23 यदि ह्यहम्

विश्वास-प्रस्तुतिः …{Loading}…

यदि ह्य् अहं न वर्तेयं
जातु कर्मण्य् अतन्द्रितः।
मम वर्त्मानुवर्तन्ते
मनुष्याः पार्थ सर्वशः॥3.23॥

रामानुजः …{Loading}…

रामानुजः - मूलम्
वेङ्कटनाथः

॥3.23॥

कर्तव्य-प्रयोजनयोर् अभावे किम्-अर्थं तर्हि कर्म क्रियते

इति शङ्कायाम् उच्यते —
“यदि ह्य् अहम्” इति।

॥3.23॥ अहं सर्वेश्वरः सत्यसङ्कल्पः स्व-सङ्कल्प-कृत– जगद्-उदय-विभव-लय-लीलः

वेङ्कटनाथः

पूर्व-श्लोकस् “त्रिषु लोकेषु” इति निर्देशात् सर्वावतार-परः,
अयं तु “मनुष्याः” इति दर्शनात् कृष्णावतारासाधारणः।
तस्माद् “अहम्” इति निर्देशस्य
ईश्वर-स्वभाव-समुच्चित– कृष्णावतारासाधारणाकार-विषयताम् आह —
“अहं सर्वेश्वरः” इत्यादिभिः।

वेङ्कटनाथः

“सर्वेश्वरः, सत्य-सङ्कल्पः” इति।
पूर्ववद् आप्त-कामत्वाविरोधायोच्यते —
“स्व-सङ्कल्प-कृता” इति।
स्व-सङ्कल्प-मात्रेण सर्वं नियन्तुं शक्तो ऽपि
ज्ञान-प्रदानादि-द्वारा प्रवर्तनार्थं
जगद्-उपकृति-मर्त्यो जातो ऽपीत्य्-उक्तम्;
अन्यथा भूतावेश-न्यायेन प्रवर्तितानां शास्त्र-वश्यताभावात्
तत्-तद्-अनुष्ठानाधीनं फलं न स्यात्।

स्व-च्छन्दतो जगद्-उपकृतये मर्त्यो जातो ऽपि

वेङ्कटनाथः

“छन्दतः सम्प्रवर्तते” इत्याद्य्-अनुसारेणाह —
“स्वच्छन्दतः” इति, न तु कर्मणेत्य्-अर्थः।
कर्म-फल-भोक्तृत्वं व्युदस्यता
“जगद्-उपकृति-मर्त्यः” इत्य्-अनेन
“जगद्-उपकृति+++(→यै)+++-मर्त्यं को विजेतुं समर्थः” [वि.पु. 5.30.80]
इति पुराणोक्तिः स्मारिता।

अपि-शब्देनाकर्म-वश्यावतारो ऽपीत्य्-अभिप्रेतम्।

“अजायमानो बहुधा विजायते”
[यजुस्सं. 31.19, तै.आ. 3.13],

“नाकारणात् कारणाद् वा” [वि.पु. 5.1],

“इच्छा-गृहीताभिमतोरु-देहः” [वि.पु. 6.5.84]

इत्य्-आदिकम् अत्रानुसंहितम्।

मनुष्येषु शिष्ट-जनाग्रेसर–वसु-देव-गृहे अवतीर्णस्

वेङ्कटनाथः

अनुविधेयानुष्ठानत्व-सिद्ध्य्-अर्थं
हि-शब्द-द्योतित– प्रसिद्धि-प्रकार-विवरणार्थं चोक्तं —
“मनुष्येषु” इत्यादि।

तत्-कुलोचिते कर्मणि

वेङ्कटनाथः

ननु अयम् ईश्वरः कस्मिन् कर्मणि वर्तेत?
न ह्य् अस्य परमार्थतो वर्णाश्रमाः, सामान्य-धर्म-योग्यं मनुष्यत्वादिकं वा अस्ति,
येनाकर्मवश्य इच्छया कर्म कुर्वाणो ऽपि
तत्तद्-उचितं कर्मोपाददीत?

इति शङ्कायां “कुलोचितम्” इति,
“क्षात्रं धर्मं स्वं बहु मन्यते” इत्याद्य्-अनुसारेणाह —
“तत्-कुलोचितम्” इति।

अयं भावः —
सत्यम् अस्य परमार्थतो वर्णाश्रमादिकं नास्ति,
तथापि तत्-तद्-उचित-कर्म-करणाय
प्राकृतम् एव विग्रहं तत्-तज्-जातीय-सन्निवेशं परिणमयति;
तत्र तत्-तज्-जातीयत्व-बुद्ध्या पुरुषाणाम् अनुविधेयानुष्ठानत्वं स्याद् इति।

अतन्द्रितः सर्वदा यदि न वर्तेयम्

वेङ्कटनाथः

“अतन्द्रितः” — अनुदासीनः।
“सर्वदा” इति जातुशब्दार्थः; “जातु अपि” इति हि तद्-अभिप्रायः।

मम शिष्ट-जनाग्रेसर–वसु-देव-सूनोर् वर्त्म

वेङ्कटनाथः

अनुविधेयत्वोपयुक्तप्रकारविवक्षां “मम” इत्य् अत्रापि दर्शयति — “मम शिष्ट…” इति।

अकृत्स्न-विदः शिष्टाश् च
“सर्व-प्रकारेणायम् एव धर्म” इति अनुवर्तन्ते

वेङ्कटनाथः

“सर्वशः” इति प्रमाण-पौष्कल्य-परं
सेतिकर्तव्यताकत्व-परं वा
इत्य्-अभिप्रायेणाह — “सर्वप्रकारेण” इति।

“अनुवर्तन्ते” — अनुवर्तेरन् इत्य्-अर्थः;
प्रसङ्ग-रूपस्यापि सिद्धवत्-काराभिप्रायेण वर्तमान-व्यपदेशः।

ते च स्व-कर्तव्याननुष्ठानेन,
अकरणे प्रत्यवायेन च
आत्मानम् अनुपलभ्य
निरय-गामिनो भवेयुः।

वेङ्कटनाथः

वक्ष्यमाण-प्रसङ्गार्थं
मनुष्याणां पूर्व-सिद्ध-स्वानुवृत्ति-मात्राभिप्रायेण वा
अनिष्ट-प्रसङ्ग-परत्वायाह — ते च इति।

वेदान्तदेशिकः

आदिदेवानन्दः

3.23 If I, the Lord of all, whose will is always true, whose sport consists in creation, sustentation and dissolution of universe at My will, even though I am born at My pleasure as a man to help the world - if, I thus incarnating in the family of Vasudeva who is the foremost among virtuous men, did not contine to work unwearied at all times suitable to that family, then, these men with incomplete knowledge would follow My path, thinking that the way adopted by the son of virtuous Vasudeva alone is the real way. And in place of winning the self, they would go to Naraka because of their failure to do what ought to be done and also because of the sin arising from non-performance of duty.

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥3.23॥ यदि हि पुनः अहंवर्तेय जातु कदाचित् कर्मणि अतन्द्रितः अनलसः सन् मम श्रेष्ठस्य सतः वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः हे पार्थ सर्वशः सर्वप्रकारैः॥

गम्भीरानन्दः

3.23 Again, O Partha, yadi, if; jatu, at any time; aham, I; an, do not; varteyam, continue; atandritah, vigilantly, untiringly; karmani, in action; manusyah, men: anuvartante, willl follow; mama, My; vartma, path; sarvasah, in every way, I being the Highest. And if that be so, what is the harm; In reply the Lord says: [Ast. omits this sentence completely.-Tr.]

हरिकृष्णदासः

॥3.23॥ यदि मैं कदाचित् आलस्यरहित सावधान होकर कर्मोंमें न बरतूँ तो हे पार्थ ये मनुष्य सब प्रकारसे मुझ श्रेष्ठके मार्गका अनुकरण कर रहे हैं।

आनन्दगिरिः

॥3.23॥ लोकसंग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह यदि हीति।

नीलकण्ठः

॥3.23॥ यद्यहं कर्मणि न वर्तेयं तर्हि मनुष्याः ममैव वर्त्मानुवर्तन्ते अनुवर्तेरन्। कर्म न कुर्वीरन्नित्यर्थः। अतन्द्रितोऽनलसः। सर्वशः सर्वप्रकारैः।

धनपतिः

॥3.23॥ यद्यमतन्द्रितोऽनलसः सन् कर्मणि कदाचिन्न वर्तेयं मम श्रेष्ठस्य वर्त्म भार्गमनुवर्तन्ते सर्वे मनुष्या अनुवर्तेरन्। इतरे जना अपि मम मार्गमनुवर्तन्ते त्वं संबन्धी नानुवर्तस इत्यत्याश्चर्यमिति द्योतयन्संबोधयति पार्थेति।

मधुसूदन-सरस्वती

॥3.23॥ लोकसंग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह यदि पुनरहमतन्द्रियतोऽनलसः सन् कर्मणि जातु कदाचिन्न वर्तेयं नानुतिष्ठेयं कर्माणि तदा मम श्रेष्ठस्य सतो वर्त्म मार्गं हे पार्थ मनुष्याः कर्माधिकारिणः सन्तोऽनुवर्तन्तेऽनुवर्तेरन्। सर्वशः सर्वप्रकारैः।

रामरायः - २३

यदीति। ननु तव किं लोकसङ्ग्रहेण फलम्? अतो मा कुरुष्व त्वमपि कर्मेत्यत आह भगवान्— यदीति। यदि ह्यहमतन्द्रितः सन् जातु कर्मणि न वर्तेय इत्यन्वयः। अतन्द्रितः इत्यनेन कर्मत्यागे हेतुरलसत्वं सूचितम्। यद्यप्यात्मनिष्ठः पुरुष आत्मानन्दानुभव- पारवश्यादेव कर्म जहाति, न त्वालस्यात् , तथापि आलस्यप्रयुक्तः कर्मत्यागोऽनुचित इति बोधनायातन्द्रित इत्युक्तम्। ममेति। ज्ञान- बलादिभिरुत्कृष्टस्येत्यर्थः॥२३॥

[[१८०]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥3.23॥ Sri Madhvacharya did not comment on this sloka.

जयतीर्थः

॥3.23॥ Sri Jayatirtha did not comment on this sloka.

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥3.23 3.25॥ यदीत्यादि लोकसंग्रहमित्यन्तम्। किं च विदितवेद्यः कर्म चेत् त्यजेत् तत् लोकानां दुर्भेद एव एकप्रसिद्धपक्षशिथिलितास्थाबन्धत्वेनाप्ररूढिलक्षणो जायेत +++(S K जायते)+++। यतः +++(S omits यतः)+++ कर्मवासनां च न मोक्तुं शक्नुवन्ति ज्ञानधारां च नाश्रयितुम् अथ च शिथिलीभवन्ति।

शङ्करनारायणः

3.23 See Comment under 3.25

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥3.23॥ तथापि कर्म करोमीत्यकरणे लोकनाशं दर्शयति द्वाभ्यां यदीति।

पुरुषोत्तमः

॥3.23॥ ननु त्वदकरणे किं स्यात् इत्यत आह यदीति। अहं जातु कदाचिदपि कर्मणि अतन्द्रितो निरालस्यः सन् न वर्तेय न प्रवृत्तो भवामि तदा मनुष्याः सर्वशः मम वर्त्म भक्तिमार्गमनुवर्त्तन्त इत्यर्थः। अतस्तेषां ततो निवृत्त्यर्थं कर्ममार्गप्रवृत्त्यर्थं कर्म करोमीति भावः।

श्रीधर-स्वामी …{Loading}…

॥3.23॥ अकरणे लोकस्य नाशं दर्शयति यदीति। जातु कदाचिदतन्द्रितोऽनलसः सन्यदि कर्मणि न वर्तेयं कर्म नानुतिष्ठेयं तर्हि ममैव वर्त्म मार्गं मनुष्या अनुवर्तन्ते। अनुवर्तेरन्नित्यर्थः।

English …{Loading}…

आदिदेवानन्दः

3.23 If I did not continue to work unwearied, O Arjuna, men would follow my path.

गम्भीरानन्दः

3.23 For, O Partha, if at any time I do not continue [Ast. and A.A. read varteya instead of varteyam.-Tr.] vigilantly in action, men will follow My path in ever way.

पुरोहितस्वामी

3.23 For were I not to act without ceasing, O prince, people would be glad to do likewise.

शङ्करनारायणः

3.23. For, if I were ever not at work unwearied, all men would follow My path, O son of Prtha !

शिवानन्दः - अनुवादः

3.23 For, should I not ever engage Myself in action, unwearied, men would in every way follow My path, O Arjuna.

शिवानन्दः - टीका

3.23 यदि if; हि surely; अहम् I; न not; वर्तेयम् engage Myself in action; जातु ever; कर्मणि in action; अतन्द्रितः unwearied; मम My; वर्त्म path; अनुवर्तन्ते follow; मनुष्याः men; पार्थ O Partha; सर्वशः in every way.Commentary If I remain inactive; people also will imitate Me and keep iet. They will all become Tamasic and pass into a state of inertia.

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।3.23 – 3.24।। हे पार्थ! अगर मैं किसी समय सावधान होकर कर्तव्यकर्म न करूँ तो बड़ी हानि हो जाय; क्योंकि मनुष्य सब प्रकारसे मेरे ही मार्गका अनुसरण करते हैं। यदि मैं कर्म न करूँ, तो ये सब मनुष्य नष्ट-भ्रष्ट हो जायँ और मैं वर्णसंकरताको करनेवाला होऊँ तथा इस समस्त प्रजाको नष्ट करनेवाला बनूँ।

रामसुखदासः - टीका

3.23।।व्याख्या– [बाईसवें श्लोकमें भगवान्ने अन्वय-रीतिसे कर्तव्य-पालनकी आवश्यकताका प्रतिपादन किया और इन श्लोकोंमें भगवान् व्यतिरेक-रीतिसे कर्तव्य-पालन न करनेसे होनेवाली हानिका प्रतिपादन करते हैं। ]

चिन्मयानन्दः

।।3.23।। भगवान् को कर्म क्यों करने चाहिये उनके कर्म न करने से समाज को क्या हानि होगी यह वस्तुस्थिति है कि सामान्य जन सदैव अपने नेता का अनुकरण उसकी वेषभूषा नैतिक मूल्य कर्म और सभी क्षेत्रों में उसके व्यवहार के अनुसार करते हैं। नेताओं का जीवन उनके लिये आदर्श मापदण्ड होता है। अत भगवान् के कर्म न करने पर अन्य लोग भी निष्क्रिय होकर अनुत्पादक स्थिति में पड़े रहेंगे। जबकि प्रकृति में निरन्तर क्रियाशीलता दिखाई देती है। सम्पूर्ण विश्व की स्थिति कर्म पर ही आश्रित है। गीता में भगवान् मैं शब्द का प्रयोग देवकी पुत्र कृष्ण के अर्थ में नहीं करते वरन् शुद्ध आत्मस्वरूप की दृष्टि से आत्मानुभवी पुरुष के अर्थ में करते हैं। आत्मज्ञानी पुरुष अपने उस शुद्ध चैतन्यस्वरूप को जानता है जिस पर जड़ अनात्म पदार्थों का खेल हो रहा होता है जैसे जाग्रत पुरुष के मन पर आश्रित स्वप्न। यदि इस परम तत्त्व का नित्य आधार या अधिष्ठान न हो तो वर्तमान में अनुभूत जगत् का अस्तित्व ही बना नहीं रह सकता। यद्यपि लहरों की उत्पत्ति से समुद्र उत्पन्न नहीं होता तथापि समुद्र के बिना लहरों का नृत्य भी सम्भव नहीं है। इसी प्रकार भगवान् क्रियाशील रहकर जगत् में न रहें तो समाज का सांस्कृतिक जीवन ही गतिहीन होकर रह जाय्ोगा। यदि मैं कर्म न करूँ तो क्या हानि होगी भगवान् आगे कहते हैं।

तेजोमयानन्दः - अनुवादः

।।3.23।। यदि मैं सावधान हुआ (अतन्द्रित:) कदाचित कर्म में न लगा रहूँ तो, हे पार्थ ! सब प्रकार से मनुष्य मेरे मार्ग (र्वत्म) का अनुसरण करेंगे।।