुर् आत्मनः परब्रह्म-साम्यापन्न– पुरुष-लभ्य– निरतिशय-स्वच्छन्द-भोग– निर्दुःखताद्य्-अभिधानाच् च।
अतः प्रधान-फलस्यैवात्र
तद्-अङ्गेऽपि निर्देशात्
पर-विद्याङ्गं प्रत्यग्-आत्म-दर्शनम् इति।
अन्यत्रापि,
वेङ्कटनाथः
अथ “न जायते म्रियते” 2।20 इत्यादिभिः
कतिपय-पदावापोद्वाप-भेदितैः श्लोकैः
प्रत्यभिज्ञातार्थतया भगवद्-गीता-प्रबन्ध-समानाकारां
भक्ति-शब्द-कण्ठोक्तिमतीं कठ-वल्लीम् उपनिषदम्
उक्तस्यार्थस्य निर्विशङ्कं विशदीकरणायोदाहरति — अन्यत्रापीति।
“अध्यात्म-योगाधिगमेन देवं
मत्वा, धीरो हर्ष-शोकौ जहाति”
इत्य् एवम्-आदिषु,
“देवं मत्वे"ति विधीयमान-पर-विद्याङ्गतया
“अध्यात्म-योगाधिगमेने"ति प्रत्यग्-आत्म-ज्ञानम् अपि विधाय,
वेङ्कटनाथः
साङ्ग-सफल-प्रधान-विधि-वाक्ये
प्रधानांशम् अङ्गांशं च विभजते — देवं मत्वेति।
“अध्यात्म-योगाधिगमेन” इत्यत्र
साक्षात्-पर-विषय-योग-परत्वे
“मत्वा” इत्य्-अस्य साध्यत्वायोगात्,
शास्त्र-जन्य-ज्ञाने योग-शब्दस्यावाचकत्वात्,
“मत्वा” इत्यत्र “शास्त्रेणे"त्य् अध्याहृत्य
तद्-व्युत्क्रमान्वयानौचित्यात्,
जीवस्यापि परवत्
तत्रैव विवरिष्यमाणत्वाच् च
जीवालम्बन-योग-परत्वं युक्तम्।
“न जायते म्रियते वा विपश्चित्”
इत्य्-आदिना प्रत्यग्-आत्म-स्वरूपं विशोध्य,
वेङ्कटनाथः
अङ्गतया विहितस्य ज्ञानस्य ज्ञेयैक-निरूपणीय-स्वरूपस्य
आपेक्षिक-ज्ञेय-स्वरूप-शोधनोपदेशम् आह — न जायत इति।
एवं प्रथम-षट्कोपबृंहणीयांश उक्तः,
यथा सङ्गृहीतं —
“ज्ञान-कर्मात्मिके निष्ठे
योग-लक्षे सुसंस्कृते।
आत्मानुभूति-सिद्ध्य्-अर्थे
पूर्व-षट्केन चोदिते”
गी.सं.2 इति।
वेङ्कटनाथः
अथ द्वितीय-तृतीय-षट्कोपबृंहणीयांशम् उदाहरति —
“अणोर् अणीयान्” इत्यादिना।
इदम् अपि सङ्गृहीतं —
“मध्यमे भगवत्-तत्त्व-
याथात्म्यावाप्ति-सिद्धये।
ज्ञान-कर्माभिनिर्वर्त्यो
भक्ति-योगः प्रकीर्तितः॥प्रधान-पुरुष-व्यक्त-
सर्वेश्वर-विवेचनम्।
कर्म-धीर् भक्तिर् इत्य्-आदिः
पूर्व-शेषो ऽन्तिमोदितः”
गी.सं.3,4
इति।
“अणोर् अणीयान्”, इत्य् आरभ्य,
“महान्तं विभुम् आत्मानं
मत्वा धीरो न शोचति”,
नायम् आत्मा प्रवचनेन लभ्यो
न मेधया +++(→मननादिना)+++ न बहुना श्रुतेन।
+++(ध्यान-विशेषादिना प्रीतः)+++ यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम्॥ भ्ग्र्_३।
इत्य्-आदिभिः
+++(क्रमशः)+++ पर-स्वरूपं, तद्-उपासनम्, उपासनस्य च भक्ति-रूपतां प्रतिपाद्य,
वेङ्कटनाथः
“अणोर् अणीयान्” इत्यादेर् अर्थम् आह — पर-स्वरूपम् इति।
“महान्तं विभुम्” इत्य्-आद्य्-उक्तम् आह — तद्-उपासनम् इति।
“नायम् आत्मा” इत्यस्याभिप्रेतम् आह — उपासनस्य चेति।
केवल-मनन-निदिध्यासन-श्रवण-निषेध-मुखेन
भक्त्य्-आख्य–वरणीयता-हेतु– गुण-विशेष-विधि-परम् इदं वाक्यम्
इति शारीरक-भाष्यादिषु विशदं व्याख्यातम्।
विज्ञान-सारथिर् यस् तु
मनः-प्रग्रहवान् नरः।
सो ऽध्वनः पारम् आप्नोति
तद्-विष्णोः परमं पदम्॥ भ्ग्र्_३।
इति पर-विद्या-फलेनोपसंहृतम्।
वेङ्कटनाथः
“मत्वा धीरो हर्ष-शोकौ जहाति”,
“मत्वा धीरो न शोचति”
इत्य् उक्तस्यैव पर-विद्या-फलस्योपसंहारेऽपि
विशदोपदेशं +++(→आह)+++ प्रत्यग्-आत्म-ज्ञानस्यैतद्-एक-फलत्व-प्रदर्शनायाह — विज्ञानेति।
एवम् उपक्रमोपसंहारादिभिः
पर-विद्यामयेऽस्मिन् प्रकरणे
“अध्यात्म-योगाधिगमेन देवं मत्वा”
इति परमात्म-ज्ञान-कारणतया निर्दिष्टं
पृथक्-फल-रहितं च
प्रत्यग्-आत्म-ज्ञानं पर-विद्याङ्गतया सिद्धम्
इति तद्-उपबृंहणतया प्रतीयमानेऽस्मिन्न् अपि प्रकरणे
तथात्वम् अध्यवसातव्यम् इत्य् उक्तं भवति।
अतः परम्
अध्याय-चतुष्टयेन
इदम् एव प्राप्तुः प्रत्यगात्मनो दर्शनं
ससाधनं प्रपञ्चयति।
वेङ्कटनाथः
एवं सङ्क्षेपोक्ति-पर्यवसाने प्रतिपत्ति-सौकर्याय
कुमति-मत-भङ्गाय च
आत्म-ज्ञानस्य वक्ष्यमाण-पर-विद्याङ्गताम् उपपाद्य
उक्त-विस्तर-रूपस्य प्रथम-षट्क-शेषस्योक्तांशेन सङ्गतिम् आह — अतः परम् इति।
एकस्मिन्न् एव षट्के सङ्ग्रह-विस्तर-रूपेण पेटिका-भेद-प्रवृत्तिः।
“इदम् एवे"त्य् अवधारणेनाध्याय-चतुष्टये परमात्म-प्रसङ्ग-तद्-ध्यानादेः
“युक्त आसीत मत्-परः” 2।68 इति पूर्ववद् एव
आत्म-दर्शन-शेषत्वम् अवगमयति।
पुनरुक्ति-परिहाराय “प्रपञ्चयति” इत्य् उक्तम्।
स-प्रयोजनत्वाय प्रपञ्चन-प्रकारम् आह स-साधनम् इति।
शङ्करः …{Loading}…
शङ्करः - मूलम्
शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिः योगे बुद्धिः इति च । तत्र ‘प्रजहाति यदा कामान्’ (भ. गी. २ । ५५) इत्यारभ्य आ अध्यायपरिसमाप्तेः साङ्ख्यबुद्ध्याश्रितानां संन्यासं कर्तव्यमुक्त्वा तेषां तन्निष्ठतयैव च कृतार्थता उक्ता — ‘एषा ब्राह्मी स्थितिः’ (भ. गी. २ । ७२) इति । अर्जुनाय च ‘कर्मण्येवाधिकारस्ते . . . मा ते सङ्गोऽस्त्वकर्मणि’ (भ. गी. २ । ४७) इति कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य, न तत एव श्रेयःप्राप्तिम् उक्तवान् । तदेतदालक्ष्य पर्याकुलीकृतबुद्धिः अर्जुनः उवाच । कथं भक्ताय श्रेयोर्थिने यत् साक्षात् श्रेयःप्राप्तिसाधनं साङ्ख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थयुक्ते पारम्पर्येणापि अनैकान्तिकश्रेयःप्राप्तिफले नियुञ्ज्यात् इति युक्तः पर्याकुलीभावः अर्जुनस्य, तदनुरूपश्च प्रश्नः ‘ज्यायसी चेत्’ (भ. गी. ३ । १) इत्यादिः, प्रश्नापाकरणवाक्यं च भगवतः युक्तं यथोक्तविभागविषये शास्त्रे ॥
केचित्तु — अर्जुनस्य प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा च आत्मना सम्बन्धग्रन्थे गीतार्थो निरूपितः तत्प्रतिकूलं च इह पुनः प्रश्नप्रतिवचनयोः अर्थं निरूपयन्ति । कथम् ? तत्र सम्बन्धग्रन्थे तावत् — सर्वेषामाश्रमिणां ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे निरूपितः अर्थः इत्युक्तम् ; पुनः विशेषितं च यावज्जीवश्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानात् मोक्षः प्राप्यते इत्येतत् एकान्तेनैव प्रतिषिद्धमिति । इह तु आश्रमविकल्पं दर्शयता यावज्जीवश्रुतिचोदितानामेव कर्मणां परित्याग उक्तः । तत् कथम् ईदृशं विरुद्धमर्थम् अर्जुनाय ब्रूयात् भगवान् , श्रोता वा कथं विरुद्धमर्थमवधारयेत् ॥
तत्रैतत् स्यात् — गृहस्थानामेव श्रौतकर्मपरित्यागेन केवलादेव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणामिति । एतदपि पूर्वोत्तरविरुद्धमेव । कथम् ? सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानात् मोक्षं ब्रूयात् आश्रमान्तराणाम् ॥
अथ मतं श्रौतकर्मापेक्षया एतद्वचनम् ‘केवलादेव ज्ञानात् श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते’ इति ; तत्र गृहस्थानां विद्यमानमपि स्मार्तं कर्म अविद्यमानवत् उपेक्ष्य ‘ज्ञानादेव केवलात्’ इत्युच्यते इति । एतदपि विरुद्धम् । कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः शक्यमवधारयितुम् । किञ्च — यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैरेव समुच्चयो न श्रौतैः ॥
अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्ष इति । तत्रैवं सति गृहस्थस्य आयासबाहुल्यात् , श्रौतं स्मार्तं च बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥
अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षः स्यात् , न आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वात् इति । तदप्यसत् , सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन मुमुक्षोः सर्वकर्मसंन्यासविधानात् , आश्रमविकल्पसमुच्चयविधानाच्च श्रुतिस्मृत्योः ॥
सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः — न, मुमुक्षोः सर्वकर्मसंन्यासविधानात् । ‘पुत्रैषणाया वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) ‘तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९) ‘न्यास एवात्यरेचयत्’ (तै. ना. ७८) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. १२) इति च । ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्याद्याः श्रुतयः । ‘त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ’ (मो. ध. ३२९ । ४०) ‘संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः’ ( ? ) इति बृहस्पतिः । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१ । ७) इति शुकानुशासनम् । इहापि च ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादि ॥
मोक्षस्य च अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्यवायपरिहारार्थानि इति चेत् , न ; असंन्यासिविषयत्वात् प्रत्यवायप्राप्तेः । न हि अग्निकार्याद्यकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्मचारिणामसंन्यासिनामपि कर्मिणाम् । न तावत् नित्यानां कर्मणामभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, ‘कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति असतः सज्जन्मासम्भवश्रुतेः । यदि विहिताकरणात् असम्भाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्रमाणमित्युक्तं स्यात् ; विहितस्य करणाकरणयोः दुःखमात्रफलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकम् इत्यनुपपन्नार्थं कल्पितं स्यात् । न चैतदिष्टम् । तस्मात् न संन्यासिनां कर्माणि । अतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः ; ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति अर्जुनस्य प्रश्नानुपपत्तेश्च ॥
यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुच्चित्य त्वया अनुष्ठेयम् इत्युक्तं स्यात् , ततः अर्जुनस्य प्रश्नः अनुपपन्नः ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति । अर्जुनाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते, या कर्मणो ज्यायसी बुद्धिः सापि उक्तैव इति ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ (भ. गी. ३ । १) इति उपालम्भः प्रश्नो वा न कथञ्चन उपपद्यते । न च अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम् , येन ‘ज्यायसी चेत्’ इति विवेकतः प्रश्नः स्यात् ॥
यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधात् युगपदनुष्ठानं न सम्भवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं स्यात् , ततोऽयं प्रश्न उपपन्नः ‘ज्यायसी चेत्’ इत्यादिः । अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते । न च अज्ञाननिमित्तं भगवत्प्रतिवचनं कल्पनीयम् । अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात् ज्ञानकर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलादेव ज्ञानात् मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ॥
ज्ञानकर्मणोः ‘एकं वद निश्चित्य’ (भ. गी. ३ । २) इति च एकविषयैव प्रार्थना अनुपपन्ना, उभयोः समुच्चयसम्भवे । ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इति च ज्ञाननिष्ठासम्भवम् अर्जुनस्य अवधारणेन दर्शयिष्यति ॥