विश्वास-प्रस्तुतिः …{Loading}…
प्रकृतेः क्रियमाणानि
गुणैः कर्माणि सर्वशः।
अहङ्कार-विमूढात्मा
“कर्ता ऽहम्” इति मन्यते॥3.27॥
मूलम् …{Loading}…
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥3.27॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
वेङ्कटनाथः
“प्रकृतेः” इत्यादि-श्लोक-चतुष्टयस्यार्थम् आह — कर्म-योगम् इति।
अथ कर्मयोगम् अनुतिष्ठतो विदुषो ऽविदुषश्च विशेषं प्रदर्शयन्
वेङ्कटनाथः
विदुषो ऽविदुषश् चेति व्युत्क्रमेण श्लोक-द्वयार्थः।
तृतीये त्व् एतद्-विशदी-करण-मुखेनाविचालनम् उक्तम्।
कर्मयोगापेक्षितम् आत्मनो ऽकर्तृत्वानुसन्धान-प्रकारम् उपदिशति।
वेङ्कटनाथः
कर्म-योगापेक्षितं कर्म-योगेति-कर्तव्यताभूतम् इत्यर्थः।
॥3.27॥प्रकृतेर् गुणैः सत्त्वादिभिः
वेङ्कटनाथः
“प्रकृतेर् गुणैः” इत्युक्ते
प्रसिद्धि-प्रकर्षादि-सिद्धं विशेषं
प्रस्तुतानुपयुक्त-शब्दादि– प्राकृत-गुण-व्यवच्छेदायाह — सत्त्वादिभिर् इति।
स्वानुरूपं क्रियमाणानि कर्माणि प्रति
वेङ्कटनाथः
वक्ष्यमाण-सात्विकादि-कर्म-विभागं
“सर्वशः” इति प्रकार-वाचि-पद-सूचितम् आह — स्वानुरूपम् इति।
“कर्ता” इति तृजन्त-योगात्
षष्ठी-प्राप्तिः स्याद्
इति, तत्-परिहाराय कर्मसु कर्तृत्व-अहन्त्वोक्ति-भ्रम-व्युदासाय च
कर्माणि प्रतीत्य् उक्तम्।
+++(तद्-अध्याहारेण “कर्मणां कर्तेति” नेति। )+++
+++(ताच्छील्ये→)+++ तृन्न्-अन्तत्व-विवक्षायां त्व्
इयं फलितोक्तिः।
अहङ्कारविमूढात्मा
“अहं कर्ता” इति मन्यते।
अहङ्कारेण विमूढ आत्मा यस्यासौ - अहङ्कारविमूढात्मा।
वेङ्कटनाथः
“अहङ्कार-विमूढात्मा” इति समानांश-त्रयस्य+++(=??)+++ बह्व्-अर्थ-परस्य
अत्रार्थं विवक्षन् विगृह्णाति — अहङ्कारेणेति।
नात्राहम्भाव-मात्रम् उच्यते तस्यात्म-स्वभावान्तर्गतत्वात्,
नाप्य् अहङ्काराख्यम् अ-चिद्-द्रव्यं, तस्यापि देहात्म-भ्रमं द्वारीकृत्य कार्य-करत्वे सति
अ-व्यवहितस्यैव वक्तुम् उचितत्वात्,
नापि गर्वः - उत्कृष्ट-परिभवादि-हेतुत्वेनानिर्देशात्।
अहङ्कारो नाम अन्-अहम्-अर्थे प्रकृतौ
अहम् इत्य् अभिमानः।
वेङ्कटनाथः
अतो ऽहङ्कार इति देहात्म-भ्रम एवात्र विवक्षित
इत्यभिप्रायेणाह —
अहङ्कारो नाम अनहम्-अर्थे प्रकृताव् अहम्-अभिमान इति।
एतेनाहङ्कार-शब्दस्याभूत–तद्-भावे च्वि-प्रत्ययेन व्युत्पत्तिर् दर्शिता।
तेन अज्ञातात्मस्वरूपो गुणकर्मस्व् “अहं कर्ता” इति मन्यते इत्यर्थः।
वेङ्कटनाथः
“अज्ञातात्म-स्वरूप” इति।
विमूढ आत्मा स्वरूपं यस्य स विमूढात्मा।
“दिशो विमुह्येयुः” इतिवद् विमूढ-शब्दो ऽत्र
मोह-विषय-समानाधिकरण
इति भावः।+++(4)+++
वेदान्तदेशिकः
…
आदिदेवानन्दः
3.27 It is the Gunas of Prakrti like Sattva, Rajas etc., that perform all the activities appropriate to them. But the man, whose nature is deluded by his Ahankara, thinks, ‘I am the doer of all these actions.’ Ahankara is the mistaken conception of ‘I’ applied to the workings of Prakrti which is not the ‘I’. The meaning is that it is because of this (Ahankara), that one who is ignorant of the real nature of the self, thinks, ‘I am the doer’ with regard to the activities that are really being done by the Gunas of Prakrti.
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥3.27॥ प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्यावस्था तस्याः प्रकृतेः गुणैः विकारैः कार्यकरणरूपैः क्रियमाणानि कर्माणिलौकिकानि शास्त्रीयाणि च सर्वशः सर्वप्रकारैः अहंकारविमूढात्मा कार्यकरणसंघातात्मप्रत्ययः अहंकारः तेन विविधं नानाविधं मूढः आत्मा अन्तःकरणं यस्य सः अयं कार्यकरणधर्मा कार्यकरणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्तत्कर्मणाम् अहं कर्ता इति मन्यते**॥ यः पुनर्विद्वान्**
गम्भीरानन्दः
3.27 Karmani kriyamanani, while actions, secular and scriptural, are being done; sarvasah, in ever way; gunaih, by the gunas, (i.e.) by the modifications in the form of body and organs; (born) prakrteh, of Nature-Nature, (otherwise known as) Pradhana [Pradhana, Maya, the Power of God.], being the state of eilibrium of the three alities of sattva, rajas and tamas; ahankara-vimudha-atma, one who is deluded by egoism; manyate, thinks; iti, thus; ‘Aham karta, I am the doer.’ Ahankara is self-identification with the aggregate of body and organs. He whose atma, mind, is vimudham, diluded in diverse ways, by that (ahankara) is ahankara-vimudha-atma. He who imagines the characteristics of the body and organs to be his own, who has self-identification with the body and the organs, and who, through ignorance, believes the activities to be his own-, he thinks, ‘I am the doer of those diverse activities.’
हरिकृष्णदासः
॥3.27॥ मूर्ख अज्ञानी मनुष्य कर्मोंमें किस प्रकार आसक्त होता है सो कहते हैं सत्त्व रजस् और तमस् इन तीनों गुणोंकी जो साम्यावस्था है उसका नाम प्रधान या प्रकृति है उस प्रकृतिके गुणोंसे अर्थात् कार्य और करणरूप समस्त विकारोंसे लौकिक और शास्त्रीय सम्पूर्ण कर्म सब प्रकारसे किये जाते हैं। परंतु अहंकारविमूढात्मा कार्य और करणके संघातरूप शरीरमें आत्मभावकी प्रतीतिका नाम अहंकार है उस अहंकारसे जिसका अन्तःकरण अनेक प्रकारसे मोहित हो चुका है ऐसा देहेन्द्रियके धर्मको अपना धर्म माननेवाला देहाभिमानी पुरुष अविद्यावश प्रकृतिके कर्मोंको अपनेमें मानता हुआ उनउन कर्मोंका मैं कर्ता हूँ ऐसा मान बैठता है।
आनन्दगिरिः
॥3.27॥ अज्ञानां कर्मसङ्गिनामित्युक्तं तेनोत्तरश्लोकस्य संगतिमाह अविद्वानिति। कर्तृत्वमात्मनो वास्तवमित्यभ्युपगमाद्विद्वान्कथं कुर्वन्नेव तस्याभावं पश्यतीत्याशङ्क्याह प्रकृतेरिति। कर्मस्वविदुषः सक्तिप्रकारं प्रकटयन्व्याकरोति प्रकृतेरित्यादिना। प्रधानशब्देन मायाशक्तिरुच्यते अविद्ययेत्युभयतः संबध्यते।
नीलकण्ठः
॥3.27॥ अविद्वान्कथं कर्मसु सज्जत इत्यत आह प्रकृतेरिति। प्रकृतेः पारमेश्वर्याः सत्वरजस्तमोगुणात्मिकायाःदेवात्मशक्तिं स्वगुणैर्निगूढाम् इति श्रुतिप्रसिद्धायाः शक्तेर्गुणैः कार्यकारणसंघातात्मकैः क्रियमाणानि कर्माणि अहंकारेण स्वस्मिन्नध्यस्तेन विमूढः तदीयान्कर्तृत्वादीनात्मधर्मत्वेन पश्यन् आत्मनश्चासङ्गानन्दसंविद्रूपतामपश्यन्नात्मा अहंकारेण विमूढश्चासावात्मा चेति विग्रहः। अहं कर्माणि करोमि कर्मणां कर्तेति मन्यते कर्त्रध्यासेन। कर्ताहमिति तृन्प्रत्ययस्तेननलोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीनिषेधः। अन्यथा तृच्प्रत्यये कर्मणां कर्ताहमिति षष्ठ्या भाव्यम्।
धनपतिः
॥3.27॥ सक्ताः कर्मणीत्येतं श्लोकं व्याचष्टे प्रकृतेरिति द्वाभ्याम्। प्रकृतेः प्रधानस्य मायाशक्तेर्गुणैर्विकारैः कार्यकारणरुपैः क्रियमाणानि कर्माणि सर्वाणि सर्वशः सर्वप्रकारैः कार्यकरणसंघातेऽहंप्रत्ययोऽहंकारस्तेन विमूढः स्वात्मस्वरुपविवेकासमर्थः आत्मान्तःकरणं यस्य सोऽविद्यया कर्मणाभहंकर्तेति मन्यते।
मधुसूदन-सरस्वती
॥3.27॥ विद्वदविदुषोः कर्मानुष्ठानसाम्येऽपि कर्तृत्वाभिमानतदभावाभ्यां विशेषं दर्शयन्सक्ताः कर्मणीति (25) श्लोकार्थं विवृणोति द्वाभ्याम् प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका पारमेश्वरी शक्तिः। मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति श्रुतेः। तस्याः प्रकृतेर्गुणैर्विकारैः कार्यकारणरूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्वप्रकारैरहंकारेण कार्यकारणसंघातात्मप्रत्ययेन विमूढः स्वरूपविवेकासमर्थ आत्मान्तःकरणं यस्य सोऽहंकारविमूढात्माऽनात्मन्यात्माभिमानी तानि कर्माणि कर्ताहमिति करोम्यहमिति मन्यते कर्त्रध्यासेन। कर्ताहमिति तृन्प्रत्ययः। तेनन लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
रामरायः - २७
प्रकृतेरिति। सर्वशः प्रकृतेर्गुणैः क्रियमाणानि कर्माणि अहङ्कारविमूढात्मा अहं कर्तेति मन्यते। साक्षात् सत्त्वादिगुणानां कर्तृत्वाभावादाह— कार्यकरणाकारपरिणता इति। कार्यं देहः करणानि समनस्कानीन्द्रियाणि। विकारैरिति। कार्यैरित्यर्थः। गुण- साम्यावस्थारूपप्रकृतिजन्यत्वात् प्रकृतिविकारत्वं गुणानामित्यर्थः।
[[१८२]]
ननु ‘ईक्षतेर्नाशब्द’मिति प्रधानाख्यस्य साङ्ख्यपरिकल्पितस्य तत्त्वस्याशब्दत्वं व्यासेनैव सिद्धान्तितमिति कथमिह तद्ग्रहणमिति चेत्? उच्यते— नेयं प्रकृतिस्तत्त्वान्तरं, किन्तु मायैव। इयं हि सत्त्वादिगुणत्रयवती। प्रलये गुणास्ते त्रयोऽस्यां निलीय साम्येन वर्तन्त इति तदा अस्याः प्रकृतिरिति नाम। सृष्ट्युपक्रमे त्वस्याः गुणाः क्षुभ्यन्ते। स एव गुणक्षोभः सत्त्वादिगुणोत्पत्तिरित्युच्यते इति। अहङ्कारेति। कार्यकरणसङ्घाते अनात्मनि अहमिति यः प्रत्ययः सोऽहङ्कार इत्युच्यते। एतेन ब्रह्मण्यात्मबुद्धिर्नाहङ्कार इति सूचितम् , तस्यात्मत्वात्। नानाविधमिति। स्थूलोऽहं काणोऽहं रुग्णोऽहं खिन्नोऽहमित्यादिबहुप्रकारं मूढः मोहं प्राप्तः, कोऽयम्? अत आह— कार्यकरणधर्मेति। कार्यकरणगतधर्मानात्मन्यध्यस्तवानित्यर्थः। अत एव कार्यकरणाभिमानी कार्यकरणेषु ममेति अहमिति चाभिमानवान्। अत एव अविद्यया भ्रान्त्या आत्मनि स्वस्मिन् कर्माणि सन्तीति मन्यमानः कार्यकरणगतकर्माण्यात्मगतानि मन्वान इत्यर्थः। तत्कर्मणां कार्यकरणकर्मणां कर्ताऽहमिति मन्यते। कार्यकरणाकारपरिणतसत्त्वादिप्रकृतिगुणत्रयक्रियमाणकर्माणि मूढोऽहमेव करोमीति मन्यत इति समुदायार्थः। देहे गच्छत्यहं गच्छामीति, चक्षुषि पश्यत्यहं पश्यामीति, मनसि शोचत्यहं शोचामीति च देहादितादात्म्याध्यासाद् भ्रान्त्या पुरुषो मन्यत इति यावत् ॥२७॥
मध्वः …{Loading}…
मध्वः - मूलम्
॥3.27॥ विद्वदविदुषोः कर्मभेदमाह प्रकृतेरिति। प्रकृतेर्गुणैरिन्द्रियादिभिः। प्रकृतिमपेक्ष्य गुणभूतानि हि तानि तत्सम्बन्धीनि च। न हि प्रतिबिम्बस्य क्रिया।
जयतीर्थः
॥3.27 3.28॥ प्रकृतेः क्रियमाणानि इति श्लोकद्वयस्यास्फुटत्वात्तात्पर्यमाह विद्वदिति। यथायोगं सम्बन्धः न यथाक्रमम्। कर्मभेदं कर्मवैलक्षण्यं आह प्रपञ्चयतीत्यर्थः। सक्ताः कर्मणि 3।25 इत्यादिनोक्तत्वात्। व्यवहितत्वादन्वयं दर्शयन् गुणशब्दस्यानेकार्थत्वात् विवक्षितमर्थमाह प्रकृतेरिति। आदिपदेन शरीरमनसोर्ग्रहणम्। कथमिन्द्रियादीनां द्रव्याणां प्रकृतिगुणत्वमित्यत आह प्रकृतिमिति। गुणभूतान्यप्रधानानि। प्रकारान्तरेण व्याचष्टे तदिति। प्रकृतिकार्याणि चेत्यर्थः। गुणशब्दः कार्यार्थ इत्युक्तं भवति। ननु जीवस्यापि कर्तृत्वात्अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते इति कथमुच्यते इत्यत आह न हीति। स्वातन्त्र्येणेति शेषः॥ गुणानां कर्मणां चान्योन्यं यो विभागस्तस्मिन्वक्तव्ये एकवचनेनालं कथं द्विवचनं केन वाऽस्यान्वयः इति शङ्काविभागशब्दस्यार्थं वदन्परिहरति कर्मेति। जीवेश्वरप्रकृतिलक्षणसम्बन्धिभेदात् कर्मणामिन्द्रियादीनां च भेदोऽत्र विवक्षितो ग्रन्थान्तरादवगन्तव्यः। गुणा गुणेष्विति पदद्वयस्य विवक्षितमर्थमाह गुणा इति।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥3.27॥ अज्ञानामित्युक्तम्। तदज्ञत्वं दर्शयति प्रकृतेरिति। प्रकृतिसंबन्धिभिः गुणैः सत्त्वाद्यैः किल कर्माणि क्रियन्ते। मूढश्च अहं कर्ता इत्यध्यवस्य+++(S omits अध्यवस्य)+++ मिथ्यैव आत्मानं बध्नाति।
शङ्करनारायणः
3.27 Prakreh etc. Indeed the actions are performed by the Strands, Sattva etc., belonging to the Prakrti. But the fool unnecessarily binds himself by wrongly comprehending ‘I’ am the doer’.
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥3.27 3.28॥ कर्म कुर्वतोर्विद्वदविदुषोर्विशेषं स्पष्टं सन्दर्शयति प्रकृतेरिति द्वाभ्याम्। प्रकृते योगे साङ्खयरीत्या विशेषदर्शनमिति नाप्रकृतप्रसङ्गः। तथाहि ब्रह्मवादिसाङ्ख्ये जगतः कर्त्ता भोक्ता सर्वधर्माश्रयः पुरुषोत्तम एवांशतोऽक्षरः कालः प्रकृतिः पुरुष आत्मा भवति स (इममेव) आत्मानं द्वेधापातयत् (ततः) पतिश्च पत्नी चाभवत् बृ.उ.1।4।3 इति श्रुतेः। तत्र कर्त्री प्रकृतिस्तत्संसृष्टतया पुरुषश्च भोक्ता। वस्तुतः पुष्करपलाशवत्प्राकृतधर्मैरवशस्तथापि तद्गुणैः परिणतगुणैरिन्द्रियैरिन्द्रियनिष्ठैर्वा गुणैः क्रियमाणानि कर्मामि कर्त्ताऽहं पुरुष इति मन्यते विपरीतमतिः। गुणेः कर्माणि क्रियन्ते न केवलेनात्मनेति। विभागतत्त्ववित्तु न सज्जते। इन्द्रियनिष्ठा गुणा विषयगुणेषु वर्तन्ते इति मननात्साङ्ख्ययोगयोरेक एवार्थः।
पुरुषोत्तमः
॥3.27॥ ननु विद्वानपि चेत्तथा कुर्यात्तदाऽविदुषः सकाशात् को भेदः तज्ज्ञानस्य च क्वोपयोगः सम्पूर्णे काले कर्मव्यावृत्त्यासेवाद्यनवसरादित्यतोऽविदुषो विदुषश्च भेदमाह प्रकृतेरिति। अहङ्कारेण विमूढात्मा अविद्वान् सर्वशः प्रकृतेर्गुणैरिन्द्रियैः क्रियमाणानि कर्माणिअहमेव कर्ता इति मन्यते न तु भगवदिच्छाम्। तानि च भगवाल्ँ लोकव्यामोहार्थं कारयति।
श्रीधर-स्वामी …{Loading}…
॥3.27॥ ननु विदुषापि चेत्कर्म कर्तव्यं तर्हि विद्वदविदुषोः को विशेष इत्याशङक्योभयोर्विशेषं दर्शयति प्रकृतेरिति द्वाभ्याम्। प्रकृतेर्गुणैः प्रकृतिकार्यैरिन्द्रियैः सर्वप्रकारेण क्रियमाणानि यानि कर्माणि तान्यहमेव कर्ता करोमीति मन्यसे। तत्र हेतुः। अहंकारेणेन्द्रियादिष्वात्माध्यासेन विमूढ आत्मा बुद्धिर्यस्य सः।
English …{Loading}…
आदिदेवानन्दः
3.27 Actions are being performed in every way by the Gunas of Prakrti. He whose nature is deluded by egoism, thinks, ‘I am the doer.’
गम्भीरानन्दः
3.27 While actions are being done in every way by the gunas (alities) of Nature, one who is deluded by egoism thinks thus: ‘I am the doer.’
पुरोहितस्वामी
3.27 Action is the product of the Qualities inherent in Nature. It is only the ignorant man who, misled by personal egotism, says: I am the doer.’
शङ्करनारायणः
3.27. The actions are performed part by part, by the Strands of the Prakrti; [yet] the person, having his self (mind) deluded with egoity, imagines ‘I am [alone] the doer’.
शिवानन्दः - अनुवादः
3.27 All actions are wrought in all cases by the alities of Nature only. He whose mind is deluded by egoism thinks, “I am the doer.”
शिवानन्दः - टीका
3.27 प्रकृतेः of nature; क्रियमाणानि are performed; गुणैः by the alities; कर्माणि actions; सर्वशः in all cases; अहङ्कारविमूढात्मा one whose mind is deluded by egosim; कर्ता doer; अहम् I; इति thus; मन्यते thinks.Commentary Prakriti or Pradhana or Nature is that state in which the three Gunas; viz.; Sattva; Rajas and Tamas exist in a state of eilibrium. When this eilibrium is disturbed; creation begins body; senses; mind; etc.; are formed. The man who is deluded by egoism identifies the Self with the body; mind; the life force and the senses and ascribes to the Self all the attributes of the body and the senses. He; therefore; thinks through ignorance; I am the doer. In reality the Gunas of Nature perform all actions. (Cf.III.29V.9IX.9;10XIII.21;24;30;32XVIII.13;14).
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।3.27।। सम्पूर्ण कर्म सब प्रकारसे प्रकृतिके गुणोंद्वारा किये जाते हैं; परन्तु अहंकारसे मोहित अन्तःकरणवाला अज्ञानी मनुष्य ‘मैं कर्ता हूँ’ – ऐसा मानता है।
रामसुखदासः - टीका
।।3.27।।***व्याख्या–’*****प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः’–**जिस समष्टि शक्तिसे शरीर, वृक्ष आदि पैदा होते और बढ़ते-घटते हैं, गङ्गा आदि नदियाँ प्रवाहित होती हैं, मकान आदि पदार्थोंमें परिवर्तन होताहै, उसी समष्टि शक्तिसे मनुष्यकी देखना, सुनना, खाना-पीना आदि सब क्रियाएँ होती हैं। परन्तु मनुष्य अहंकारसे मोहित होकर, अज्ञानवश एक ही समष्टि शक्तिसे होनेवाली क्रियाओंके दो विभाग कर लेता है– एक तो स्वतः होनेवाली क्रियाएँ; जैसे– शरीरका बनना, भोजनका पचना इत्यादि; और दूसरी, ज्ञानपूर्वक होनेवाली क्रियाएँ; जैसे– देखना, बोलना, भोजन करना इत्यादि। ज्ञानपूर्वक होनेवाली क्रियाओंको मनुष्य अज्ञानवश अपनेद्वारा की जानेवाली मान लेता है। प्रकृतिसे उत्पन्न गुणों-(सत्त्व, रज और तम-) का कार्य होनेसे बुद्धि, अहंकार, मन, पञ्चमहाभूत, दस इन्द्रियाँ और इन्द्रियोंके शब्दादि पाँच विषय– ये भी प्रकृतिके गुण कहे जाते हैं। उपर्युक्त पदोंमें भगवान् स्पष्ट करते हैं कि सम्पूर्ण क्रियाएँ (चाहे समष्टिकी हों या व्यष्टिकी) प्रकृतिके गुणों द्वारा ही की जाती हैं, स्वरूपके द्वारा नहीं।
चिन्मयानन्दः
।।3.27।। भगवान् श्रीकृष्ण निरन्तर इस बात पर बल देते हैं कि अनासक्त अथवा निष्काम कर्म ही आदर्श है। यह कहना सरल परन्तु करना कठिन होता है। बुद्धि से यह बात समझ में आने पर भी उसे कार्यान्वित करना सरल काम नहीं। हम सबके साथ कठिनाई यह है कि हम जानते नहीं कि कर्म में आसक्ति को त्याग कर फिर कर्म भी किस प्रकार करते रहें। यहाँ भगवान् विवेक की वह पद्धति बता रहें हैं जिसके द्वारा इस अनासक्ति को हम प्राप्त कर सकते हैं। आत्म अज्ञान बुद्धि और मन के स्तर पर क्रमश इच्छा और विचार के रूप में व्यक्त होता है। ये विचार मन की सात्त्विक राजसिक एवं तामसिक प्रवृत्तियों के अनुरूप होकर शरीर के स्तर पर कर्म के रूप में व्यक्त होते हैं। इन तीनों गुणों में से जिस गुण का आधिक्य विचारों में होता है मनुष्य के कर्म भी ठीक उसी प्रकार के ही होते हैं। जैसे सत्त्व के कारण शुभ कर्म और रजोगुण तथा तमोगुण से क्रमश उत्पन्न होते हैं कामक्रोध से प्रेरित तथा क्रूर पाशविक कर्म। इस प्रकार हम देखते हैं कि इन वासनाओं का ही जगत् में व्यक्त होने वाला स्थूल रूप कर्म कहलाता है। जहाँ मन है वहाँ कर्म भी है। कर्म मन से ही उत्पन्न होते हैं और मन से ही शक्ति प्राप्तकर मन की सहायता से ही किये जाते हैं। परन्तु मन के साथ अविद्याजनित मिथ्या तादात्म्य के कारण मनुष्य स्वयं को ही कर्ता मानता है। कर्तृत्व की भावना होने पर फल की चिन्ता व्याकुलता एवं आसक्ति होना स्वाभाविक ही है।
स्वप्न में अपने ही संस्कारों से एक जगत् उत्पन्न करके मनुष्य उसके साथ तादात्म्य स्थापित करता है उसे ही स्वप्नद्रष्टा कहते हैं। स्वप्न के दुख स्वप्नद्रष्टा के लिए होते हैं और किसी के लिए नहीं। स्वप्नजगत् के साथ तादात्म्य को त्यागने पर द्रष्टा के सब दुख समाप्त हो जाते हैं। इसी प्रकार वासना इच्छा कर्म अथवा फल स्वयं किसी भी प्रकार की आसक्ति को जन्म नहीं देते किन्तु जब हमारा तादात्म्य मन के साथ हो जाता है तो कर्तृत्व और आसक्ति दोनों की ही उत्पत्ति होती है। जिस क्षण इस विवेक का उदय होता है आसक्ति का अस्तित्व वहाँ नहीं रह पाता। जीवन शान्तिमय हो जाता है। परन्तु ज्ञानी पुरुष आसक्त नहीं होते क्योंकि
तेजोमयानन्दः - अनुवादः
।।3.27।। सम्पूर्ण कर्म प्रकृति के गुणों द्वारा किये जाते हैं, अहंकार से मोहित हुआ पुरुष, “मैं कर्ता हूँ” ऐसा मान लेता है।।