46 यावानर्थ उदपाने

विश्वास-प्रस्तुतिः …{Loading}…

+++(पानाय ऽनपेक्षितस्य जलस्योपेक्षया)+++
यावान् अर्थ उद-पाने +++(पिपासोः)+++
सर्वतः संप्लुतोदके।
+++(आत्मनिष्ठायाय् अनपेक्षितस्य वाग्-राशेर् उपेक्षया)+++
तावान् सर्वेषु वेदेषु +++(आत्म-निष्ठा-परो ऽर्थः)+++
ब्राह्मणस्य विजानतः॥2.46॥

+++(अथवा शङ्करदृष्टिम् अनुसृत्य)+++
यावान् अर्थ उद-पाने+++(→क्षुद्रजलाशये)+++,
+++(यस्)+++ सर्वतः संप्लुतोदके +++(ऽन्तर्भवति)+++।
तावान् सर्वेषु वेदेषु+++(→क्षुद्रफलद-कर्मसु)+++ +++(लभ्यः क्षुद्रफलरूपो ऽर्थः)+++
ब्राह्मणस्य विजानतः +++(विज्ञानरूपे सम्प्लुतोदकतुल्ये ऽर्थे ऽन्तर्भवति)+++॥2.46॥
+++(किञ्च, यथा ऽग्रे निरूपयिष्यते - ज्ञाननिष्ठाधिकारात् प्राक् क्षुद्र-जलाशय-स्थानीयम् अपि कर्म करणीयम्।)+++

रामानुजः …{Loading}…

रामानुजः - मूलम्

॥2.46॥ यथा सर्वार्थ-परिकल्पिते सर्वतः सम्प्लुतोदके उदपाने पिपासोः यावान् अर्थः = यावद् एव प्रयोजनं पानीयम्, तावद् एव तेन उपादीयते न सर्वम्, एवम् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोर् यद् एव मोक्षसाधनं, तद् एव उपादेयं न अन्यत्।

वेदान्तदेशिकः

॥2.46॥ अथ सनिदर्शनमधिकारिभेदं प्रतिपादयन्तंयावानर्थः इत्यादिश्लोकं व्याचष्टे न चेति। वर्णाश्रमप्रवर चरणादिभेदेन प्रतिनियताधिकारिविषया हि वेदोदिता धर्मा इति भावः। सर्वार्थपरिकल्पित इति तत्तत्प्रयोजनाभिलाषिसर्वाधिकार्यर्थं परिकल्पिते। यद्वा सर्वशब्दः प्रयोजनकात्स्न्र्यपरः स्नानपानादिनानाप्रयोजनार्थं परिकल्पिते। एतच्चसर्वतस्सम्प्लुतोदके इत्यनेनार्थसिद्धमुक्तम्। उदपानं कूपतटाकादि। पिपासोरिति दार्ष्टान्तिकप्रस्थानानुरोधेनाध्याहारः। नन्वत्र दृष्टान्तदार्ष्टान्तिकयोः का सङ्गतिः न हि पिपासोरुदपाने यावत्प्रयोजनं तावदेव विजानतः सर्वेषु वेदेष्वित्याशङ्कां परिहर्तुं वाक्यपूरणायाध्याहृत्योक्तं तावदेव तेनोपादीयत इत्यादि। सर्वेषु चेति चशब्द उपादेयानुपादेयांशसङ्कलनद्योतनार्थः। ननुब्राह्मणस्य इत्येतत्प्रकरणासङ्गतं क्षत्रियायैव ह्युपदिश्यते। कश्चात्र ब्राह्मणस्य विशेषः ब्रह्मविद्याया अपि त्रैवर्णिकसाधारणत्वात्। विजानतः इति चायुक्तं विजानन्नेव हि कामनाधिकारादिष्वपि प्रवर्तते। ब्राह्मणशब्दश्चात्र नतदधीते अष्टा.4।2।59 इत्याद्यर्थान्तरपरःब्राह्मोऽजातौ अष्टा.6।4।171 इति निपातनेन जातिव्यतिरिक्तार्थे ब्राह्म इत्येव वक्तव्यत्वात्। तत्राह वैदिकस्य मुमुक्षोरिति। ब्रह्म अणतीति निरुक्त्या ब्राह्मणःशकन्ध्वादिषु पररूपं वक्तव्यम् अष्टा.1।1।64 इति पररूपे कृते प्रज्ञादित्वादण्प्रत्यये च ब्राह्मण इति रूपं भवति। ब्रह्म चात्र वेदः वेदेष्वित्यत्रैव प्रसक्तत्वात्। अतोऽत्र ब्राह्मणशब्दो वैदिकमात्रपर इति न क्षत्रियार्थोपदेशाद्यनुपपत्तिः। ब्राह्मणशब्दस्यात्र सन्न्यासिपरत्वेनशङ्करव्याख्या त्वतिमन्दा। अमौनं च मौनं च निर्विद्याथ ब्राह्मणः बृ.उ.3।5।1 इति श्रुतिस्तु योगिनः प्रकृष्टतरान्तरसत्त्वम् अवस्थाविशेषमाह। विजानतः इति च विशिष्टज्ञानवत्त्वमुच्यते। विशिष्टत्वं च हेयोपादेयविषयतया। तथाविधज्ञानवांश्च मुमुक्षुरेव स्यादिति। तावानित्यस्य व्यवच्छेद्यमाह नान्यदिति। वेदोदितमपि न मोक्षसाधनव्यतिरिक्तमुपादेयम् अनधिकृतत्वात्। न ह्यन्यवर्णाश्रमान्यफलकामुकादिधर्मोऽन्यस्योपादेय इति भावः।

आदिदेवानन्दः

2.46 Whatever use, a thirsty person has for a reservoir, which is flooded with water on all sides and which has been constructed for all kinds of purposes like irrigation, only to that extent of it, i.e., enough to drink will be of use to the thirsty person and not all the water. Likewise, whatever in all the Vedas from the means for release to a knowing Brahmana, i.e., one who is established in the study of the Vedas and who aspires for release only to that extent is it to be accepted by him and not anything else. Sri Krsna now says that this much alone is to be accepted by an aspirant, established in Sattva:

शङ्करः …{Loading}…

शङ्करः - मूलम्

“सर्वेषु वेदोक्तेषु कर्मसु यान्य् उक्तान्य् अनन्तानि फलानि, तानि नापेक्ष्यन्ते चेत्, किमर्थं तानि ईश्वरायेत्य् अनुष्ठीयन्ते?” इत्य् उच्यते, श्रृणु -

॥2.46॥ यथा लोके कूप-तडागाद्य्-अनेकस्मिन् उदपाने परि-च्छिन्नोदके यावान् यावत्-परिमाणः स्नान-पानादिः अर्थः फलं प्रयोजनं, स सर्वः अर्थः, सर्वतःसंप्लुतोदकेऽपि यः अर्थः तावान् एव +++(विनायासम्)+++ संपद्यते - तत्र अन्तर्-भवतीत्य् अर्थः।

एवं तावान् तावत्-परिमाण एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः, यत् कर्म-फलं सः अर्थः, ब्राह्मणस्य संन्यासिनः परमार्थ-तत्त्वं विजानतः यः अर्थः - यत् विज्ञानफलं सर्वतःसंप्लुतोदक-स्थानीयं - तस्मिन् तावान् एव +++(विनायासम्)+++ संपद्यते - तत्रैवान्तर्-भवतीत्य् अर्थः।

यथा कृताय विजितायाधरेयाः संयन्त्य्, एवम् एनं सर्वं तद् अभिसमेति, यत् किञ्चित् प्रजाः साधु कुर्वन्ति, यस् तद् वेद, यत् स वेद

इति +++(छान्दोग्योपनिषदि)+++ श्रुतेः।

सर्वं कर्माखिलम् इति च वक्ष्यति। तस्मात्, प्राक् ज्ञान-निष्ठाधिकार-प्राप्तेः, कर्मण्य् अधिकृतेन कूप-तडागाद्य्-अर्थ-स्थानीयम् अपि कर्म कर्तव्यम्॥

गम्भीरानन्दः

2.46 If there be no need for the infinite results of all the rites and duties mentioned in the Vedas, then why should they be performed as a dedication to God; Listen to the answer being given: In the world, yavan, whatever; arthah, utility, use, like bathing, drinking, etc.; one has udapane, in a well, pond and other numerous limited reservoirs; all that, indeed, is achieved, i.e. all those needs are fulfilled to that very extent; sampluhtodake, when there is a flood; sarvatah, all arount. In a similar manner, whatever utility, result of action, there is sarvesu, in all; the vedesu, Vedas, i.e. in the rites and duties mentioned in the Vedas; all that utility is achieved, i.e. gets fulfilled; tavan, to that very extent; in that result of realization which comes brahmanasya, to a Brahmana, a sannyasin; vijanatah, who knows the Reality that is the supreme Goal that result being comparable to the flood all around. For there is the Upanisadic text, ‘৷৷.so all virtuous deeds performed by people get included in this one৷৷.who knows what he (Raikva) knows৷৷.’ (Ch. 4.1.4). The Lord also will say, ‘all actions in their totality culminate in Knowledge’ (4.33). [The Commentators otation from the Ch. relates to meditation on the alified Brahman. Lest it be concluded that the present verse relates to knowledge of the alified Brahman only, he otes again from the Gita toshow that the conclusion holds good in the case of knowledge of the absolute Brahman as well.] Therefore, before one attains the fitness for steadfastness in Knowledge, rites and duties, even though they have (limited) utility as that of a well, pond, etc., have to be undertaken by one who is fit for rites and duties.

हरिकृष्णदासः

॥2.46॥ सम्पूर्ण वेदोक्त कर्मोंके जो अनन्त फल हैं उन फलोंको यदि कोई न चाहता हो, तो वह उन कर्मोंका अनुष्ठान ईश्वरके लिये क्यों करे, इसपर कहते हैं, सुन -

जैसे जगत्में कूप तालाब आदि अनेक छोटेछोटे जलाशयोंमें जितना स्नानपान आदि प्रयोजन सिद्ध होता है, वह सब प्रयोजन सब ओरसे परिपूर्ण महान् जलाशयमें उतने ही परिमाणमें ( अनायास ) सिद्ध हो जाता है। अर्थात् उसमें उनका अन्तर्भाव है।

इसी तरह सम्पूर्ण वेदोंमें - यानी वेदोक्त कर्मोंसे जो प्रयोजन सिद्ध होता है, अर्थात् जो कुछ उन कर्मोंका फल मिलता है - वह समस्त प्रयोजन परमार्थतत्त्वको जाननेवाले ब्राह्मणका - यानी संन्यासीका - जो सब ओरसे परिपूर्ण महान् जलाशयस्थानीय विज्ञान आनन्दरूप फल है, उसमें उतने ही परिमाणमें ( अनायास ) सिद्ध हो जाता है। अर्थात् उसमें उसका अन्तर्भाव है।

श्रुतिमें भी कहा है कि - जिसको वह ( रैक्व ) जानता है, उस ( परब्रह्म ) को जो भी कोई जानता है, वह उन सबके फलको पा जाता है कि जो कुछ प्रजा अच्छा कार्य करती है।

आगे गीतामें भी कहेंगे कि सम्पूर्ण कर्म ज्ञानमें समाप्त हो जाते हैं। इत्यादि। सुतरां यद्यपि कूप तालाब आदि छोटे जलाशयोंकी भाँति कर्म अल्प फल देनेवाले हैं, तो भी ज्ञाननिष्ठाका अधिकार मिलनेसे पहले-पहले कर्माधिकारीको कर्म करना चाहिये।

आनन्दगिरिः

॥2.46॥ ईश्वरार्पणधिया स्वधर्मानुष्ठानेऽपि फलकामनाभावाद्वैफल्यं योगमार्गस्येति मन्वानः शङ्कते सर्वेष्विति। कर्ममार्गस्य फलवत्त्वं प्रतिजानीते उच्यत इति। किं तत्फलमित्युक्ते तद्विषयं श्लोकमवतारयति शृण्विति। यथोपदाने कूपादौ परिच्छिन्नोदके स्नानाचमनादिर्योऽर्थो यावानुत्पद्यते स तावानपरिच्छिन्ने सर्वतः संप्लुतोदके समुद्रेऽन्तर्भवति परिच्छिन्नोदकानामपरिच्छिन्नोदकांशत्वात्। तथा सर्वेषु वेदोक्तेषु कर्मसु यावानर्थो विषयविशेषोपरक्तः सुखविशेषो जायते स तावानात्मविदः स्वरूपभूते सुखेऽन्तर्भवति परिच्छिन्नानन्दानामपरिच्छिन्नानन्दान्तर्भावाभ्युपगमात्एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः। तथा चापरिच्छिन्नात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य नास्ति वैफल्यमित्याह यावानिति। उक्तमर्थमक्षरयोजनया प्रकटयति यथेति। उदकं पीयतेऽस्मिन्निति व्युत्पत्त्या कूपादिपरिच्छिन्नोदकविषयत्वमुदपानशब्दस्य दर्शयति कूपेति। कूपादिगतस्याभिधेयस्य समुद्रेऽन्तर्भावासंभवात्कथमिदमित्याशङ्क्यार्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति फलमिति। यत्फलत्वेन लीयते तत्फलमित्युच्यते तत्कथं तडागादिकृतं स्नानपानादि तथेत्याशङ्क्य तस्याल्पीयसो नाशोपपत्तेरित्याह प्रयोजनमिति। तडागादिप्रयुक्तप्रयोजनस्य समुद्रनिमित्तप्रयोजनमात्रत्वप्रयुक्तान्यस्यान्यात्मत्वानुपपत्तेरित्याशङ्क्याह तत्रेति। घटाकाशादेरिव महाकाशे परिच्छिन्नोदककार्यस्यापरिच्छिन्नोदककार्यान्तर्भावः संभवति तत्प्राप्तावितरापेक्षाभावादित्यर्थः। पूर्वार्धं दृष्टान्तभूतमेवं व्याख्याय दार्ष्टान्तिकमुत्तरार्धं व्याकरोति एवमित्यादिना। कर्मसु योऽर्थ इत्युक्तं व्यनक्ति यत्कर्मफलमिति। सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थस्तावानेव संपद्यत इति संबन्धः। तदेव स्पष्टयति विज्ञानेति। तस्मिन्नन्तर्भवतीति शेषः। सर्वं कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र प्रमाणमाह सर्वमिति। यत्किमपि प्रजाः साधु कर्म कुर्वन्ति तत्सर्वं स पुरुषोऽभिसमेति प्राप्नोति यः पुरुषस्तद्वेद विजानाति यद्वस्तु स रैक्वो वेद तद्वेद्यमिति श्रुतेरर्थः। कर्मफलस्य सगुणज्ञानफलेऽन्तर्भावः संवर्गविद्यायां श्रूयते कथमेतावता निर्गुणज्ञानफले कर्मफलान्तर्भावः संभवतीत्याशङ्क्याह सर्वमिति। तर्हि ज्ञाननिष्ठैव कर्तव्या तावतैव कर्मफलस्य लब्धतया कर्मानुष्ठानानपेक्षणादित्याशङ्क्याह तस्मादिति। योगमार्गस्य निष्फलत्वाभावस्तच्छब्दार्थः।

नीलकण्ठः

॥2.46॥ नन्वात्मवत्त्वं चित्तशुद्धौ सत्यामेव भवति सा च सकलवेदोक्तकर्मानुष्ठानसाध्या अतो निस्त्रैगुण्यत्वं दुर्लभमित्याशङ्क्याह यावानिति। सर्वतः संप्लुतोदके महति उदपाने जलाशये पुरुषस्य यावान् अर्थो यावत्स्नानपानादिकं प्रयोजनं घटमात्रजलनिर्वर्त्यं भवति न कृत्स्नजलाशयव्ययनिर्वर्त्यं तावानेवार्थो विजानतो व्युत्पन्नचित्तस्य ब्राह्मणस्य ब्रह्मबुभूषोः सर्वेषु वेदेषु वेदैकदेशोपनिषच्छ्रवणमात्रनिर्वर्त्यो भवति न कृत्स्नवेदार्थानुष्ठानं स्वसिद्ध्यर्थमपेक्षते। एकेन जन्मना कृत्स्नवेदार्थानुष्ठानासंभवात्। ऐहिकेन जन्मान्तरीयेण वा जपादिना चित्तशुद्धौ सत्यामुपनिषच्छ्रवणान्निस्त्रैगुण्यता संभवतीति भावः। वृद्धास्तु सर्वतःसंप्लुतोदकस्थानीये आत्मज्ञाने पुरुषस्य तावानर्थः कृत्स्नोऽपि भवति यावाननेककूपरूपोदपानस्थानीयेषु सकलवेदोक्तकर्मस्वनुष्ठितेषु भवति ब्रह्मानन्दे क्षुद्रानन्दानामन्तर्भावात्। तथा च श्रुतिर्ज्ञाने सर्वकर्मफलान्तर्भावं दर्शयति। यथा कृतायविजितायाधरेयाः संयन्त्येवमेवैनं सर्वं तदभिसमेति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद इति। वक्ष्यति चसर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति। गङ्गातुल्यज्ञानोदयात्प्रागेव कूपोपमानि कर्माणि कर्तव्यानीति भाव इति व्याचख्युः। अस्मिन्पक्षे पूर्वार्धे अनेकस्मिन् यथातथाभवतीति पदचतुष्टयाध्याहारः यावान्तावान्पदयोरनुषङ्गश्च दार्ष्टान्तिके द्रष्टव्यः।

धनपतिः

॥2.46॥ ननु वेदोक्तकर्मफलाकाङ्क्षा नापेक्षिता चेदीश्वरार्थमपि कर्म किमर्थमनुष्ठेयमित्याशङ्क्य फलाकाङ्क्षया कर्मानुष्ठातुरनेकानर्थसंभावना फलाभिसंधिरहितस्य तस्य तु ज्ञानप्राप्त्या सर्वकर्मफलानां यस्मिन्ब्रह्मसुखेऽन्तर्भावः तत्प्राप्तिः समस्तानर्थनिवृत्तिश्च भवतीत्याशयेनाह यावानिति। यथा लोके उदपाने कूपाद्यनेकस्मिन्स्वल्पे क्वचिद्धस्तादिप्रक्षालनं क्वचित्स्नानं क्वचित्पानमित्यादिर्यावानर्थ यावत्परिमाणं प्रयोजनं स सर्वाथस्तावत्परिमाण एव सर्वतःसंप्लुतोदके परिपूर्णोदके भवति। तत्रान्तर्भव्रतीत्यर्थः। तथा यावनार्थः फलं वेदेषु वेदबोधितेषु कर्मसु तावानर्थो ब्राह्मणस्य परमार्थतत्त्वं विजानतः संभवति सर्वतःसंप्लुतोदकस्थानीये ज्ञानफले ब्रह्मणि सर्वेषां फलानामन्तर्भावात्। एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः। ब्राह्मणग्रहणं ब्रह्मविद्यायां ब्राह्मणस्य मुख्याधिकारसूचनार्थम्।

मधुसूदन-सरस्वती

॥2.46॥ न चैवं शङ्कनीयं सर्वकामनापरित्यागेन कर्म कुर्वन्नहं तैस्तैः कर्मजनितैरानन्दैर्वञ्चितः स्यामिति। यस्मात् उदपाने क्षुद्रजलाशये। जातावेकवचनम्। यावानर्थः यावत्स्नानपानादिप्रयोजनं भवति सर्वतःसंप्लुतोदके महति जलाशये तावानर्थो

भवत्येव। यथाहि पर्वतनिर्झराः सर्वतः स्रवन्तः क्वचिदुपत्यकायामेकत्र मिलन्ति तत्र प्रत्येकं जायमानमुदकप्रयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणामेकत्रैव कासारेऽन्तर्भावात् एवं सर्वेषु वेदेषु वेदोक्तेषु काम्यकर्मसु यावानर्थो

हैरण्यगर्भानन्दपर्यन्तस्तावान्विजानतो ब्रह्मतत्त्वं साक्षात्कृतवतो ब्राह्मणस्य ब्रह्मबुभूषोर्भवत्येव। क्षुद्रानन्दानां ब्रह्मानन्दांशत्वात्तत्र क्षुद्रानन्दानामन्तर्भावात्एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः।

एकस्याप्यानन्दस्याविद्याकल्पिततत्तदुपाधिपरिच्छेदमादायांशांशिवद्व्यपदेश आकाशस्येव घटाद्यवच्छेदकल्पनया। तथाच

निष्कामकर्मभिः शुद्धान्तःकरणस्य तवात्मज्ञानोदये परब्रह्मानन्दप्राप्तिः स्यात्तयैव च सर्वानन्दप्राप्तौ न

क्षुद्रानन्दप्राप्तिनिबन्धनवैय्यग्र्यावकाशः। अतः परमानन्दप्रापकाय तत्त्वज्ञानाय निष्कामकर्माणि कुर्वित्यभिप्रायः। अत्र

यथातथाभवतीति पदत्रयाध्याहारो यावान्तावानिति पदद्वयानुषङ्गश्च दार्ष्टान्तिके द्रष्टव्यः।

रामरायः - ४६

‘यावान्’ इति श्लोकमवतारयति— सर्वेष्विति। फलाभावाद् योगमार्गो व्यर्थ इति प्रष्टुराशयः। आक्षेपसमाधानं प्रतिजानीते— उच्यते तदिति। तच्छब्दस्य योगानुष्ठानस्य फलमित्यर्थः। 1किमर्थमिति फलस्यैवाक्षिप्तत्वादिति भावः। श्रोतुः सावधानत्वापादनायाह — शृण्विति। वाक् यार्थः कर्म। यावानिति। यावत्तावदर्थशब्दानामावृत्तिः। ‘उदपाने यावानर्थः, सर्वतःसम्प्लुतोदके तावानर्थः, सर्वेषु वेदेषु यावानर्थः, विजानतो ब्राह्मणस्य तावानर्थः’ इत्यन्वयः।

[[१०९]]

पूर्वार्थ[र्ध]स्य दृष्टान्तत्वादाह— यथेति। दृष्टान्तार्थस्य लोकसिद्धत्वादाह— लोके इति। उदकं पीयतेऽस्मिन्निति, उदकस्य पानं यस्मिंस्तदिति वा व्युत्पत्त्या ‘उदकस्योदः संज्ञायामि’त्युदादेशे सिध्यत्युदपानमिति रूपम्। किं तदुदपानम्? अत आह— कूपेति। आदिपदाद् वाप्यादिग्रहणम्। उदपानानां नानात्वादाह— अनेकस्मिन्निति। कस्मादनेकत्वम्? अत आह— परिच्छिन्नेति। परिच्छिन्न- त्वस्य नानात्वप्रयोजकत्वादिति भावः। यावानिति यच्छब्दात्परिमाणे (ड)वतुप्2 विहितः इत्यभिप्रायादाह— यावत्परिमाण इति। अर्थविशेषं दर्शयति—स्नानेति। अर्थशब्दार्थमाह—फलमिति। फल्गुत्वेन लीयत इति फलम्। 3 यावदर्थमाह—प्रयोजनमिति। स इति। एतदानुगुण्येन स्नानपानादिरर्थ इत्यत्र स्नानपानादिः योऽर्थ इति यच्छब्दाध्याहारो बोध्यः। न तु यः कश्चनार्थ इत्याह— सर्व इति। सर्वतः सम्प्लुतं व्याप्तमुदकं यस्य तस्मिन् सर्वतःसम्प्लुतोदके अपरिच्छिन्नोदके समुद्रे इत्यर्थः। मूले क्रियापदाभावात् तदध्याहृत्याह— सम्पद्यत इति। जायत इत्यर्थः। ननु परिच्छिन्नोदके यावानर्थोऽपरिच्छिन्नोदकेऽपि तावानर्थ इति कथमुच्यते? अत आह— तत्रान्तर्भवतीति। परिच्छिन्नोदकानां कूपादीनामपरिच्छिन्नोदकसमुद्रांशत्वाद्, घटाकाशानां महाकाशांशत्ववदिति भावः। न च कथं कूपादीनां समुद्रांशत्वम् , समुद्रव्यवहितत्वादिति वाच्यम् ; समुद्रमध्ये भुवः ईश्वरेण स्थापितत्वात् समुद्रजलस्यैव भूगतवापीकूपेषु अनुगतत्वाद्, नदीतटाकादिषु च मेघवृष्टिद्वारा तज्जलस्यैव वर्तमानत्वाच्च। तस्माल्लोके ये ‘अस्माभिः कूपे तटाकादौ वा स्नातं, जलं पीतम्’ इति मन्यन्ते, तैः सर्वैः समुद्र एव स्नातं, समुद्रजलमेव पीतं भवति वस्तुत इति भावः।

उत्तरार्थ[र्ध]स्य दार्ष्टान्तिकत्वादाह— एवमिति। तावच्छब्दस्य पूर्वमनुक्तार्थत्वादाह— तावत्परिमाण इति। वेदेषु फलाभावा- दाह—वेदोक्तेषु कर्मस्विति। यज्ञादिष्वित्यर्थः। यावानित्यस्यात्राप्यन्वय इत्यभिप्रेत्याह—यत्परिमाणमिति। कर्मफलं स्वर्गादिकम्। योऽर्थ इति यच्छब्दस्योक्तत्वादाह— सोऽर्थ इति। इदं च यत्तच्छब्दद्वयमन्वयसौष्ठवाय भाष्यकारैरध्याहृतम्। नायं जातिमात्रवाची ब्राह्मणशब्दोऽमुख्यः, किन्तु मुख्य एवेत्याह— संन्यासिन इति। ‘जन्मना जायते शूद्रः कर्मणा जायते द्विजः। वेदपाठेन विप्रः स्याद् ब्रह्मज्ञानेन ब्राह्मणः॥’ इति वचनात् , ब्रह्मज्ञानस्य च वेदान्तश्रवणाद्यधीनत्वात् , तत्र च ‘शान्तो दान्त उपरतः’ इति संन्यासिन एवाधिकाराद्, ‘ब्राह्मणो निर्वेदमाया’दिति ब्राह्मणजातीयस्यैव संन्यासेऽधिकाराच्च ब्रह्मज्ञानिब्राह्मणसंन्यासिपर एव मुख्यो ब्राह्मणशब्द इति भावः।

ब्रह्मणोऽयं ब्राह्मणः। वेद्यवेदितृभावरूपसम्बन्धे शेषे ‘तस्येदम्’ इत्यण्। ब्रह्मविदित्यर्थः। न च 4‘ब्राह्मोऽजाता’विति पाणिनिसूत्रादजातौ ब्राह्म इति स्यादिति वाच्यम् ; तत्र ब्रह्मशब्दस्य पुंलिङ्गस्य हिरण्यगर्भार्थकस्य ग्रहणात्। अत्र ब्रह्मशब्दस्य परब्रह्मवाचित्वाच्च। अत एव ‘(अ)जातौ किम्? ब्राह्मो नारदः’ इति प्रत्युदाहृतम् , ‘उत्सङ्गान्नारदो जज्ञे’ इति हिरण्यगर्भाङ्गभवत्वाद् नारदस्य। किञ्च ‘ब्राह्मणोऽस्य मुखमासीदि’ति श्रुतिश्च ब्राह्मणादिजात्युत्पत्तिहेतुं साकारमेव पुरुषं निर्दिशति, न तु निराकारं ब्रह्म, तस्य मुखाद्यवयवाभावात्। न च ब्राह्मणशब्दो ब्रह्मज्ञानिनमेव वक्ति, न तु संन्यासिनमिति वाच्यम् ; असंन्यासिनो ब्रह्मज्ञानित्वाभावात्। न च गृहस्थो जनकादिर्ब्रह्मज्ञान्येवेति वाच्यम् ; जनकादेर्यदि ब्रह्मवित्त्वेन ब्राह्मणत्वं स्यात् , तर्हि कर्मगतफलाभिसन्धिकर्तृत्वपरित्यागेन संन्यासित्वमपि स्यात् ; जनकादेः कर्माकर्मैवेत्युक्तत्वात्। ‘कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः’ इति मूल एव वक्ष्यमाणत्वाच्च। कर्मणामकर्तृत्वं हि संन्यासः। तस्माद् ब्राह्मणः संन्यास्येव। 5अस्तु वा सूत्रगतब्रह्मशब्दस्य परब्रह्मवाचित्वम् , तथापि न काचिदत्रानुपपत्तिः; ब्राह्मणजातीयस्यैव संन्यास इत्युक्तत्वात्। न चैवं ब्राह्मणस्येत्यस्य ब्राह्मणजातीयो गृहस्थादिरप्यर्थः स्यादिति वाच्यम् ; विजानत इति विशेषणात् ; विजानत्त्वं हि ब्रह्मवित्त्वम् , तच्चासंन्यासिनो न भवत्येवेति।

[[११०]]

एतेन ब्राह्मणस्य वैदिकस्येति रामानुजोक्तार्थः परास्तः; तस्य तत्त्वविज्ञानाभावेन ‘विजानतः’ इति विशेषणासाङ्गत्यप्रसङ्गात्। न च वेदविदो वैदिका एव ब्रह्मविद इति वाच्यम् ; ‘वेदवादरताः पार्थ नान्यदस्तीति वादिनः’ ‘त्रैगुण्यविषया वेदाः’ इति वेदविदामब्रह्मवित्त्वस्य, वेदानां त्रैगुण्यपरत्वस्य च भगवतैवोक्तत्वात्।

यत्त्वत्र वेदान्तदेशिकः - ब्रह्मानितीति निरुक्त्या ब्रह्मणः, ‘शकन्ध्वादिषु पररूपं वक्तव्यम्’ इति पररूपे कृते प्रज्ञादित्वाद् अण्प्रत्यये च ब्राह्मण इति रूपं भवति। ब्रह्म चात्र वेदः इति; तत्तुच्छम् ; प्रज्ञादिषु ब्रह्मणशब्दाभावात् ; ब्रह्मण इति क्वापि प्रथमान्तपदप्रयोगाभावेन प्रज्ञादिषु शकन्ध्वादिषु वा आकृतिगणत्वेन तद्ग्रहणायोगात्। प्रसिद्धपदप्रयोगनिर्वहणाय हि स्वीकृत आकृतिगणः। किञ्च ब्रह्मानितीति व्युत्पत्तौ ‘कर्मण्यण्’ स्यात्। ततश्च वृद्धौ ब्रह्माण इत्येव स्यादिति।

किं विजानतः? अत आह— परमार्थतत्त्वमिति। ब्रह्मेत्यर्थः। विजानदर्थस्य (न) ज्ञानफलत्वादाह— विज्ञानफलमिति। पूर्वोक्तदृष्टान्तवाक् यस्थेन केन पदार्थेन सहास्य बिम्बप्रतिबिम्बभावः? अत आह— यत्सर्वत इति। सर्वतःसम्प्लुतोदकफलस्थानीय- मित्यर्थः। विज्ञानस्यैव सर्वतःसम्प्लुतोदकस्थानीयत्वादिति भावः। स्थानीयं तुल्यमित्यर्थः। तस्मिन्निति। विज्ञानफले अपरिच्छिन्ने ब्रह्मानन्दे इत्यर्थः। ब्रह्मानन्दलक्षणमोक्षस्यैव विज्ञानफलत्वादिति भावः। तावानेव सम्पद्यत इति। तत्रैवान्तर्भवति, ‘एतस्यैवानन्दस्या- न्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुतेः। अपरिच्छिन्नब्रह्मानन्दांशत्वात् परिच्छिन्नस्वर्गादिविषयानुभवजन्यानन्दानामिति भावः।

ननु कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र किं प्रमाणम्? अत आह— सर्वमिति। प्रजाः यत्किञ्च साधु सत्कर्म कुर्वन्ति तत् सर्वं , स इति शेषः। अभिसमेति प्राप्नोति। कः सः? इत्यत आह— यस्तद्वेदेति। किं तद्? इत्यत आह – यत् स वेदेति। स रैक्वो यद्वेद तद् ब्रह्म यो वेद स तत्त्ववित् प्रजाकर्तृकसर्वसाधुकर्मफलं प्राप्नोति, तत्त्ववित्प्राप्तब्रह्मानन्दांशत्वात् प्रजासाधुकर्मफलभूतानन्दस्येति भावः। स्मृतिमपि प्रमाणयति— सर्वमिति। ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ इति गीताश्लोकः। ज्ञानफले कर्मफलस्यान्तर्भावाज्ज्ञाने कर्मणः परिसमाप्तिरित्यर्थः।

अयमत्र भाष्यपदान्वयः - ‘यथा उदपाने यावान् योऽर्थः स सर्वोऽर्थः सर्वतःसम्प्लुतोदके योऽर्थस्तावानेव सम्पद्यते - एवं सर्वेषु वेदेषु यावान् योऽर्थः सोऽर्थः विजानतो ब्राह्मणस्य योऽर्थः तावानेव सम्पद्यते’ - इति। श्लोकव्याख्यामुपसंहरन् फलितमाह— तस्मादिति। समुद्रफले कूपफलस्येव विज्ञानफले कर्मफलस्यान्तर्भावादित्यर्थः। अधिकृतेन कर्म कर्तव्यमित्यन्वयः। क्वाधिकृतेन? इत्यत आह— कर्मणीति। कियत्पर्यन्तम्? अत आह— प्रागिति। ज्ञाननिष्ठायां यावता कालेनास्याधिकारो भवति, तावत्पर्यन्त- मित्यर्थः। ज्ञाननिष्ठाधिकारप्राप्त्यनन्तरं तु कर्म नैव कर्तव्यमिति भावः। कीदृशं कर्म? इत्यत आह— कूपेति। अर्थशब्दोऽत्र वस्तुवाच्येव, न तु फलवाची। कूपतटाकादिस्थानीयमित्यर्थः। अपिशब्दाद् विज्ञानादल्पत्वेन कर्तुमयुक्तमपीति गम्यते। विज्ञाने ऽधिकाराभावादिति भावः।

[[१११]]

ननु किमर्थं कर्मयोगानुष्ठानमिति यदादावाक्षिप्तं तस्य किं समाधानमायातमिति चेद्? उच्यते— मोक्षप्रदायां ज्ञाननिष्ठाया- मधिकाराभावात् तदधिकारसिद्ध्यर्थं कर्मयोगानुष्ठानमिति। न च नायं समाधानार्थो मूलादायातीति वाच्यम् ; अर्थादेतत्सिद्धेः। तथाहि— विज्ञानमेव सर्वैः सम्पाद्यं, समुद्रफले कूपफलस्येव विज्ञानफले ब्रह्मानन्दे एव सर्वकर्मफलविषयानन्दानामन्तर्भावात्। तच्च विज्ञानं कर्मयोगानुष्ठानं विना दुःसम्पादमिति कृत्वा मुमुक्षुणा विज्ञानसिद्ध्यर्थं कर्मयोगोऽनुष्ठेय इति। एवं ज्ञानप्राप्तिद्वारा अपरिच्छिन्न- ब्रह्मानन्दप्राप्तिहेतुत्वात् तत्तत्क्षुद्रफलान्यनभिसन्धाय विहितानि कर्माण्यधिकृतेन कर्तव्यानीति परमार्थः।

अत्र भाष्ये 6कर्मफलमित्यस्य अनभिसंहितकर्मफलं चित्तशुद्धिरूपार्थ इत्यर्थः। कूपतटाकाद्यर्थस्थानीयमित्यस्य कूपतटाकादौ योऽर्थः स्नानपानादिक्रिया तत्तुल्यमित्यर्थः। ततश्च समुद्रे सिष्णासुः पुरुषः यथा समुद्रस्नानाधिकारसिद्ध्यर्थं समुद्रस्नानात्प्राक् कूपतटाकादौ स्नानाचमनादिक्रियां करोति, तथा मुमुक्षुः पुरुषः मोक्षसाधनज्ञाननिष्ठाधिकारसिद्ध्यर्थं ततः प्रागफलाभिसन्धि विहितं कर्म कुर्यात्। स यथा कूपादिस्नानानन्तरं समुद्रे स्नाति, देहस्य शुद्धत्वात् , तथाऽयं कर्मयोगानुष्ठानानन्तरं ज्ञाननिष्ठां प्राप्नुयाच्चित्तस्य शुद्धत्वात्। यथा तस्य कूपादिस्नानजं फलं समुद्रस्नानफले एवान्तर्भवति समुद्रस्नानातिरिक्तकूपादिस्नानजन्यफलाभावात् , तथाऽस्यापि कर्मफलं विज्ञानफले एवान्तर्भवति। एवं च कूपस्नानसमुद्रस्नानयोरिव कर्मज्ञानयोगयोरस्त्युपजीव्योपजीवकभावः; कूपस्नानसाध्यत्वात् समुद्रस्नानस्य कर्मयोगसाध्यत्वाच्च ज्ञानयोगस्य। उभयोः फलविषये तु हस्तिमशकान्तरमस्त्येव; कूपस्नानस्य देहमलापाकरण- मात्रफलकत्वात् , समुद्रस्नानस्य च सर्वनदीस्नानजन्यमहाफलकत्वात्। तथा - कर्मयोगस्य चित्तशुद्धिमात्रफलकत्वाद् , विज्ञानस्य च निरतिशयानन्दमोक्षरूपपरमपुरुषार्थफलकत्वादिति केचिद् वर्णयन्ति।

अस्मिन् पक्षे - किमर्थं कर्मयोगानुष्ठानमित्याक्षेपस्य समुद्रस्नानाधिकारसिद्ध्यर्थं कूपादिस्नानमिव ज्ञाननिष्ठाधिकारसिद्ध्यर्थं कर्मयोगानुष्ठानमिति कण्ठोक्तमेवोत्तरं सिध्यति।

ननु ‘कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम्’ इति न्यायेन पिपासुरुदकपाने यावत्परिमाणं जलं पिबति सर्वतःसम्प्लुतोदकेऽपि तावत्परिमाणमेव जलं पिबति। न च समुद्रजलमपेयमिति वाच्यम् ; बाष्पभूतस्य समुद्रजलस्य पेयत्वात् इत्यनेनोच्यत इति चेत्? मैवम् - दार्ष्टान्तिकाननुरोधात् प्रकृतस्यार्थस्य। न च दार्ष्टान्तिकेऽपि सर्वेषु वेदोक्तेषु कर्मसु यावत्फलं लभते कर्मी तावदेव संन्यासी विज्ञाने फलं लभत इत्यर्थो वाच्य इति वाच्यम् ; कर्मफलेभ्यः स्वर्गादिभ्योऽनित्येभ्यः विज्ञानफलस्य मोक्षस्य नित्यस्य परमोत्कृष्टत्वात्।

अत एव हि ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदि’ति श्रुत्या कर्मफलेषु स्वर्गपशुपुत्रादिषु क्षयिष्णुत्वसातिशयत्वादिदोषदर्शनेन यस्य पुरुषस्य यस्मिन्नहनि विरागो जायते स तस्मिन्नेवाहनि संन्यासं स्वीकुर्यादित्युक्तम्। अन्यथा विज्ञानफलस्यापि कर्मफलतुल्यत्वे ‘अथातो ब्रह्मजिज्ञासा’ इत्यारब्धं वेदान्तशास्त्रं व्यर्थमेव स्यात् ,’अथातो धर्मजिज्ञासा’ इति पूर्वमीमांसाशास्त्रेणैव स्वर्गादिलाभात्। न च - व्यर्थं भवतु , को दोष इति - वाच्यम् ; ‘तरति शोकमात्मवित्’ ‘ब्रह्मविद् ब्रह्मैव भवति’ ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादिज्ञान- तत्फलविधायकश्रुतिशतविरोधात्। तस्याप्यङ्गीकारेऽनुभवविरोधो बलवान् जागर्ति। कर्मिणां दुःखात्मकसंसारस्यानुपरमदर्शनात् , संन्यासिनां तदुपरमेण निरतिशयात्मानन्दानुभवदर्शनाच्च। तस्माद् विज्ञानफलकर्मफलयोः हस्तिमशकयोरिव महदन्तरम्। न चानभिसंहितफलानां कर्मणां मोक्षः फलमिति वाच्यम् ; चित्तशुद्धेरेव फलत्वादिति।

[[११२]]

अत्र यथा गङ्गायमुनादितत्तन्नदीस्नानादिजन्यानि तानि तानि फलानि समुद्रस्नानादेकस्मादेव पुरुषस्य भवन्ति, तथा तत्तत्कर्मजन्या हैरण्यगर्भाद्यानन्दा एकस्मादेव ब्रह्मज्ञानाद् विदुषो भवन्तीति कतिचिद् वर्णयन्ति।

यत्त्वाह रामानुजः– न च वेदोदितं सर्वं सर्वस्योपादेयम् ; यथा सर्वार्थपरिकल्पिते सर्वतःसम्प्लुतोदके उदपाने पिपासोर्यावानर्थः यावदेव प्रयोजनं पानीयं, तावदेव तेनोपादीयते, न सर्वम्। एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतो वैदिकस्य मुमुक्षोर्यदेव मोक्षसाधनं तदेवोपादेयं नान्यदिति। तन्मन्दम् ; सर्वतःसम्प्लुतोदकशब्दात् सर्वार्थपरिकल्पितत्वरूपार्थालाभात् , कूपादेः स्नानादियत्किञ्चिदर्थपरि- कल्पितत्वेन सर्वार्थपरिकल्पितत्वाभावाच्च। न हि स्त्रीपश्वादिकामस्य कूपादिना यःकश्चिदर्थः। सर्वशब्दस्य सङ्कोचश्च न न्याय्यः। तथा यावत्प्रयोजनं तावत् तेनोपादीयत इत्यप्ययुक्तम् ; जलस्यैवोपादेयत्वेन प्रयोजनस्यानुपादेयत्वात्। प्रयोजनवाचिनो(र)[ऽ]र्थशब्दस्य जलवाचित्वाभावात्। यावताऽर्थेन जलेन प्रयोजनं तावदेव जलं तेनोपादीयत इति वक्तव्यत्वात्। न च तथैव वदामीति वाच्यम् ; यावानिति प्रथमान्तपदसत्त्वात्। तेनेति उपादीयत इति च कर्म[कर्तृ]क्रिययोर्द्वयोर्मूलाद् बहिः कल्पितत्वात्। पिपासोरिति च नियन्तु- मशक् यम् , सिष्णास्वादिसत्त्वात्। यदि पिपासोरित्युदाहरणार्थम् , तर्हि आरामसेचनेच्छोरपि ग्रहणं स्यात्। न चेष्टापत्तिः; तस्य सर्वेणापि कूपजलेन प्रयोजनसत्त्वात् तावदेव तेनोपादीयते, न सर्वमिति वक्तुमशक् यत्वात्।

तथा ब्राह्मणशब्दाद् वैदिकार्थलाभः प्रागेव प्रत्युक्तः। विजानतः इति शब्दाच्च न मुमुक्षुलाभः, वेदवादरतानां वैदिकानां बहूनां कामात्मनामेव दर्शनात् , वैदिकस्य ‘अथातो धर्मजिज्ञासा’ इति कर्मस्वेव प्रवृत्तत्वेन मुमुक्षुत्वासम्भवात् , ‘त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुने’ति भगवतैव वैदिकत्वस्य कामहेतुत्वेन दूषितत्वात् , निष्कामस्यैव मुमुक्षुत्वाच्च। निष्कामस्तु न 7वैदिकः, किन्तु वेदान्त्येवेति सिद्धान्तात्।

यो विशेषेणात्मतत्त्वं विजानाति, स हि विजानन्नित्युच्यते। स च मुक्त एवेति किमिति मुमुक्षुत्वं तस्य? त्वयाऽपि नित्यमुक्तानामनन्तगरुडादीनाम् , ईश्वरस्य च विजानत्त्वमभ्युपगतम्। किञ्च मुमुक्षोरेव ज्ञानेऽधिकारः। मुमुक्षुर्हि वेदान्तश्रवणादिकं कृत्वा तमात्मानं विशेषेण जानातीति कथं विजानत्त्वस्यैव मुमुक्षु[त्वरूप]त्वम्? मुमुक्षुत्वानन्तरभाव्यत्वाद् विज्ञानस्य। यदेव मोक्षसाधनं तदेवोपादेयमिति सर्वमपि वाक् यं मूलाद् बहिः कल्पितत्वात् सुतरामप्रमाणम्।

वेदान्तेष्वेव मोक्षसाधनज्ञानश्रवणाद् वेदेषु मोक्षसाधनमित्यप्ययुक्तम् ; वेदेष्वेव मोक्षसाधनस्यापि धर्मादिसाधनयज्ञादेरिव श्रवणे सति वेदान्तश्रवणाद्यानर्थक् यात् ; पूर्वोत्तरमीमांसाभेदेन शास्त्रभेदकल्पनस्याप्ययुक्तत्वापत्तेः। न च - सर्वशब्दस्वारस्याद् उपनिषदोऽपि वेदा एवेति - वाच्यम् ; ‘त्रैगुण्यविषया वेदाः’ इति भगवतैवोक्तत्वाद् , उपनिषदाञ्च सत्त्वादिगुणातीतब्रह्मात्मतत्त्व- प्रतिपादकत्वात्॥४६॥

[[११३]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥2.46॥ तथापि काम्यकर्मिणां फलं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह यावानर्थ इति। यथा यावानर्थः प्रयोजनमुदपाने कूपे भवति तावान्सर्वतः सम्प्लुतोदकेऽन्तर्भवत्येव। एवं सर्वेषु वेदेषु यत्फलं तद्विजानतोऽपि ज्ञानिनो ब्राह्मणस्य फलेऽन्तर्भवति। ब्रह्म अणतीति ब्राह्मणोऽपरोक्षज्ञानी। स हि ब्रह्म गच्छति। विजानत इति ज्ञानफलत्वं तस्य दर्शयति।

जयतीर्थः

॥2.46॥ योगोपदेशप्रसङ्गे ज्ञानफलकथनस्य क उपयोगः इत्यत आह तथापीति। यामिमाम् 2।43 इत्यत्र काम्यकर्मिणां निन्दा कृतानिस्त्रैगुण्यो भव 2।45 इति च तत्त्यागो विहितः। तत्र प्रष्टव्यम् किन्निमित्तमेतदिति। ननूक्तं काम्यकर्मिणां समाध्यभावेन ज्ञानाभावान्मोक्षो न भवतीति। अत्रेदमुच्यते यद्यपि ज्ञानफलं काम्यकर्मिणां न भवति तथापि तन्निन्दादिकं नोपपद्यते। कुतः काम्यकर्मिणां फलं स्वर्गादिकं ज्ञानिनां न भवति इति ज्ञानकर्मणोः साम्यमेवेति योगानुष्ठाननियमाक्षेपे सतीत्याहेत्यर्थः। केचिदस्य श्लोकस्य कर्ममात्रत्यागो तात्पर्यमाहुः अपरे तु यत्कर्मसमुच्चितं ज्ञानं मोक्षसाधनं तत्कर्मपर एव वेदभागोऽधिगन्तव्यः न तु समस्तवेदाभ्यासेनायुः समापनीयमिति तन्निरासाय व्याचष्टे यथेति। सामर्थ्याद्यथैवंशब्दयोरध्याहारः। यावांस्तावानित्येतयोरावृत्तिश्च सर्वेषु वेदेष्विति। तदुक्तकाम्यकर्मिणामित्यर्थः। ब्राह्मणस्येति न क्षत्ति्रयादिव्यावृत्तिः शङ्क्येति भावेनाह ब्रह्मेति। वर्णविपर्ययो निरुक्तत्वात्। एवं तर्हि ब्राह्मणशब्दो मुक्तवाचीति स्यात् न च मुक्तस्य फलमस्तीत्यत आह अपरोक्षेति। तदुपपादयति स हीति। तर्हि विजानत इति पुनरुक्तिरिति चेत् न तस्य परोक्षज्ञानिवाचित्वात्। उभयग्रहणमनुपपन्नमित्यत आह विजानत इति। तस्यापरोक्षज्ञानस्य परोक्षज्ञानफलत्वम्। एतच्च स्वरूपकथनम्। यद्यपि ज्ञानिनः कर्मिणश्चान्योन्यफलाभावः तथापि ज्ञानिनः फलं महासमुद्रोदकमिव महत्त्वात्। कर्मिणां फलं तु कूपोदकमिवात्यन्ताल्पम्। अतस्तयोर्न साम्यम्। तथा चाल्पास्थिरकर्मनिन्दया महानन्तफलज्ञानसाधने योगे प्रेरणं युक्तमेवेति भावः। अपव्याख्यानं तूक्तवक्ष्यमाणन्यायनिरस्तम्।

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥2.47॥ यतो वेदाः, परं तेषां सम्यग्-ज्ञानोपयोगिनः। अत एवाह +++(K omits एव)+++ यावानिति। यस्य स्वधर्म-मात्रे +++(N omits स्व )+++ ज्ञाने वा प्राधान्यं तस्य परिमिताद् अपि वेदभाषितात् कार्यं सम्पद्यते ।+++(4)+++

शङ्करनारायणः

2.46 Yavan etc. He, according to whom the importance lies in his own duty alone or in the knowledge - for him the purpose is served even from a limited portion of the Vedic teaching Therefore-

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥2.46॥ न चोक्तरूपं वेदोदितं सर्वं सगुणस्यागुणस्य सर्वस्योपादेयं युगपत् किन्तु यावदर्थमित्याह निदर्शनेन यावानर्थ इति। सर्वार्थपरिकल्पके सर्वतः सम्प्लुतोदके च निम्नजले उदपाने उदन्वति सरसि पिपासादिमतो यावानर्थः यावदेव प्रयोजनं तावदेव तेन तेनोपादीयते न सर्वं एवं सर्वेषु वेदेषु ब्राह्मणस्य वेदाधिकृतस्य तदर्थं विवेकेन जानतो योगिनो यदेवात्मसंसिद्धिसाधनं तदेवोपादेयं न सर्वम्।

पुरुषोत्तमः

॥2.46॥ नन्वेवं वेदोक्ताकरणे कथं फलसिद्धिः स्यात् इत्याशङ्कायामाह यावानिति। उदपाने उदकं पीयतेऽस्मिन्नित्युदपानं जलपात्रं तस्मिन् यावानर्थः। सर्वतः सम्प्लुतोदके तडागे च भवति परं तत्र जलाहरणपात्ररक्षणादिक्लेशोऽधिकः। तथा यावानर्थो वेदोक्तकर्मफलं वेदेषु भवति तावान् विजानतो ब्रह्मस्वरूपविदुषो ब्राह्मणस्य ब्रह्मैकनिष्ठस्य भवतीत्यर्थः। नैवं च श्रुतिविरोधः। अत एव श्रुतिराह आनन्दं ब्रह्मणो विद्वान् तै.उ.2।4।1 तमेव विदित्वाऽतिमृत्युमेति श्वे.उ.3।86।15।

श्रीधर-स्वामी …{Loading}…

॥2.46॥ ननु वेदोक्तनानाफलपरित्यागेन निष्कामतयेश्वराराधनविषया व्यवसायात्मिका बुद्धिस्तु कुबुद्धिरेवेत्याशङ्क्याह यावानिति। उदकं पीयतेऽस्मिन्नित्युदपानं वापीकूपतडागादि तस्मिन्स्वल्पोदके एकत्र कृत्स्नस्यार्थस्याभावात्तत्र परिभ्रमणेन विभागशो यावान्स्नानपानादिरर्थः प्रयोजनं भवति तावान्सर्वोऽप्यर्थः सर्वतःसंप्लुतोदके महाह्रदे एकत्रैव यथा भवति॥ एवं यावान्सर्वेषु वेदेषु तत्तकर्मफलरूपोऽर्थस्तावान्सर्वोऽपि विजानतो व्यवसायात्मिकबुद्धियुक्तस्य ब्राह्मणस्य ब्रह्मनिष्ठस्य भवत्येव। ब्रह्मानन्दे क्षुद्रानन्दानामन्तर्भूतत्वात्एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः। तस्मादियमेव बुद्धिः सुबुद्धिरित्यर्थः।

English …{Loading}…

आदिदेवानन्दः

2.46 What use a thirsty person has for a water reservoir when all sides of it are flooded - that much alone is the use of all the Vedas for a Brahmana who knows.

गम्भीरानन्दः

2.46 A Brahmana with realization has that much utility in all the Vedas as a man has in a well when there is a flood all around.

पुरोहितस्वामी

2.46 As a man can drink water from any side of a full tank, so the skilled theologian can wrest from any scripture that which will serve his purpose.

शङ्करनारायणः

2.46. What portion in a reservoir, flooded with water everywhere, is useful [for a man in thirst], that much portion [alone] in all the Vedas is useful for an intelligent student of the Vedas.

शिवानन्दः - अनुवादः

2.46 To the Brahmana who has known the Self, all the Vedas are of as much use as is a reservoir of water in a place where there is a flood.

शिवानन्दः - टीका

2.46 यावान् as much; अर्थः use; उदपाने in a reservoir; सर्वतः everywhere; संप्लुतोदके being flooded; तावान्,so much (use); सर्वेषु in all; वेदेषु in the Vedas; ब्राह्मणस्य of the Brahmana; विजानतः of the knowing.Commentary Only for a sage who has realised the Self; the Vedas are of no use; because he is in possession of the infinite knowledge of the Self. This does not; however; mean that the Vedas are useless. They are useful for the neophytes or the aspirants who have just started on the spiritual path.All the transient pleasures derivable from the proper performance of all actions enjoined in the Vedas are comprehended in the infinite bliss of Selfknowledge.

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।2.46।। सब तरफसे परिपूर्ण महान् जलाशयके प्राप्त होनेपर छोटे गड्ढों में भरे जल में मनुष्यका जितना प्रयोजन रहता है अर्थात् कुछ भी प्रयोजन नहीं रहता, वेदों और शास्त्रोंको तत्त्वसे जाननेवाले ब्रह्मज्ञानीका सम्पूर्ण वेदोंमें उतना ही प्रयोजन रहता है अर्थात् कुछ भी प्रयोजन नहीं रहता।

रामसुखदासः - टीका

2.46।।व्याख्या–**‘यावनार्थ उदपाने सर्वतः सम्प्लुतोदके’–**जलसे सर्वथा परिपूर्ण, स्वच्छ, निर्मल महान् सरोवरके प्राप्त होनेपर मनुष्यको छोटे-छोटे जलाशयोंकी कुछ भी आवश्यकता नहीं रहती। कारण कि छोटे-से जलाशयमें अगर हाथ-पैर धोये जायँ तो उसमें मिट्टी घुल जानेसे वह जल स्नानके लायक नहीं रहता; और अगर उसमें स्नान किया जाय तो वह जल कपड़े धोनेके लायक नहीं रहता और यदि उसमें कपड़े धोये जायँ तो वह जल पीनेके लायक नहीं रहता। परन्तु महान् सरोवरके मिलनेपर उसमें सब कुछ करनेपर भी उसमें कुछ भी फरकनहीं पड़ता अर्थात् उसकी स्वच्छता, निर्मलता, पवित्रता वैसी-की-वैसी ही बनी रहती है।
**‘तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः’–**ऐसे ही जो महापुरुष परमात्मतत्त्वको प्राप्त हो गये हैं उनके लिये वेदोंमें कहे हुए यज्ञ, दान, तप, तीर्थ, व्रत आदि जितने भी पुण्यकारी कार्य हैं, उन सबसे उनका कोई मतलब नहीं रहता अर्थात् वे पुण्यकारी कार्य उनके लिये छोटे-छोटे जलाशयोंकी तरह हो जाते हैं। ऐसा ही दृष्टान्त आगे सत्तरवें श्लोकमें दिया है कि वह ज्ञानी महात्मा समुद्रकी तरह गम्भीर होता है। उसके सामने कितने ही भोग आ जायँ पर वे उसमें कुछ भी विकृति पैदा नहीं कर सकते।
जो परमात्मतत्त्वको जाननेवाला है, और वेदों तथा शास्त्रोंके तत्त्वको भी जाननेवाला है उस महापुरुषको यहाँ ‘ब्राह्मणस्य विजानतः’ पदोंसे कहा गया है।
‘तावान्’’ कहनेका तात्पर्य है कि परमात्मतत्त्वकी प्राप्ति होनेपर वह तीनों गुणोंसे रहित हो जाता है। वह निर्द्वन्द्व हो जाता है अर्थात् उसमें राग-द्वेष आदि नहीं रहते। वह नित्य तत्त्वमें स्थित हो जाता है। वह निर्योगक्षेम हो जाता है अर्थात् कोई वस्तु मिल जाय और मिली हुई वस्तुकी रक्षा होती रहे–ऐसा उसमें भाव भी नहीं होता। वह सदा ही परमात्मपरायण रहता है।

चिन्मयानन्दः

।।2.46।। जलराशि का जो सुन्दर दृष्टान्त यहाँ दिया गया है वह सन्दर्भ को देखते हुये अत्यन्त समीचीन है। भीषण गर्मियों के दिनों में सरिताओं के सूख जाने पर समीप के किसी कुएँ से ही जल लेने लोगों को जाना पड़ता है। यद्यपि पैरों के नीचे पृथ्वी के गर्भ में जल स्रोत रहता है परन्तु वह उपयोग के लिये उपलब्ध नहीं होता। वर्षा ऋतु में सर्वत्र नदियों में बाढ़ आने पर छोटेछोटे जलाशय उसी में समा जाते हैं और तब उनका अलग से न अस्तित्व होता है और न प्रयोजन।
उसी प्रकार जब तक मनुष्य अपने आनन्दस्वरूप को पहचानता नहीं तब तक मोहवश विषयों में ही वह सुख खोजा करता है। उस समय वेद अर्थात् कर्मकाण्ड उसे अत्यन्त उपयोगी प्रतीत होते हैं क्योंकि उसमें स्वर्गादि सुख पाने के अनेक साधन बताये गये हैं। परन्तु जब एक जिज्ञासु साधक उपनिषद् प्रतिपादित आनन्दस्वरूप आत्मा का अपरोक्ष रूप से ज्ञान प्राप्त कर लेता है तब उसे कर्मकान्ड में कोई प्रयोजन नहीं रह जाता। उपभोगजन्य सभी छोटेछोटे सुख उसके आनन्दस्वरूप में ही समाविष्ट होते हैं।
इसका अर्थ यह नहीं हुआ कि व्यास जी द्वारा यहाँ वेदों के कर्मकाण्ड की निन्दा की गयी है। जो अविवेकी लोग साधन को ही साध्य समझ लेते हैं और अनन्त की प्राप्ति की आशा अनित्य कर्मों के द्वारा करते हैं गोपाल कृष्ण उनको इस प्रकार से प्रताड़ित कर रहे हैं फलासक्ति न रखकर किये गये कर्मों से मनुष्य का व्यक्तित्व विकसित होता है और ऐसे शुद्ध अन्तकरण वाले मनुष्य को अनन्त असीम आत्मतत्त्व का अनुभव सहज सुलभ हो जाता है। तत्पश्चात् उसे अनित्य सुखों का कोई आकर्षण नहीं रह जाता।
वेद हमें अपने ही शुद्ध चैतन्यस्वरूप का बोध कराते हैं। जब तक अविद्यायुक्त अहंकार का अस्तित्व है तब तक वेदाध्ययन की आवश्यकता अपरिहार्य है। आत्मबोध के होने पर उस ज्ञानी पुरुष के कारण वेदों का भी प्रामाण्य सिद्ध होता है। गणित की सर्वोच्च शिक्षा प्राप्त कर लेने पर उस व्यक्ति को पहाड़े रटने की कोई आवश्यकता नहीं रह जाती क्योंकि उसके पूर्ण ज्ञान में इस प्रारम्भिक ज्ञान का समावेश रहता है। जहाँ तक तुम्हारा सम्बन्ध है

तेजोमयानन्दः - अनुवादः

।।2.46।। सब ओर से परिपूर्ण जलराशि के होने पर मनुष्य का छोटे जलाशय में जितना प्रयोजन रहता है; आत्मज्ञानी ब्राह्मण का सभी वेदों में उतना ही प्रयोजन रहता है।।


  1. किमर्थम् = कस्मै फलायेत्यर्थः। ↩︎

  2. वतुप् प्रत्ययः। ↩︎

  3. ‘प्रयोजनमिति यावदि’ति वक्तव्ये यावत्पदं विना तदर्थमाहेति भावः। ↩︎

  4. अनेन सूत्रेण अणि ब्रह्मन्शब्दे अनः लोपो निपात्यते अजातौ। तेन ब्राह्मशब्दः सिध्यति। जातौ तु ब्राह्मणशब्दः। प्रकृते जातित्वाभावात् कथं ब्राह्मणशब्दः इति शङ्का। समाधानं तु पुंलिङ्गब्रह्मशब्दस्यैव सूत्रे ग्रहणम् , अत एव ‘ब्राह्मो नारदः’ इति प्रत्युदाहृतम्। प्रकृते नपुंसकलिङ्गशब्दात् ब्राह्मण इति रूपं सिध्यतीति। ↩︎

  5. लिङ्गविशेषं विना ब्रह्मशब्दमात्रस्य सूत्रे ग्रहणेऽपि जातिवाचित्वं स्वीकृत्य ब्राह्मणशब्दं समर्थयते— अस्तु वेति। ↩︎

  6. भाष्ये कर्मेत्यस्य स्थाने ‘कर्मफलम्’ इति रा.पा. भाति। ↩︎

  7. वेदोक्तकर्माधिकृतः इत्यर्थः। ↩︎