विश्वास-प्रस्तुतिः …{Loading}…
सक्ताः कर्मण्य् अ-विद्वांसो
**यथा कुर्वन्ति भारत।
कुर्याद् +++(ज्ञान-योग-निष्ठो)+++ विद्वांस् तथा ऽसक्तश्
चिकीर्षुर् लोक-संग्रहम्॥3.25॥+++(4)+++
मूलम् …{Loading}…
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्॥3.25॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
विस्तारः (द्रष्टुं नोद्यम्)
॥3.25॥
लोकस्य कर्म-योग-ज्ञान-योगयोर् अधिकारानधिकार-प्रकारः,
विदुषस् तु स्वाधिकार-तिस्कारेण तद्-अधिकारानुरूपाचरणं,
लोक-सङ्ग्रह-प्रकारश् च उच्यते
सक्ता इत्यादि-श्लोक-द्वयेन।
॥3.25॥ अविद्वांसः आत्मन्य् अ-कृत्स्न-विदः
विस्तारः (द्रष्टुं नोद्यम्)
अवेदनं प्रस्तुत-विषयम् इति ज्ञापनायोक्तम् —
आत्मन्य्-अकृत्स्न-विद इति।
एवम् उत्तरत्र विद्वान्, अज्ञानाम् इति शब्दयोर् अपि द्रष्टव्यम्।
अत्यन्तानात्म-ज्ञताव्युदासायाकृत्स्न-शब्दः।
कर्मणि सक्ताः कर्मण्य् अवर्जनीय-सम्बन्धा
विस्तारः (द्रष्टुं नोद्यम्)
पूर्वोक्तं प्रकृति-सम्बन्धेन कर्मणो ऽवर्जनीयत्वं
“सक्ताः” इत्यनेन विवक्षितम् इत्य् अभिप्रायेणाह —
कर्मण्य्-अवर्जनीय-सम्बन्धा इति।
आत्मन्य् अकृत्स्न-वित्तया
विस्तारः (द्रष्टुं नोद्यम्)
“अविद्वांसः”, “कर्मणि सक्ता” इत्य् उभयं
न सांसारिक-कर्म-तत्पर-पुरुष-विषयं,
तथा सति कर्म-योगम् अपि परित्यज्य
सांसारिक-कर्माण्य् एव विदुषाप्य् अनुष्ठेयानि स्युः। +++(4)+++ तस्माज् ज्ञान-योगानधिकारः कर्म-योगाधिकारश् च
ताभ्यां सूच्यत
इत्य् अभिप्रायेणात्मन्य् अकृत्स्न-वित्तयेत्यादिकम् उक्तम्।
एवम् उत्तरत्र “अज्ञानां कर्म-सङ्गिनाम्” [3.26] इत्यत्रापि ग्राह्यम्।
तद्-अभ्यास-रूप-ज्ञान-योगे अनधिकृताः कर्म-योगाधिकारणः
कर्मयोगम् एव यथा आत्मदर्शनाय कुर्वते
तथा आत्मनि कृत्स्न-वित्तया कर्मण्य् असक्तः
विस्तारः (द्रष्टुं नोद्यम्)
यथा कुर्वन्ति तथा कुर्याद्
इत्य् एतद् अपि
न केवलं दृष्टान्त-दार्ष्टान्तिक-विषयम्,
अपि तु
येन प्रकारेण स्वानुष्ठानं दृष्ट्वा ऽन्ये कर्म कुर्युः,
तेन प्रकारेण विद्वान् आचरेद्
इत्य् एतद्-अभिप्रायम्।
तथा सति हि “चिकीर्षुर् लोक-सङ्ग्रहम्” इत्य् अपि सङ्गतं भवति
इत्यभिप्रयन् वाक्यार्थम् आह — आत्मनीत्यादिना कुर्याद् इत्यन्तेन।
ज्ञान-योगाधिकार-योग्यो ऽपि व्यपदेश्यः शिष्टः
विस्तारः (द्रष्टुं नोद्यम्)
विद्वान्, असक्तः इत्य् उभाभ्यां फलितम् उक्तं
ज्ञान-योगाधिकार-योग्यो ऽपीति।
लोकरक्षणार्थं स्वाचारेण शिष्ट-लोकानां धर्मनिश्चयं चिकीर्षुः
विस्तारः (द्रष्टुं नोद्यम्)
सङ्ग्रह-शब्देन लोक-रञ्जनादि-भ्रमव्युदासायाह — धर्म-निश्चयम् इति। +++(5)+++
लोकस्य सङ्ग्रहणम् एकीकृत्य स्वीकरणं,
स्वानुष्ठाने समान-अभिप्रायतया स-यूथ्यताऽऽपादनम्
इत्यर्थः।
कर्म-योगम् एव कुर्यात्।
वेदान्तदेशिकः
…
आदिदेवानन्दः
3.25 ‘The ignorant’ are those people who do not know the entire truth about the self; ‘attached to their work’ means they are inseparably yoked to work. Because of their incomplete knowledge of the self, they are not alified for Jnana Yoga which is of the nature of practising knowledge of the self. They are alified for Karma Yoga only. As they should practise Karma Yoga for the vision of the self in the same manner Karma Yoga should be practised by one who is recognised as virtuous, who is unattached to work by reason of the vision of the self, and who wishes that his conduct should give guidance to others in virtuous conduct. In this way he should protect the world from chaos by his example. Such a person, even though alified for Jnana Yoga, should practice Karma Yoga.
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥3.25॥ सक्ताः कर्मणि अस्य कर्मणः फलं मम भविष्यति इति केचित् अविद्वांसः यथा कुर्वन्ति भारत कुर्यात् विद्वान् आत्मवित् तथा असक्तः सन्। तद्वत् किमर्थं करोति तत् श्रृणु चिकीर्षुः कर्तुमिच्छुः लोकसंग्रहम्॥ एवं लोकसंग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यमस्ति अन्यस्य वा लोकसंग्रहं मुक्त्वा। ततः तस्य आत्मविदः इदमुपदिश्यते
गम्भीरानन्दः
3.25 O scion of the Bharata dynasty, yatha, as; some avidvamsah, unenlightened poele; kurvanti, act. saktah, with attachment; karmani, to work, (thinking) ‘The reward of this work will accrue to me’; tatha, so; should vidvan, the enlightened person, the knower of the Self; kuryat, act; asaktah, without attachment, remaining unattached. [Giving up the idea of agentship and the hankering for the rewards of actions to oneself.] Whay does he (the enlightened person) act like him (the former); Listen to that: Cikirsuh, being desirous of achieving; lokasamgraham, prevention of people from going astray. ‘Neither for Me who am a knower of the Self, nor for any other (knower of the Self) who wants thus prevent people from going astray, is there any duty apart from working for the welfare of the world. Hence, the following advice is being given to such a knower of the Self:’
हरिकृष्णदासः
॥3.25॥ यदि मेरी तरह तू या दूसरा कोई कृतार्थबुद्धि आत्मवेत्ता हो तो उसको भी अपने लिये कर्तव्यका अभाव होनेपर भी केवल दूसरोंपर अनुग्रह ( करनेके लिये कर्म ) करना चाहिये हे भारत इस कर्मका फल मुझे मिलेगा इस प्रकार कर्मोंमें आसक्त हुए कई अज्ञानी मनुष्य जैसे कर्म करते हैं आत्मवेत्ता विद्वान्को भी आसक्तिरहित होकर उसी तरह कर्म करना चाहिये। आत्मज्ञानी उसकी तरह कर्म क्यों करता है सो सुन वह लोकसंग्रह करनेकी इच्छावाला है ( इसलिये करता है )।
आनन्दगिरिः
॥3.25॥ दृष्टान्तदार्ष्टान्तिकरूपं श्लोकं व्याकरोति सक्ता इत्यादिना। असक्तः सन् कर्तृत्वाभिमानं फलाभिसन्धिं वा कुर्वन्निति यावत्।
नीलकण्ठः
॥3.25॥ यदि मादृश एव त्वं कृतार्थोऽसि तथापि परानुग्रहार्थं कर्माणि कुर्वित्याह सक्ता इति। कर्मणि कर्मफले। कुर्वन्ति कर्माणीति शेषः। असक्त इति च्छेदः।
धनपतिः
॥3.25॥ यथाहं कृतार्थो लोकसंग्रहार्थं कर्म करोमि तथा त्वमन्यो वा विद्वांस्तदर्थं कर्म कुर्यादित्याह सक्ता इति। यथा विद्वांसः कर्मणि सक्ताः कर्तृत्वाभिमानफलाभिसंधिभ्यामासक्ताः कर्म कुर्वन्ति तथाऽसक्तः सन् विद्वानात्मविल्लोकसंग्रहं कर्तुमिच्छुः कर्म कुर्यात्। तव तु भरतवंशोद्भवत्वादपि लोकसंग्रहोऽवश्यं संपाद्य इति सूचयन्नाह भारतेति।
मधुसूदन-सरस्वती
॥3.25॥ ननु तवेश्वरस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्यापि कर्तृत्वाभिमानाभावान्न कापि क्षतिः। मम तु जीवस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवः स्यादित्यत आह सक्ताः कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मण्यभिनिविष्टा अविद्वांसोऽज्ञा यथा कुर्वन्ति कर्म लोकसंग्रहं कर्तुमिच्छुर्विद्वानात्मविदपि तथैव कुर्यात्। किंतु असक्तः सन्। कर्तृत्वाभिमानं फलाभिसंधिं चाकुर्वन्नित्यर्थः। भारतेति भरतवंशोद्भवत्वेन भा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योऽसीति दर्शयति।
रामरायः - २५
सक्ता इति। कृतार्थबुद्धिः कृतार्थोऽहमिति बुद्धिशाली। कृतः साक्षात्कृतोऽर्थः परमार्थ आत्मा यया सा कृतार्था बुद्धिर्यस्य स कृतार्थबुद्धिरिति वा। कृतार्था कृतकृत्या बुद्धिर्यस्येति वा। आत्मनि कृतकृत्यत्वाकृतकृत्यत्वादिविशेषासम्भवाद् बुद्धिरेव सच्चिदानन्दात्म- तादात्म्यमापद्य कृतकृत्यतामात्मनि सम्भावयतीत्यर्थः। अन्यो वेति। त्वत्त इतरो वा अहमिव कृतार्थबुद्धिरात्मविदित्यर्थः। तस्यान्यस्य आत्मनस्तवापि कर्तव्याभावेऽपीतरानुग्रहः कर्तव्य एव। यथा मया इतरानुग्रहः क्रियते तथा मादृशेन त्वयाऽन्येन वाऽऽत्मविदा कर्तव्य एवेतरानुग्रहः 1कर्मकरणद्वारेत्यर्थः। तस्यापि तादृशस्यापि आत्मनः स्वस्य कर्तव्याभावेऽपीत्यन्वयः। तस्यापीत्यतः प्राक् तर्हीति पूरणीयम्।
हे भारत! अविद्वांसः कर्मणि सक्ताःसन्तः यथा कर्म कुर्वन्ति, तथा विद्वानसक्तःसन् लोकसंग्रहं चिकीर्षुः कर्म कुर्यात्। कथं कर्मणि सङ्गः? अत आह— अस्येति। फलद्वारा कर्मसङ्ग इत्यर्थः॥२५॥
[[१८१]]
मध्वः …{Loading}…
मध्वः - मूलम्
॥3.25॥ Sri Madhvacharya did not comment on this sloka.
जयतीर्थः
॥3.25॥ Sri Jayatirtha did not comment on this sloka.
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥3.23 3.25॥ यदीत्यादि लोकसंग्रहमित्यन्तम्। किं च विदितवेद्यः कर्म चेत् त्यजेत् तत् लोकानां दुर्भेद एव एकप्रसिद्धपक्षशिथिलितास्थाबन्धत्वेनाप्ररूढिलक्षणो जायेत +++(S K जायते)+++। यतः +++(S omits यतः)+++ कर्मवासनां च न मोक्तुं शक्नुवन्ति ज्ञानधारां च नाश्रयितुम् अथ च शिथिलीभवन्ति।
शङ्करनारायणः
3.23-25 Yadi etc. upto loka-sangraham. Further, if a well-in-formed person were to abandon action, that would create in the society, a split for bad in the form of being illrooted, becuase of the binding force - viz., the regard for a particular well-known theroy-being loosened. For, they are able neither to cast off their tendency of action nor to accupy the tradition (or stream) of wisdom. Conseently they become weak. Because these (common men) are not purified correct knowledge, therefore to break i.e., to shake their mind would be highly harmful for them. Hence, for their benefit, one should not disturb their mind. This [the Lord] says :
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥3.25॥ तस्माद्विदुषाऽपि लोकसङ्ग्रहार्थं तत्कृपया कर्म कर्त्तव्यमित्युपसंहरन्नाह सक्ता इति। उभयोः कर्माचरणे प्राप्ते प्रकारभेदं दर्शयति अविद्वांस आत्मानात्मतत्त्वमजानन्तः सक्ताः कुर्वन्ति न तथा विद्वान् यतो लोकसङ्ग्रहं चिकीर्षुरिति।
पुरुषोत्तमः
॥3.25॥ अतस्तत्स्वरूपज्ञानेन लोकसङ्ग्रहार्थं कर्मस्वनासक्तं कर्म कुर्यादित्याह सक्ता इति। यथा अविद्वांसो मूर्खाः कर्मणि सक्तास्तत्फलाभिलाषिणो विषयादीन् न त्यक्तुं समर्थाः कर्म कुर्वन्ति तथा विद्वान् पण्डितो मत्स्वरूपज्ञः लोकसङ्ग्रहं चिकीर्षुः कर्तुमिच्छरसक्तस्तन्नासक्तिरहितो मदाज्ञया कुर्यादित्यर्थः।
श्रीधर-स्वामी …{Loading}…
॥3.25॥ तस्मादात्मविदापि लोकसंग्रहार्थं तत्कृपया कर्म कार्यमेवेत्युपसंहरति सक्ता इति। कर्मणि सक्ता अभिनिविष्टाः सन्तोऽज्ञाः यथा कर्म कुर्वन्ति तथैव असक्तः सन् विद्वानपि कुर्यात् लोकसंग्रहं कर्तुमिच्छुः।
English …{Loading}…
आदिदेवानन्दः
3.25 Just as the ignorant, attached to their work, act, O Arjuna, so too the learned should act without any attachment, and only for the welfare of the world.
गम्भीरानन्दः
3.25 O scion of the Bharata dynasty, as the unelightened poeple act with attachment to work, so should the enlightened person act, without attachment, being desirous of the prevention of people from going astray.
पुरोहितस्वामी
3.25 As the ignorant act, because of their fondness for action, so should the wise act without such attachment, fixing their eyes, O Arjuna, only on the welfare of the world.
शङ्करनारायणः
3.25. [Therefore] just as the unwise persons, being attached to action, do, O son of Prtha, so the wise should perform, [But] being unattached and desiring to hold the world together.
शिवानन्दः - अनुवादः
3.25 As the ignorant men act from attachment to action, O Bharata (Arjuna), so should the wise act without attachment, wishing the welfare of the world.
शिवानन्दः - टीका
3.25 सक्ताः attached; कर्मणि to action; अविद्वांसः the ignorant; यथा as; कुर्वन्ति act; भारत O Bharata; कुर्यात् should act; विद्वान् the wise; तथा so; असक्तः unattached; चिकीर्षुः wishing; लोकसंग्रहम् the welfare of the world.Commentary The ignorant man works in expectation of fruits. He says; I will do such and such work and will get such and such fruit. But the wise man who knows the Self; serves not for his own end. He should so act that the world; following his example; would attain peace; harmony; purity of heart; divine light and knowledge. A wise man is one who knows the Self. (Cf.II.64III.19XVIII.49).
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।3.25 – 3.26।। हे भरतवंशोद्भव अर्जुन! कर्ममें आसक्त हुए अज्ञानीजन जिस प्रकार कर्म करते हैं, आसक्तिरहित विद्वान भी लोकसंग्रह करना चाहता हुआ उसी प्रकार कर्म करे। तत्त्वज्ञ महापुरुष कर्मोंमें आसक्तिवाले अज्ञानी मनुष्योंकी बुद्धिमें भ्रम उत्पन्न न करे, प्रत्युत स्वयं समस्त कर्मोंको अच्छी तरहसे करता हुआ उनसे भी वैसे ही करवाये।
रामसुखदासः - टीका
3.25।।**व्याख्या–‘सक्ताः कर्मण्यविद्वांसो तथा कुर्वन्ति भारत’–**जिन मनुष्योंकी शास्त्र, शास्त्र-पद्धति और शास्त्र-विहित शुभकर्मोंपर पूरी श्रद्धा है एवं शास्त्रविहित कर्मोंका फल अवश्य मिलता है– इस बातपर पूरा विश्वास है; जो न तो तत्त्वज्ञ हैं और न दुराचारी हैं; किन्तु कर्मों, भोगों एवं पदार्थोंमें आसक्त हैं, ऐसे मनुष्योंके लिये यहाँ ‘सक्ताः अविद्वांसः’ पद आये हैं। शास्त्रोंके ज्ञाता होनेपर भी केवल कामनाके कारण ऐसे मनुष्य अविद्वान् (अज्ञानी) कहे गये हैं। ऐसे पुरुष शास्त्रज्ञ तो हैं, पर तत्त्वज्ञ नहीं। ये केवल अपने लिये कर्म करते हैं, इसीलिये अज्ञानी कहलाते हैं। ऐसे अविद्वान् मनुष्य कर्मोंमें कभी प्रमाद, आलस्य आदि न रखकर सावधानी और तत्परतापूर्वक साङ्गोपाङ्ग विधिसे कर्म करते हैं; क्योंकि उनकी ऐसी मान्यता रहती है कि कर्मोंको करनेमें कोई कमी आ जानेसे उनके फलमें भी कमी आ जायगी। भगवान् उनके इस प्रकार कर्म करनेकी रीतिको आदर्श मानकर सर्वथा आसक्तिरहित विद्वान्के लिये भी इसी विधिसे लोकसंग्रहके लिये कर्म करनेकी प्रेरणा करते हैं।
‘कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्’– जिसमें कामना, ममता, आसक्ति, वासना, पक्षपात, स्वार्थ आदिका सर्वथा अभाव हो गया है और शरीरादि पदार्थोंके साथ किञ्चिन्मात्र भी लगाव नहीं रहा, ऐसे तत्त्वज्ञ महापुरुषके लिये यहाँ ‘असक्तः, विद्वान्’ पद आये हैं (टिप्पणी प₀ 158)। बीसवें श्लोकमें **‘लोकसंग्रहमेवापि संपश्यन्’**कहकर फिर इक्कीसवें श्लोकमें जिसकी व्याख्या की गयी, उसीको यहाँ **‘लोकसंग्रहं चिकीर्षुः’**पदोंसे कहा गया है। श्रेष्ठ मनुष्य (आसक्तिरहित विद्वान्) के सभी आचरण स्वाभाविक ही यज्ञके लिये, मर्यादा सुरक्षित रखनेके लिये होते हैं। जैसे भोगी मनुष्यकी भोगोंमें, मोही मनुष्यकी कुटुम्बमें और लोभी मनुष्यकी धनमें रति होती है, ऐसे ही
चिन्मयानन्दः
।।3.25।। हम सब अपनेअपने कार्यक्षेत्रों में जीवनपर्यन्त पूर्ण उत्साह एवं रुचि के साथ कर्म करते रहते हैं। एक सामान्य मनुष्य निरन्तर कर्म के दबाव अथवा तनाव में अपने आप को थकाकर क्षीण कर लेता है। शारीरिक स्वास्थ्य ऋतु परिवर्तन की पीड़ा तथा जीवन के अन्य सुखदुख की चिन्ता न करके वह निरन्तर अधिक से अधिक धनार्जन तथा उसके उपभोग के लिए प्रयत्नशील रहता है। श्रीकृष्ण कहते हैं कि आत्मज्ञानी पुरुष भी अज्ञानी के समान उत्साहपूर्वक अथक कर्म करता है। दोनों के कार्यों में एकमात्र अन्तर यह है कि अज्ञानी पुरुष कर्म फलों में आसक्त हुआ कर्म करता है तो ज्ञानी पुरुष पूर्ण रूप से अनासक्त हुआ केवल विश्व के कल्याण के लिये कर्मरत होता है। यह संभव है कि सामान्य मनुष्य को ज्ञानी और अज्ञानी के कर्मों के मध्य सूक्ष्म भेद विशेष महत्त्व का प्रतीत न हो जब तक कि उसका ध्यान इस ज्ञान की सार्वभौमिक उपयोगिता की ओर आकर्षित नहीं किया जाय। कर्मफल के प्रति आसक्ति और चिन्ता ही वे छिद्र हैं जिनके माध्यम से कर्त्ता की शक्ति बिखर जाती है और जीवन में उसे केवल असफलता ही हाथ लगती है। ज्ञानी पुरुष भी शरीर मन और बुद्धि से ही समस्त कर्म करता है परन्तु वह मन की शक्ति को व्यर्थ में गंवाता नहीं। मन का यह स्वभाव है कि वह किसी न किसी वस्तु के साथ आसक्त होकर ही कार्य करता है। इस श्लोक में वर्णित अनासक्ति का अर्थ है मिथ्या विषयों के प्रति मन में आकर्षण का अभाव। इसे प्राप्त करने का उपाय है मन को उच्च और श्रेष्ठ लक्ष्य की ओर प्रवृत्त करना। अत श्रीकृष्ण जब अनासक्त होकर कर्म करने का उपदेश देते हैं तब उसका उपाय भी बताते हैं कि विद्वान् पुरुष को लोक कल्याण की इच्छा से कर्म करना चाहिए। अत्यधिक अहंकारकेन्द्रित होने पर ही आसक्ति कल्याण के मार्ग में बाधक बनती है। जिस सीमा तक हम अपनी दृष्टि को व्यापक करते हुए किसी बड़ी योजना अथवा समाज के लिये कार्य करते हैं उसी सीमा तक आसक्ति का दुखदायी विष समाप्त होकर युग को आनन्द विभोर करता है। अनेक प्रकार के विष मिश्रित रूप में जीवन रक्षक औषधि का काम करते हैं जब कि वही विष अपनें तीव्र रूप में तत्काल मृत्यु का कारण बन जाते हैं। अत्यधिक आत्मकेन्द्रित इच्छायें मनुष्य को हानि पहुंचाती हैं परन्तु अपने को ऊँचा उठाकर सम्पूर्ण जगत् के साथ तादात्म्य स्थापित होने पर उसी मनुष्य के कर्म दिव्यता की आभा से मंडित होकर उसके दुखों एवं दुर्बलताओं को दूर कर देते हैं। यहाँ अर्जुन को इस प्रकार की अनासक्ति के भाव द्वारा संस्कृति के उच्च मूल्यों की रक्षा के लिये शत्रुओं के साथ युद्ध करने का उपदेश दिया गया है। जगत् की सेवा में रत विद्वान् पुरुष को निम्नलिखित सम्मति दी गयी है
तेजोमयानन्दः - अनुवादः
।।3.25।। हे भारत ! कर्म में आसक्त हुए अज्ञानीजन जैसे कर्म करते हैं वैसे ही विद्वान् पुरुष अनासक्त होकर, लोकसंग्रह (लोक कल्याण) की इच्छा से कर्म करे।।
-
कर्मानुष्ठानद्वारेत्यर्थः। ↩︎