विश्वास-प्रस्तुतिः …{Loading}…
यद् यद् आचरति श्रेष्ठस्
तत् तद् एवेतरो जनः।
स यत् प्रमाणं कुरुते
लोकस् तद् अनुवर्तते॥3.21॥+++(5)+++
मूलम् …{Loading}…
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥3.21॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥3.21॥ श्रेष्ठः कृत्स्न-शास्त्र-ज्ञातृतया अनुष्ठातृतया च प्रथितो
वेङ्कटनाथः
“श्रेष्ठः” इति।
प्रशस्यस्य श्रः (अष्टा. 4.3.60) इत्य् अनुशासनात् प्रशस्य-तम इत्य् अर्थः।
तच् च अस्य प्रशस्यतमत्वम्
अनुष्ठातॄणाम् अनुविधेयानुष्ठानत्वोपयोगीति मत्वा,
“तान् अकृत्स्नविदो मन्दान्
कृत्स्नवित् न विचालयेत्” [3.29]
इति वक्ष्यमाणं चानुसन्धाय
कृत्स्न-शास्त्र-ज्ञतया अनुष्ठातृतया च प्रथित इत्य् उक्तम्।
अकृत्स्नविदो ऽनुष्ठातुः,
कृत्स्नवित्त्वे ऽप्य् अननुष्ठातुः,
उभयाकारवत्त्वे ऽपि अप्रसिद्धस्य अनुविधेयानुष्ठानता नास्तीति
तद्-व्यवच्छेदाय पदत्रयम्।
यद् यद् आचरति
तत् तद् एव अकृत्स्नविद् जनः अप्य् आचरति।
वेङ्कटनाथः
“स यत्-प्रमाणं कुरुते” इत्यत्र
“स यत् शास्त्रं प्रमाणीकरोति,
तद् अनुवर्तते लोकः”
इत्यस्मिन्न् अर्थे
तद्-अनुवर्तनस्य तद्-अर्थानुष्ठान-रूपत्वाद्
अर्थतः पुनरुक्तिः स्यात्।
“कुरुते” इति चैतद्
“बुध्यते” इत्यस्मिन्न् अर्थे नेतव्यम्।
“लोकसङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि” इति पूर्व-वाक्ये च
“कर्तुम् अर्हसि” इत्य् एतावन्मात्रम् उक्तं,
“श्रुति-स्मृत्यादिकम् अपि प्रमाणीकर्तुम् अर्हसी"त्य् अनुपन्यस्तं येन
तद्-अर्थम् इदम् उच्येत।
अनुष्ठीयमानम् अपि कर्म
श्रेष्ठो यत्-प्रमाणं यद्-अङ्गयुक्तम् अनुतिष्ठति
वेङ्कटनाथः
“यद् यद् आचरति” इत्य् अङ्गिन्य् अनुष्ठेय-स्वरूपे निर्दिष्टे
तत्-प्रकारे त्व् अपेक्षिते
बुभुत्सा जायते,
अतस् तद्-अभिधानम् एवोचितम् इत्य् अभिप्रायेण
“यत्-प्रमाणं यद्-अङ्ग-युक्तम्” इत्य् उक्तम्।
प्रमाण-शब्दो ऽत्रावधि-परः,
अनुष्ठेय-कर्म-स्वरूपस्य चावधिर् अङ्गान्य् एव।
अत एव हि विध्य्-अन्त-शब्देन
इति-कर्तव्यताम् उपचरन्ति।
“यत्-प्रमाणं यथाभूतम्” इति यादव-प्रकाश-भाष्यम् अप्य् एतत्-परम् एव।
अस्मिन्न् अर्थे
“कुरुते” इति शब्द-स्वारस्य-प्रदर्शनाय
“अनुतिष्ठति” इत्य् उक्तम्।
अन्यथा अर्थान्तरे लक्षणा स्याद् इति भावः।
तद्-अङ्गयुक्तम् एव अकृत्स्नविद् लोको ऽप्य् अनुतिष्ठति।
वेङ्कटनाथः
“यत्-प्रमाणम्” इति निर्दिष्ट-विशिष्ट-सिद्ध्य्-अर्थं
तच्-शब्दार्थम् आह —
तद्-अङ्ग-युक्तम् इति।
ननु यच्-शब्देनाङ्गे निर्दिष्टे
कथं तच्-शब्देनाङ्ग-विशिष्ट-परामर्शः?
इत्थं — यद्-अङ्ग-युक्तम् अनुतिष्ठति
तद् आचरतीत्य् उक्ते
तद्-अङ्गम् आचरतीत्य् एव शब्द-वृत्तिः।
अङ्गस्य च अङ्गि-पृथग्-भावायोगाद्
अर्थतस् तद्-अङ्ग-विशिष्टम् इति सिद्धम्।
अतो लोकरक्षार्थं
शिष्टतया प्रथितेन श्रेष्ठेन
स्ववर्णाश्रमोचितं कर्म
सकलं सर्वदा अनुष्ठेयम्।
वेङ्कटनाथः
आभिप्रायिकौ करण-अकरणयोर् अर्थानर्थौ प्रकाशयति — “अतः” इति।
लोकानुविधेयानुष्ठानत्वाद् इत्य् अर्थः।
“सर्वदा” इति — यावद्-आत्म-प्राप्तिर् इत्य् अर्थः।
अन्यथा लोक-नाश-जनितं पापं
ज्ञानयोगाद् अप्य् एनं प्रच्यावयेत्।
वेङ्कटनाथः
ननु स्वयं यदि ज्ञानयोगेन मुक्तो भवति,
किम् अस्य लोकेन सङ्गृहीतेनासङ्गृहीतेन वा?
इत्य् अत्राह — “अन्यथा” इति।
“ज्ञानयोगाधिकार्य् अहम्” इति कृत्वा कर्मयोग-परित्यागे सतीत्य् अर्थः।
ज्ञानयोगाद् अपीत्य् अपि-शब्द
उभय-भ्रष्टतां द्योतयति।
वेदान्तदेशिकः
…
आदिदेवानन्दः
3.21 Whatever ‘an eminent man,’ i.e., he, who is famous for his knowledge of all the scriptures and for his observance of the scriptural dictates, performs, others who have incomplete knowledge of the scriptures will also perform, following his example. With regard to any duty which is being performed with all its ancillaries by an eminent personage, the people with incomplete knowledge will do it with the same ancillaries. Therefore for the protection of the world, all acts that are appropriate to one’s station and stage in life must always be performed by an eminent man who is distinguished for his wisdom. Otherwise, the evil generated from the ruin of the large masses of the world (who neglect their duties by following his example), will bring him down, even if he were a follower of pure Jnana Yoga.
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥3.21॥ यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरः अन्यः जनः तदनुगतः। किञ्च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव प्रमाणीकरोति इत्यर्थः॥ यदि अत्र ते लोकसंग्रहकर्तव्यतायां विप्रतिपत्तिः तर्हि मां किं न पश्यसि
गम्भीरानन्दः
3.21 Yat yat, [This is according to the Ast. The G1. Pr. reads, yat yat yesu yesu.-Tr.] whatever action; a sresthah, superior person, a leader; acarati, does; itarah, another; janah, person, who follows him; does tat tat eva, that very action. Further, yat, whatever; sah, he, the superior person; kurute, upholds; as pramanam, authority, be it Vedic or secular; lokah, an ordinary person; anuvartate, follows; tat, that, i.e. he accepts that very thing as authoritative. ‘If you have a doubt here with regard to the duty of preventing people from straying, then why do you not observe Me;’
हरिकृष्णदासः
॥3.21॥ लोकसंग्रह किसको करना चाहिये और किसलिये करना चाहिये सो कहते हैं श्रेष्ठ पुरुष जोजो कर्म करता है अर्थात् प्रधान मनुष्य जिसजिस कर्ममें बर्तता है दूसरे लोग उसके अनुयायी होकर उसउस कर्मका ही आचरण किया करते हैं। तथा वह श्रेष्ठ पुरुष जिसजिस लौकिक या वैदिक प्रथाको प्रामाणिक मानता है लोग उसीके अनुसार चलते हैं अर्थात् उसीको प्रमाण मानते हैं।
आनन्दगिरिः
॥3.21॥ ज्ञानवता कृतार्थेन लोकसंग्रहार्थमपि न प्रवर्तितव्यमित्याशङ्कामुत्थाप्य परिहरति लोकेत्यादिना। श्रुताध्ययनसंपन्नत्वेनाभिमतो यद्यद्विहितं प्रतिषिद्धं वा कर्मानुतिष्ठति तत्तदेव प्राकृतो जनोऽनुवर्तते तेन विद्यावतापि लोकमर्यादास्थापनार्थं विहितं कर्तव्यमित्यर्थः। श्रेष्ठानुसारित्वमितरेषामाचारे दर्शयित्वा प्रतिपत्तावपि दर्शयति किञ्चेति।
नीलकण्ठः
॥3.20 3.21॥ अत्र शिष्टाचारं प्रमाणयति कर्मणेति। कर्मणैव सह संसिद्धिं श्रवणादिसाध्यां ज्ञाननिष्ठां गन्तुमास्थिताः प्रवृत्ता जनकादयस्त्वादृशाः क्षत्रियाः न तु संन्यासेन। ननु शुद्धचित्तस्य मम नास्ति कर्मापेक्षेत्याशङ्क्याह लोकेति। लोकस्य संग्रहः स्वधर्मे प्रवर्तनम्। ननु स्वप्रयोजनाभावेऽपि केवलं लोकसंग्रहार्थं चेत्कर्म कर्तव्यं तदा विदुषां ब्राह्मणानामपि संन्यासो न स्यात्। यतीनेव संन्यासधर्मान्ग्राहयितुं तेषां संन्यास इति चेत् अर्जुनेऽपि न तद्दंडवारितमस्ति। ननु क्षत्रियस्य संन्यासेऽधिकारो नास्तीति चेत् लिङ्गधारणेऽधिकाराभावेऽपि भरतऋषभादिवद्विक्षेपकर्मत्यागमात्रेऽधिकारात्। वार्तिकेसर्वाधिकारविच्छेदि ज्ञानं चेदभ्युपेयते। कुतोऽधिकारनियमो व्युत्थाने क्रियते बलात्। इति विद्वत्संन्यासे क्षत्रियादेरप्यधिकारस्य साधितत्वात्। अतो लोकसंग्रहो न मुख्यं कर्मप्रयोजनमिति चेत्सत्यम्। न मे पार्थास्ति कर्तव्यम् इति स्वदृष्टान्तेनाधिकारिकत्वादर्जुन एवैवं नियोज्यते न क्षत्रियमात्रमिति तुष्यतु भवान्।
धनपतिः
॥3.21॥ मयि कर्मणि प्रवृत्ते कथं लोकसंग्रहो भविष्यतीत्यत आह यदिति। यद्यत्कर्म श्रेष्ठः प्रधान आचरति तत्तदेव कर्मेतरोऽन्यो जनस्तदनुगत आचरति। किंच स प्रधान यल्लौकिकं वैदिकं वा प्रमाणं कुरुते लोकस्तदनुवर्तते। तदेव प्रमाणीकुरुते इत्यर्थः। यत्कर्म शास्त्रं वा निवृत्तिशास्त्रं वेत्याचार्यैः संकोचे मानाभावमभिप्रेत्य न व्याख्यातम्।
मधुसूदन-सरस्वती
॥3.21॥ ननु मया कर्मणि क्रियमाणेऽपि लोकः किमिति तत्संगृह्णीयादित्याशङ्क्य श्रेष्ठाचारानुविधायित्वादित्याह यद्यदिति। श्रेष्ठः प्रधानभूतो राजादिर्यद्यत्कर्माचरति शुभमशुभं वा तत्तदेवाचरतीतरः प्राकृतस्तदनुगतो जनः नत्वन्यत्स्वातन्त्र्येणेत्यर्थः। ननु शास्त्रमवलोक्याशास्त्रीयं श्रेष्ठाचारं परित्यज्य शास्त्रीयमेव कुतो नाचरति लोक इत्याशङ्क्य आचारवत्प्रतिपत्तावपि श्रेष्ठानुसारितामितरस्य दर्शयति स यदिति। स श्रेष्ठो यल्लौकिकं वैदिकं वा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तदेव लोकोऽप्यनुवर्तते प्रमाणं कुरुते नतु स्वातन्त्र्येण किंचिदित्यर्थः। तथाच प्रधानभूतेन त्वया राज्ञा लोकसंरक्षणार्थं कर्म कर्तव्यमेवप्रधानानुयायिनो जनव्यवहारा भवन्ति इति न्यायादित्यभिप्रायः।
रामरायः - २१
यद्यदिति। श्रेष्ठो यद्यदाचरति इतरो जनस्तत्तदेवाचरति। प्रधान इति। विद्यादिभिरुत्कृष्टः। यत् प्रमाणमिति व्यस्ते पदे। यत् शास्त्रादिकं स श्रेष्ठः प्रमाणं कुरुते प्रमाणत्वेन स्वीकरोति, इतरो लोकः तदेव शास्त्रादिकं प्रमाणमनुवर्तते अनुसृत्य प्रवर्तते। फलितार्थ- माह— तदेव प्रमाणीकरोतीति॥२१॥
मध्वः …{Loading}…
मध्वः - मूलम्
॥3.21॥ स यद्वाक्यादिकं प्रमाणीकुरुते यदुक्तप्रकारेण तिष्ठतीत्यर्थः।
जयतीर्थः
॥3.21॥ स यत्प्रमाणं कुरुते इत्यत्र यच्छब्देन प्रमाणमप्रमाणं वा विवक्षितम् आद्ये प्रमाणं कुरुत इत्ययुक्तम् स्थितस्य करणाभावात्। द्वितीयेऽप्येवमेव अशक्यत्वादित्यत आह स इति। प्रमाणमेव सत् यद्वाक्यादिकं लोकेन प्रमाणतयाऽनवगतम् तत्प्रमाणतया ज्ञापयतीत्यर्थः। यद्वैकमेवेदं पदं यत्प्रमाणकं लौकिकं वैदिकं वा कर्म कुरुत इत्यनेनाभिप्रायेण तात्पर्यमाह यदुक्तेति।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥3.21 3.22॥ यद्यदाचरतीति। न मे इति। प्राप्तप्रापणीयस्य परिपूर्णमनसोऽपि कर्मप्रवृत्तौ लोकानुग्रहः प्रयोजनमित्यत्र श्रीभगवान् आत्मानमेव दृष्टान्तीकरोति।
शङ्करनारायणः
3.21 See Comment under 3.22
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥3.21॥ यतः यद्यदिति।
पुरुषोत्तमः
॥3.21॥ ननु लोकसङ्ग्रहोऽपि भक्तानामनुचित एवेत्यत आह यद्यदिति। श्रेष्ठो मद्भक्तो यद्यदाचरतितदेवेतरो जन आचरति। स मद्भक्तो यदेव प्रमाणं कुरुते लोकस्तंदेवानुवर्तते प्रमाणत्वेनाङ्गीकुरुते। अयं भावः भक्तानां लोकसङ्ग्रहो मदाज्ञया कर्त्तव्यः यतस्तदाचरणं दृष्ट्वा लोकोऽपि तथैव कुर्यात् तत्स्वरूपाज्ञानेऽपि तदाऽनधिकारित्वात् फलं तु न स्यादेव फलदाने च मदिच्छा न। यतो भक्तिः परमकृपया कस्मैचिदेव दीयते न सर्वेभ्यः। सर्वेभ्यो दाने सृष्टिरेवोच्छिद्येत। अतस्त**द्रोप()**नेन सृष्टिप्रवृत्त्यर्थं बाह्यतः कापट्येन कर्म कर्तव्यमिति भावः।
श्रीधर-स्वामी …{Loading}…
॥3.21॥ कर्मकरणे लोकसंग्रहो यथा स्यात्तथाह यदिति। इतरः प्राकृतो जनः तत्तदेवाचरति। स श्रेष्ठो जनः कर्मशास्त्रं निवृत्तिशास्त्रं वा यत्प्रमाणं मन्यते तदेव लोकोऽप्यनुसरति।
English …{Loading}…
आदिदेवानन्दः
3.21 Whatever a great man does, other men also do. Whichever standard he sets, the world follows it.
गम्भीरानन्दः
3.21 Whatever a superior person does, another person does that very thing! Whatever he upholds as authority, an ordinary person follows that.
पुरोहितस्वामी
3.21 For whatever a great man does, others imitate. People conform to the standard which he has set.
शङ्करनारायणः
3.21. Whatsoever a great man does, other commoners do the same; whatever standard he sets up, the world follows that.
शिवानन्दः - अनुवादः
3.21 Whatsoever a great man does, that the other men also do; whatever he sets up as the standard, that the world (mankind) follows.
शिवानन्दः - टीका
3.21 यद्यत् whatsoever; आचरति does; श्रेष्ठः the best; तत्तत् that; एव only; इतरः the other; जनः people; सः he (that great man); यत् what; प्रमाणम् standard (authority; demonstration); कुरुते does; लोकः the world (people); तत् that; अनुवर्तते follows.Commentary Man is a social animal. He is an imitating animal too. He takes his ideas of right and wrong from those whom he regards as his moral superior. Whatever a great man follows; the same is considered as an authority by his followers. They try to follow him. They endeavour to walk in his footsteps.
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।3.21।। श्रेष्ठ मनुष्य जो-जो आचरण करता है, दूसरे मनुष्य वैसा-वैसा ही आचरण करते हैं। वह जो कुछ प्रमाण देता है, दूसरे मनुष्य उसीके अनुसार आचरण करते हैं।
रामसुखदासः - टीका
3.21।।**व्याख्या–‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः’–**श्रेष्ठ पुरुष वही है, जो संसार-(शरीरादि पदार्थों-) को और ‘स्वयं’-(अपने स्वरूप-) को तत्त्वसे जानता है। उसका यह स्वाभाविक अनुभव होता है कि शरीर, इन्द्रियाँ, मन, बुद्धि, धन, कुटुम्ब, जमीन आदि पदार्थ संसारके हैं, अपने नहीं। इतना ही नहीं, वह श्रेष्ठ पुरुष त्याग, वैराग्य, प्रेम, ज्ञान, सद्गुण आदिको भी अपना नहीं मानता; क्योंकि उन्हें भी अपना माननेसे व्यक्तित्व पुष्ट होता है, जो तत्त्वप्राप्तिमें बाधक है। ‘मैं त्यागी हूँ’, ‘मैं वैरागी हूँ’, ‘मैं सेवक हूँ’, ‘मैं भक्त हूँ’ आदि भाव भी व्यक्तित्वको पुष्ट करनेवाले होनेके कारण तत्त्वप्राप्तिमें बाधक होते हैं। श्रेष्ठ पुरुषमें (जडताके सम्बन्धसे होनेवाला) ‘व्यष्टि अहंकार’ तो होता ही नहीं, और ‘समष्टि अहंकार’ व्यवहारमात्रके लिये होता है, जो संसारकी सेवामें लगा रहता है; क्योंकि अहंकार भी संसारका ही है (गीता 7। 4 13। 5)।
संसारसे मिले हुए शरीर, धन, परिवार, पद, योग्यता, अधिकार आदि सब पदार्थ सदुपयोग करने अर्थात् दूसरोंकी सेवामें लगानेके लिये ही मिले हैं; उपभोग करने अथवा अपना अधिकार जमानेके लिये नहीं। जो इन्हें अपना और अपने लिये मानकर इनका उपभोग करता है, उसको भगवान् चोर कहते हैं–‘यो भुङ्क्ते स्तेन एव सः’ (गीता 3। 12)। ये सब पदार्थ समष्टिके ही हैं, व्यष्टिके कभी किसी प्रकार नहीं। वास्तवमें इन पदार्थोंसे हमारा कोई सम्बन्ध नहीं है। श्रेष्ठ पुरुषके अपने कहलानेवाले शरीरादि पदार्थ (संसारके होनेसे) स्वतः-स्वाभाविक संसारकी सेवामें लगते हैं। सम्पूर्ण प्राणियोंके हितमें उसकी स्वाभाविक प्रवृत्ति होती है। ‘देने’
चिन्मयानन्दः
।।3.21।। मनुष्य मूलत अनुकरण करने वाला प्राणी है। यह एक मनोवैज्ञानिक सत्य है। इतिहास के किसी काल में भी समाज का नैतिक पुनरुत्थान हुआ है तो उस केवल राष्ट्र के नेतृत्व करने वाले व्यक्तियों के आदर्शों के कारण। शिक्षकों के सद्व्यवहार से ही विद्यार्थियों को अनुशासित किया जा सकता है यदि किसी राष्ट्र का शासक भ्रष्ट और अत्याचारी हो तो निम्न पदों के अधिकारी सत्य और ईमानदार नहीं हो सकते। छोटे बालकों का व्यवहार पूर्णत उनके मातापिता के आचरण एवं संस्कृति द्वारा निर्भर और नियन्त्रित होता है।
इस तथ्य को ध्यान में रखते हुये भगवान् कर्माचरण के लिए अर्जुन के समक्ष एक और कारण प्रस्तुत करते हैं। यदि वह कर्म नहीं करता तो सम्भव है समाज के अधिकांश लोग भी स्वकर्तव्यपराङमुख हो जायेंगे और अन्त में परिणाम होगा जीवन में संस्कृति का ह्रास। अब आगे इस बात पर बल देने तथा अब तक दिये गये उपदेश का प्रभाव दृढ़ करने के लिए भगवान् स्वयं का ही उदाहरण देते हैं। यद्यपि भगवान् स्वयं नित्यमुक्त हैं तथापि तमोगुण और रजोगुण की बुराइयों में पड़ी तत्कालीन पीढ़ी को उसमें से बाहर निकालने के लिए वे स्वयं अनासक्त भाव से कुशलतापूर्वक कर्म करते हुये सभी के लिये एक आदर्श स्थापित करते हैं। अधर्म का सक्रिय प्रतिकार यह श्रीकृष्ण का सिद्धांत है। उनकी अहिंसा उस दिवास्वप्न देखने वाले कायर के समान नहीं थी जो अन्याय का प्रतिकार न करके संस्कृति का रक्षण करने में असमर्थ होता है। अब अर्जुन मन में कर्मयोग के विषय में कोई संदेह नहीं रह सकता था। यदि लोकसंग्रह के विषय में तुम्हें कोई शंका हो तो तुम मुझे क्यों नहीं देखते मेरे अनुसार तुम भी लोगों को अधर्म के मार्ग से निवृत्त कर उन्हें धर्म मार्ग में प्रवृत्त होने के लिये अपना आदर्श क्यों नहीं स्थापित करते
तेजोमयानन्दः - अनुवादः
।।3.21।। श्रेष्ठ पुरुष जैसा आचरण करता है, अन्य लोग भी वैसा ही अनुकरण करते हैं; वह पुरुष जो कुछ प्रमाण कर देता है, लोग भी उसका अनुसरण करते हैं।।