(सं) विश्वास-प्रस्तुतिः ...{Loading}...
नास्ति बुद्धिर् अयुक्तस्य
न चायुक्तस्य भावना।
न चाभावयतः शान्तिर्
अशान्तस्य कुतः सुखम्॥2.66॥
(सं) मूलम् ...{Loading}...
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।2.66।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।2.66।। मयि संन्यस्त-मनो-रहितस्य
स्व-यत्नेन इन्द्रिय-दमने प्रवृत्तस्य
कदाचिद् अपि विविक्तात्म-विषया बुद्धिः न सेत्स्यति।
अत एव तस्य तद्-भावना च न संभवति।
विविक्तात्मानम् अभावयतो विषयस्पृहा-शान्तिः न भवति।
अशान्तस्य विषयस्पृहा-युक्तस्य कुतो नित्य-निरतिशय-सुख-प्राप्तिः।
पुनर् अपि उक्तेन प्रकारेण इन्द्रिय-नियमनम् अकुर्वतः अनर्थम् आह
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।2.66।। अथ
पूर्वोक्तान्योन्याश्रयफलभूतामात्मदर्शनासिद्धिंबुद्धिनाशात्प्रणश्यति 2।63
इत्येतद्विवरणरूपेणानूद्य ततः परमप्रयोजनस्यापि अलाभप्रकार उच्यते
नास्तीति। युक्त आसीत मत्परः 2।61 इति पूर्वोक्तस्य
निवृत्तिरयुक्तशब्देनोच्यत इति तात्पर्येणाह मयीति। यततो ह्यपि 2।60 इति
पूर्वोक्तं स्मारयति स्वयत्नेनेति। नास्तीत्यनेनाभिप्रेतमाह
कदाचिदपीत्यादिना। अतिचिरकालप्रयासेनापीत्यर्थः। द्वितीयपादस्थमयुक्तस्येति
पदं
श्रृङ्खलौचित्यायायुक्तत्वफलभूतबुद्ध्यभावलक्षकमिति तात्पर्येणाह अत एवेति।
यद्वा तस्येत्ययुक्तपरामर्शः। अत एवेति तु बुद्ध्यभावादेवेत्यर्थः। अथवा
परम्परया हेतुत्वमभिप्रेत्यायुक्तत्वादेवेति विवक्षा
भिन्नविषयभावनान्तरनिषेधायोगात्तद्भावनेत्युक्तम्। रसोऽप्यस्य परं दृष्ट्वा
निवर्तते 2।59रागद्वेषवियुक्तैस्तु 2।34सुखेषु विगतस्पृहः 2।56
इत्याद्यानुगुण्यन शान्ति विशिनष्टि विषयस्पृहा शान्तिरिति। अशान्तस्यैव
स्वर्गादिसुखलाभादमृतत्वप्रकरणसिद्धं सुखस्य विशेषमाह नित्यनिरतिशयेति।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
2.66 In him who does not focus his mind on Me but is engaged only in the control of senses by his own exertion, the Buddhi or the right disposition that is concerned with the pure self never arises. Therefore he fails in the practice of meditation on the self. In one who cannot think of the pure self, there arises the desire for sense objects; in him serenity does not arise. How can eternal and unsurpassed bliss be generated in him who is not serene but is attached to sense-objects; [The idea is that without the aid of devotion to God, the effort to control the senses by one’s will power alone will end in failure.] Sri Krsna speaks again of the calamity that befalls one who does not practise the control of the senses in the way prescribed above:
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।2.66 2.70।। रागद्वेषेत्यादि प्रतिष्ठितेत्यन्तम्। यस्तु मनसो नियामकः स विषयान् सेवमानोऽपि न क्रोधादिकल्लोलैरभिभूयते इति स एव स्थितप्रज्ञो योगीति तात्पर्यम्।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
2.66 See Comment under 2.68
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।2.66।। प्रसादाभावे दोषमाहोत्तराभ्यां श्लोकाभ्याम् न हि प्रसादाभावे युक्तिश्चित्तनिरोधः। अयुक्तस्य च बुद्धिः सम्यग्ज्ञानं च नास्ति। तदेवोपपादयति न चायुक्तस्येति। शान्तिर्मुक्तिःशान्तिर्मोक्षोऽथ निर्वाणम् इत्यभिधानात्।
(सं) मध्वः जयतीर्थः ...{Loading}...
।।2.66।। वक्तव्यस्योक्तत्वान्नास्ति बुद्धिरित्यादिकं किमर्थं इत्यत आह प्रसादेति। श्रवणमननाभ्यामुपकृतेन ध्यानेनैव ब्रह्मापरोक्षज्ञानसिद्धेः किमनेन प्रसादेन यदर्थमिन्द्रियजयोऽपेक्षितः इत्याशङ्क्येति शेषः। नन्वत्र प्रसादाभाव इदं स्यादिति नोच्यते ततः कथमेतदुक्तं इत्यतः प्रकरणप्राप्तमध्याहरति न हीति। ननु प्रसादरहिता अनुमिमते इत्यत आह चित्तेति। एकाग्रतेत्यर्थः। एवमध्याहारे सतिनास्ति बुद्धिः इत्येतत्सम्बध्यत इति भावेनाह अयुक्तस्येति। ज्ञानमात्रं प्रकृतानुपयुक्तमयुक्तं चेत्यत आह सम्यगिति ब्रह्मापरोक्षज्ञानमित्यर्थः। एतावता प्रसादाभावे दोष उक्तस्तत्किमर्थं न चायुक्तस्य इत्येतदित्यत आह तदेवेति। ध्यानेनैव ज्ञानोत्पादात्कथं नास्ति बुद्धिरयुक्तस्य इत्याशङ्क्येति शेषः। भावना ध्यानम्। अत एवन चाभावयतो ज्ञानम्। न चाज्ञानिनः शान्तिः इति योज्यम्। ननु शान्तिः प्रसादः तस्य ज्ञानसाधनत्वेनोक्तत्वात्कथं ज्ञानोत्तरत्वमुच्यते इत्यत आह शान्तिरिति। एतच्च न केवलं मुक्तौ सर्वदुःखहानिः किन्तु संसारिभिरलभ्यं परमं सुखं चेति ज्ञापयितुं प्रसङ्गादुक्तम्। एतदेवावेक्ष्य भाष्यकृता ब्रह्मादिपदादित्याद्युक्तम्।
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।2.66।।
नास्ति न विद्यते न भवतीत्यर्थः बुद्धिः आत्मस्वरूपविषया
अयुक्तस्य असमाहितान्तःकरणस्य। न च अस्ति अयुक्तस्य
भावना आत्मज्ञानाभिनिवेशः। तथा न च अस्ति अभावयतः
आत्मज्ञानाभिनिवेशमकुर्वतः शान्तिः उपशमः। अशान्तस्य कुतः
सुखम् इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिर्या तत्सुखम् न
विषयविषया तृष्णा। दुःखमेव हि सा। न तृष्णायां सत्यां सुखस्य
गन्धमात्रमप्युपपद्यते इत्यर्थः।।
अयुक्तस्य कस्माद्बुद्धिर्नास्ति इत्युच्यते
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।2.66।। उस प्रसन्नताकी स्तुति की जाती है
अयुक्त पुरुषमें अर्थात् जिसका अन्तःकरण समाहित नहीं है ऐसे पुरुषमें
आत्मस्वरूपविषयक बुद्धि नहीं होती अर्थात् नहीं रहती और उस अयुक्त पुरुषमें
भावना अर्थात् आत्मज्ञानमें प्रगाढ प्रवेश अतिशय प्रीति भी नहीं होती।
तथा भावना न करनेवालेको अर्थात् आत्मज्ञानके साधनमें प्रीतिपूर्वक संलग्न न
होनेवालेको शान्ति अर्थात् उपशमता भी नहीं मिलती।
शान्तिरहित पुरुषको भला सुख कहाँ क्योंकि विषयसेवनसम्बन्धी तृष्णासे जो
इन्द्रियोंका निवृत्त होना है वही सुख है विषयसम्बन्धी तृष्णा कदापि सुख
नहीं है वह तो दुःख ही है।
अभिप्राय यह कि तृष्णाके रहते हुए तो सुखकी गन्धमात्र भी नहीं मिलती।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
2.66 Ayuktasya, for the unsteady, for one who does not have a concentrated mind; na asti, there is no, i.e. there does not arise; buddhih, wisdom, with regard to the nature of the Self; ca, and; there is no bhavana, meditation, earnest longing [Longing to have a continuous remembrance of the knowledge of Brahman which arises in the mind from hearing the great Upanisadic sayings (maha-vakyas).] for the knowledge of the Self; ayuktasya, for an unsteady man. And similarly, abhavayatah, for an unmeditative man, who does not ardently desire the knowledge of the Self; there is no santih, peace, restraint of the senses. Kutah, how can there be; sukham, happiness; asantasya, for one without peace; That indeed is happiness which consists in the freedom of the senses from the thirst for enjoyment of objects; not the thirst for objects that is misery to be sure. The implication is that, so long as thirst persists, there is no possibility of even an iota of happiness! It is being stated why a man without concentration does not possess wisdom:
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।2.66।। किं पुनः सत्त्वशुद्ध्यैव यथोक्तबुद्धिः सिध्यति नेत्याह
सेयमिति। असमाहितस्यापि बुद्धिमात्रमुत्पद्यमानं प्रतिभातीत्याशङ्क्य
विशिनष्टि आत्मस्वरूपेति। नहि विक्षिप्तचित्तस्यात्मस्वरूपविषया
बुद्धिरुदेतुमर्हतीत्यत्र हेतुमाह नचेति। आत्मज्ञाने शब्दादापाततो
जाते स्मृतिसन्तानकरणं साक्षात्कारार्थमभिनिवेशो भावनेति चोच्यते। न चासौ
विक्षिप्तबुद्धेः सिध्यतीति हेत्वर्थं विवक्षित्वाह आत्मज्ञानेति।
भावनाद्वारा साक्षात्काराभावेऽपि का क्षतिरित्याशङ्क्याह तथेति।
असमाहितस्य भावनाभाववदिति यावत्। आत्मन्यापाततो ज्ञाते
श्रवणाद्यावृत्तिरूपां
स्मृतिमनातन्वानस्यापरोक्षबुद्ध्यभावेनानर्थनिवृत्तिः सिध्यतीत्याह उपशम
इति। अनिवृत्तानर्थस्य परमानन्दसागराद्विभक्तस्य संसारवारिधौ निमग्नस्य
सुखाविर्भावो न संभवतीत्याह अशान्तस्येति। तस्यापि विषयसेवातो
वैषयिकं सुखं संभवतीत्याशङ्क्याह इन्द्रियाणां हीति। तृष्णाक्षयस्य
शास्त्रप्रसिद्धमानुभविकं च सुखत्वमिति वक्तुं हिशब्दः। विषयसेवातृष्णयापि
विषयोपभोगद्वारा सुखमुपलब्धमित्याशङ्क्याह दुःखमेवेति। तत्रापि
हिशब्दोऽनुभवद्योती। तदेव स्पष्टयति **नेत्यादिना।
**
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।2.66।। इममेवार्थं व्यतिरेकमुखेन द्रढयति अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्या नास्ति नोत्पद्यते। तद्बुद्ध्यभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा। सर्वत्र नञोऽस्तीत्यने नान्वयः। नचाभावयत आत्मानं शान्तिः सकार्याविद्यानिवृतिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिः। अशान्तस्यात्मसाक्षात्कारशून्यस्य कुतः सुखं मोक्षानन्द इत्यर्थः।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।2.66।। समनस्कानामिन्द्रियाणामनिग्रहे दोष उक्तः बुद्धेरपर्यवस्थाने को दोष इत्यत आह नास्तीति। अयुक्तस्य श्रवणमननयोरनासक्तस्य बुद्धिर्ब्रह्मात्मैक्यनिश्चयो नास्ति। प्रमाणविषयासंभावनायाः प्रमेयविषयासंभावनायाश्चानिरासात्। तथा अयुक्तस्यासमाहितमनसो भावना ब्रह्माकारान्तःकरणवृत्तिप्रवाहो नास्ति। मनसश्चाञ्चल्येन बुद्धेरपि चाञ्चल्यात् अभावयतो ध्यानमकुर्वतः शान्तिः सर्वदुःखोपरमश्च नास्ति। चेतसोऽनवस्थित्वेन दुःखावश्यंभावात्। अशान्तस्यानुपरतसर्वदुःखस्य सुखं प्रत्यगद्वयानन्दात्मकं कुतो न कुतश्चित्। दुःखित्वादेव आद्यमयुक्तस्येति पदंयुजिर् योगे इत्यस्य रूपम्। द्वितीयंयुज समाधौ इत्यस्य। तस्माद्बुद्धेः पर्यवस्थानमावश्यकम्।
(सं) शङ्करः धनपतिः ...{Loading}...
।।2.66।। ननु किं चित्तप्रसादस्यैव साक्षाद्बुद्धिप्रतिष्ठासाधनत्वमुत परम्परयेत्याकाङ्क्षायां निदिध्यासनद्वारेणेति वक्तुं चित्तप्रसादं विना तन्न जायत इति पूर्वोक्तेस्तात्पर्यं प्रसन्नतास्तुत्या स्फुटयति नास्तीति। यत्तु समनस्कानामिन्द्रियाणामनिग्रहे दोष उक्तः बुद्धेरपर्यवस्थाने को दोष इत्यत आहेति तच्चिन्त्यम्। अयुक्तस्य बुद्धिर्नास्तीत्युक्त्या चित्तप्रसादस्तुतेः स्पष्टप्रतीतेः तथोत्थापनानौचित्यात्। अयुक्तस्यासमाहितचेतसः। अप्रसन्नचित्तस्येति यावत्। बुद्धिरात्मस्वरुपज्ञानविषया ब्रह्मात्मैक्याकारा कुत आह नचेति। नचायुक्तस्य भावना पूजाप्रतिष्ठाद्यर्थ श्रवणमननयोः सत्त्वेऽपि भावनाऽभिनिवेशो निदिध्यासनं बुद्धिसाधनं नास्ति। नचाभावयतः विजातीयप्रत्ययस्य विषयानुसंधानस्य तिरस्कारमकुर्वतः शान्तिरुपशमः तृष्णाया इच्छापरपर्यायाया अभावो नास्ति। अशान्तस्य कुतः सुखं अविद्यानिवृत्त्या आविद्यकतृष्णाद्यभावकर्तुस्तत्त्वसाक्षात्कारस्याभावाद्ब्रह्मानन्दसुखं तु तस्य नास्त्येव विषयसुखमपि तस्य नास्तीति द्योतयितुं कुतःशब्दः। ननु विषयार्जनतद्विनाशयोः दुःखसाधनत्वेऽपि विषयोपभोगस्य सुखहेतुत्वं भविष्यतीति चेन्न। तस्मिन्कालेऽपि सर्वदुःखमूलभूतायास्तृष्णायाः सत्त्वेन सुखगन्धस्याप्यनुपपत्तेः। तृष्णायाः दुःखहेतुत्वमुक्तं वासिष्ठे यान्येतानि दुरन्तानि दुर्जराण्युन्नतानि च। तृष्णावल्लयाः फलानीह तानि दुःखानि राघव। इच्छोदयो यथा दुःखमिच्छाशान्तिर्यथा सुखम्। तथा न नरके नापि ब्रह्मलोकेऽनुभूयते।। यावतीयावती जन्तोरिच्छोदेति यथायथा। तावतीतावती दुःखबीजमुष्टिः प्ररोहति।। इत्यादि।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।2.66।। मनोनिग्रहस्य स्थितप्रज्ञता साधनत्वं व्यतिरेकमुखेनोपपादयति नास्तीति। अयुक्तस्यासतो निरोधयोगरहितस्य बुद्धिरेका व्यवसायात्मिका न भवति। न च भावना तत्त्वचिन्तनम्। स्पष्टमन्यत्।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।2.66।। ननु समाधिस्थस्यापि स्थितप्रज्ञतैवोक्ता तदा को विशेषः इत्यत आह नास्ति बुद्धिरिति। अयुक्तस्य मयि योगरहितस्य बुद्धिरेव नास्ति। अयमर्थः बुद्ध्यनन्तरं चेन्मयि योगो न जातस्तदा सा स्थितप्रज्ञैव न। तस्मात्समाधिस्थभगवत्संयोगाभावे स्थितप्रज्ञाप्यकिञ्चित्करीत्यर्थः। ननु समाधिस्थयोगेनापि किं फलं इत्याशङ्क्याह न चेति। अयुक्तस्य भगवत्सम्बन्धरहितस्य भावना भगवद्रसौपयिकदेहाभिलाषो न च भवति। ननु भावनामात्रेणापि किम् अत आह न चेति। अभावयतः भावनामकुर्वतः शान्तिर्भगवद्रसौपयिकदेहावाप्तिर्न च भवति। तादृग्देहिनः साक्षादानन्दानुभवो न भवतीत्याह अशान्तस्येति। अशान्तस्य तादृग्देहाप्त्या तापरहितस्य सुखं साक्षात्सम्बन्धात्मकभजनानन्दानुभवः कुतः स्यात् इत्यर्थः।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।2.66।। इन्द्रियनिग्रहस्य स्थितप्रज्ञतासाधनत्वं व्यतिरेकमुखेनोपपादयति नास्तीति। अयुक्तस्यावशीकृतेन्द्रियस्य नास्ति बुद्धिः शास्त्राचार्योपदेशाभ्यामात्मविषया बुद्धिः प्रज्ञैव नोत्पद्यते कुतस्तस्य प्रतिष्ठा वार्ता वा कुत इत्यत आह। न चायुक्तस्य भावना ध्यानम्। भावनया हि बुद्धेरात्मनि प्रतिष्ठा भवति। सा चायुक्तस्य यतो नास्ति। न चाभावयत आत्मध्यानमकुर्वतः शान्तिरात्मनि चित्तोपरतिः। अशान्तस्य कुतः सुखं मोक्षानन्द इत्यर्थः।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।2.66।। शास्त्रों में मन की शान्ति पर बल देने का कारण यहाँ स्पष्ट किया
गया है। मन शान्ति के अभाव के कारण बुद्धि में सांस्कृतिक एवं आध्यात्मिक
विकास के लिये आवश्यक विचार करने की क्षमता नहीं होती। शान्ति के न होने पर
जीवन की समस्याओं को समझने की बौद्धिक तत्परता का अभाव होता है और तब जीवन
का सही मूल्यांकन कर आत्मज्ञान एवं ध्यान के लिए अवसर ही नहीं रहता। ध्रुव
तारे के समान जीवन में महान लक्ष्य के न होने पर हमारा जीवन समुद्र में
खोये जलपोत के समान भटकता हुआ अन्त में किसी विशाल चट्टान से टकराकर नष्ट
हो जाता है।
लक्ष्यहीन दिशाहीन पुरुष को कभी शान्ति नहीं मिलती और ऐसे अशान्त पुरुष को
सुख कहाँ जीवन सिन्धु की शान्त अथवा विक्षुब्ध तरंगों में सुख या दुख के
समय संयम से रहने के लिये परमार्थ का लक्ष्य हमारी दृष्टि से कभी ओझल नहीं
होना चाहिये। एक मृदंग वादक के बिना नर्तकी के पैर लय और गति को नियन्त्रित
नहीं रख सकते।
अयुक्त (संयमरहित) पुरुष को ज्ञान क्यों नहीं होता सुनो
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।2.66।। (संयमरहित) अयुक्त पुरुष को (आत्म) ज्ञान नहीं होता और अयुक्त को भावना और ध्यान की क्षमता नहीं होती भावना रहित पुरुष को शान्ति नहीं मिलती अशान्त पुरुष को सुख कहाँ
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।2.66।। जिसके मन-इन्द्रियाँ संयमित नहीं हैं, ऐसे मनुष्यकी व्यवसायात्मिका बुद्धि नहीं होती और व्यवसायात्मिका बुद्धि न होनेसे उसमें कर्तव्यपरायणताकी भावना नहीं होती। ऐसी भावना न होनेसे उसको शान्ति नहीं मिलती। फिर शान्तिरहित मनुष्यको सुख कैसे मिल सकता है;
(हि) रामसुखदासः टीका ...{Loading}...
2.66।।व्याख्या– [यहाँ कर्मयोगका विषय है। कर्मयोगमें मन और इन्द्रयोंका संयम करना मुख्य होता है। विवेकपूर्वक संयम किये बिना कामना नष्ट नहीं होती। कामनाके नष्ट हुए बिना बुद्धिकी स्थिरता नहीं होती। अतः कर्मयोगी साधकको पहले मन और इन्द्रियोंका संयम करना चाहिये। परन्तु जिसका मन और इन्द्रियाँ संयमित नहीं है, उसकी बात इस श्लोकमें कहते हैं। ]
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
2.66. The capacity to decide is not for one who is not a master of Yoga; and concentration of mind is not for one who is not a master of Yoga; and peace is not for one who does not concentrate; wherefrom could happiness come to one who has no peace ;
(Eng) गम्भीरानन्दः ...{Loading}...
2.66 For the unsteady there is no wisdom, and there is no meditation for the unsteady man. And for an unmeditative man there is no peace. How can there be happiness for one without peace;
(Eng) पुरोहितस्वामी ...{Loading}...
2.66 Right discrimination is not for him who cannot concentrate. Without concentration, there cannot be meditation; he who cannot meditate must not expect peace; and without peace, how can anyone expect happiness;
(Eng) आदिदेवनन्दः ...{Loading}...
2.66 There is no Buddhi for the unintegrated, nor for him is there contemplation of the self, and for him without contemplation of the self, there is no peace; and for one lacking peace, where is happiness;
(Eng) शिवानन्दः अनुवादः ...{Loading}...
2.66 There is no knowledge of the Self to the unsteady and to the unsteady no meditation is possible, and to the unmeditative there can be no peace, and to the man who has no peace, how can there be happiness;
(Eng) शिवानन्दः टीका ...{Loading}...
2.66 न not; अस्ति is; बुद्धिः knowledge (of the Self); अयुक्तस्य of the unsteady; न not; च and; अयुक्तस्य of the unsteady; भावना meditation; न not; च and; अभावयतः of the unmeditated; शान्तिः peace; अशान्तस्य of the peaceless; कुतः whence; सुखम् happiness.Commentary The man who cannot fix his mind in meditation cannot have knowledge of the Self. The unsteady man cannot practise meditation. He cannot have even intense devotion to Selfknowledge nor can he have burning longing for liberation or Moksha. He who does not practise meditation cannot possess peace of mind. How can the man who has no peace of mind enjoy happinessDesire or Trishna (thirsting for senseobjects) is the enemy of peace. There cannot be an iota or tinge of happiness for a man who is thirsting for sensual objects. The mind will be ever restless; and will be hankering for the objects. Only when this thirsting dies; does man enjoy peace. Only then can he meditate and rest in the Self.