07 यस्त्विन्द्रियाणि मनसा

विश्वास-प्रस्तुतिः …{Loading}…

यस् त्व् इन्द्रियाणि
मनसा नियम्यारभते ऽर्जुन।
कर्मेन्द्रियैः कर्म-योगम्
असक्तः स विशिष्यते॥3.7॥

रामानुजः …{Loading}…

रामानुजः - मूलम्
वेङ्कटनाथः

॥3.7॥ प्रथमम् एव ज्ञान-योगम् आरुरुक्षुम् अपोद्य
कर्म-योगिनं प्रशंसति “यस् त्व्” इति श्लोकेन।
प्रकृतेन सङ्गमयन् व्याख्याति “अत” इति।

॥3.7॥ अतः पूर्वाभ्यस्त-विषय-सजातीये
शास्त्रीये कर्मणि

वेङ्कटनाथः

इन्द्रियाणां निश्शेष-नियमनस्य, कर्म-योगारम्भस्य च मिथो विरुद्धत्वाद्
अविरोध-सिद्ध्य्-अर्थम् उक्तं
“शास्त्रीये कर्मणि नियम्य” इति।

“न हि कश्चित्” [3.5] इत्यादिना
ज्ञान-योगस्य दुष्करत्वे यो हेतुर् उक्तः
तस्यैव कर्म-योगं प्रत्य् उपकारकत्वेन सौकर्य-प्रतिपादनार्थम्
पूर्वाभ्यस्त-विषय-सजातीये
इत्य् उक्तम्।

इन्द्रियाणि आत्मावलोकन-प्रवृत्तेन मनसा नियम्य

वेङ्कटनाथः

यदि पूर्वाभ्यास उपकारकत्वेन स्वीक्रियते
तर्हि निषिद्धेभ्यो नियमनम् अशक्यं,
तेष्व् एव वासनायाः प्राचुर्याद्

इति शङ्का-निरासाय
कर्मणः फलान्तर-परित्यागाय चोक्तम्
आत्मावलोकने प्रवृत्तेन इति।
निषिद्धानाम् आत्मावलोकन-विरोधित्वाध्यवसायात्
तेषु स्थिरा ऽपि वासना निराक्रियत इति भावः।

तैः स्वत एव कर्म-प्रवणैः इन्द्रियैः

वेङ्कटनाथः

“कर्मेन्द्रियैर्” इत्य् अनेनाभिप्रेतं सौकर्यं विशदयति
“स्वत एव कर्म-प्रवणैर् इन्द्रियैर्” इति।

अ-सङ्ग-पूर्वकं यः कर्मयोगम् आरभते

वेङ्कटनाथः

अ-सङ्गस्य कर्म-योगारम्भापेक्षितत्वाद्
अ-सक्त-पदस्य +++(“यस् त्व् इन्द्रियाणि”→)+++ यद्-वृत्त-वाक्यांशे ऽन्वयम् आह
“असङ्ग-पूर्वकम्” इति।

सः अ-सम्भाव्यमान-प्रमादत्वेन
ज्ञाननिष्ठाद् अपि पुरुषाद् विशिष्यते।

वेङ्कटनाथः

वैशिष्ट्य-प्रकारं, विशेषस्य चावधिं दर्शयति
अ-सम्भाव्यमान-प्रमादत्वेन ज्ञान-निष्ठाद् अपीति।

वेदान्तदेशिकः

आदिदेवानन्दः

3.7 Conseently, he who, with aspiration to have the vision of the self, directs his senses to action according to the scriptures, such action being of the same class as those which he practised earlier, and who then begins to practise Karma Yoga, after renouncing attachment, with the senses which are naturally inclined to action - he, by reason of there being no chance of errors, excels a man following Jnana Yoga, because there is no fear of a fall in his case.

शङ्करः …{Loading}…

शङ्करः - मूलम्

॥3.7॥ यस्तु पुनः कर्मण्यधिकृतः अज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः। किमारभते इत्याह कर्मयोगम् असक्तः सन् फलाभिसंधिवर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात्॥ यतः एवम् अतः

गम्भीरानन्दः

3.7 Tu, but, on the other hand, O Arjuna; yah, one who is unenlightened and who is eligible for action; arabhate, engages in;-what does he engage in; the Lord says in answer-karma yogam, Karma-yoga; karma-indriyaih, with the organs of action, with speech, hands, etc.; niyamya, controlling; indriyani, the sense-organs; manasa, with the mind; and becoming asaktah unattached; [Here Ast; adds ‘phalabhisandhi-varjitah, free from hankering for results’.-Tr.] sah, that one; visisyate, excels the other one, the hypocrite. This being so, therefore,

हरिकृष्णदासः

॥3.7॥ परंतु हे अर्जुन जो कर्मोंका अधिकारी अज्ञानी ज्ञानेन्द्रियोंको मनसे रोककर वाणी हाथ इत्यादि कर्मेन्द्रियोंसे आचरण करता है। किसका आचरण करता है सो कहते हैं आसक्तिरहित होकर कर्मयोगका आचरण करता है वह ( कर्मयोगी ) दूसरेकी अपेक्षा अर्थात् मिथ्याचारियोंकी अपेक्षा श्रेष्ठ है।

आनन्दगिरिः

॥3.7॥ अनात्मज्ञस्य चोदितमकुर्वतो जाग्रतो विषयान्तरदर्शनध्रौव्यान्मिथ्याचारत्वेन प्रत्यवायित्वमुक्त्वा विहितमनुतिष्ठतस्तस्यैव फलाभिलाषविकलस्य सदाचारत्वेन वैशिष्ट्यमाचष्टे यस्त्विन्द्रियाणीति। विहितमनुतिष्ठतो मूर्खात् कर्म त्यजतो वैशिष्ट्यमक्षरयोजनया स्पष्टयति यस्तु पुनरिति।

नीलकण्ठः

॥3.7॥ यस्तु पूर्वस्मान्मिथ्याचाराद्विलक्षणः पुरुषधौरेयः इन्द्रियाणि मनसा सह नियम्य रागद्वेषवियुक्तानि कृत्वा कर्मेन्द्रियैः कर्मयोगमारभते हे अर्जुन सः कर्मफले स्वर्गादावैहिके वा शब्दादौ असक्तोऽनासक्तोऽतो विशिष्यते। पूर्वस्मादधिको भवतीत्यर्थः।

धनपतिः

॥3.7॥ य इति। यस्त्वज्ञः कर्मण्यधिकृतः ज्ञानेन्द्रियाणि विवेकवैराग्ययुक्तेन मनसा नियम्य। मनसा सहेत्यर्थस्त्वरुचिग्रस्तः। अरुचिबीजं तु पूर्वश्लोकोक्तस्य मनसः करणत्वस्य त्यागः सहशब्दाध्याहारश्च। फलाभिसंधिरहितः कर्मेन्द्रियैः कर्मयोगमारभते स पूर्वस्माच्छ्रेष्ठो भवति ज्ञाननिष्ठोपाये स्थितो यतः। अर्जुनेति संबोधयन् एवमेव त्वमपि कुर्वन् त्वमपि कुर्वन् अन्वर्थसंज्ञो भविष्यसीति ध्वनयति।

मधुसूदन-सरस्वती

॥3.7॥ औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रं कुर्यात्। यस्मात् तुशब्दोऽशुद्धान्तःकरणसंन्यासिव्यतिरेकार्थः। इन्द्रायाणि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह नियम्य पापहेतुशब्दादिविषयासक्तेर्निवर्त्य मनसा विवेकयुक्तेन नियम्येति वा कर्मेन्द्रियैर्वाक्पाण्यादिभिः कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तः फलाभिलाषशून्यः सन् यो विवेकी स इतरस्मान्मिथ्याचाराद्विशिष्यते। परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति। हे अर्जुन आश्चर्यमिदं पश्य यदेकः कर्मेन्द्रियाणि निगृह्णञ्ज्ञानेन्द्रियाणि व्यापारयन्पुरुषार्थशून्यः अपरस्तु ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियाणि व्यापारयन्परमपुरुषार्थभाग्भवतीति।

रामरायः - ७

यस्त्विति। हे अर्जुन! यस्तु मनसा इन्द्रियाणि नियम्य असक्तःसन् कर्मेन्द्रियैः कर्मयोगमारभते स विशिष्यते। तुशब्दार्थमाह— पुनरिति। यच्छब्दार्थमाह— कर्मण्यधिकृतोऽज्ञ इति। प्राज्ञस्य कर्माधिकाराभावादुक्तम् अज्ञ इति।

शब्दस्पर्शादिविषयेभ्यः सकाशान्निवर्तनीयानीन्द्रियाणि ज्ञानेन्द्रियाण्येवेत्यभिप्रेत्याह— बुद्धीन्द्रियाणीति। त्वक्चक्षुःश्रोत्रजिह्वा- घ्राणाख्यानि पञ्च। करपिधानादिना चक्षुरादिव्यापारनिरोधः कर्तव्य इति शङ्कानिरासायाह— मनसा नियम्येति। मनसि निष्कामे सति ज्ञानेन्द्रियाणि स्वत एव विषयेभ्यो निवर्तन्त इति भावः। एतेनेन्द्रियजयस्य मनोजयपूर्वकत्ववचनेन मनोजयोऽवश्यं कर्तव्य इति सूचितम्। मनोजयरहितस्य तु मिथ्याचारत्वं पूर्वश्लोक एवोक्तम्। अयं तु ग्राह्याचार इत्याह— स विशिष्यत इति। ज्ञानयोगिनोऽपि कर्मयोगी उत्कृष्ट इति शङ्कां वारयितुमाह— मिथ्याचारादिति। पूर्वश्लोकोक्तान्मिथ्याचारादयमुत्कृष्ट इत्यर्थः।

[[१६५]]

एतेन ‘ज्ञाननिष्ठाद् विशिष्यते’ इति रामानुजोक्तं प्रत्युक्तम्। कर्मयोगसाध्यज्ञाननिष्ठात् कर्मयोगनिष्ठस्याल्पत्वस्य सर्वविदित- त्वात् , यज्ञसाध्यस्वर्गफलभोक्तुः पुरुषात् कथं यज्ञकृद् विशिष्येत? कथं वा ज्ञानसाध्यमुक्तिशालिनः पुरुषाज्ज्ञाननिष्ठो विशिष्येत?

यदपि अनेनोक्तम् असम्भाव्यमानप्रमादत्वेनेति कारणम् , तदप्ययुक्तम् ; यदि कर्मज्ञानयोगौ द्वावपि परस्परनैरपेक्ष्येण निःश्रेयसकरौ तर्हि सम्भाव्यमानप्रमादाज्ज्ञानयोगादसम्भाव्यमानप्रमादः कर्मयोगो विशिष्येत, न त्वेतदस्ति, ज्ञानयोगस्य स्वोत्पत्तिं प्रति कर्मयोगसापेक्षत्वात् , कर्मयोगस्य च ज्ञानयोगद्वारा निःश्रेयसकरत्वाच्च। कर्मयोगनिष्पाद्यत्वं ज्ञानयोगस्य तवाप्यभिमतम् , आत्मावलोकनसाधनत्वं च।

न च - कर्मयोगिना आत्मावलोकनं चेत् सिषाधयिषितं, तर्हि ज्ञानयोगे प्रवेष्टव्यम् , मुक्तिश्चेत् सिषाधयिषिता तर्हि कर्मयोग एव यावज्जीवमवस्थातव्यम् , तत एव मुक्तिलाभादिति - वाच्यम् ; तथात्वे सप्रमाददुष्करनिरर्थकज्ञानयोगविधायकस्य शास्त्रस्य भगवतो वा अप्रमाणत्वापत्तेः। आत्मावलोकनं हि तव मते न पुरुषार्थः, स्वतःसिद्धत्वादात्मनः। आत्मभिन्नपरमात्मावलोकनात् तत्सारूप्यादिप्राप्तिर्हि तव मते मुक्तिः। तस्माद् व्यर्थमेव ज्ञानयोगविधानम्।

ननु न व्यर्थमात्मावलोकनरूपफलसत्त्वादिति चेत् , मैवम् ; स्वकुचमर्दनतुल्यत्वात् स्वावलोकनस्य। ज्ञानयोगं विनाऽपि कर्मयोगिनो मुक्तिदशायामात्मावलोकनसम्भवाच्च। न च मुक्तौ नास्त्यात्मावलोकनमिति वाच्यम् ; अपहतपाप्मत्वसर्वज्ञत्वादि- गुणाविर्भावान्मुक्तौ जीवानां कथमनात्मज्ञत्वम् ? मुक्तोऽनात्मज्ञ इति हि विरुद्धम्।

सिद्धान्ते तु आत्मावलोकनस्यैव मोक्षत्वान्मुमुक्षुणा कर्मयोगिना सम्पाद्य एवावश्यं ज्ञानयोगः, ज्ञानयोगनिष्पाद्यत्वादात्माव- लोकनस्य। अतो न 1योगान्यतरस्य वैयर्थ्यम् , नापि योगयोः समप्राधान्यम् , नापि ज्ञानयोगे प्रमादसम्भावना, कर्मयोगेनैव मनइन्द्रियजयलाभात्। तथा च मिथ्याचारादेव कर्मयोगी विशिष्यते। ज्ञाननिष्ठस्तु कर्मयोगिनो विशिष्यते, यथा पश्वादेर्मनुष्यो, मनुष्याद् देवः इति॥७॥

[[१६६]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥3.6 3.7॥ तथापि शक्तितः त्यागः कार्य इत्याह कर्मेन्द्रियाणीति। मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह मनसा स्मरन् मनसा नियम्येति। कर्मयोगं स्ववर्णाश्रमोचितम्। न तु गृहस्थकर्मैवेति नियमः सन्न्यासादिविधानात् सामान्यवचनाच्च।

जयतीर्थः

॥3.6 3.7॥ तथापिकर्मेन्द्रियाणि इत्यसङ्गतम् तृतीयपक्षस्थेन मनसेन्द्रियार्थस्मरणस्यानुक्तत्वादित्यत आह तथापीति। यद्यपि शरीरयात्राद्यर्थानि कर्माणि त्यक्तुमशक्यानि तथापि शक्तितः शक्यत्वाद्यज्ञादिकर्मणां त्यागः कार्यः। एतदुक्तं भवति नाशक्यविषये शास्त्रप्रवृत्तिः इत्यतस्तदतिरिक्तकर्मार्थः स्मृतौ कर्मशब्दो भविष्यतीति॥ एतच्छङ्कापरिहारः श्लोकेन दृश्यते। द्वितीयश्लोकश्च व्यर्थ इत्यत आह मन एवेति। मन एव बन्धमोक्षयोः प्रयोजकं न कर्मकरणाकरणे। अतस्तन्निग्रह एव कार्यः न कर्मत्याग इति ज्ञापयितुमित्यर्थः। अनिगृहीतत्वे मनसो बन्धापेक्षयाऽऽद्योऽन्वयः द्वितीयो व्यतिरेकः मोक्षापेक्षया तु व्यत्यास इति। एतेन स्मरणस्य मानसत्वव्यभिचारान्मनसेति व्यर्थमित्यपि परास्तम्। कर्मयोगेन योगिनां 3।3 इत्यत्र कर्मयोगशब्दस्य गृहस्थादिकर्मविषयत्वेन प्रकृतत्वादत्रापि तद्विषयत्वप्रतीतिः स्यात् तन्निरासार्थमाह कर्मयोगमिति। गृहस्थकर्मैव वनस्थकर्मैव ब्रह्मचारिकर्मैवेति नियमो न विवक्षित इत्यर्थः। सन्न्यासादित्यादिपदेन यो नियम्यते तद्व्यतिरिक्तग्रहणम् कर्मयोगशब्दस्य सामान्यवाचित्वाच्च। पूर्वंज्ञानयोगेन साङ्ख्यानां 3।3 इति यत्याश्रमकर्मणः पृथगुक्तत्वात् सामान्यशब्दोऽपि विशेषो व्यवस्थापितः। न चात्र तथाविधं किञ्चिदस्तीति भावः।

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥3.7॥ यस्त्विति। कर्मसु क्रियामणेषु न ज्ञानहानिः। मनसोऽव्यापारे यन्त्रपुरुषवत् कर्मणः क्रियमाणत्वात्।

शङ्करनारायणः

3.7 Yas tu etc. When actions are being performed [by him], there is no loss of his knowledge. For, when the mind does not function, he does his work like a machine-man. Therefore -

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥3.7॥ यस्तु मनसा योगशुद्धेनेन्द्रियाणि दुष्टानि नियम्य कर्मेन्द्रियैः कर्मयोगमसक्तः सन्नारभते स उत्तमः।

पुरुषोत्तमः

॥3.7॥ स्वरूपज्ञानेन त्यागी उत्तमः तत्त्यागस्वरूपं तस्योत्तमत्वमाह यस्त्विति। तुशब्दो लौकिकार्थनिग्रहपक्षं व्यावर्तयति। य इन्द्रियाणि मनसा नियम्य मनसा मदर्थं नियमे स्थापयित्वा कर्मेन्द्रियैर्वाक्चक्षुर्हस्तादिभिः कर्मणां कृतीनां योगं मया सह योगमसक्तः स्वसुखाभिलाषाभावेन मत्सुखार्थमेव आरभते स विशिष्यते विशिष्ठो भवति उत्तमो भवतीत्यर्थः।

श्रीधर-स्वामी …{Loading}…

॥3.7॥ एतद्विपरीतः कर्मकर्ता श्रेष्ठ इत्याह यस्त्विति। यस्तु ज्ञानेन्द्रियाणि मनसा नियम्य ईश्वरप्रवणानि कृत्वा कर्मेन्द्रियैः कर्मरुपं उपायमारभतेऽनुतिष्ठति असक्तः फलाभिलाषरहितः सन् स विन्निष्यते विशिष्टो भवति। चित्तशुद्ध्या ज्ञानावान्भवतीत्यर्थः।

English …{Loading}…

आदिदेवानन्दः

3.7 But he who, subduing his senses by the mind, O Arjuna, begins to practise Karma Yoga through the organs of action and who is free from attachment - he excels.

गम्भीरानन्दः

3.7 But, O Arjuna, one who engages in Karma-yoga with the organs of action, controlling the organs with the mind and becoming unattached-that one excels.

पुरोहितस्वामी

3.7 But, O Arjuna! All honour to him whose mind controls his senses, for he is thereby beginning to practise Karma-Yoga, the Path of Right Action, keeping himself always unattached.

शङ्करनारायणः

3.7. But, controlling sense-organs by mind, whosoever undertakes the Yoga of action with the action-senses he, the detached one, is superior [to others], O Arjuna !

शिवानन्दः - अनुवादः

3.7 But whosoever, controlling the senses by the mind, O Arjuna, engages himself in Karma Yoga with the organs of action, without attachment, he excels.

शिवानन्दः - टीका

3.7 यः whose; तु but; इन्द्रियाणि the senses; मनसा by the mind; नियम्य controlling; आरभते commences; अर्जुन O Arjuna; कर्मेन्द्रियैः by the organs of action; कर्मयोगम् Karma Yoga; असक्तः unattached; सः he; विशिष्यते excels.Commentary If anyone performs actions with his organs of action (viz.; hands; feet; organ of speech; etc.) controlling the organs of knowledge by the mind; and without expectation of the fruits of the actions and without egoism; he is certainly more worthy than the other who is a hypocrite or a man of false conduct. (Cf.II.64;68IV.21).The five organs of knowledge are the eyes; the ears; the nose; the skin and the sense of taste (tongue).

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।3.7।। हे अर्जुन! जो मनुष्य मनसे इन्द्रियोंपर नियन्त्रण करके आसक्तिरहित होकर (निष्काम भावसे) समस्त इन्द्रियोंके द्वारा कर्मयोगका आचरण करता है, वही श्रेष्ठ है।

रामसुखदासः - टीका

3.7।।व्याख्या–‘तु’यहाँ अनासक्त होकर कर्म करनेवालेको मिथ्याचारीकी अपेक्षा ही नहीं, प्रत्युत साङ्ख्ययोगीकी अपेक्षा भी श्रेष्ठ बतानेकी दृष्टिसे ‘तु’ पद दिया गया है।‘अर्जुन’ अर्जुन शब्दका अर्थ होता है–स्वच्छ। यहाँ भगवान्ने ‘अर्जुन’ सम्बोधनका प्रयोग करके यह भाव दिखलाया है कि तुम निर्मल अन्तःकरणसे युक्त हो; अतः तुम्हारे अन्तःकरणमें कर्तव्यकर्मविषयक यह सन्देह कैसे; अर्थात् यह सन्देह तुम्हारेमें स्थिर नहीं रह सकता।

चिन्मयानन्दः

।।3.7।। सरलसी प्रतीत होने वाली इन दो पंक्तियों में सही कर्म एवं जीवन जीने की कला का सम्पूर्ण ज्ञान सन्निहित है। आधुनिक जगत् को विचारों की सूत्ररूपता (अर्थात् कम शब्दों में अधिक अर्थ बताना) का ज्ञान नहीं है जबकि प्राचीन सूत्रकारों ने अपने विचारों से ऐसे भारत का निर्माण किया जहाँ आध्यात्मिक संस्कृति विकसित हुई और राष्ट्र ने स्वर्णयुग का अवलोकन किया। मन का अस्तित्व एवं पोषण पाँच ज्ञानेन्द्रियों द्वारा ग्रहण की हुई बाह्य जगत् की विषय संवेदनाओं से होता है। मन की वृत्ति इन्द्रियों के माध्यम द्वारा विषयों तक पहुँच कर उनके आकार को ग्रहण करती है जिससे उस विषय का प्रत्यक्ष ज्ञान होता है। यदि मन इन्द्रियों के साथ युक्त न हो तो विषयों के बाह्य देश में स्थित होने पर भी उनका ज्ञान संभव नहीं होता। इसीलिये अनेक बार जब हम पुस्तक के अध्ययन में एकचित्त हो जाते हैं तब समीप से किसी के पुकारने पर भी उसकी आवाज हम नहीं सुन पाते। मन की एकाग्रता के ऐसे अनेक उदाहरण हैं। इस श्लोक में साधक को मन के द्वारा इन्द्रियों को संयमित करने की सम्मति दी गयी है। इसे सफलतापूर्वक तभी किया जा सकता है जब मन को एक श्रेष्ठ दिव्य लक्ष्य की ओर प्रेरित किया जाय। केवल हठपूर्वक मन के तीव्र वेग को रोकने का प्रयत्न करना जलप्लावित नदी का प्रवाह रोकने के प्रयत्न के समान है। इसका व्यर्थ होना निश्चित है। श्रीकृष्ण आत्मसंयम का उपाय आगे बतायेंगे। मन से इन्द्रियों का संयम करना साधना का निषेधात्मक पक्ष है। हम अपने सामान्य जीवन में अपनी अधिकांश शक्ति विषयों में ही व्यय करते हैं इसलिये संयम के द्वारा इस शक्ति का अपव्यय रोक कर उसे संग्रहित करने को कहा जाता है किन्तु यदि इस संग्रहित शक्ति का उपयोग तत्काल ही श्रेष्ठ वस्तु की प्राप्ति के लिये नहीं किया जाय तो संयम के बांध को तोड़कर वह वस्तु मनुष्य के सन्तुलित व्यक्तित्व को ही प्रवाह में बहाकर ले जायेगी। श्लोक की दूसरी पंक्ति में अपनी एकत्रित शक्ति का सदुपयोग करना सिखाया गया है।

इस शक्ति का उपयोग कर्मेंन्द्रियों द्वारा कर्मक्षेत्र में समुचित रूप से कर्म करने में करना चाहिये। यहाँ भी एक महत्त्वपूर्ण सावधानी रखने के लिये श्रीकृष्ण कहते हैं। कर्मयोगी को सब कर्म अनासक्त होकर करने चाहिये।

यदि किसी कैमरे में साधारण कागज रखकर किसी वस्तु का चित्र खींचने का प्रयत्न किया जाय तो कितनी ही देर प्रकाशित वस्तु के सामने रखने पर भी उस कागज पर कोई चित्रण नहीं हो सकता परन्तु कागज को कैमरे के उपयुक्त बनाने पर क्षणमात्र में चित्र खींचा जा सकता है। इसी प्रकार आसक्ति से भरे मन पर विषयों के सम्बन्ध से शीघ्र ही वासनायें अंकित हो जाती हैं। इसी कारण से भगवान् कहते हैं कि हमको अनासक्त होकर कर्म करना चाहिये जिससे नये संस्कार उत्पन्न नहीं होंगे। साथहीसाथ पूर्वार्जित वासनाओं का क्षय भी हो जायेगा। गीता में इस सिद्धांत का विवेचन इतनी युक्तियुक्त एवं वैज्ञानिक पद्धति से किया गया है कि उसका अध्ययन करने वाले किसी भी विद्यार्थी को उसमें दोष देखने अथवा संदेह करने का अवसर ही नहीं मिलता।

इन्द्रिय संयम से शक्ति के अपव्यय को रोक कर अनासक्त भाव से कर्मेंद्रियों के द्वारा श्रेष्ठ कर्म करने में उसका सदुपयोग करने से चित्तशुद्धि होगी। इस प्रकार जो कर्मक्षेत्र हमारे बन्धन का कारण था उसी में गीता में वर्णित जीवन की शैली अपनाते हुये कर्म करने पर वही क्षेत्र मोक्ष का साधन बन जायेगा।

इसलिये

तेजोमयानन्दः - अनुवादः

।।3.7।। परन्तु हे अर्जुन जो पुरुष मन से इन्द्रियों को वश में करके अनासक्त हुआ कर्मेंन्द्रियों से कर्मयोग का आचरण करता है वह श्रेष्ठ है।।


  1. योगयोरन्यतरस्येत्यर्थः। ↩︎