विश्वास-प्रस्तुतिः …{Loading}…
सह-यज्ञाः प्रजाः सृष्ट्वा
पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वम्
एष वोऽस्त्व् +++(मोक्षोऽपि→)+++इष्ट-काम-धुक्॥3.10॥
मूलम् …{Loading}…
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥3.10॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
यज्ञ-शिष्टेनैव सर्व-पुरुषार्थ-साधन-निष्ठानां शरीर-धारण-कर्तव्यताम्
अ-यज्ञ-शिष्टेन शरीर-धारणं कुर्वतां दोषं चाह
॥3.10॥ “पतिं विश्वस्यात्मेश्वरम्” (तै॰ ना॰ 11।3)
इत्य् आदि-श्रुतेर्
निरुपाधिकः प्रजापति-शब्दः
सर्वेश्वरं विश्व-स्रष्टारं विश्वात्मानं परायणं नारायणम् आह
पुरा सर्ग-काले
स भगवान् प्रजापतिः
अनादि-काल-प्रवृत्ताचित्-संसर्ग-विवशा उपसंहृत-नाम-रूप-विभागाः
स्वस्मिन् प्रलीनाः
सकल-पुरुषार्थानर्हाश् चेतनेतर-कल्पाः प्रजाः समीक्ष्य
परम-कारुणिकस् तद्-उज्जिजीवयिषया
स्वाराधन-भूत-यज्ञ-निर्वृत्तये
यज्ञैः सह ताः सृष्ट्वा
एवम् उवाच
अनेन यज्ञेन प्रसविष्यध्वम्
आत्मनो वृद्धिं कुरुध्वम्।
एष वो यज्ञः
परम-पुरुषार्थ-लक्षण-मोक्षाख्यस्य कामस्य तद्-अनुगुणानां च कामानां
प्रपूरयिता भवतु।
कथम्?
वेदान्तदेशिकः
॥3.10॥ उक्तम् अर्थ-द्वयं सह यज्ञैः इत्यारभ्य मोघं पार्थ स जीवति 3।16 इत्य् अन्तेन निन्दा-प्रशंसादिभिर् दृढयतीत्य् आह यज्ञ-शिष्टेनैवेति। सर्व-पुरुषार्थ-साधन-निष्ठानाम् इत्य् अनेन प्रजाः सृष्ट्वा इति सामान्य-निर्देश-फलितम् उक्तम्। अत्र प्रजापति-शब्दस्य हिरण्यगर्भादि-विषयत्व-व्युदासायाह पतिं विश्वस्येतीति। हिरण्यगर्भादेर् अपि न तु हिरण्यगर्भादिवद्-अण्डाद्य्-अवच्छिन्नस्येत्य्-अर्थः। तत एवोक्तं निरुपाधिक इति। श्रुतार्थ-स्वभावाद् अपि स एव सर्व-प्रजापतिर् इति प्रदर्शनाय सर्वेश्वरम् इत्य् आदि-विशेषणोक्तिः। नारायणम् एतद् अखिलं नारायण-शब्द-वाच्यस्यैव हि नारायणानुवाकादिषु प्रतिपाद्यत इति भावः। उक्तं च जगत्-पतित्वं स्रष्टृत्वादि-कं च समुच्चित्य भगवता पराशरेण कलौ जगत्-पतिं विष्णुं सर्व-स्रष्टारम् ईश्वरं वि.पु.6।1।50ब्र.पु.च.120।45 इति। अनुमानात् तद्-उद्धारं कर्तु-कामः प्रजापतिः वि.पु.1।4।7 इति च वराह-रूपे भगवति प्रजापति-शब्दः तेन प्रजापतिः तै.ना.1।1 इत्य् आदि-श्रुत्य्-अनुसारात् प्रयुक्तः। किञ्च स्वतन्त्रस्य कर्म-परतन्त्रान् प्रति नियोगो ह्य् अयम्। अतो ऽत्र प्रजाः सृष्ट्वा इति प्रजा-शब्दः सर्वान् ब्रह्म-पर्यन्तान् जगद्-अन्तर्-व्यवस्थितान् कर्म-जनित-संसार-वश-वर्तिनो यज्ञाद्य्-अधिकारिणः प्राणिनः सङ्गृह्णाति। अतो ऽत्र प्रजापति-शब्द उपक्रमस्थ-प्रजा-शब्दानुरोधात् सङ्कोचेन तद्-वैरूप्यायोगाच् च परित्यक्त-रूढिर् अकर्म-वश्यं नियोक्तारं सर्वेश्वरं नारायणम् आह। तथा सृज्य-समस्त-क्षेत्रज्ञ-विषयो ह्य् अयम् अनवच्छिन्नः प्रजा-शब्दः।
पुरेति प्रलयानन्तर-कालाभिधानात् ततश् च “सद् एव सोम्येदम् अग्र आसीत् … तद् ऐक्षत बहु स्यां प्रजायेयेति” छां.उ.6।2।1-3 “सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः” छां.उ.6।8।4 “एको ह वै नारायण आसीन् न ब्रह्मा नेशानः” इत्यारभ्य “बुद्बुदात् त्र्यक्षः शूल-पाणिः पुरुषो जायते … तत्र ब्रह्मा चतुर्मुखो ऽजायत” महो.1।1 “सिसृक्षुर् विविधाः प्रजाः” मनुः1।8 इत्यादिषु हिरण्यगर्भादेर् अपि प्रजात्वावगमान् नारायणस्य च तज्-जनकत्वावगतेः प्रजाः सृष्ट्वा इत्य् अनवच्छेदेन निर्दिष्टो विश्वस्य स्रष्टा नारायण एवेति स एवात्र प्रजापतिः। किञ्च “तस्माद् यज्ञात् सर्व-हुत ऋचः सामानि जज्ञिरे” ऋक्सं.6।4।18।4यजुस्सं.31।7 “सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाभिवदन् यद् आस्ते” इति यज्ञैः सह सर्व-प्रजानां स्रष्टृतया निर्दिष्टो ऽप्य् अधिकार-पुरुषस्यापि स्रष्टा सहस्र-शीर्षत्वादि-विशिष्टः परम-पुरुष एव। अतो ऽपि सह यज्ञैः प्रजाः सृष्ट्वा इति निर्दिष्टः प्रजापतिर् विश्वस्य स्रष्टा स एव। तथा “सृष्टिं ततः करिष्यामि त्वाम् आविश्य प्रजापते” वि.ध.68।51 इत्यादि-वचन-बलाद् धिरण्यगर्भाख्य-प्रजापति-मुखेनापि विश्व-स्रष्टा सर्व-भूतान्तरात्मा “अपहत-पाप्मा दिव्यो देव एको नारायणः” सु.उ.7 इति श्रुतः स एव विश्वात्मा। किञ्चात्र निर्दिश्यमानं देवानां भावनादिकं परमात्मात्मकानाम् एवेति “अहं हि सर्व-यज्ञानाम्” 9।24 इत्य् आदौ व्यक्तं भविष्यति “यस्मिन्न् इदं सं च वि चैति” श्वे.उ.4।11 “प्रजापतिश् चरति गर्भे अन्तः” य.सं.31।19तै.ना.6।11 इत्यादिकं विश्वस्य स्रष्टारं विश्वात्मानम् इति विशेषणाभ्यां सूचितम्। अतो ऽप्य् अत्र विश्वात्मानं तम् एवाह। तथा “प्रजापतेः सभां वेश्म प्रपद्ये” छां.उ.8।14।1 इत्य् अत्र परम-प्राप्यतया च प्रजापति-शब्द-निर्दिष्टो ऽपि परमात्मैवेति “न च कार्ये प्रत्यभिसन्धिः” ब्र.सू.4।3।14 इति सूत्रे प्रत्यपादि अतो ऽपि परायणं तम् एवाह। एवं सर्वेश्वरम् इत्य् आदि-विशेषणैस् तत्-तत्-प्रमाण-सूचनं कृतम्। एवं श्याम-एकरूप-सप्तदशायातयामाज्य-दैवत-विष्णु-विषय-प्रजापति-शब्द-श्रुतिर् अप्य् अनुसन्धेया।
पुरा-शब्दस्य वचनान्वयं प्रतीति-व्युदासेन ब्रह्माद्य्-अगोचर-सृष्ट्य्-अन्वय-व्यक्त्यर्थम् आह पुरा सर्ग-काले इति। श्रुति-स्मृत्यादिषु सृष्टि-प्रकरण-प्रसिद्धि-प्रकारम् अभिप्रैति स भगवान् इति भगवच्-शब्देन सृष्ट्य्-आदि-पञ्च-कृत्योपयुक्त-हेय-प्रत्यनीक-कल्याण-गुण-विशिष्टत्वं दर्शितम्। तथा मानवे धर्म-शास्त्रे प्रथमम् “आसीद् इदं तमो-भूतम्” 1।5 इति प्रलयम् अभिधाय “ततः स्वयम्भूर् भगवान्” 1।6 इति भगवच्-शब्देन सर्व-स्रष्टा निर्दिष्टः। अनन्तरं च “ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः” 1।10 “तद्-विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते” 1।11 इति हिरण्यगर्भाख्य-प्रजापतेः स्रष्टा नारायण इत्य् उक्तम्। अत्र प्रजापतिर् उवाच इति पराक्तया निर्देशस् तु सारथि-भूतस्य स्वस्य प्रजापति-शब्द-प्रतिपन्नात् स्वस्माद् भेदोपचारेणेति मन्तव्यम्। एवम् उत्तरत्रापि सर्वत्र पराक्त्व-निर्देशेषु यथार्हम् अनुसन्धेयम्।
सर्वत्र सृष्टेः संहार-पूर्वकत्व-दर्शनाद् अत्रापि तथा विवक्षन् संहारस्य प्रयोजनं सृष्टेर् हेतुं चाह अनादीति। अनवरत-सुख-दुःखोपभोगायास-परिश्रान्तानां विश्रमार्थम् अश्रान्तापथ-प्रवृत्ति-वासना-विच्छेदार्थं चोपसंहारः। अतो न संहारे नैर्घृण्य-दोषः। तादृश-सुख-दुःखोपभोग-प्रदाने च परमात्म-नित्य-सङ्कल्प-सिद्ध-जीव-स्वातन्त्र्य-निबन्धनानादि-कर्म-प्रवाह-हेतुकाचित्-संसर्ग एव हेतुर् इति न तत्र वैषम्य-नैर्घृण्ये। सूत्रितं च “वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति” “न कर्माविभागाद्” ब्र.सू.2।1।34-35 “इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च” “कृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः” ब्र.सू.2।3।42 इति। उपसंहृत-नाम-रूप-विभागाः स्वस्मिन् प्रलीना इति। असद्-व्यपदेश एकत्व-व्यपदेशादिश् च निर्व्यूढः। नाम-रूप-प्रहाणं स्वस्मिन् प्रलयश् च मोक्षवत् पुरुषार्थ एव स्याद् इत्य् आशङ्क्याह सकलेति। त्रि-वर्गे ऽप्य् अनर्हाः किं पुनर् अपवर्गे इति भावः। तत्र हेतुम् आह चेतनेतर-कल्पा इति। स्व-प्रकाशत्वे ऽप्य् अत्यन्त-ज्ञान-सङ्कोचात् तत्-कल्पत्वं न तु ज्ञान-विनाशात्। प्रजाः हिरण्यगर्भादिकाः समीक्ष्य सम्यग् अवलोक्य एतेन “जायमानं हि पुरुषं यं पश्येन् मधुसूदनः” म.भा.12।348।73 “नावेक्षसे यदि ततो भुवनान्य् अमूनि नालं प्रभो भवितुम् एव कुतः प्रवृत्तिः। एवं निसर्ग-सुहृदि त्वयि सर्व-जन्तोः स्वामिन् न चित्रम् इदम् आश्रित-वत्सलत्वं” स्तो.र.10॥ इत्य् आदिकम् अभिप्रेतम्। “स एकाकी न रमते” महो.1 इति श्रुतेः परम-कारुणिकः किल त्वम् इत्य् आदि-स्मृति-सिद्ध-गुण-विशेषे तात्पर्यम् आह परम-कारुणिक इति। अवाप्त-समस्त-कामस्य जगद्-व्यापारानुपपत्तिं परिहरति तद्-उज्जिजीवयिषयेति। कारुणिका हि स्वार्थ-निरपेक्षा एव परोज्जिजीवयिषया प्रवर्तन्ते सैव प्रवृत्तिर् अस्य लीलापीति न दोष इति भावः। यज्ञैः सहेति निर्देश उज्जीवनोपाय-विशेष-निष्पत्त्यर्थ इत्य् अभिप्रायेणाह स्वाराधनेति।
यज्ञैर् इति वैविध्य-सूचनाय बहु-वचन-निर्देशे पूर्वं कृते ऽपि अनेन इत्य् एक-वचनेन परामर्शो जात्य्-एकत्व-पर इत्य् अभिप्रायेणाह अनेन यज्ञेनेति। सह-यज्ञाः इति शङ्कर-यादव-प्रकाशीय-पाठस् त्व् अप्रासिद्धर् अनादृतः। प्रसविष्यध्वम् इत्य् अत्र षूञ् प्राणि-प्रसवे षूङ् गर्भ-विमोचने इति धातु-द्वये ऽपि प्रजनन-मात्र-प्रतीतिः स्यात् न च द्वादशाहादिवत् सर्वेषां यज्ञादीनां प्रजा-मात्रं फलम्। अतः सन्तत्य्-उपलक्षिता स्वनिष्पाद्या समृद्धिर् अत्र विवक्षितेत्य् अभिप्रायेणाह आत्मनो वृद्धिं कुरुध्वम् इति। यज्ञ-साध्यः कामो निषिद्धेतर-धर्माविरुद्ध-समस्त-काम्य-वर्गः तत्रापि मोक्ष-तत्-साधनोपकारिषु तात्पर्य-भूयस्त्वम् इत्य् अभिप्रायेण मोक्ष-तद्-अनुगुणोपादानम्। रुचि-वैचित्र्य-ज्ञापनाय इष्ट-शब्देन विशेषणम्। मोक्षस्येष्ट-काम-शब्देन सङ्ग्रहाय परम-पुरुषार्थ-लक्षणेत्य् उक्तम्। अवधीरित-स्वर्गाय अर्जुनायोपदेशात्मा “मा फलेषु” 2।47 “श्रेयः परम्”
आदिदेवानन्दः
3.10 As there is the scriptural text beginning with ‘The Lord of Universe’ (Tai. Na., 11.3), it is justifiable to take the term Prajapati in its wider connotation and interpret it to mean Narayana who is the Lord of all beings, the creator of the universe and the Self of the universe. In the beginning, i.e., during the creation, He, the Lord of beings, saw all beings helpless by their conjunction with beginningless non-conscient matter, bereft of the distinctions of name and form, and submerged in Himself. They were incapable of attaining the major ends of human existence, being almost one with non-conscient matter. He, the supremely compassionate, with a desire to resuscitate them, created them together with sacrifice in order that they might perform sacrifices as His worship and said: ‘By this sacrifice, shall you prosper,’ i.e., multiply and prosper. May this sacrifice fulfil your supreme object of desire called release (Moksa) and also the other desires that are in conformity with it. How, then, should this be done;
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥3.10॥ सहयज्ञाः यज्ञसहिताः प्रजाः त्रयो वर्णाः ताः सृष्ट्वा उत्पाद्य पुरा पूर्वं सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां स्रष्टा अनेन यज्ञेन प्रसविष्यध्वं प्रसवः वृद्धिः उत्पत्तिः तं कुरुध्वम्। एष यज्ञः वः युष्माकम् अस्तु भवतु इष्टकामधुक् इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धीति इष्टकामधुक्॥ कथम्
गम्भीरानन्दः
3.10 Pura, in the days of yore, in the beginning of creation; srstva, having created; prajah, the beings, the people of the three castes; saha-yajnah, together with the sacrifices; Prajapati, the creator of beings, uvaca, said; ‘Anena, by this sacrifice; prasavisyadhvam, you multiply.’ Prasava means origination, growth. ‘You accomplish that. Esah astu, let this sacrifice be; vah, your; ista-kama-dhuk, yielder of coveted objects of desire.’ That which yields (dhuk) coveted (ista) objects of desire (kama), particular results, is istakama-dhuk. How;
हरिकृष्णदासः
॥3.10॥ इस आगे बतलाये जानेवाले कारणसे भी अधिकारीको कर्म करना चाहिये सृष्टिके आदिकालमें यज्ञसहित प्रजाको अर्थात् ( ब्राह्मण क्षत्रिय और वैश्य इन ) तीनों वर्णोंको रचकर जगत्के रचयिता प्रजापतिने कहा कि इस यज्ञसे तुमलोग प्रसवउत्पत्ति यानी वृद्धिलाभ करो। यह यज्ञतुमलोगोंको इष्ट कामनाओंका देनेवाला अर्थात् इच्छित फलरूप नाना भोगोंको देनेवाला हो।
आनन्दगिरिः
॥3.10॥ नित्यस्य कर्मणो नैमित्तिकसहितस्याधिकृतेन कर्तव्यत्वे हेत्वन्तरपरत्वेनानन्तरश्लोकमवतारयति इतश्चेति। कथं पुनरनेन यज्ञेन वृद्धिरस्माभिः शक्या कर्तुमित्याशङ्क्याह एष इति।
नीलकण्ठः
॥3.10॥ एतदेवार्थवादेन द्रढयति सहेति। यज्ञैः सहेति सहयज्ञाः। वोपसर्जनस्य इति पक्षे सादेशाभावः। कर्माधिकृता इति यावत्। प्रजास्त्रैवर्णिकाः। अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिस्तां लभध्वम्। एष यज्ञो वो युष्माकमिष्टकामधुगिष्टार्थपूरकोऽस्तु।
धनपतिः
॥3.10॥ इतश्च हेतोरधिकृतेन कर्म कर्तव्यं प्रजापतिर्ब्रह्मा सर्गादौ यज्ञसहिताः त्रैवर्णिकाः प्रजाः सृष्ट्वोवाच। अनेन यज्ञेन कर्मणा प्रसविष्यध्वं वृद्धिं लभत्वं उत्पत्तिं कुरुध्वम्। वृद्य्धादिहेतुत्वमस्यास्तीत्याह। एष यज्ञो वो युष्माकमभिप्रेतभोगप्रदो भवतु।
मधुसूदन-सरस्वती
॥3.10॥ प्रजापतिवचनादप्यधिकृतेन कर्म कर्तव्यमित्याह सहयज्ञा इत्यादिचतुर्भिः। सह यज्ञेन विहितकर्मकलापेन वर्तन्ते इति सहयज्ञाः। कर्माधिकृता इति यावत्। वोपसर्जनस्य इति पक्षे सादेशाभावः। प्रजाः त्रीन्वर्णान् पुरा कल्पादौ सृष्ट्वोवाच प्रजानां पतिः स्रष्टा। किमुवाचेत्याह अनेने यज्ञेन स्वाश्रमोचितधर्मेण प्रसविष्यध्वं प्रसूयध्वम्। प्रसवो वृद्धिः। उत्तरोत्तरामभिवृद्धिं लभध्वमित्यर्थः। कथमनेन वृद्धिः स्यादत आह एष यज्ञाख्यो धर्मो वो युष्माकं इष्टकामधुक्इष्टानभिमतान्कामान्काम्यानि फलानि दोग्धि प्रापयतीति तथा। अभीष्टभोगप्रदोऽस्त्वित्यर्थः। अत्र यद्यपि यज्ञग्रहणमावश्यककर्मोपलक्षणार्थं अकरणे प्रत्यवायस्याग्रे कथनात्। काम्यकर्मणां च प्रकृते प्रस्तावो नास्त्येवमा कर्मफलहेतुर्भूः इत्यनेन निराकृतत्वात् तथापि नित्यकर्मणामप्यानुषङ्गिकफलसद्भावात्एष वोऽस्त्विष्टकामधुक् इत्युपपद्यते। तथाचापस्तम्बः स्मरति तद्यथाम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते नोचेदनूत्पद्यन्ते न धर्महानिर्भवति इति। फलसद्भावेऽपि तदभिसंध्यनभिसंधिभ्यां काम्यनित्ययोर्विशेषः। अनभिसंहितस्यापि वस्तुस्वभावादुत्पत्तौ न विशेषः। विस्तरेण चाग्रे प्रतिपादयिष्यते।
रामरायः - १०
सहेति। पुरा प्रजापतिः सहयज्ञाः प्रजाः सृष्ट्वा ‘अनेन प्रसविष्यध्वम् , एष व इष्टकामधुगस्तु’ इत्युवाच। इतश्चेति। यज्ञद्वारा देवमनुष्ययोरुपकार्योपकारकभावसत्त्वाददेवयाजिनश्चोरत्वादयज्ञशिष्टान्नाशनस्य किल्बिषहेतुत्वाद् यज्ञशिष्टान्नाशनस्य किल्बिषमोच- कत्वाच्चेत्यर्थः। प्रजापतिः ब्रह्मा। अनेन प्रसविष्यध्वमिति। अनेनेति करणे हेतौ वा तृतीया। सुकृतमिति शेषः। प्रसवशब्दार्थमाह— वृद्धिरिति। अन्यार्थमाह— उत्पत्तिरिति। सुकृतं वर्धयध्वम् उत्पादयध्वमिति वाऽर्थः।
यत्तु रामानुजः— आत्मनो वृद्धिं कुरुध्वमिति, तदसत् , आत्मनः वृद्धिक्षयादिविक्रियारहितत्वात्॥१०॥
[[१६८]]
मध्वः …{Loading}…
मध्वः - मूलम्
॥3.10 3.11॥ अत्रार्थवादमाह सहयज्ञा इति।
जयतीर्थः
॥3.10 3.11॥ सहयज्ञाः इत्यादेर्न प्रकृते सङ्गतिर्दृश्यते अत आह अत्रेति। वर्णाश्रमोचितस्य कर्मणः सर्वथा कर्तव्यत्वे स्तुतिर्निन्दा परकृतिः पुराकल्पोऽर्थवादः।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥3.10॥ सहेति। प्रजापतिः परमात्मा प्रजाः सहैव कर्मभिः ससर्ज। उक्तं च +++(N omits उक्तं च)+++ तेन प्रजानां कर्मभ्य एव प्रसवः सन्तानः। एतान्येव च इष्टं संसारं मोक्षं वा दास्यन्ति संगात्संसारं मुक्तसंगत्वान्मोक्षम् इति ।
शङ्करनारायणः
3.10 Saha-etc. The lord of creatures, the Supreme Soul, created creatures, just together with actions. It has also been declared by Him that the procreation i.e., lineage of creatures is through actions alone; these alone would give them what is desired viz., either the cycle of birth-and-death or emancipation - the cycle of birth-and-death is due to attachment and emancipation, due to the freedom from attachment. The sense-objects deserve to be enjoyed only by those for whom emancipation is the most important. This is declared :
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥3.10 3.11॥ किञ्च श्रुतं च सर्गप्रकरणे यज्ञोपलक्षणकर्मसहितप्रजोत्पादनं ब्रह्मणेति कर्मणोऽवश्यकर्त्तव्यतामाह सहेति चतुर्भिः। यज्ञाधिकृताः ब्राह्मणाद्याः प्रजाः सहयज्ञाः सृष्ट्वोवाच एष यज्ञो व इष्टकामधुनिति। ज्ञानमोक्षादिहेतुत्वं प्रकारान्तरेण वरप्रदानं तदाह अस्त्विति। न चेयं काम्यकर्मप्रशंसा कामधुक्त्वेनेष्टमात्रसाधकत्वाद्यज्ञादेर्विहितस्य नियतकर्मणः अन्यथाऽक्रामितोऽपि मोक्षः स्यात् तेन सर्वपुरुषार्थहेतुत्वमुक्तं भवति तदेवाह देवानिति। अनेन यज्ञेन विष्ण्वादीन् देवान् भावयत्। तदा परं श्रेय आत्यन्तिकमवाप्स्यथेति भावः।
पुरुषोत्तमः
॥3.10॥ ननु तादृशं कर्म त्याज्यमेव चेत्त्वन्मतं तदा केनोक्तं कथमाचरति लोकः इत्याशङ्क्यैतत्कर्म प्रवृत्तिपरं मदाज्ञया प्रवृत्तिप्रवर्त्तकब्रह्मणोक्तं लोकः समाचरतीत्याह सहयज्ञा इति। प्रजापतिर्ब्रह्मा सहयज्ञाः प्रजाः सृष्ट्वा प्रवृत्तिधर्मसहिताः प्रजाः सृष्ट्वा पुरा मदवतारात् पूर्वमुवाच। मत्प्रादुर्भावानन्तरं तु मया भक्तिरेवोक्तेति ज्ञापनाय पुरेत्युक्तम्। तद्वाक्यमेवाह अनेनेति। अनेन यज्ञेन प्रसविष्वध्वं प्रकर्षेण वृद्धिं प्राप्स्यथ। किञ्च एष यज्ञः वो युष्माकं इष्टकामधुक् अभीष्टफलदोऽस्तु भगवदाज्ञया ब्रह्मवाक्यं न मृषा भवतीति वरमेव दत्तवान्।
श्रीधर-स्वामी …{Loading}…
॥3.10॥ प्रजापतिवचनादपि कर्मकर्तैव श्रेष्ठ इत्याह सहयज्ञा इति चतुर्भिः। यज्ञेन सह वर्तन्ते इति सहयज्ञाः यज्ञाधिकृता ब्राह्मणाद्याः प्रजाः पुरा सर्गादौ सृष्ट्वा ब्रह्मेदमुवाच। अनेन यज्ञेन प्रसविष्यध्वं प्रसूयध्वम्। प्रसवो वृद्धिः। उत्तरोत्तरामभिवृद्धिं लभध्वमित्यर्थः। तत्र हेतुः। एष यज्ञो वो युष्माकमिष्टकामधुगिष्टान्काभान्दोग्धीति तथा। अभीष्टभोगप्रदोऽस्त्वित्यर्थः। अन्न च यज्ञग्रहणमावश्यककर्मोपलक्षणार्थम्। काम्यकर्म प्रशंसा तु प्रकरणेऽसंगतापि सामान्यतोऽकर्मणः कर्मश्रेष्ठमित्येतदर्थेत्यदोषः।
English …{Loading}…
आदिदेवानन्दः
3.10 In the beginning the Lord of all beings, creating man along with the sacrifice, said: ‘By this shall you prosper; this shall be the cow of plenty granting all your wants.’
गम्भीरानन्दः
3.10 In the days of yore, having created the beings together with the sacrifices, Prajapati said: ‘By this you multiply. Let this be your yielder of coveted objects of desire.’
पुरोहितस्वामी
3.10 In the beginning, when God created all beings by the sacrifice of Himself, He said unto them: Through sacrifice you can procreate, and it shall satisfy all your desires.
शङ्करनारायणः
3.10. Having created creatures formerly [at the time of creation] together with necessary action, the Lord of creatures declared : ‘By means of this, you shalll propagate yourselves; and let this be your wish-fulfilling-cow.’
शिवानन्दः - अनुवादः
3.10 The Creator, having in the beginning (of creation) created mankind together with sacrifice, said, “By this shall ye propagate; let this be the milch cow of your desires (the cow which yields all the desired objects).”
शिवानन्दः - टीका
3.10 सहयज्ञाः together with sacrifice; प्रजाः mankind; सृष्ट्वा having created; पुरा in the beginning; उवाच said; प्रजापतिः Prajapati; अनेन by this; प्रसविष्यध्वम् shall ye propagate; एषः this; वः your; अस्तु let be; इष्टकामधुक् milch cow of desires.Commentary Prajapati is the Creator or Brahma. Kamadhuk is another name for the cow Kamadhenu. Kamadhenu is the cow of Indra from which everyone can milk whatever one desires. (Cf.VIII.4IX.2427X.25).
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।3.10 – 3.11।। प्रजापति ब्रह्माजीने सृष्टिके आदिकालमें कर्तव्य-कर्मोंके विधानसहित प्रजा-(मनुष्य आदि-) की रचना करके उनसे (प्रधानतया मनुष्योंसे) कहा कि तुमलोग इस कर्तव्यके द्वारा सबकी वृद्धि करो और वह कर्तव्य-कर्म-रूप यज्ञ तुमलोगोंको कर्तव्य-पालनकी आवश्यक सामग्री प्रदान करनेवाला हो। अपने कर्तव्य-कर्मके द्वारा तुमलोग देवताओंको उन्नत करो और वे देवतालोग अपने कर्तव्यके द्वारा तुमलोगोंको उन्नत करें। इस प्रकार एक-दूसरेको उन्नत करते हुए तुमलोग परम कल्याणको प्राप्त हो जाओगे।
रामसुखदासः - टीका
।।3.10।।**व्याख्या–‘सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः’–**ब्रह्माजी प्रजा (सृष्टि) के रचयिता एवं उसके स्वामी हैं; अतः अपने कर्तव्यका पालन करनेके साथ वे प्रजाकी रक्षा तथा उसके कल्याणका विचार करते रहते हैं। कारण कि जो जिसे उत्पन्न करता है, उसकी रक्षा करना उसका कर्तव्य हो जाता है। ब्रह्माजी प्रजाकी रचना करते, उसकी रक्षामें तत्पर रहते तथा सदा उसके हितकी बात सोचते हैं। इसलिये वे ‘प्रजापति’ कहलाते हैं।
सृष्टि अर्थात् सर्गके आरम्भमें ब्रह्माजीने कर्तव्य-कर्मोंकी योग्यता और विवेक-सहित मनुष्योंकी रचना की है (टिप्पणी प₀ 128)। अनुकूल और प्रतिकूल परिस्थितिका सदुपयोग कल्याण करनेवाला है। इसलिये ब्रह्माजीने अनुकूल-प्रतिकूल परिस्थितिका सदुपयोग करनेका विवेक साथ देकर ही मनुष्योंकी रचना की है। सत्- असत् का विचार करनेमें पशु, पक्षी, वृक्ष आदिके द्वारा स्वाभाविक परोपकार (कर्तव्यपालन) होता है; किन्तु मनुष्यको तो भगवत्कृपासे विशेष विवेक-शक्ति मिली हुई है। अतः यदि वह अपने विवेकको महत्त्व देकर अकर्तव्य न करे तो उसके द्वारा भी स्वाभाविक लोक-हितार्थ कर्म हो सकते हैं।
चिन्मयानन्दः
।।3.10।। स्वयं सृष्टिकर्त्ता प्रजापति पंचमहाभूतों की सृष्टि रचकर अन्य प्राणियों के साथ मनुष्य को भी कर्म करने और फल पाने के लिये उत्पन्न करते हैं। उस समय वे यज्ञ को भी बनाते हैं अर्थात् उसका उपदेश देते हैं। यज्ञ का अर्थ है समर्पण बुद्धि और सेवा भाव से किये हुये कर्म। प्रकृति में सर्वत्र यज्ञ की भावना स्पष्ट दिखाई देती है। सूर्य प्रकाशित होता है और चन्द्रमा प्रगट होता है समुद्र स्पन्दित होता है पृथ्वी प्राणियों को धारण करती है ये सब मातृभाव से तथा यज्ञ की भावना से कर्म करते हैं जिनमें रंचमात्र भी आसक्ति नहीं होती।
ब्रह्माण्ड की शक्तियाँ और प्राकृतिक घटना चक्र अपने आप सब की सेवा में संलग्न रहता है। जगत् में जीवन के प्रादुर्भाव के पूर्व ही प्रकृति ने उसके लिये उचित क्षेत्र निर्माण कर रखा था। जब विभिन्न स्तरों पर जीवन का विकास होता है तब भी हम प्रकृति में सर्वत्र चल रहा यज्ञ कर्म देख सकते हैं जिसके कारण सबका अस्तित्व बना रहता है और विकास होता रहता है। उपर्युक्त सिद्धांत को काव्यात्मकभाषा में यह अर्थ गर्भित श्लोक प्रस्तुत करता है। सृष्टिकर्त्ता ब्रह्मा जी ने सेवा की भावना तथा यज्ञ करने की क्षमता के साथ जगत् की रचना की। मानो उन्होंने घोषणा की इस यज्ञ में तुम वृद्धि को प्राप्त हो यह तुम्हारे लिये कामधेनु सिद्ध हो। पौराणिक कथाओं के अनुसार कामधेनु नामक गाय वशिष्ट ऋषि के पास थी जो सभी इच्छाओं की पूर्ति करती थी। इसलिये इस शब्द का अर्थ इतना ही है कि यदि मनुष्य सहयोग और अनुशासन में रह कर अनासक्ति और त्याग की भावना से कर्म करने में तत्पर रहे तो उसके लिये कोई लक्ष्य अप्राप्य नहीं हो सकता। यज्ञ से इसका कैसे सम्पादन किया जा सकता है
तेजोमयानन्दः - अनुवादः
।।3.10।। प्रजापति (सृष्टिकर्त्ता) ने (सृष्टि के) आदि में यज्ञ सहित प्रजा का निर्माण कर कहा इस यज्ञ द्वारा तुम वृद्धि को प्राप्त हो और यह यज्ञ तुम्हारे लिये इच्छित कामनाओं को पूर्ण करने वाला (इष्टकामधुक्) होवे।।