विश्वास-प्रस्तुतिः …{Loading}…
+++(अर्जुन उवाच)+++
ज्यायसी चेत् कर्मणस् ते
मता बुद्धिर् जनार्दन।
तत् किं कर्मणि घोरे मां
नियोजयसि केशव॥3.1॥+++(5)+++
मूलम् …{Loading}…
अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।
तत्किं कर्मणि घोरे मां नियोजयसि केशव॥3.1॥
रामानुजः …{Loading}…
रामानुजः - मूलम्
॥3.1॥ अर्जुन उवाच
यदि कर्मणो बुद्धिः एव ज्यायसी इति ते मता
वेङ्कटनाथः
॥3.1॥ अत्रार्जुनः प्राग् एव समर-व्यापार-विरति– वासना-यन्त्रितः
कर्म-योग-ज्ञान-योगाख्य– प्रवृत्ति-निवृत्त्यात्मक-साधनोपदेशे निवृत्त्य्-उपदेशांश-रसिकश्
चोद्य-मुखेन पृच्छति — ज्यायसीति।
प्रथम-श्लोकस्यान्वयं तावद् आह — यदीति।
किमर्थं तर्हि घोरे कर्मणि मां नियोजयसि?
वेङ्कटनाथः
कर्मणो बुद्धिर् ज्यायसीति कुत्रोपदिष्टं —
“दूरेण ह्य् अवरं कर्म
बुद्धि-योगात्” 2।49इत्य्-आदि तु बुद्धि-विशेष-विशिष्ट– कर्म-योग-परम् इति व्याख्यातं,
ज्यायस्त्वं च किं-रूपम् इहाभिमतम्?
बुद्धेर् ज्यायस्त्वे च
कर्मणि यथाधिकारं नियोगस्य को दोषः?
घोर-शब्दश् च भयङ्कर-पर्यायः,
न च कर्म-योगो भयङ्करः,
किं-शब्दश् चात्र प्रश्न-परो वा प्रतिक्षेप-परो वा,
इत्य्-आदिकम् आशङ्क्याह — एतद् उक्तम् इति।
एतद् उक्तं भवति -
ज्ञाननिष्ठैव आत्मावलोकनसाधनं,
वेङ्कटनाथः
तत्र बुद्धेर् ज्यायस्त्व-प्रकारं
पूर्वं तद्-उक्ति-प्रकारं चाह — ज्ञान-निष्ठैवेति।
कर्मनिष्ठा तु तस्या निष्पादिका आत्मावलोकन-साधन-भूता च,
वेङ्कटनाथः
स्थित-प्रज्ञता-प्रकरणे
कर्मणो ज्ञान-निष्ठा-हेतुत्वम् उक्तं,
ज्ञान-निष्ठाया एव चात्मावलोकन-हेतुत्वं,
ततश् चाव्यवधानाद् बुद्धिर् ज्यायसीति।
यथाऽधिकारं नियोगानर्हत्वाय
ज्ञान-निष्ठा-निष्पादनस्य कर्म-प्रत्यनीक-रूपत्वम् उक्तं प्रकटयति — आत्मेति।
ज्ञान-निष्ठा सकलेन्द्रिय-मनसां शब्दादि-विषय-व्यापारोपरति-निष्पाद्या
इत्य् अभिहिता।
वेङ्कटनाथः
“यदा संहरते” 2।58 इत्य्-आद्य्-उक्तं स्मारयति — सकलेन्द्रियेत्यादिना।
इन्द्रिय-व्यापारोपरति-निष्पाद्यम् आत्मावलोकनं चेद् सिषाधयिषितं
सकल-कर्म-निवृत्ति-पूर्वक– ज्ञान-निष्ठायाम् एव अहं नियोजयितव्यः।
वेङ्कटनाथः
“किं”-शब्दस्य प्रतिक्षेप-परत्वं,
“ज्यायसी चेत्” इत्यत्र चेच्-छब्दस्य निश्चित-विषयत्वं चाभिप्रेत्य
फलितम् आह — इन्द्रिय-व्यापारेति।
सकल-कर्मेत्य् अ-सङ्ग-कर्म-सङ्ग्रहण-परम्।
किमर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे
आत्मावलोकनविरोधिनि कर्मणि
मां नियोजयसि
इति।
वेङ्कटनाथः
किम्-अर्थम् इति।
न तावत् स्व-प्रयोजनार्थं - परिपूर्णत्वात्,
न च सांसारिक-फल-प्रदानार्थं,
जनार्दनस्य जनि-निरासकस्य तव तन्-निवर्तन-स्वाभाव्यात्,नापि भू-भार-भूत– धार्तराष्ट्रादि-वध-निमित्तीकृत– मद्-विप्रलम्भार्थम्,
प्रपन्नं मां प्रति केशवस्य ब्रह्म-रुद्रादि-पितुस् ते तद्-अनौचित्यात्,नापि फल-शैघ्र्यार्थं - पारम्पर्यस्य पूर्वम् उपदिष्टत्वात्,
न च सौकर्यार्थम् अकरण-निमित्त-प्रत्यवाय-परिहारार्थं वा
सकलेन्द्रिय-व्यापार-रूपत्वेन तद्-उपरति-निष्पाद्य– आत्मावलोकन-विरोधितया मुमुक्षोर् घोरत्वात्।न च लोक-सङ्ग्रहार्थं,
लोकस्यापि यथावस्थिताकारोपदेशस्यैवोचितत्वात्।अतो भवतः प्राण-समतया भवतैवोद्घोषितं मां
भवद्-अनभिमते कर्मणि न नियोजयितुम् अर्हसि
इति भावः।
घोर-शब्दस्यात्र शास्त्रीय-प्राणि-पीडन-परत्वायोगात्
प्रकृतोपयुक्तम् अभिप्रेतम् आह — सर्वेन्द्रिय-व्यापार-रूप इति।
तथापि कथं घोरत्वम् इत्यत्राह — आत्मावलोकन-विरोधिनीति।
वेदान्तदेशिकः
…
आदिदेवानन्दः
3.1 ‘Arjuna said If you consider that knowledge is superior to works, why do you engage me in this terrible deed;’ What is said here is this: If the firm adherence to knowledge is the only means to the vision of the self, then how can one accept the idea that devotion to works (Karma) leads to it; It was said before that this firm devotion to knowledge, which forms the means for the vision of the self, could arise by the cessation of the activities of all the senses and the mind in relation to their respective objects such as sound. If the vision of the self is to be attained, which arises by the cessation of the activities of the senses, I should be guided to engage myself solely to acire firm devotion to knowledge, which is preceded by the abandoning of all works. For what purpose, then, do you engage me in this terrible deed, which consists in the activities of all the senses, and is thus an obstacle for the vision of the self;
शङ्करः …{Loading}…
शङ्करः - मूलम्
॥3.1॥ ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिः ज्ञानं हे जनार्दन। यदि बुद्धिकर्मणी समुच्चिते इष्टे तदा एकं श्रेयःसाधनमिति कर्मणो ज्यायसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्नम् अर्जुनेन कृतं स्यात् न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यात्। तथा च कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति तत् किं नु कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह तच्च नोपपद्यते। अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश्चेत् तत्किं कर्मणि घोरे मां नियोजयसि (गीता 3.1) इत्यादि कथं युक्तं वचनम्॥ किञ्च
गम्भीरानन्दः
3.1 O Janardana, cet, if it be; te, Your; mata, opinion, intention; that buddhih, Wisdom; jyayasi, is superior; karmanah, to action-. If the combination of Wisdom and action be intended (by the Lord), then the means to Liberation is only one. [The path combining Wisdom and action.] In that case, Arjuna would have done something illogical in separating Wisdom from action by saying that Wisdom is superior to action. For, that (Wisdom or action, which is a constituent of the combination) cannot be greater than that (Combination, even) from the point of view of the result. [Since what is intended is a combination, therefore, the separation of Knowledge from action, from the point of view of the result, is not justifiable. When Knowledge and action are considered to form together a single means to Liberation, in that case each of them cannot be considered separately as producing its own distinct result. Arjuna’s estion can be justified only if this separation were possible.] Similarly, what Arjuna said by way of censuring the Lord, as it were, in, ‘It has been stated by the Lord that Wisdom is superior to action, and He exhorts me saying, “Undertake action,” which is a source of evil! What may be the reason for this;’, and also in, ‘Tatkim, why then, O Kesava; niyojayasi, do You urge; mam, me; to ghore, horrible, cruel; karmani, action; involving injury;’-that (censure) also does not become reasonable. On the other hand, [If the opponent’s view be that Knowledge is to be combined with rites and duties sanctioned by the Vedas and the Smrtis in the case of the householders only, whereas for others those sanctioned by the Smrtis alone are to be combined with Knowledge৷৷., then৷৷.] if it be supposed that the combination (of Knowledge) with action sanctioned only by the Smrtis has been enjoined for all by the Lord, and Arjuna also comprehended (accordingly), then, how can the statement, ‘Why then do you urge me to horrible action’, be rational; Besides,
हरिकृष्णदासः
॥3.1॥ अर्जुन बोला हे जनार्दन यदि कर्मोंकी अपेक्षा ज्ञानको आप श्रेष्ठ मानते हैं ( तो हे केशव मुझे इस हिंसारूप क्रूर कर्ममें क्यों लगाते हैं ) यदि ज्ञान और कर्म दोनोंका समुच्चय भगवान्को सम्मत होता तो फिर कल्याणका वह एक साधन कहिये कर्मोंसे ज्ञान श्रेष्ठ है इत्यादि वाक्योंद्वारा अर्जुनका ज्ञानसे कर्मोंको पृथक् करना अनुचित होता। क्योंकि ( समुच्चयपक्षमें ) कर्मकी अपेक्षा उस ( ज्ञान ) का फलके नाते श्रेष्ठ होना सम्भव नहीं। तथा भगवान्ने कर्मोंकी अपेक्षा ज्ञानको कल्याणकारक बतलाया और मुझसे ऐसा कहते हैं कि तू अकल्याणकारक कर्म ही कर इसमें क्या कारण है यह सोचकर अर्जुनने भगवान्को उलहनासा देते हुए जो ऐसा कहा कि तो फिर हे केशव मुझे इस हिंसारूप घोर क्रूर कर्ममें क्यों लगाते हैं वह भी उचित नहीं होता। यदि भगवान्ने स्मार्तकर्मके साथ ही ज्ञानका समुच्चय सबके लिये कहा होता एवं अर्जुनने भी ऐसा ही समझा होता तो उसका यह कहना कि फिर हे केशव मुझे घोर कर्ममें क्यों लगाते हैं कैसे युक्तियुक्त हो सकता।
आनन्दगिरिः
॥3.1॥ पूर्वोत्तराध्याययोः संबन्धं वक्तुं पूर्वस्मिन्नध्याये वृत्तमर्थं संक्षिप्यानुवदति शास्त्रस्येति। गीताशास्त्रप्रारम्भापेक्षितं हेतुफलभूतं बुद्धिद्वयं भगवतोपदिष्टमित्यर्थः। प्रष्टुरर्जुनस्याभिप्रायं निर्देष्टुं प्रवृत्तमर्थान्तरमनुवदति तत्रेति। अध्यायो बुद्धिद्वयनिर्धारणं वा सप्तम्यर्थः पारमार्थिके तत्त्वे यज्ज्ञानं तन्निष्ठानामशेषकामत्यागिनां कामयुक्तानां कर्मिणामपि प्रतिपत्तिकर्मवत्त्यागं कर्तव्यत्वेन भगवानुक्तवानित्यर्थः। तथापि मोक्षसाधने विकल्पसमुच्चययोरन्यतरस्य विवक्षितत्वबुद्ध्या समनन्तरप्रश्नप्रवृत्तिरित्याशङ्क्याह उक्तेति। अर्जुनस्य मनसि व्याकुलत्वं प्रश्नबीजं दर्शयितुमुक्तमर्थान्तरमनुभाषते अर्जुनाय चेति। साङ्ख्यबुद्धिमाश्रित्य कर्मत्यागमुक्त्वा पुनस्तस्यैव कर्तव्यत्वं कथं मिथो विरुद्धं ब्रवीतीत्याशङ्क्याह योगेति। यथा साङ्ख्यबुद्धिमाश्रितानां संन्यासद्वारा तन्निष्ठानां कृतार्थतोक्ता तथा योगबुद्धिमाश्रित्य कर्म कुर्वतोऽपि कृतार्थत्वमुक्तमित्याशङ्क्याह न तत एवेति। दूरेण ह्यवरं कर्म बुद्धियोगादिति दर्शनादिति शेषः। बुद्धिव्याकुलत्वं प्रश्नबीजं प्रतिलभ्य प्रश्नं करोतीत्याह तदेतदिति। साक्षादेव श्रेयःसाधनं ज्ञानमन्येभ्यो दर्शितं तदित्युच्यते तद्विपरीतं कर्म स्वस्यानुष्ठेयत्वेनोक्तमेतदिति निर्दिश्यते भगवदुक्तेऽर्थे संदिह्यमानस्य निर्णयाकाङ्क्षया प्रश्नप्रवृत्तेरस्ति पूर्वोत्तराध्याययोरुत्थाप्योत्थापकलक्षणा संगतिरित्यर्थः। अर्जुनस्य प्रश्ननिमित्तं पर्याकुलत्वं प्रपञ्चयति कथमित्यादिना। यद्धि साक्षादेव श्रेयःसाधनं साङ्ख्यशब्दितपरमार्थतत्त्वविषयबुद्धौ निष्ठारूपं तदन्यस्मै श्रेयोर्थिने भक्ताय श्रावयित्वा मां पुनरभक्तमश्रेयोर्थिनमिव कर्मणि पूर्वोक्तविपरीते कथं भगवान्नियोक्तुमर्हतीत्यर्जुनस्य पर्याकुलीभावो युक्त इति संबन्धः ज्ञाननिष्ठातो वैपरीत्यं स्फोरयितुं कर्म विशिनष्टि दृष्टेति। युद्धे हि क्षत्रकर्मणि दृष्टोऽनेकोऽनर्थो गुरुभ्रातृहिंसादिस्तेन संबद्धे बुद्धिशुद्धिद्वारापि वर्तमाने जन्मन्येव फलमित्यनियते मम भक्तस्य श्रेयोर्थिनो नियोगो भगवता युक्तो न भवतीति शेषः। यथोक्तं निमित्तं प्रश्नस्य युक्तं तदनुगुणत्वात्तस्येति द्योतकमाह तदनुरूपश्चेति। ज्ञाननिष्ठानां कृतार्थता कर्मनिष्ठानां तु न तथेत्युक्तविभागभागि शास्त्रमित्यत्र लोकेऽस्मिन्नित्यादिवाक्यस्यापि द्योतकत्वं दर्शयति प्रश्नेति। साक्षादेव श्रेयःसाधनमन्येभ्यो भगवतोक्तं नतु मह्यमिति मत्वा व्याकुलीभूतः सन् पृच्छतीति स्वाभिप्रायेण संबन्धमुक्त्वा वृत्तिकाराभिप्रायं दूषयति केचित्त्विति। ज्ञानकर्मणोः समुच्चयमवधारयितुं प्रश्नाङ्गीकारे समुच्चयावधारणेनैव प्रतिवचनमुचितं नच तथा भगवता प्रतिवचनमुक्तं तथाच प्रश्नस्य समुच्चयविषयत्वोपगमात्प्रत्युक्तेश्चासमुच्चयविषयत्वात्तयोर्मिथो विरोधो वृत्तिकारमते स्यादित्यर्थः। किंच केवलं प्रश्नप्रतिवचनयोरेव परमते परस्परविरोधो न भवत्यपितुं परेषां स्वग्रन्थेऽपि पूर्वापरविरोधोऽस्तीत्याह यथाचेति। आत्मना वृत्तिकारैरिति यावत् संबन्धग्रन्थो गीताशास्त्रारम्भोपोद्धातः। इहेति। तृतीयाध्यायारम्भं परामृशति। तदेव विवृण्वन्नाकाङ्क्षामाह कथमिति। पूर्वापरविरोधं स्फोरयितुं संबन्धग्रन्थोक्तमनुवदति तत्रेति। परकीया वृत्तिः सप्तम्या समुल्लिख्यते संबन्धग्रन्थे तावदयमर्थ उक्त इति संबन्धः। तमेवार्थं विशदयति सर्वेषामिति। सर्वकर्मसंन्यासपूर्वकज्ञानादेव केवलात्कैवल्यमित्यस्मिन्नर्थे शास्त्रस्य पर्यवसानान्न समुच्चयो विवक्षितस्तत्रेत्याशङ्क्याह पुनरिति। उक्तगीतार्थो वृत्तिकारैरेव कर्मत्यागायोगेन विशेषितत्वान्नाविवक्षितोऽलं
भवितुमुत्सहते तथाच श्रौतानि कर्माणि त्यक्त्वा ज्ञानादेव केवलान्मुक्तिर्भवतीत्येतन्मतं नियमेनैव यावज्जीवश्रुतिभिर्विप्रतिषिद्धत्वान्नाभ्युपगन्तुमुचितमित्यर्थः। तथापि कथं मिथो विरोधधीरित्याशङ्क्याह इह त्विति। प्रथमतो हि संबन्धग्रन्थे समुच्चयो गीतार्थप्रतिपाद्यत्वेन वृत्तिकृता प्रतिज्ञातः। श्रौतकर्मपरित्यागश्च श्रुतिविरोधादेव न संभवतीत्युक्तं तृतीयाध्यायारम्भे पुनः संन्यासिनां ज्ञाननिष्ठा कर्मिणां कर्मनिष्ठेत्याश्रमविभागमभिदधता पूर्वप्रतिषिद्धकर्मत्यागाभ्युपगमान्मिथो विरोधो दर्शितः स्यादित्यर्थः। ननु यथा भगवता प्रतिपादितं तथैव वृत्तिकृता व्याख्यातमिति न तस्यापराधोऽस्तीत्याशङ्क्याह तत्कथमिति। नहीह भगवान्विरुद्धमर्थमभिधत्ते सर्वज्ञस्य परमाप्तस्य विरुद्धार्थवादित्वायोगात् किंतु तदभिप्रायापरिज्ञानादेव व्याख्यातुर्विरुद्धार्थवादितेत्यर्थः। भगवतो विरुद्धार्थवादित्वाभावेऽपि श्रोतुर्विरुद्धार्थप्रतिपत्तिं प्रतीत्य व्याचक्षाणो वृत्तिकारो नापराध्यतीत्याशङ्क्याह श्रोता वेति। अर्जुनो हि श्रोता। सोऽपि बुद्धिपूर्वकारीभगवदुक्तमेवावधारयन्न विरुद्धमर्थमवधारयितुमर्हति तथा च परस्यैव विरुद्धार्थवादितेत्यर्थः। विरोधं परिहरन्नाशङ्कते तत्रेति। संबन्धग्रन्थे हि वृत्तिकारस्यैतदभिप्रेतं गृहस्थानामेव सतां परिपक्वज्ञानमन्तरेण यावज्जीवश्रुतिचोदिताग्निहोत्रादित्यागेन केवलादेवापातिकादात्मज्ञानान्मोक्षमवेक्ष्यमाणानां यावज्जीवादिशास्त्रैरसौ निषिध्यते न तु स्वरूपेणैव कर्मत्यागो ज्ञानान्मोक्षो वा निषेद्धुमिष्यते। तृतीये पुनरध्याये कर्मत्यागिनां गृहस्थेभ्यो व्यतिरिक्तानामेव केवलादात्मज्ञानान्मोक्षो विवक्ष्यतेऽतो भिन्नविषयत्वान्निषेधाभ्यनुज्ञानयोर्न विरोधाशङ्केत्यर्थः। विधान्तरेण विरोधं दर्शयन्नुत्तरमाह एतदपीति। विरोधमेवाकाङ्क्षाद्वारा साधयति कथमित्यादिना। श्रौतं कर्म गृहस्थानामवश्यमनुष्ठेयमित्यनेनाभिप्रायेण तेषां केवलादात्मज्ञानान्मोक्षो निषिध्यते नतु गृहस्थानां ज्ञानमात्रायत्तं मोक्षं प्रतिषिध्यान्येषां केवलज्ञानाधीनो मोक्षो विवक्ष्यत आश्रमान्तराणामपि स्मार्तेन कर्मणा समुच्चयाभ्युपगमादिति चोदयति अथेति। एतत्परामृष्टं वचनमेवाभिनयति केवलादिति। ननु गृहस्थानां श्रौतकर्मराहित्येऽपि सति स्मार्ते कर्मणि कुतो ज्ञानस्य केवलत्वं लभ्यते येन निषेधोक्तिरर्थवती तत्राह तत्रेति। प्रकृतवचनमेव सप्तम्यर्थः प्रधानं हि श्रौतं कर्म तद्राहित्ये सति स्मार्तस्य कर्मणः सतोऽप्यसद्भावमभिप्रेत्य ज्ञानस्य केवलत्वमुक्तमिति युक्ता निषेधोक्तिरित्यर्थः। गृहस्थानामेव श्रौतकर्मसमुच्चयो नान्येषाम् अन्येषां तु स्मार्तेनेति पक्षपाते हेत्वभावं मन्वानः सन् परिहरति एतदपीति। तमेव हेत्वभावं प्रश्नद्वारा विवृणोति कथमित्यादिना। गृहस्थानां श्रौतस्मार्तकर्मसमुच्चितं ज्ञानं मुक्तिहेतुरित्यभ्युपगमात्केवलस्मार्तकर्मसमुच्चितात्ततो न मुक्तिरिति निषेधो युज्यते ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मुक्तिरिति विभागे नास्ति हेतुरित्यर्थः। पक्षपाते कारणं नास्तीत्युक्त्वा पक्षपातपरित्यागे कारणमस्तीत्याह किञ्चेति। गृहस्थानामपि ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षसाधनं ब्रह्मज्ञानत्वादूर्ध्वरेतःसु व्यवस्थितब्रह्मज्ञानवदिति पक्षपातत्यागे हेतुं स्फुटयति यदीत्यादिना। यदि गृहस्थानां ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षहेतुरिति विवक्षितं तदा तान्प्रति यावज्जीवश्रुतिर्विरुध्येत यदि स्मार्तैरपि कर्मभिः समुच्चितं तदीयं ज्ञानं मोक्षसाधनं विवक्ष्यते तदा सिद्धसाध्यतेति प्रागुक्तमभिप्रेत्य चोदयति अथेति। आश्रमान्तराणां तर्हि केवलादेव ज्ञानान्मुक्तिरिति प्रागुक्तविरोधतादवस्थ्यमित्याशङ्क्याह ऊर्ध्वरेतसां त्विति। यथोक्ते विभागे गार्हस्थ्यं क्लेशात्मकं कर्म बाहुल्यादनुपादेयमापद्येतेति दूषयति तत्रेति। साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य शङ्कते अथेति। क्लेशबाहुल्योपेतं श्रौतं स्मार्तं च बहु कर्म तस्यानुष्ठानाद्गृहस्थस्य मोक्षः स्यादेवेत्यर्थः। एवकारनिरस्यं दर्शयति नाश्रमान्तराणामिति। तेषां नास्ति मुक्तिरित्यत्र यावज्जीवादिश्रुतिविहितावश्यानुष्ठेयकर्मराहित्यं हेतुं सूचयति श्रौतेति। शास्त्रविरोधिन्यायस्य निरवकाशत्वमभिप्रेत्य दूषयति तदपीति। ऐकाश्रम्यस्मृत्या गार्हस्थ्यस्यैव प्राधान्यादनधिकृतान्धादिविषयं कर्मसंन्यासविधानमित्याशङ्क्याह ज्ञानाङ्गत्वेनेति। न खल्वनधिकृतानामन्धादीनां संन्यासः श्रवणाद्यावृत्तिद्वारा ज्ञानाङ्गं भवितुमलं तेषां श्रवणाद्यभ्याससामर्थ्यात्। अतः श्रुत्यादीनां विरोधे नास्ति गार्हस्थ्यस्य प्राधान्यमित्यर्थः। तस्य प्राधान्याभावे हेत्वन्तरमाह **आश्रमेति।**ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा इति श्रुतौ तस्याश्रमविकल्पमेके ब्रुवत इतियमिच्छेत्तमावसेत् इत्यादिस्मृतौ चाश्रमाणां समुच्चयेन विकल्पेन चाश्रमान्तरमिच्छन्तं प्रति विधानान्न गार्हस्थ्यस्य प्रधानत्वमित्यर्थः। यदि सर्वेषामाश्रमाणां श्रुतिस्मृतिमूलत्वं तर्हि तत्तदाश्रमविहितकर्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते सिद्धस्तर्हीति। यद्यपि ज्ञानोत्पत्तावाश्रमकर्मणां साधनत्वं तथापि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षतेऽन्यथा संन्यासविध्यनुपपत्तेरिति दूषयति न मुमुक्षोरिति। संन्यासविधानमेवानुक्रामति व्युत्थायेत्यादिना। एषणाभ्यो वैमुख्येनोत्थानं तत्परित्यागः। आश्रमसंपत्त्यनन्तरं तत्र विहितधर्मकलापानुष्ठानमपि कर्तव्यमित्याह अथेति। प्रागुक्तानां सत्यादीनामल्पफलत्वान्न्यासस्य च ज्ञानद्वारा मोक्षफलत्वादित्याह तस्मादिति। अतिरिक्तमतिशयवन्तं महाफलमिति यावत्। प्रकृतकर्मभ्यः सकाशान्न्यास एवातिशयवानासीदित्युक्तेऽर्थे वाक्यान्तरं पठति न्यास एवेति। लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद्विरक्ताः संन्यासपूर्वकादात्मज्ञानादेव प्राप्तवन्तो मोक्षमित्याह न कर्मणेति। सति वैराग्ये नास्ति कर्मापेक्षा सत्यां सामग्र्यां कार्यापेक्षानुपपत्तेरित्याह ब्रह्मचर्यादेवेति। इत्याद्याः सर्वकर्मसंन्यासविधायिन्यः श्रुतयो भवन्तीति शेषः। आत्मानमेव लोकमिच्छन्तः प्रव्रजन्तीत्यादिवाक्यसंग्रहार्थमादिपदम्। तत्रैव स्मृतिमुदाहरति त्यजेति। धर्माधर्मयोः सत्यानृतयोश्च संसारारम्भकत्वान्मुमुक्षुणा तत्त्यागे प्रयतितव्यमित्यर्थः। त्यक्तस्वाभिमानस्यापि तत्त्वतः स्वरूपसंबन्धाभावात्त्याज्यत्वमविशिष्टमित्याह येनेति। अनुभवानुसारेणप्रमातृताप्रमुखस्य संसारस्य दुःखफलत्वमालक्ष्य मोक्षहेतुसम्यग्ज्ञानसिद्धये ब्रह्मचर्यादेव पारिव्राज्यमनुष्ठेयमित्युत्पत्तिविधिमुपन्यस्यति संसारमिति। तत्त्वज्ञानमुद्दिश्य ब्रह्मचर्यादेव कर्मसंन्याससामग्रीमभिदधानो विनियोगविधिं सूचयति परमिति। ज्ञानकर्मणोरसमुच्चयार्थे फलविभागं कथयति कर्मणेति। उक्तं फलविभागमनूद्य ज्ञाननिष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह तस्मादिति। वाक्यशेषेऽपि सर्वकर्मसंन्यासो विवक्षितोऽस्तीत्याह इहापीति। ज्ञानार्थिनो मुमुक्षोः संन्यासविध्यनुपपत्तिबाधितं समुच्चयविधिवचनमित्युक्तमिदानीं मोक्षस्वभावालोचनयापि समुच्चयवचनमनुचितमित्याह **मोक्षस्य चेति।**अकुर्वन्विहितं कर्म निन्दितं च समाचरन्। प्रसंजंश्चेन्द्रियार्थेषु नरः पतनमृच्छति इति स्मृतेः। मुमुक्षुणापि प्रत्यवायनिवृत्तये कर्तव्यं नित्यकर्मेति शङ्कते नित्यानीति। यो यस्मिन्कर्मण्यधिकृतस्तस्य तदकरणात्प्रत्यवायो भवति नतु कर्मानधिकारिणः संन्यासिनस्तदकरणात्प्रत्यवायः संभवतीति दूषयति नासंन्यासीति। तदेव स्पष्टयति नहीति। समिद्धोमाध्ययनाद्यकरणात्प्रत्यवायः संन्यासिनो नास्तीत्यर्थः। तत्र व्यतिरेकोदाहरणमाह यथेति। अकरणात्प्रत्यवायोत्पत्तिमभ्युपेत्योक्तं संप्रति प्रतिषिद्धकरणादेव प्रत्यवायो न त्वकरणादभावाद्भावोत्पत्तेर्लोकवेदविरुद्धत्वादित्याह न तावदिति। ननु नित्यकर्मविधायी वेदस्तदकरणात्प्रत्यवायो भवतीति ब्रवीति तत्कथमकरणात्प्रत्यवायो न भवतीति श्रुतिमाश्रित्योच्यते श्रुत्यन्तरविरोधादिति तत्राह यदीति। विहितस्याकरणे सत्यनर्थप्राप्तेर्न नित्यकर्मविधायी वेदोऽनर्थकरत्वेनाप्रमाणमित्याशङ्क्याह विहितस्येति। न विहितस्य करणे पितृलोकप्राप्तिलक्षणं फलं भवतेष्यते धूमादिना नयनपीडादिदुःखं तु प्रत्यक्षमेवाकरणे च प्रत्यवायोत्पत्तिरुभयथापि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः। नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः संपादयिष्यति तथाच विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति नेत्याह तथाचेति। लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारादपूर्वशक्त्याधानायोगाज्ज्ञापकमेव शास्त्रमित्यर्थः। कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह कारकमिति। भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्यापौरुषेयतया शेषदोषानागन्धितत्वान्मैवमित्याह नचेति। अनिर्वाच्यानुपलम्भस्य संवेदनमभावज्ञाने कारणं समीहितसाधनज्ञानं तु चरणन्यासादि प्रवृत्तिकारणमित्यङ्गीकृत्योपसंहरति तस्मादिति। अकरणात्प्रत्यवायोत्पत्त्यसंभवस्तच्छब्दार्थः। संन्यासिनां ज्ञाननिष्ठानां कर्मसंन्यासित्वादेव कर्मासंभवे फलितमाह अत इति। समुच्चयानुपपत्तौ हेत्वन्तरमाह ज्यायसीति। प्रश्नानुपपत्तिमेव प्रपञ्चयति यदि हीति। समुच्चयोपदेशे प्रश्नैकदेशानुपपत्तेश्च न तदुपदेशोपपत्तिरित्याह **अर्जुनायेति।**कर्मण्येवाधिकारस्ते मा फलेषु कदाचन इत्यर्जुनं प्रत्युपदेशात्तं प्रति ज्यायसी बुद्धिर्नोक्तेति युक्तं तत्किमित्याद्युपालम्भवचनमित्याशङ्क्याह नचेति। येन कल्पनेन ज्यायसी चेदित्यारभ्य तत्किं कर्मणीत्युपालम्भात्मा प्रश्नः स्यात्तथा न युक्तं कल्पयितुम्। एषा तेऽभिहिता साङ्ख्ये बुद्धिः इति वचनविरोधादि तियोजना। कस्मिन्पक्षे तर्हि प्रश्नस्योपपत्तिरित्याशङ्क्याह यदीति। भगवदुक्तेऽर्थे प्रष्टुर्विवेकाभावात् प्रश्नः स्यादित्याशङ्क्य पूर्वोक्तमेवाधिकं विवक्षया स्मारयति अविवेकत इति। भगवतोऽपि प्रतिवचनमज्ञाननिमित्तं प्रश्नाननुरूपत्वादित्याशङ्क्याधिकं दर्शयति नचेति। भगवतः सर्वज्ञत्वप्रसिद्धिविरोधादज्ञानाधीनप्रतिवचनायोगादित्यर्थः। इतश्च समुच्चयः शास्त्रार्थो न भवतीत्याह अस्माच्चेति। कस्तर्हि शास्त्रार्थो विवक्षितस्तत्राह केवलादिति। ज्ञानकर्मणोः समुच्चयानुपपत्तौ कारणान्तरमाह ज्ञानेति। वाक्यशेषवशादपि समुच्चयस्याशास्त्रार्थतेत्याह कुरु कर्मैवेति। प्राथमिकेन संबन्धग्रन्थेन समस्तशास्त्रार्थसंग्राहकेण तद्विवरणात्मनोऽस्य संदर्भस्य नास्ति पौनरुक्त्यमिति मत्वा प्रतिपदं व्याख्यातुं प्रश्नैकदेशं समुत्थापयति ज्यायसी चेदिति। वेदाश्चेत्प्रमाणमितिवच्चेदित्यस्य निश्चयार्थत्वं व्यावर्तयति यदीति। बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यवच्छिनत्ति ज्ञानमिति। पूर्वार्धस्याक्षरयोजनां कृत्वा समुच्चयाभावे तात्पर्यमाह यदीति। इष्टे भगवतेति शेषः। एकं ज्ञानं कर्म च समुच्चितमिति यावत्। ज्ञानकर्मणोरभीष्टे समुच्चये समुच्चितस्य श्रेयःसाधनस्यैकत्वात्कर्मणः सकाशाज्ज्ञानस्य पृथक्करणमयुक्तमित्यर्थः। एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादित्याशङ्क्याह नहीति। नच केवलात्कर्मणो ज्ञानस्य केवलस्य फलतोऽतिरिक्तत्वं विवक्षित्वा पृथक्करणं समुच्चयपक्षे प्रत्येकं श्रेयःसाधनत्वानभ्युपगमादिति भावः। पूर्वार्धस्येवोत्तरार्धस्यापि समुच्चयपक्षे तुल्यानुपपत्तिरित्याह तथेति। दूरेण ह्यवरं कर्मेत्यत्र कर्मणः सकाशाद्बुद्धिः श्रेयस्करी भगवतोक्ता कर्म च बुद्धेः सकाशादश्रेयस्करमुक्तं तथापि तदेव कर्म कर्मण्येवाधिकारस्ते मा फलेष्विति स्निग्धं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति तत्र कारणानुपलम्भादयुक्तमतिक्रूरे कर्मणि भगवतोमन्नियोजनमिति यदर्जुनो ब्रवीति तच्च समुच्चयपक्षेऽनुपपन्नं स्यादित्यर्थः।
नीलकण्ठः
॥3.1॥ पूर्वस्मिन्नध्यायेएषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श्रृणु इति द्वे बुद्धी प्रदर्श्यव्यवसायात्मिका बुद्धिः इति श्लोकेन साङ्ख्यनिष्ठावतां पातशङ्का नास्ति कर्मयोगनिष्ठावतां तु सास्तीत्युक्तायावानर्थ उदपाने इति साङ्ख्यनिष्ठायां सर्वकर्मफलान्तर्भावश्रवणात्तामेव प्रशमात्मिकां स्वाशयानुकूलां मन्वानोऽर्जुन उवाच ज्यायसीति। हे जनार्दन कर्मणो निष्कामकर्मयोगापेक्षया बुद्धिः साङ्ख्यनिष्ठालक्षणं ज्ञानं ज्यायसी प्रशस्ततरा चेत्ते तव मता तत्तर्हि मां भैक्ष्यवृत्त्यापि तुष्यन्तं घोरे बन्धुवधाख्ये कर्मणि किं कुतो हेतोर्नियोजयसि पुनः पुनर्युध्यस्वेति वदन्।
धनपतिः
॥3.1॥ पूर्वाध्याये उपायोपेयभूते कर्मनिष्ठा ज्ञाननिष्ठा चेति द्वे निष्ठे प्रोक्ते तत्र प्रजहातीत्यादिना एषा ब्राह्मीत्यन्तेन ज्ञाननिष्ठात्युत्तमेत्यभिहितं तदेव श्रुत्वार्जुनः फलभूतायां ज्ञाननिष्ठायामप्युत्कण्ठितः स्वस्यापि चित्तशुद्धिपुरःसरं ज्ञानाधिकारं मन्यमान उवाच ज्यायसीति। जनान्देवविपक्षभूतानर्दयति पीडयतीति जनार्दनः तं संबोधयन् ममासुरत्वाभावाद्वोरे कर्मणि प्रेरणेन पीडादातृत्वं तवानुचितमिति सूचयति। यदि निष्कामकर्मणः सकाशादपि बुद्धिर्ज्ञानं श्रेष्ठं तवाभिमतं तर्हि कस्माद्वारे हिंसाप्रधाने क्रूरे कर्मणि मां स्वभक्तं तस्माद्युध्यस्वेत्यादिना नियोजयसि प्रेरयसि। हे केशव कं ब्रह्मादिमनुकम्पार्थ गच्छतीति तथा संबोधयन्मामपि स्वभक्तं प्रति केशवो भव नतु जनार्दन इति द्योतयति।
मधुसूदन-सरस्वती
॥3.1॥ एवं तावत्प्रथमेनाध्यायेनोपोद्धातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः। तथाहि आदौ निष्कामकर्मनिष्ठा ततोऽन्तःकरणशुद्धिः ततः शमदमादिसाधनपुरःसरः सर्वकर्मसंन्यासः ततो वेदान्तवाक्यविचारसहिता भगवद्भक्तिनिष्ठा ततस्तत्त्वज्ञाननिष्ठा तस्याः फलं च त्रिगुणात्मकाविद्यानिवृत्त्या जीवन्मुक्तिः प्रारब्धकर्मफलभोगपर्यन्तं तदन्ते च विदेहमुक्तिः। जीवन्मुक्तिदशायां च परमपुरुषार्थालम्बनेन परवैराग्यप्राप्तिर्दैवसंपदाख्या च शुभवासना तदुपकारिण्यादेया। आसुरसंपदाख्यात्वशुभवासना तद्विरोधिनी हेया। दैवसंपदोऽसाधारणं कारणं सात्विकी श्रद्धा। आसुरसंपदस्तु राजसी तामसी चेति हेयोपादेयविभागेन कृत्स्नशास्त्रार्थपरिसमाप्तिः। तत्रयोगस्थः कुरु कर्माणि इत्यादिना सूत्रिता सत्त्वशुद्धिसाधनभूता निष्कामकर्मनिष्ठा सामान्यविशेषरूपेण तृतीयचतुर्थाभ्यां प्रपञ्च्यते। ततः शुद्धान्तःकरणस्य शमदमादिसाधनसंपत्तिपुरःसराविहाय कामान्यः सर्वान् इत्यादिना सूत्रिता सर्वकर्मसंन्यासनिष्ठा संक्षेपविस्तररूपेण पञ्चमषष्ठाभ्याम्। एतावता च त्वंपदार्थोऽपि निरूपितः। ततो वेदान्तवाक्यविचारसहितायुक्त आसीत मत्परः इत्यादिना सूत्रितानेकप्रकारा भगवद्भक्तिनिष्ठाऽध्यायष्ट्केन प्रतिपाद्यते। तावता च तत्पदार्थोऽपि निरूपितः। प्रत्यध्यायं चावान्तरसङ्गतिमवान्तरप्रयोजनभेदं च तत्र तत्र प्रदर्शयिष्यामः। ततस्तत्त्वंपदार्थैक्यज्ञानरूपावेदाविनाशिनं नित्यम् इत्यादिना सूत्रिता तत्त्वज्ञाननिष्ठा त्रयोदशे प्रकृतिपुरुषविवेकद्वारा प्रपञ्चिता। ज्ञाननिष्ठायाश्च फलंत्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन इत्यादिना सूत्रितम्। त्रैगुण्यनिवृत्तिश्चतुर्दशे सैव जीवन्मुक्तिरिति गुणातीतलक्षणकथनेन प्रपञ्चिता। तदा गन्तासि निर्वेदम् इत्यादिना सूत्रिता परवैराग्यनिष्ठा संसारवृक्षच्छेदद्वारा पञ्चदशे। दुःखेष्वनुद्विग्नमना इत्यादिना स्थितप्रज्ञलक्षणेन सूत्रिता परवैराग्योपकारिणी दैवी संपदादेया। यामिमां पुष्पितां वाचम् इत्यादिना सूत्रिता तद्विरोधिन्यासुरी संपच्च हेया षोडशे। दैवसंपदोऽसाधारणं कारणं च सात्विकी श्रद्धानिर्द्वन्द्वो नित्यसत्त्वस्थः इत्यादिना सूत्रिता तद्विरोधपरिहारेण सप्तदशे। एवं सफला ज्ञाननिष्ठा अध्यायपञ्चकेन प्रतिपादिता। अष्टादशेन च पूर्वोक्तसर्वोपसंहार इति कृत्स्नगीतार्थसङ्गतिः। तत्र पूर्वाध्याये साङ्ख्यबुद्धिमाश्रित्य ज्ञाननिष्ठा भगवतोक्ताएषा तेऽभिहिता साङ्ख्ये बुद्धिः इति। तथा योगबुद्धिमाश्रित्य कर्मनिष्ठोक्तायोगे त्विमां शृणु इत्यारभ्यकर्मण्येवाधिकारस्ते৷৷.मा ते सङ्गोऽस्त्वकर्मणि इत्यन्तेन। न चानयोर्निष्ठयोरधिकारिभेदः स्पष्टमुपदिष्टो भगवता। नचैकाधिकारिकत्वमुभयोः समुच्चयस्य विवक्षितत्वादिति वाच्यम्। दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय इति कर्मनिष्ठायाः बुद्धिनिष्ठापेक्षया निकृष्टत्वाभिधानात्यावानर्थ उदपाने इत्यत्र च ज्ञानफले सर्वकर्मफलान्तर्भावस्य दर्शितत्वात्। स्थितप्रज्ञलक्षणमुक्त्वा चएषा ब्राह्मी स्थितिः पार्थ इति सप्रशंसं ज्ञानफलोपसंहारात्या निशा सर्वभूतानाम इत्यादौ ज्ञानिनौ द्वैतदर्शनाभावेन कर्मानुष्ठानासंभवस्य वोक्तत्वात् अविद्यानिवृत्तिलक्षणे मोक्षफले ज्ञानमात्रस्यैव लोकानुसारेण साधनत्वकल्पनात् तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय इति श्रुतेश्च। ननु तर्हि तेजस्तिमिरयोरिव विरोधिनोर्ज्ञानकर्मणोः समुच्चयासंभवाद्भिन्नाधिकारिकत्वमेवास्तु सत्यमेवं न संभवति एकमर्जुनंप्रति तूभयोपदेशो न युक्तः। नहि कर्माधिकारिणंप्रति ज्ञाननिष्ठोपदेष्टुमुचिता नवा ज्ञानाधिकारिणंप्रति कर्मनिष्ठा। एकमेव प्रति विकल्पेनोभयोपदेश इति चेन्न। उत्कृष्टनिकृष्टयोर्विकल्पानुपपत्तेः अविद्यानिवृत्त्युपलक्षितात्मस्वरूपे मोक्षे तारतम्यासंभवाच्च। तस्माज्ज्ञानकर्मनिष्ठयोर्भिन्नाधिकारिकत्वे एकं प्रत्युपदेशायोगादेकाधिकारिकत्वे च विरुद्धयोः समुच्चयासंभवात् कर्मापेक्षया ज्ञानप्राशस्त्यानुपपत्तेश्च विकल्पाभ्युपगमे चोत्कृष्टमनायाससाध्यं ज्ञानं विहाय निकृष्टमनेकायासबहुलं कर्मानुष्ठातुमयोग्यमिति मत्वा पर्याकुलमतिरर्जुन उवाच हे जनार्दन सवैर्जनैरर्द्यते याच्यते स्वाभिलषितसिद्धय इति त्वं तथाभूतो मयापि श्रेयोनिश्चयार्थं याच्यस इति नैवानुचितमिति संबोधनाभिप्रायः। कर्मणो निष्कामादपि बुद्धिरात्मतत्त्वविषया ज्यायसी प्रशस्ततरा चेद्यदि ते तव मता तत्तदा किं कर्मणि घोरे हिंसाद्यनेकायासबहुले मामतिभक्तं नियोजयसिकर्मण्येवाधिकारस्ते इत्यादिना विशेषेण प्रेरयसि। हे केशव सर्वेश्वर सर्वेश्वरस्य सर्वेष्टदायिनस्तव मां भक्तंशिष्यस्तेऽहं शाधि माम् इत्यादिना त्वदेकशरणतयोपसन्नंप्रति प्रतारणा नोचितेत्यभिप्रायः।
रामरायः - १
‘ज्यायसी चेद्’ इति श्लोकमवतारयति—शास्त्रस्येत्यादिना। शास्त्रस्येति प्रतिपाद्यप्रतिपादकभावरूपे सम्बन्धे शेषे षष्ठी। शास्त्र- प्रतिपाद्यप्रवृत्तिनिवृत्तिविषयभूते इत्यर्थः। शास्त्रस्य प्रवृत्तौ निवृत्ताविति वाऽर्थः। प्रवृत्तिमार्गे शास्त्रापेक्षाऽस्ति, न तु निवृत्तिमार्गे इति कृत्वा ज्ञानयोगे शास्त्रमेव निवर्तत इत्यर्थः। ‘साङ्ख्ये’ ‘योगे’ इति च विषयसप्तम्यौ। तन्निष्ठतया संन्यासनिष्ठतया, ज्ञानयोगनिष्ठतयेति वा। ततः कर्मयोगात् श्रेयःप्राप्तिं नैवोक्तवान्। भक्ताय श्रेयोऽर्थिन इति। श्रेयो मोक्षः, तदर्थित्वं तत्कामित्वम्। तस्मिन् सत्यप्यभक्ताय नोपदिशेद् गुह्यमिति भक्तायेत्युक्तम्। भक्तत्वं पूज्येऽनुरागित्वम्। तस्मिन् सत्यपि कामकामाय नोपदिशेदित्येतदर्थं श्रेयोऽर्थिने इत्युक्तम्। अनैकान्तिकं व्यभिचारि श्रेयःप्राप्तिरूपं फलं यस्मिन् तस्मिन् तथोक्ते। पर्याकुलभूतो व्याकुलः, भूतशब्दस्यात्र स्वरूपवाचित्वेनानतिरिक्तार्थत्वात्। भावोऽभिप्रायः, बुद्धिरिति यावत्। प्रश्नोपकरणं प्रश्नस्योत्तरम्। भागवतं कृष्णसम्बन्धि। यथोक्तः विषयविभागो यस्मिन् तस्मिन् शास्त्रे। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति ज्ञानिकर्मिणोः साङ्ख्ययोगात्मको विषयविभागः।
[[१४४]]
केचित्तु वृत्तिकारा इत्यर्थः। अन्यथेति। ‘यदि बुद्धिकर्मणोः समुच्चयान्मोक्ष इति तव मतम् , तत्रापि कर्मापेक्षया बुद्धिरेव ज्यायसीति, तर्हि हे कृष्ण! किमिति मां कर्मण्येव केवले नियोजयसी’त्यर्जुनस्य प्रश्नार्थं कल्पयित्वा तत्प्रश्नप्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति— ‘ज्ञानयोगेन साङ्ख्यानाम् , कर्मयोगेन योगिनां च सिद्धि’रिति। सम्बन्धग्रन्थः अवतारिकाग्रन्थः, उपोद्घात इति यावत्। आत्मना स्वेन, वृत्तिकारैरित्यर्थः। तदेव विवरीतुमाकाङ्क्षामाह— कथमिति। उत्तरयति— तत्रेति। विशेषितः विशेषेणोक्तः। आश्रमविकल्पमिति गृहस्थसंन्यासाश्रमद्वयविकल्पम्। ‘यावज्जीवमग्निहोत्रं जुहुयादि’ति श्रुतिः यावज्जीवश्रुतिः। उक्त इति संन्यासे1 इति भावः। गीताशास्त्रे यावज्जीवश्रुतिचोदितकर्मरहिताज्ज्ञानान्नास्त्येव मोक्षः इति पूर्वं विशेषतः प्रतिपाद्य, ज्ञानयोगेन साङ्ख्यानां श्रेयःप्राप्तिरिति संन्यासिनां कथं यावज्जीवश्रुतिचोदितकर्मरहिताज्ज्ञानान्मोक्षः इत्युच्येत? न कथमपीत्यर्थः।
[[१४५]]
शङ्कते—तत्रैतत् स्यादिति। तत्र एतदुत्तरं स्यादित्यर्थः। किं तद्? अत आह— गृहस्थानामिति। आश्रमान्तराणां संन्यासादीनाम्। ननु ‘ज्ञानयोगेन साङ्ख्याना’मिति संन्यासिनां केवलाज्ज्ञानान्मोक्षः, न त्वाश्रमान्तराणामित्यस्य ‘सर्वाश्रमाणां ज्ञानकर्मसमुच्चयः’ इति वचनव्याघातेन दुष्टत्वे, तर्हि ‘केवलाद्’ इत्यस्य श्रौतकर्मरहितादित्यर्थो वाच्यः। तथा च श्रौतकर्म- रहिताज्ज्ञानात् संन्यासिनां मुक्तिः, गृहस्थानां तु नेति वाच्यम् ; अस्मिन् मते च सर्वाश्रमाणां ज्ञानकर्मसमुच्चयादेव मुक्तिरिति वचनस्य न व्याघातः। स्मार्तसमुच्चिताज्ज्ञानात् संन्यासिनां, श्रौतस्मार्तोभयकर्मसमुच्चिताद् गृहस्थानां च मुक्तिरिति सिद्धत्वादिति शङ्कते— अथ मतमित्यादिना। परिहरति— एतदपीति। गृहस्थानामेवम् , संन्यासिनां तु नैवमिति विवेको दुर्लभ इत्यर्थः।
[[१४६]] [[१४७]]
दोषान्तरमाह— किञ्चेति। यदेव ज्ञानं स्मार्तकर्मसमुच्चितं सत् संन्यासिनां मुक्तिप्रदम् , तदेव तथाविधं गृहस्थानामपि मुक्तिप्रदं भवतु , किं पुनः श्रौतकर्मणामपि समुच्चयेनेत्यर्थः। ननु संन्यासगृहस्थयोरयमेव भेदः, अग्निहोत्रादिश्रौतकर्मसंन्यासस्यैव संन्यास-लक्षणत्वात्। ततश्च संन्यासिनः श्रौतकर्मसंन्यासविधानात् स्मार्तकर्मसमुच्चिताज्ज्ञानादेव केवलान्मुक्तिः, गृहस्थस्य तूभय- समुच्चिताज्ज्ञानादिति शङ्कते— अथेति। आरोपितमिति। शास्त्रेण भगवतेति वा कर्तुःशेषः।
इतः प्राक् स्मार्तकर्मसमुच्चितात् केवलाज्ज्ञानात् संन्यासिनां मोक्ष इत्यभ्युपेत्य पूर्वपक्षैर्व्यवहृतम्। अथ ते तदप्यनभ्युपेत्य स्वाभिमतं समुच्चयवादं स्थापयितुं केवलाज्ज्ञानात् संन्यासिनामपि न मुक्तिरित्याहुः— अथ गृहस्थस्यैवेति। तत्र हेतुमाह—[श्रौतेति।] श्रौतानि यानि नित्यकर्माण्यग्निहोत्रादीनि, तद्रहितत्वादिति। यद्येवं संन्यासिनां न मुक्तिस्तर्हि संन्यासाश्रमविधानमेव व्यर्थमिति परि- हरति— तदप्यसदित्यादिना। ज्ञानस्य मोक्षसाधनत्वाभावे ज्ञानाङ्गत्वेन संन्यासविधानं व्यर्थं, मुमुक्षोर्हि सर्वकर्मसंन्यासो विहितः शास्त्रेण। तस्मात् संन्यासिनामेव ज्ञाननिष्ठायामधिकारः। ज्ञानादेव कैवल्यम्। अत एव गृहस्थस्य ज्ञानाधिकारार्थं संन्यासाश्रम- विधानमित्याह— आश्रमविकल्पविधानाच्चेति। ‘यदि प्रजाकामः स्त्रियमुद्वहेत्’ ‘यदि विरक्तस्तर्हि ब्रह्मचर्यादेव प्रव्रजेदि’त्यादिशास्त्रेण सकामनिष्कामाधिकारिभेदेन गृहस्थसंन्यासाश्रमविकल्पस्य विधानादित्यर्थः। क्व विधानम्? अत आह— श्रुतिस्मृत्योरिति।
[[१४८]]
शङ्कते— तर्हि सर्वाश्रमाणां ज्ञानकर्मणोः समुच्चयः सिद्ध इति। केवलाज्ज्ञानान्मोक्षाभावात् , संन्यासस्य च विधिदर्शनादस्ति संन्यासिनोऽपि समुच्चयः श्रौतस्मार्तकर्मभिः ज्ञानस्य मुक्त्यर्थमिति पूर्वपक्षाशयः। परिहरति— नेति। हेतुमाह— मुमुक्षोरिति। सर्वेति। श्रौतस्मार्तात्मकसर्वकर्मसंन्यासस्य विधानात्। क्व विधानम्? इत्यतस्तावच्छ्रुतिं प्रमाणयति— व्युत्थायेति। गृहस्थाश्रमाद् व्युत्थाय सर्वाणि कर्माणि त्यक्त्वेत्यर्थः। तदेव हि गृहस्थाश्रमादुत्थानं नाम, गृहस्थाश्रमस्य कर्ममयत्वात्। संन्यस्येति यावत्। एषां सर्वेषां सत्यादीनां तपसां मध्ये न्यासं संन्यासमेव अतिरिक्तमुत्कृष्टं तप आहुः विद्वांस इति शेषः। अत्यरेचयत् अतिचक्राम, सर्वाधिकम- भूदित्यर्थः। लोकाः कर्मणा अमृतत्वं मोक्षं नानशुः न प्रापुः, प्रजया नानशुः। एके कुशलिनः त्यागेन सर्वकर्मपरित्यागेन अमृतत्वमानशुः। ब्रह्मचर्यादेव प्रव्रजेत् संन्यसेत्। इत्याद्या इत्याद्यशब्दाद् ‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ती’त्यादिग्रहणम्। स्मृतीश्च प्रमाणयति— त्यजेति। धर्ममधर्मं च त्यज। यज्ञयागादिर्धर्मः, हिंसादिरधर्मः। धर्मं त्यजेत्युक्तावधर्मप्रवृत्तिः स्यादित्यत आह— अधर्मं त्यजेति। उभे द्वे सत्यानृते त्यज। एवं सत्यानृते उभे त्यक्त्वा, येन मनसेदमुभयं त्यजसि, तन्मनश्च त्यज। ‘नाहं मनः, न मदीयं मनः’ इति मनस्यहन्ताममतयोस्त्याग एव मनस्त्यागः। धर्माधर्मत्यागश्च गृहस्थस्य न सम्भवति, तस्य धर्मेष्वधिकारात् , नित्यकर्माकरणे प्रत्यवायाच्च। अतो धर्माधर्मत्यागः संन्यासिन एवेति संन्यासोऽनेन विहित इति भावः। संसारमिति। एवं संसारं निःसारं दृष्ट्वा निश्चित्य अकृतोद्वाहाः अकृतदारपरिग्रहाः सन्तः परमुत्कृष्टं वैराग्यमाश्रिताः विवेकिन इति शेषः। सारस्य आत्मनो दिदृक्षया प्रव्रजन्ति संन्यस्यन्ति। बृहस्पतिरिति। आहेति शेषः। शुकस्मृतिमाह— कर्मणेति। जन्तुः कर्मणा पुण्यपापादिलक्षणेन बध्यते देवमनुष्य- तिर्यगादिजन्मप्राप्तिरूपं संसारं प्राप्नोतीत्यर्थः। विद्यया ज्ञानेन विमुच्यते मुक्तो भवति, यस्मादेवं तस्मात् पारदर्शिनः तत्त्वविदः यतयः कर्म न कुर्वन्ति। प्रकृतगीताशास्त्रं चोक्तार्थे प्रमाणयति— इहापि चेति। ‘सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देहे नैव कुर्वन् न कारयन्॥’ इति।
[[१४९]] [[१५०]]
मुमुक्षोः सर्वकर्मसंन्यास एव विहित इत्यत्र हेत्वन्तरमाह—कर्मानर्थक्यमिति। ननु न कर्माण्यनर्थकानि, किन्तु मोक्षार्थानीत्यत आह—मोक्षस्य चाकार्यत्वादिति। यत् कर्मजन्यं तत् कार्यम् , यथा घटः। स हि दण्डचक्रभ्रमणादिजन्यः। एवं यज्ञादिकर्मजन्यत्वात् स्वर्गादिफलानि कार्याणीत्युच्यन्ते। मोक्षस्तु न कार्यमिति कथं कर्मजन्यत्वं तस्य? अकार्यत्वे च ‘नास्त्यकृतः कृतेन’ इति श्रुतिः प्रमाणम्। किञ्च यदि मोक्षः कार्यः स्यात् , तर्हि स्वर्गादिवद् घटादिवच्चानित्य एव स्यात्। नित्यो हि मोक्षः सम्प्रतिपन्नः। तस्मात् कर्मफलेषु स्वर्गादिषु पापपरिहारादिषु वा मुमुक्षोः कामाभावाद् मोक्षस्याकर्मजन्यत्वाच्च न मुमुक्षोः कर्मभिः कोऽप्यर्थ इति युक्तमेव मुमुक्षोः सर्वकर्मसंन्यासविधानम्। ननु मुमुक्षोरपि नित्यकर्माण्यावश्यकानि प्रत्यवायपरिहारार्थकत्वान्नित्यानां कर्मणाम् ; इदमेव हि तन्नित्यत्वं यदकरणे प्रत्यवाय इत्याक्षिपति— नित्यानीति। ७असंन्यासविषयत्वादिति। यैः सर्वकर्मसंन्यासो न कृतः शास्त्रोक्तः, तेषामेव नित्यानामकरणे प्रत्यवायः शास्त्रोक्तः। विहितस्याकरणं निषिद्धस्य करणं हि दोषहेतुः। कर्माणि तु विहितानि पुंसः संन्यासात् प्राक्, पश्चात्तु संन्यासस्यैव विहितत्वात् कथं कर्मविधानम्? न ह्येकस्मिन् पुरुषे एकदा सर्वकर्मसंन्यासविधिं सर्वकर्मविधिं च ब्रूयात् शास्त्रमीश्वरो वा। एवं सर्वकर्मसंन्यासिनां नित्यकर्मकरणमेव दोषहेतुः, अविहितत्वादिति भावः। कुतो न शक् य इत्यत्र दृष्टान्तमाह— यथेति। अग्निहोत्रस्य दारपरिग्रहसमकालप्राप्तत्वान्नास्ति असंन्यासिनामपि ब्रह्मचारिणामग्निहोत्रविधिः। विध्यभावादेवाग्निहोत्राकरणाद् नास्ति तेषां प्रत्यवायः। तद्वद् विध्यभावस्य तुल्यत्वान्न संन्यासिनां नित्याकरणात् प्रत्यवायः। यद्वा ब्रह्मचारिणामिति व्यतिरेक- दृष्टान्तः। यथा सन्ध्यावन्दनादिनित्याकरणाद् ब्रह्मचारिणां प्रत्यवायः, तथेति। नित्यानामकरणात् प्रत्यवायमभ्युपेत्य तस्यासंन्यास- विषयत्वमुक्तमितः प्राक्। इदानीं तु नित्यानामकरणात् प्रत्यवाय एव भवितुं नार्हतीत्याह— न तावदित्यादिना। अत्र हेतुमाह— अभावादेवेति। नित्यानामकरणं नाम नित्यकर्मकरणाभावः, नञोऽभावार्थकत्वात्। प्रत्यवायो दोषः। स हि भावरूपः। अभावाद् भावस्योत्पत्तिः कल्पयितुं न शक्या, नापि युक्ता। तत्र श्रुतिं प्रमाणयति— कथमिति। असतः सकाशात् सत् कथं जायेत? न कथमपीत्यर्थः। एतेन घटप्रागभावाद् घटोत्पत्तिं ब्रुवाणास्तार्किकाः प्रत्युक्ताः, अभावस्याभावत्वादेव भावं प्रति कारणत्वायोगात्। न ह्यभावाच्छशशृङ्गाद् यत्किञ्चिद् वस्तूत्पद्यमानं दृष्टं श्रुतं वा।
[[१५१]]
ननु ‘असदेवेदमग्र आसीत् , ततो वै सदजायते’ति श्रुतिसिद्धा भावस्याभावादुत्पत्तिरिति चेत् ? मैवम् ; ‘सदेवेदमग्र आसीत्’, ‘यतो वा इमानि भूतानि जायन्ते…तद् ब्रह्म’, ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’, ‘सन्मूलाः सोम्येमाः’ इत्यादिश्रुतिशत- संवादाद् इहाप्यसच्छब्देन ब्रह्मण एव ग्राह्यत्वात्।2जन्माधीनसत्ताऽभावस्तु ब्रह्मण्यसच्छब्दप्रवृत्तिनिमित्तम्। यद्वा प्रमाणप्रमेयाद्यभावाद् असत्कल्पत्वात् सदपि ब्रह्मासदित्युच्यते, ‘मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृग्’ इति भागवतात्। किञ्च ‘तदैक्षत बहु स्याम्’ इति सङ्कल्पश्रवणं च कथमुपपद्येताभावस्य जगत्कारणताश्रयणे? न ह्यभावश्चेतनः, भावधर्मत्वाच्चैतन्यस्येति।
ननु अभावाद् भावस्योत्पत्तिरशक्या अयुक्ता वा भवतु, तथापि अतीन्द्रियार्थे वेदस्यैव प्रमाणत्वान्नित्याकरणे प्रत्यवायस्य वेदोक्तत्वादभ्युपेय एव प्रत्यवाय इत्यत आह— यदीत्यादि। अप्रमाणमिति। असम्भाव्यार्थवर्णनादनर्थहेतुत्वाच्चेति भावः। अर्थवत्त्वस्यैव प्रमाणत्वात्मकत्वादिति गूढाशयः। तदेव विवृणोति— विहितस्येति। क्रियाकारकाद्यनेकोपकरणोपसंहारपूर्वकत्वाद् विहितकरणस्य श्रमहेतुत्वेन दुःखहेतुत्वं सर्वजनानुभवसिद्धम्। विहिताकरणस्य प्रत्यवायहेतुत्वेन दुःखहेतुत्वं तु शास्त्रसिद्धम्। अत उभयथाऽपि दुःखमेव फलमित्यर्थः। तथा चेति। नित्यकर्मणां दुःखमात्रफलकत्वादित्यर्थः। कारकं तद्विधायकं, प्रवर्तकमिति यावत्। शास्त्रं न ज्ञापकं न प्रमाणम् इति अनुपपन्नार्थमयुक्तार्थमसम्भावितार्थं वा शास्त्रं कल्पितं, भगवतेति शेषः, स्यात्। भवतु, किं ततः? आह— न चैतदिष्टमिति। शास्त्रस्य भगवदाज्ञारूपस्य प्रवृत्त्यात्मकस्य वेदस्य असम्भावितार्थत्वप्रयुक्तं दुःखार्थत्वप्रयुक्तं चाप्रामाण्यम् इत्येतदनिष्टमेव, स्वतः प्रमाणत्वाद् वेदस्य। सर्वपुरुषार्थज्ञानस्य वेदाधीनत्वेन वेदस्याज्ञापकत्वासम्भवाच्च।
[[१५२]]
अयमाशयः— नित्यकर्मणां न प्रत्यवायपरिहारार्थत्वं कल्पयितुं शक्यम् ; उपात्तदुरितक्षयप्राजापत्यलोकचित्तशुद्ध्यादिमहा- फलवत्त्वात् तेषाम्। ‘सन्ध्या येन न विज्ञाता, सन्ध्या येनानुपासिता। जीवमानो भवेच्छूद्रो मृतः श्वानोऽभिजायते॥’ इत्यादिप्रत्यवाय- श्रवणं तु - नित्यकर्माचरणेन दुरितक्षयं विधाय चित्तशुद्धिं सम्पाद्य ज्ञानद्वारा मुक्तिं प्राप्तुमर्हं द्विजदेहमासाद्य, यः पुमान् नित्यकर्माकरणेनात्मानं नाशयति, स आत्मघाती अन्धं तमः प्रपद्यते, ‘अन्धं तमः प्रपद्यन्ते ये के चात्महनो जनाः’ इति श्रुतेः - इत्यभिप्रायकृतम्। यद्वा यो नित्यकर्मभिर्दुरितक्षयं न करोति, पुण्यं च न सम्पादयति, स पुमानितोऽपि हीनतरं श्वादिजन्म प्राप्नोति। पुण्यपापोभयलब्धं मनुष्यजन्म, नित्यकर्मानाचरणे तु पुण्याभावात् पापानिवृत्तेश्च पापबलाच्छ्वादिजन्मप्राप्तिरिति बोध्यम्। सर्वथाऽपि नित्यकर्माकरणान्न प्रत्यवायोत्पत्तिः, किन्तु नित्यकर्माकरणे दुरितक्षयाद्यभावः, पुण्याभावविशिष्टदुरितात्तु श्वादिजन्मरूपप्रत्यवायो- त्पत्तिरिति सर्वमनवद्यम्।
‘तथा चे’ति वाक्यमन्यथा व्याख्यातम् आनन्दगिरिणा। तथाहि—‘नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यति, तथा च विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति, नेत्याह— तथा चेति। लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारादपूर्वशक्त्याधानायोगाज्ज्ञापकमेव शास्त्रमित्यर्थः। कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह— कारकमिति। भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्यापौरुषेयतया अशेषदोषानागन्धितत्वान्मैवमित्याह— न चेति।’ अस्यायमर्थः— यद्यभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यतीत्युच्यते, तर्हि वेदः कारक एव स्यान्न तु ज्ञापकः। अपूर्वशक्त्याधायकत्वं कारकत्वम् , लोकप्रसिद्धपदार्थशक्त्याश्रयणेन प्रवर्तकत्वं ज्ञापकत्वमिति विवेकः। यस्य यस्याग्न्यादिपदार्थस्य लोके या या दाहकत्वादिशक्तिरस्ति तामनुसृत्यैव शास्त्रं होमादिविधिं विधत्ते, न तु पदार्थेष्वपूर्वां शक्तिं कल्पयितुमीष्टे, प्रत्यक्षविरोधात्। मानान्तराबाधित- तात्पर्यविषयसंसर्गबोधकं हि वाक् यं प्रमाणम्। अत एव ‘अग्निना सिञ्चे’ति वाक्यस्याप्रामाण्यम् , प्रत्यक्षेण बाधितत्वादग्निकरणक- सेचनस्य। ततश्च नित्याकरणात् प्रत्यवाय इति वाक्यस्य मानान्तरबाधितत्वादप्रामाण्यमेव। अभावाद् भावस्योत्पत्तिर्हि प्रत्यक्षादि- प्रमाणविरुद्धा। न चैवं वाक्यतात्पर्यविषयसंसर्गस्य मानान्तरेणैव सिद्धत्वात् संसर्गबोधकं वाक् यं व्यर्थमिति वाच्यम् ; वृद्धप्रयुक्तस्य गामानयेति वाक्यस्य बालस्य गवानयनकर्मणि प्रवृत्तिजनकत्वेनाव्यर्थत्वात्। ‘ज्योतिष्टोमेन यजेते’त्यादिवेदवाक्यानि तु सुतरां मानान्तरासिद्धसंसर्गबोधकान्येवेति न तेषु वैयर्थ्यशङ्कावकाशः। तस्माद् वाक्यतात्पर्यविषयसंसर्गः मानान्तरसिद्धो भवतु वा, मा वा, मानान्तराबाधितस्तु भवितव्योऽवश्यमिति कृत्वा शास्त्रं ज्ञापकमेव, न तु कारकम्। पदार्थेषु विद्यमानां शक्तिमनुस्मृत्यैव[मनुसृत्यैव] अस्मिन् वह्नौ एतदिन्द्रमुद्दिश्य एतदाज्यहविःप्रदानेन यजमानस्य स्वर्गो भविष्यतीत्यज्ञातार्थं ज्ञापयतीति ज्ञापकम्। एवमज्ञातार्थज्ञापकत्वादेव शास्त्रं प्रमाणम्। यद्ययोग्यमर्थं विदध्यात् तर्हि कारकत्वाच्छास्त्रमप्रमाणमेव स्यादिति भावः। शास्त्रं कारकं, भवतीति शेषः। न तु ज्ञापकं भवति इत्यनुपपन्नार्थम् अयुक्तार्थं, वाक्यमिति शेषः। कल्पितं स्यात् नित्याकरणात् प्रत्यवायवादिना इति शेषः। अनुपपन्नो वाक्यार्थः कल्पितः स्यादित्यर्थः। इति भाष्यान्वयः। अन्यत् तुल्यम्।
[[१५३]]
पूर्वव्याख्यानेऽपि ‘इत्यनुपपन्नार्थं कल्पितं स्यादि’त्यस्य समनन्तरोक्तार्थोऽप्युपपद्यते, परं तु— कारकं शास्त्रं ज्ञापकं न भवतीति पूर्वोक्तान्वयः; शास्त्रं कारकं भवति, न तु ज्ञापकमिति समनन्तरोक्तान्वय इति विशेषः। कारकज्ञापकपदार्थभेदस्तु दर्शित एवेति सङ्क्षेपः। तस्मादिति। नित्यकर्माकरणजन्मप्रत्यवायाभावादित्यर्थः। अत इति। मुमुक्षोः संन्यासविधानादित्यर्थः।
प्रश्नानुपपत्तिमेव विवृणोति— यदि हीत्यादिना। यदि ज्ञानकर्मणोः समुच्चय एव श्रेयःप्राप्तिहेतुः, न त्वन्यतरत् , तर्हि श्रेयस्कामायार्जुनाय भगवान् समुच्चयं कुर्वित्युपदिशेत् , न तु ‘कर्मण्येवाधिकार’ इति। अर्जुनश्च—यदि कर्मापेक्षया ज्ञानमेव ज्यायः, तर्हि किमिति कर्मणि मां नियोजयसीति नैव पृच्छेत् , समुच्चयस्यैवोपदिष्टत्वादित्यर्थः। ननु अन्येषां समुच्चय उपदिष्टः, अर्जुनस्य तु कर्मैवेति कृत्वा प्रश्न उपपद्यत इति शङ्कते— न चेति। न चैवं कल्पयितुं युक्तम् , अर्जुनस्य भक्तत्वाच्छ्रेयोऽर्थित्वाच्च हिततमो- पदेशार्हत्वात् , कर्ममात्रोपदेशानुष्ठानो[मात्रानुष्ठानो]पदेशस्य मोक्ष[क्षा]हेतुत्वेनाहिततमत्वाच्चेति भावः। येनेति। अर्जुनस्य कर्ममात्रो- पदेशेनेत्यर्थः। ज्ञानानुष्ठानानुपदेशेनेति वा। येन कल्पनेनेति वा। अस्मिन् पक्षे तथा कल्पयितुमिति तथाशब्दस्य शेषः।
[[१५४]]
प्रश्नस्यानुपपत्तिमुक्त्वा उपपत्तिं दर्शयति— यदि पुनरिति। विरोधादिति। ‘कर्ताऽहं, भोक्ताऽहम्’ इत्यहङ्कारपूर्वकत्वात् कर्मणः, ‘नाहं कर्ता, नाहं भोक्ते’ति ज्ञानविरोधः। ननु भगवता समुच्चय एव द्वितीयाध्याये प्रोक्तः। अर्जुनस्तु तदर्थमज्ञात्वा - ज्ञाने केषाञ्चिदधिकारः, कर्मणि तु स्वस्याधिकारः प्रोक्तो भगवतेति - मत्वा ‘ज्यायसी चेद्’ इति पप्रच्छेत्यत आह— अविवेकत इति। भिन्नपुरुषानुष्ठेयत्वेनेति। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति साङ्ख्ययोगिरूपपुरुषद्वयानुष्ठेयत्वेनेत्यर्थः। ननु भगवानप्यविवेकादेव तादृशमुत्तरमवोचदित्यत आह— न चेति। भगवति सर्वज्ञे भ्रमप्रमादादिदोषगन्धरहिते अज्ञानायोगादिति भावः। तस्माच्चेति तस्माच्छब्दार्थं स्वयमेव विवृणोति—भिन्नपुरुषेति। एकपुरुषा- नुष्ठेयत्वे सति ज्ञानकर्मणोः समुच्चयः स्यादिति भावः।
किञ्च यदि समुच्चय एव भगवदभिमतः, अर्जुनाय प्रोक्तश्च तर्हि , ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्’ इति कथमर्जुनः ज्ञानकर्मणोरन्यतरदेव श्रेयःप्रापकं पप्रच्छ? इत्याह— ज्ञानकर्मणोरिति। भगवांश्च ‘मया समुच्चय एवोक्तः, किमित्थं त्वं भ्रान्तोऽसि, न ह्यन्यतराच्छ्रेयः प्राप्तुं शक्यम् , तस्मात् त्वमुभयं कुरु’ इत्येवात्र चतुर्थाध्याये ब्रूयात् , न तु ‘कुरु कर्मैव तस्मात्त्वम्’ इति ब्रूयादित्याह— उभयोरित्यादिना। ज्ञाननिष्ठाया असम्भवमिति समासः। अवधारणेनेति। कर्मैवेत्येवकारेणेत्यर्थः।
एतेन आत्मयाथात्म्यदर्शनपूर्वकं कर्म कर्तव्यमिति रामानुजमतं च प्रत्युक्तम् , आत्मयाथात्म्यदर्शनस्य साङ्ख्यविषयत्वात् , कर्मणश्च योगिविषयत्वाद् , अकर्त्रभोक्त्रात्मदर्शनस्य कर्तृत्वाद्यभिमानपूर्वककर्मविरोधित्वाच्चेति।
[[१५५]]
हे जनार्दन ! यदि कर्मणो बुद्धिर्ज्यायसीति ते मता, तर्हि , हे केशव ! मां घोरे कर्मणि किमिति नियोजयसीत्यन्वयः। श्रेयसी श्रेयस्करीत्यर्थः। हे जनार्दन, 3जनमर्दति गच्छतीति जनार्दनः, सर्वान्तर इत्यर्थः। गत्यर्थानां ज्ञानार्थत्वात् सर्वज्ञ इति वा। जनैरर्द्यते याच्यते इति वा जनार्दनः। तत्तत्पुरुषार्थसिद्धये जना एनं याचन्त इत्यर्थः; तत्सम्बुद्धिः। एतेन सर्वज्ञस्य सर्वान्तरस्य च तव यन्मतं तदेव सर्वसम्मतमिति, सर्वपुरुषार्थप्रदेन त्वया यच्चोद्यते तत्करणमेव फलदमिति च सूच्यते। यदीति। यदि बुद्धिकर्मणी समुच्चिते इष्टे तर्हि अर्जुनेन कृतं बुद्धेः कर्मणोऽतिरिक्तत्वं पृथक्त्वमधिकत्वं वाऽनुपपन्नं स्यात्। कुत्र कृतमर्जुनेनेत्यत आह— तदेकमिति। ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुया’मिति, ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दने’ति चात्रैवोक्तमित्यर्थः। ननु समुच्चयेऽपि कर्मातिरिक्ता बुद्धिः स्यात् , को दोषः? तत्राह— न हीति। तदेव तस्मात् फलतोऽतिरिक्तं न हि स्यादित्यन्वयः। समुच्चयस्य कर्मज्ञानोभयरूपत्वेन कर्म बुद्धिश्चेत्युभयमप्येकमेव। एकसमुच्चयात्मकत्वादिति कृत्वा कथमेकात्मकयोः कर्मबुद्ध्योः पृथक्त्वम् उत्कर्षापकर्षौ वा स्याताम्? न कथमपीत्यर्थः।
ननु शिरःपाण्याद्यवयवसमूहात्मकेऽपि गात्रे यथा पादादिभ्यः शिरः प्रधानमित्युच्यते, तद्वत् कर्मबुद्ध्युभयात्मकेऽपि समुच्चये कर्मणो बुद्धिः श्रेयस्करीत्युच्यत इति चेत् , मैवम् ; दृष्टान्तदार्ष्टान्तिकयोरुभयोरपि अवयवातिरिक्तस्यावयविनोऽभावात्। न हि शिरः- पाण्याद्यतिरिक्तं गात्रमिति कश्चिदवयव्यस्ति, येन तदवयवान्यतमयोः शिरःपादयोरुत्कर्षापकर्षावुच्येयाताम्। तथा कर्मबुद्ध्यतिरिक्तः समुच्चय इति कश्चिदवयवी नास्ति, येन समुदायावयवान्यतरयोः ज्ञानकर्मणोरुत्कर्षापकर्षावुच्येयाताम्। तस्माच्छिरआद्यवयवानामेव गात्रमिति, कर्मबुद्ध्योरेव समुच्चय इति च संज्ञा। तथा च यथा शिरो गात्रम् , तथा पादोऽपि गात्रमेव; यथा कर्म समुच्चयस्तथा बुद्धिरपि समुच्चय एवेति सिद्धम्। ततश्च कर्मणो बुद्धिः श्रेयसीत्युक्तौ समुच्चयात् समुच्चयः श्रेयानित्यापतितम्। तच्चायुक्तम् ; न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यादिति। ननु तथा सति ‘सर्वस्य गात्रस्य शिरः प्रधान’मित्युक्तिः कथमुपपद्येतेति चेत्? उच्यते— अविवेकादिति। न ह्यवयवातिरिक्तावयविकल्पने अविवेकं विना हेतुरस्ति। न च ‘पादाच्छिरः उत्कृष्ट’मित्यस्य कथमुपपत्तिरिति वाच्यम् ; अवय- व्यनभ्युपगमे सिद्धान्ते अवयवानामेकात्मकत्वाभावाच्छिरःपादयोः पृथगवयवयोरुत्कर्षापकर्षौ सुष्ठूपपद्येते। अतः प्रकृते च समुच्चया- नभ्युपगमे कर्मज्ञानयोः पृथग्भूतयोरुत्कर्षापकर्षौ स्यातामेवेति। एतेन कर्मज्ञानसमुच्चय इति कश्चन पदार्थो दुर्निरूप इति व्यक्तम्।
तथा चेति। कर्मणो बुद्धेरतिरिक्तीकरणेन कर्मज्ञानयोः समुच्चयस्यासिद्धत्वादित्यर्थः। हे कृष्ण! भगवता त्वयोक्ता बुद्धिः कर्मणः
[[१५६]]
श्रेयस्करी मास्तु , अश्रेयस्करं कर्म कुर्विति प्रतिपादयसि; तत् तत्र किन्नु किं वा कारणमिति भगवत उपालम्भं कुर्वन्निव अर्जुनो यदाह , तच्च नोपपद्यते इत्यन्वयः। किमाहेति शङ्कायां श्लोकस्योत्तरार्धं व्याचष्टे— तत्किमित्यादिना। तत् तर्हि हे केशव! ‘क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम्। आवां तवाङ्गे सम्भूतौ तस्मात् केशवनाम ते॥’ इति स्मरणाद् ब्रह्मरुद्रकारणम्। एतेन सर्वजगत्कर्तुः सर्वाधिपस्य तव मम कर्मसु प्रेरणं नोचितमिति प्रतीयते। अथवा ब्रह्मरुद्राधिपस्त्वं येन केनापि हेतुना मां कर्मणि नियोजयसि, न तु वृथा, नाप्यमर्षेण, किन्तु स हेतुः मम दुरधिगमः; न केवलं मम, किन्तु ब्रह्मरुद्रयोरपि; अतः पृच्छामि कस्तत्र हेतुरिति। इदमेव सूचयितुं श्रीभाष्यकारैः प्रयुक्तम् — उपालम्भमिव कुर्वन्निति इवपदम्। न तु वस्तुत उपालम्भं करोतीत्यर्थः।
एतावता ग्रन्थसन्दर्भेण गृहस्थस्य श्रौतस्मार्तकर्मसमुच्चिताद् ज्ञानान्मुक्तिः, ऊर्ध्वरेतसां तु स्मार्तकर्मसमुच्चिताज्ज्ञानान्मोक्ष इति च पूर्वपक्षः, तत्प्रसङ्गागतमन्यच्च खण्डितम्। पुनः पूर्वपक्षयति स्मार्तकर्मसमुच्चितादेव सर्वाश्रमिणां मोक्षः, न केवलज्ञानादिति— अथेत्यादिना। दूषयति—तत्किमित्यादिना। घोरे कर्मणीत्यनेन युद्धकर्म सिद्धम्। तद्धि स्मार्तम्। स्मार्तकर्मसमुच्चितं ज्ञानं त्वया ऽनुष्ठेयमिति भगवता प्रोक्ते सति कथमर्जुनः ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ इति भगवन्तं पृच्छेत् ? कथं वा ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन’ इति कर्मापेक्षया ज्ञानस्य श्रेयस्त्वं वदेत्? कथं वा ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्’ इति पृच्छेत्? अथ यदि भगवतोक्तोऽर्थोऽर्जुनेनानवधारित इत्युच्येत, तर्हि भगवानपि ‘मया स्मार्तकर्मज्ञानसमुच्चय एवोक्तः, त्वया तु नाधिगतम्’ इति किमिति नावोचत्? ‘लोकेऽस्मिन् द्विविधा निष्ठा’ इति कर्मज्ञानयोर्भिन्नपुरुषानुष्ठेयत्वं किमिति ब्रूयात्? तस्मात् केवलादेव ज्ञानान्मोक्ष इति गीतासूपनिषत्सु च निश्चितोऽर्थ इति पूर्वेण सम्बन्धः॥१॥
[[१५७]]
मध्वः …{Loading}…
मध्वः - मूलम्
॥3.1॥ आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र। ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये। कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवतादूरेण ह्यवरं कर्म 2।49 इत्यादौ। एवं चेत्किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान्विना इत्याह ज्यायसीति। कर्मणः सकाशाद्बुद्धिर्ज्यायसी चेत्ते तव मता तत्तर्हि।
जयतीर्थः
॥3.1॥ श्रीव्यङ्कटेशाय नमः। पूर्वोत्तराध्यायेभ्योऽस्य भेदं स्वस्मिन्नेकतां च दर्शयन्नेतदध्यायप्रतिपाद्यमर्थं पूर्वाध्यायार्थसङ्गतत्वेन विवक्षुस्तत्प्रतिपाद्यं तावदाह आत्मेति। जीवेश्वरस्वरूपं साङ्ख्याख्यमित्यर्थः। ज्ञानसाधनमात्मज्ञानसाधनं योगाख्यम्। पूर्वत्र पूर्वस्मिन्नध्याये। न चैवं द्वितीयस्याध्यायस्यैक्यानुपपत्तिः साधनस्यैव प्राचुर्यात् प्रचुरेण च व्यपदेशात्। तथा च सप्तमादौ वक्ष्यतिसाधनं प्राधान्येनोक्तमतीतैरध्यायैः इति। आत्मस्वरूपं इत्यादि तु प्रकरणभेदप्रदर्शनायोक्तमिति। एतत्सङ्गतत्वेन तृतीयाध्यायार्थमाह ज्ञानेति। योगो द्विविधः कर्मसमाधिभेदात्। तत्र तावज्ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैरकर्म कर्माकरणं विनिन्द्यास्मिन्नध्याये अकर्मनिन्दाऽपि कर्मविध्यर्थेत्येकार्थता। तथापि प्रकरणभेदार्थमेवमुक्तम्। ज्ञानसाधनत्वेन इति वदता मोक्षसाधनता निरस्ता। तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम्। आनन्दवृद्ध्यर्थता त्वनुज्ञायत एव। बीजं प्रदर्शयन्प्रश्नवाक्यतात्पर्यमाह कर्मण इति। आदिपदेनकृपणाः फलहेतवः 2।49 इत्यादेर्ग्रहणम्। घोरे रागद्वेषाद्युपेते। अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम्। निवृत्तधर्मान्निष्कामधर्मान् यत्याश्रमविहिताञ्च्छमदमादीन्। अत्र कर्मणि किमिति नियोजयसीत्येकः प्रश्नः घोर इति द्वितीय इत्यवधेयम्। इदमुक्तं भवति आश्रयमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव सर्व एते पुण्यलोका भवन्ति छा.उ.2।23।2 इत्यादिफलश्रवणात्। तथाऽत्रापिहतो वा प्राप्स्यसि स्वर्गम् 2।37 इत्यादि। चतुर्थाश्रमविहितानि शमादीन्यकाम्यानि फलाश्रवणात् शान्तो दान्तः इत्युपक्रम्य आत्मानं पश्यति बृ.उ.4।4।23 इति ज्ञानार्थत्वश्रवणाच्च। ज्ञानं च काम्यात्कर्मणोऽत्युत्तममित्यभिहितम्। ततश्च काम्ये कर्मणि युद्धेयुद्ध्यस्व भारत 2।18 इति नियोजनमयुक्तं किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भवेति नियोक्तव्यम्। ननु युद्धमपिकर्मबन्धं प्रहास्यसि 2।39 इत्युक्तत्वाज्ज्ञानार्थं भवतीति मतम् तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमेव आपद्यते। अथैवं मतम् युद्धादीनि कर्माणि काम्यान्यकाम्यानि च। तत्र यः सकामस्तं प्रतिहतो वा 2।37 इत्याद्युक्तम्। यः पुनर्ज्ञानार्थी तमुद्दिश्यकर्मण्येवाधिकारः 2।47 इत्युक्तम् तत्र का व्यामिश्रता इति। तथापि शुद्धेषु निवृत्तिलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव। तत्र मनोविक्षेपाभावात् अत्र तद्भावादिति। किञ्च कामक्रोधादीनां नरकफलत्वमुक्तम्। युद्धे च कामादयोऽवर्जनीयाः। ततोऽपि तत्र नियोजनमयुक्तम्। नन्वस्योत्तरंसुखदुःखे समे कृत्वा 2।38 इत्युक्तम् सत्यं तथापि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यतिधर्मेषु सत्स्वशक्यानुष्ठाने युद्धे नियोजनमयुक्तमेवेति प्रथमश्लोके पदानां व्यवहितत्वादन्वयं दर्शयन् किञ्चिद्व्याचष्टे कर्मण इति। षष्ठीभ्रान्तिनिरासाय सकाशादित्युक्तम्। बुद्धिरात्मज्ञानम्। ज्यायसी प्रशस्ततरा।
अभिनव-गुप्तः …{Loading}…
अभिनवगुप्तः - मूलम्
॥3.1 3.2॥ ज्यायसीति। व्यामिश्रेणेति। कर्म उक्तं ज्ञानं च। तत्र न द्वयोः प्राधान्यं युक्तम् अपि तु ज्ञानस्य। तद्बलेन क्षपणीयत्वं यदि कर्मणां बुद्धियुक्तो जहातीमे +++(II 52)+++ इत्यादिनयेन मूलत एव तर्हि +++(K तत्)+++ कर्मणां +++(S K कर्मणा)+++ किं प्रयोजनमिति प्रश्नाभिप्रायः।
शङ्करनारायणः
3.1 See Comment under 3.2
वल्लभः …{Loading}…
वल्लभः - मूलम्
॥3.1॥ अथाष्टभिस्त्रयीधर्मो माहात्म्यज्ञानभक्तिकृत्। पार्थाय श्रीभगवता मर्यादा वचसोच्यते॥1॥
साङ्ख्ययोगौ निरूप्यादौ तृतीये धर्मनिर्णयः। त्यागात्यागविभेदेन त्यागादत्याग उत्तमः॥2॥
यावच्छरीरसम्बन्धं त्यागः कर्त्तुं न शक्यते। अतो भगवदाज्ञातस्तदर्थे कृतिरुत्तमा॥3॥
योगे कर्मपथे त्यागं साङ्खबुद्ध्युपसंहृतम्। जानन्ननिश्चयात्तत्र फाल्गुनः परिपृच्छति॥4॥ यद्यपि पूर्वं भगवताएषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु 2।39 इत्यादौ योगबुद्धिरुपक्रान्ता तत्र च योगे स्वकर्मोपदिष्टं तथाप्यन्ते स्थिरधीप्रसङ्गे पुनस्त्यागमतिरेवोपसंहृतेति निर्णयमजानन् पृच्छति अर्जुन उवाच ज्यायसी चेदिति। कर्मणः सकाशात् बुद्धिस्तथा ज्यायस चेत् ते मता तर्हि घोरे कर्मणि युद्धे नियोजयसि किम् इति।
पुरुषोत्तमः
॥3.1॥॥ श्रीकृष्णाय नमः॥
योगसाङ्ख्यब्रह्मभावकर्माद्याः प्रश्नवाक्यतः।
ससंशयोऽब्रवीत् कृष्णं भक्तिप्राप्तीच्छुरर्जुनः॥ एवं पूर्वाध्याये भगवता बुद्धियोगस्य कर्मण उत्तमत्वमुक्तमिति कर्मोपदेशः किमाशयः इति संशयाविष्टोऽर्जुन उवाच ज्यायसी चेदिति। हे जनार्दन सर्वाविद्यानाशक ते कर्मणः सकाशात् बुद्धिश्चेज्जायसी श्रेष्ठा मता सम्मता तदा मां घोरे अकरणप्रत्यवाये किञ्चिदपि कर्मलोपादिविफले कर्मणि किमिति नियोजयसि प्रवर्त्तयसि। केशवेतिसम्बोधनेन दुष्टगुणव्याप्तयोरपि मोक्षदातृत्वात्तथा कर्म कारयित्वाऽपि चेन्मोक्षं दातुमिच्छसि तदा कर्तव्यमेवेति भावो व्यञ्जितः।
श्रीधर-स्वामी …{Loading}…
॥3.1॥ एवं तावत्अशोच्यानन्वशोचस्त्वम् इत्यादिना प्रथमं मोक्षसाधनत्वेन देहात्मविवेकबुद्धिरुक्ता। तदनन्तरंएषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु इत्यादिना कर्म चोक्तम्। नच तयोर्गुणप्रधानभावः स्पष्टं दर्शितः। तत्र बुद्धियुक्तस्य स्थितप्रज्ञस्य निष्कामत्वनितयेन्द्रियत्वनिरहंकारत्वाद्यभिधानात्एषा ब्राह्मी स्थितिः पार्थ इति सप्रशंसमुपसंहाराच्च बुद्धिकर्मणोर्मध्ये बुद्धेः श्रैष्ठ्यं भगवतोऽभिमतं मन्वानोऽर्जुन उवाच ज्यायसी चेदिति। कर्मणः सकाशान्मोक्षान्तरङ्गत्वेन बुद्धिर्ज्यायस्यधिकतरा श्रेष्ठा चेत्तव संमता तर्हि किमर्थं तद्युध्यस्वेति तस्मादुत्तिष्ठेति च वारंवारं वदन्घोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयसि।
English …{Loading}…
आदिदेवानन्दः
3.1 Arjuna said If, O Krsna, you consider that Buddhi (knowledge) is superior to works, why do you engage me in this terrible deed;
गम्भीरानन्दः
3.1 Arjuna said O Janardana (krsna), if it be Your opinion that wisdom is superior to action, why they do you urge me to horrible aciton, O Kesava ;
पुरोहितस्वामी
3.1 “Arjuna questioned: My Lord! If Wisdom is above action, why dost Thou advise me to engage in this terrible fight;
शङ्करनारायणः
3.1. Arjuna said O Janardana, if knowledg is held to be superior to action by You, then why do You engage me in action that is terrible, O Kesava ;
शिवानन्दः - अनुवादः
3.1 Arjuna said If Thou thinkest that knowledge is superior to action, O Krishna, why then, O Kesava, dost Thou ask me to engage in this terrible action;
शिवानन्दः - टीका
3.1 ज्यायसी superior; चेत् if; कर्मणः than action; ते by Thee; मता thought; बुद्धिः knowledge; जनार्दन O Janardana; तत् then; किम् why; कर्मणि in action; घोरे terrible; माम् me; नियोजयसि Thou engagest; केशव O Kesava.Commentary In verses 49; 50 and 51 of chapter II; Lord Krsihna has spoken very highly about Buddhi Yoga. He again asks Arjuna to fight. That is the reason why Arjuna is perplexed now.
हिन्दी …{Loading}…
रामसुखदासः - अनुवादः
।।3.1 – 3.2।। अर्जुन बोले – हे जनार्दन! अगर आप कर्मसे बुद्धि- (ज्ञान-) को श्रेष्ठ मानते हैं, तो फिर हे केशव ! मुझे घोर कर्ममें क्यों लगाते हैं ; आप अपने मिले हुए-से वचनोंसे मेरी बुद्धिको मोहित-सी कर रहे हैं। अतः आप निश्चय करके उस एक बात को कहिये, जिससे मैं कल्याणको प्राप्त हो जाऊँ।
रामसुखदासः - टीका
।।3.1।।व्याख्या–‘जनार्दन’–इस पदसे अर्जुन मानो यह भाव प्रकट करते हैं कि हे श्री कृष्ण! आप सभीकी याचना पूरी करनेवाले हैं; अतः मेरी याचना तो अवश्य ही पूरी करेंगे।‘ज्यायसी चेत्कर्मणस्ते ৷৷. नियोजयसि केशव’– मनुष्यके अन्तःकरणमें एक कमजोरी रहती है कि वह प्रश्न करके उत्तरके रूपमें भी वक्तासे अपनी बात अथवा सिद्धान्तका ही समर्थन चाहता है। इसे कमजोरी इसलिये कहा गया है कि वक्ताके निर्देशका चाहे वह मनोऽनुकूल हो या सर्वथा प्रतिकूल, पालन करनेका निश्चय ही शूरवीरता है, शेष सब कमजोरी या कायरता ही कही जायगी। इस कमजोरीके कारण ही मनुष्यको प्रतिकूलता सहनेमें कठिनाईका अनुभव होता है। जब वह प्रतिकूलताको सह नहीं सकता, तब वह अच्छाईका चोला पहन लेता है अर्थात् तब भलाईकी वेशमें बुराई आती है। जो बुराई भलाईके वशमें आती है, उसका त्याग करना बड़ा कठिन होता है। यहाँ अर्जुनमें भी हिंसा-त्यागरूप भलाईके वशेमें कर्तव्य-त्यागरूप बुराई आयी है। अतः वे कर्तव्य-कर्मसे ज्ञानको श्रेष्ठ मान रहे हैं। इसी कारण वे यहाँ प्रश्न करते हैं कि यदि आप कर्मसे ज्ञानको श्रेष्ठ मानते हैं, तो फिर मुझे युद्धरूप घोर कर्ममें क्यों लगाते हैं;
चिन्मयानन्दः
।।3.1।। अभी भी अर्जुन का यही विश्वास है कि गुरुजन पितामह आदि के साथ युद्ध करना भयानक कर्म है। लगता है अर्जुन या तो भगवान् के उपदेश को भूल गया है या वह उसे कभी समझ ही नहीं पाया था। श्रीकृष्ण ने यह बिल्कुल स्पष्ट किया था कि महाभारत के युद्ध में अर्जुन गुरुजनों को मारने वाला नहीं था क्योंकि यह युद्ध व्यक्तियों के बीच न होकर दो सिद्धांतों के मध्य था। पाण्डवों का पक्ष धर्म और नैतिकता का था। परन्तु दुर्भाग्यवश अर्जुन अपने अहंकार को भूलकर अपने पक्ष के साथ एकरूप नहीं हो पाया। जिस मात्रा में वह आदर्श के साथ तादात्म्य नहीं कर पाया उस मात्रा में उसका अहंकार बना रहा और युद्ध करने में उसे नैतिक दोष दिखाई दिया। इस श्लोक में अर्जुन का तात्पर्य यह है कि यद्यपि श्रीकृष्ण के तर्कसंन्यासमार्ग का ही अनुमोदन कर रहे थे परन्तु उसे भयंकर कर्म में प्रवृत्त किया जा रहा था।
तेजोमयानन्दः - अनुवादः
।।3.1।। हे जनार्दन यदि आपको यह मान्य है कि कर्म से ज्ञान श्रेष्ठ है तो फिर हे केशव आप मुझे इस भयंकर कर्म में क्यों प्रवृत्त करते हैं
-
संन्यासे सर्वकर्मणां परित्यागः उक्तः इति संबन्धः। ↩︎
-
ब्रह्मणि असच्छब्दप्रयोगमुपपादयति— जन्मेति। तत्र सत्तायां जन्माधीनत्वरूपविशेषणाभावाद् उक्तविधमसत्त्वम्। नामरूपव्याकरणाभावमपेक्ष्य ब्रह्मणि असच्छब्दप्रयोग इति च बोध्यम्। द्र. ब्र.सू. १-४-१५। ↩︎
-
जनार्दनशब्दस्य व्युत्पादनं भाष्यकारैः (भ.गी.१०-१८) इत्यत्र कृतं द्रष्टव्यम्। ↩︎