(सं) विश्वास-प्रस्तुतिः ...{Loading}...
न हि प्रपश्यामि ममापनुद्याद्
यच् छोकम् उच्छोषणम् इन्द्रियाणाम्।
अवाप्य भूमाव् असपत्नम् ऋद्धम्
राज्यं, सुराणाम् अपि चाधिपत्यम्॥2.8॥
(सं) मूलम् ...{Loading}...
न हि प्रपश्यामि ममापनुद्या
द्यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्नमृद्धम्
राज्यं सुराणामपि चाधिपत्यम्।।2.8।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।2.8।। “एवं युद्धम् आरभ्य निवृत्त-व्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युः इति चेत् अस्तु -
तद्-वध-लब्ध-विजयात् अधर्म्याद्
अस्माकं धर्माधर्मौ अजानद्भिः तैः हननम् एव गरीयः”
इति मे प्रतिभाति
इति उक्त्वा
यत् मह्यं श्रेय इति निश्चितं
तत् शरणागताय तव शिष्याय मे ब्रूहि
इति अतिमात्रकृपणो भगवत्-पादाम्बुजम् उपससार।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।। 2.8न चैतद्विद्मः इत्यादेश्चकारद्योतितशङ्कापूर्वकं तात्पर्यार्थमाह एवमिति। बन्धुविनाशाद्भीतेन त्वया धर्मसुतभीमनकुलाद्यासन्नतरबन्धुविनाश एव कारितः स्यादितिभवत इत्यनेन सूचितम्। विद्मः इत्यादिबहुवचनानुसारेणाह अस्माकमिति। अस्माकमित्यनेन हन्तव्यतया निर्दिष्टभीष्मद्रोणाद्यपेक्षया सर्वेषां शिष्यत्वादिकमभिप्रेतम्। पूर्वोत्तरार्धाभ्यां विमर्शस्वाभिमतपक्षौ व्यञ्जितौ। यद्वा इतियदि वा इति च तुल्यार्थम्। येषां वधेन जीवनमस्माकमनिष्टं त एवास्मान् जिघांसन्तः स्वहननानुरूपत्वेनावस्थिता इतियानेव इत्यादेरन्वयार्थः। न जिजीविषामः इत्यनेन सूचितां अनिर्णयपर्यवसितां अत एव प्रश्नहेतुभूतां प्रतिभामाह इति मे प्रतिभातीति। यच्छ्रेयः इत्यादेरन्वयफलितार्थमुपदेशयोग्यत्वायोक्तां शिष्यगुणसम्पत्तिं च स्फुटयति यन्मह्यमित्यादिना। निश्चेतव्याकारनिष्कर्षणाय इतिकरणम्। शासनीयो हि शिष्यः अतःशिष्यस्तेऽहं शाधि माम् इति वदति। स्वभावोऽत्र धैर्यम् कर्तव्यविशेषाज्ञानात् शोकापनोदनोपायराहित्यादिना वा अतिमात्रकार्पण्यम्। त्याज्यस्यापरित्यागोऽत्र कार्पण्यमित्येके दयाजनकदीनवृत्तिनिरतत्वमित्यपरे। भगवत्पादाम्बुजमुपससारेति शिष्यत्वप्रपन्नत्वाद्युक्तिफलमेव।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
2.6 - 2.8 If you say, ‘After beginning the war, if we withdraw from the battle, the sons of Dhrtarastra will slay us all forcibly’, be it so. I think that even to be killed by them, who do not know the difference between righteousness and unrighteousness, is better for us than gaining unrighteous victory by killing them. After saying so, Arjuna surrendered himself at the feet of the Lord, overcome with dejection, saying. ‘Teach me, your disciple, who has taken refuge in you, what is good for me.’
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।2.7 2.10।। कार्पण्येत्यादि। सेनयोरुभयोर्मध्ये इत्यादिनेदं सूचयति संशयाविष्टोऽर्जुनो नैकपक्षेण
( नोऽनेक ) युद्धान्निवृत्तः यत एवमाह स्म शाधि मा त्वां +++(S omits त्वाम्)+++ प्रपन्नम् इति। अतः उभयोरपि ज्ञानाज्ञानयोर्मध्यगः श्रीभगवतानुशिष्यते।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
2.8 See Comment under 2.10
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।2.8।। Sri Madhvacharya did not comment on this sloka. The commentary starts from 2.11.
(सं) मध्वः जयतीर्थः ...{Loading}...
।।2.8।। Sri Jayatirtha did not comment on this sloka. The commentary starts from 2.11.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
2.8 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।2.8।। No such translation is available. Translation starts from 2.10
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
2.8 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।2.8।। कुतो निःश्रेयसमेवेच्छसि तत्राह नहीति। यस्मान्न प्रपश्यामि। किं न पश्यसि। ममापनुद्यादपनयेद् यच्छोकमुच्छोषणं प्रतपनमिन्द्रियाणां तन्न पश्यामि। ननु शत्रून्निहत्य राज्ये प्राप्ते शोकनिवृत्तिस्ते भविष्यति नेत्याह अवाप्येति। अविद्यमानः सपत्नः शत्रुर्यस्य तद् दृढं राज्यं राज्ञः कर्म प्रजारक्षणप्रशासनादि तदिदमस्यां भूमाववाप्यापि शोकापनयकारणं न पश्यामीत्यर्थ। तर्हि देवेन्द्रत्वादिप्राप्त्या शोकापनयस्ते भविष्यति नेत्याह सुराणामपीति। तेषामाधिपत्यमधिपतित्वं स्वाम्यमिन्द्रत्वं ब्रह्मत्वं वा तदवाप्यापि मम शोको नापगच्छेदित्यर्थः।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।2.8।। ननु स्वयमेव त्वं श्रेयो विचारय श्रुतसंपन्नोऽसि किं परशिष्यत्वेनेत्यत आह यच्छ्रेयः प्राप्तं सत् कर्तृ मम
शोकमपनुद्यादपनुदेन्निवारयेत्तन्न पश्यामि। हि यस्मात्तस्मान्मां शाधीतिसोऽहं भगवः शोचामि तं मा भगवाष्शोकस्य पारं तारयतु इति श्रुत्यर्थो दर्शितः। शोकानपनोदे को दोष इत्याशङ्क्य तद्विशेषणमाह इन्द्रियाणामुच्छोषणमिति। सर्वदा संतापकरमित्यर्थः। ननु युद्धे प्रयतमानस्य तव शोकनिवृत्तिर्भविष्यति जेष्यसि चेत्तदा राज्यप्राप्त्या इतरथा च स्वर्गप्राप्त्या। द्वावेतौ पुरुषौ लोके इत्यादिधर्मशास्त्रादित्याशङ्क्याह अवाप्येत्यादिना। शत्रुवर्जितं सस्यादिसंपन्नं च राज्यं तथा सुराणामाधिपत्यं हिरण्यगर्भत्वपर्यन्तमैश्वर्यमवाप्य स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामीत्यन्वयः। तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते इति श्रुतेः। यत्कृतकं तदनित्यम् इत्यनुमानात् प्रत्यक्षेणाप्यैहिकानां विनाशदर्शनाच्च। नैहिक आमुत्रिको वा भोगः शोकनिर्तकः किंतु स्वसत्ताकालेऽपि भोगपारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः। एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।2.8 2.9।। ननु क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतपेति युद्धमेव श्रेय इत्युक्तं किं पुनः पृच्छसीत्यत आह नहीति। बन्धुनाशनिमित्तः शोको राज्यलाभेन स्वर्गाधिपत्यलाभेन वा न निवर्तयिष्यत इति युद्धादन्यं कंचित्
निवृत्तिरूपं शमोपायं ब्रूहीत्याशयः। अत्रार्जुनविषादव्याजेन ब्रह्मविद्याधिकारिविशेषणं भैक्षचर्या इहामुत्रार्थफलभोगविरागश्च दर्शितः।
(सं) शङ्करः धनपतिः ...{Loading}...
।।2.8।। ननु विजयिनो लब्धभूमिराज्यस्य हतस्य स्वधर्मबलादिन्द्रपुत्रत्वाद्वा प्राप्तदेवाधिपत्यस्य वा तवाज्ञाननि बन्धनशोकापनोदकोऽपि यः कश्चित्सुलभो भविष्यतीति चेतत्राह नहीति। यदित्यव्ययम्। भूमौ राज्यमसपत्नं न विद्यते सपन्नः शत्रुर्यस्य तत्। निष्कण्टकमित्यर्थः। ऋद्धं सस्यादिसंपन्नं सुराणामाधिपत्यं वा प्राप्यामि तन्नहि प्रपश्यामि यः शोकमिन्द्रियाणामुच्छोषण्मत्यन्तशोषकरं ममापनुद्यादपनयेदित्यन्वयः। अतस्त्वमेवेदानीमेव शोकमपाकुर्वित्यभिप्रायः। कुतो निःश्रेयसमेवेच्छसीति तत्राह नहीति। यस्मान्ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणां तन्न पश्यामि। ननु शत्रून्निहत्य राज्ये प्राप्ते शोकनिवृत्तिस्ते भविष्यति नेत्याह अवाप्येति। अविद्यमानः सपन्नः शत्रुर्यस्य तदृद्धं राज्यं राज्ञः कर्म प्रजारक्षणशासनादि तदिदमस्यां भूमाववाप्यापि शोकापनयनकारणं न पश्यामीत्यर्थः। तर्हि देवेन्द्रत्वादिप्राप्त्या शोकापनयस्ते भविष्यति नेत्याह सुराणामपीति। तेषामाधिपत्यमधिपतित्वं स्वाम्यमिन्द्रत्वं ब्रह्मत्वं वा तदवाप्यापि मम शोको नापगच्छतीत्यर्थ इत्येके।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।2.6 2.8।। न चैतदिति प्रश्नस्त्रिभिः। स्पष्टार्थः।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।2.8।। ननु मित्रत्वाच् छरणागतत्वाच् च यथेच्छा तव भवति तथैव मया कर्त्तव्यमिति चेत् - तत्राह नहीति।
भूमौ असपत्नम् अद्वितीयं शुद्धं सर्वविभूतिमद्-राज्यम् अवाप्य प्राप्य
अपरत्र सुराणाम् आधिपत्यम् इन्द्रैश्वर्यमपि प्राप्य
इन्द्रियाणां उच्छोषणम् अतिशोषण-करम् अभिलाष-पूरकं किमपि नास्ति +अतो यन् मच्-छोकम् अपनुद्याद् अपनयेत् तद् अहं न प्रपश्यामि।
अतः किं विज्ञापयामीति भावः।
हीति युक्तश्चायमर्थः। यतो दुरापूराणीन्द्रियाणि।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।2.8।। त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्तत्राह नहीति। इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न प्रपश्यामि। यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि। तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि। एवमभीष्टं तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।2.8।। यहाँ अर्जुन संकेत करता है कि उसे तत्काल ही मार्गदर्शन की
आवश्यकता है जिसके अभाव में उसे आन्तरिक पीड़ा को सहन करना पड़ रहा है। वह
पीड़ा के कारण को व्यक्त करने में असमर्थ अनुभव कर रहा है। यह शोक उसकी
ज्ञानेन्द्रियों पर भी प्रभाव डाल रहा है। वह न ठीक से देख सकता है और न
सुन सकता है।
किसी भी विचारशील व्यक्ति के लिये यह स्वाभाविक है कि किसी समस्या के आने
पर उसको हल करने के लिये अधीर हो उठेे। वह समस्या को शीघ्र हल करके शांति
प्राप्त करना चाहता है। बेचारे अर्जुन ने अपनी बुद्धि द्वारा समस्या हल
करने का बहुत प्रयत्न किया किन्तु वह सफल नहीं हो सका। जैसा कि उसके शब्दों
से स्पष्ट है कि अब उसका दुख भौतिक वस्तुओं को प्राप्त करने के लिये नहीं
है क्योंकि वह स्वयं कहता है कि समस्त पृथ्वी अथवा स्वर्ग का राज्य प्राप्त
करने से भी उसका दुख निवृत्त नहीं हो सकता है।
अब अर्जुन की स्थिति एक तीव्र मुमुक्ष के समान है जो र्मत्य जीवन की समस्त सीमाओं और बन्धनों से मुक्त हो जाने के लिये अधीर हो उठा है। अब आवश्यकता है केवल एक प्रामाणिक विचार की जो स्वयं भगवान हृषीकेश उसे गीता के दिव्य काव्य में देते हैं।
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।2.8।। पृथ्वी पर निष्कण्टक समृद्ध राज्य को और देवताओं के स्वामित्व को प्राप्त होकर भी मैं उस उपाय को नहीं देखता हूँ, जो मेरी इन्द्रियों को सुखाने वाले इस शोक को दूर कर सके।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।2.8।। पृथ्वीपर धन-धान्य-समृद्ध और शत्रुरहित
(हि) रामसुखदासः टीका ...{Loading}...
2.8।।व्याख्या–[अर्जुन सोचते हैं कि भगवान् ऐसा समझते होंगे कि
अर्जुन युद्ध करेगा तो उसकी विजय होगी, और विजय होनेपर उसको राज्य मिल
जायगा, जिससे उसके चिन्ता-शोक मिट जायँगे और संतोष हो जायगा। परन्तु शोकके
कारण मेरी ऐसी दशा हो गयी है कि विजय होनेपर भी मेरा शोक दूर हो जाय–ऐसी
बात मैं नहीं देखता। ]
‘अवाप्य भूमावसपत्नमृद्धं राज्यम्’– अगर मेरेको धनधान्यसे सम्पन्न
और निष्कण्टक राज्य मिल जाय अर्थात् जिस राज्यमें प्रजा खूब सुखी हो,
प्रजाके पास खूब धन-धान्य हो, किसी चीजकी कमी न हो और राज्यमें कोई वैरी भी
न हो–ऐसा राज्य मिल जाय, तो भी मेरा शोक दूर नहीं हो सकता।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
2.8. I do not clearly see what would drive out my grief, the scorcher of my sense-organs, even after achieving, a prosperous and unrivalled kingship in this earth and also the overlordship of the gods [in the heaven].
(Eng) गम्भीरानन्दः ...{Loading}...
2.8 Because, I do not see that which can, even after aciring on this earth a prosperous kingdom free from enemies and even sovereignty over the gods, remove my sorrow (which is) blasting the senses.
(Eng) पुरोहितस्वामी ...{Loading}...
2.8 For should I attain the monarchy of the visible world, or over the invisible world, it would not drive away the anguish which is now paralysing my senses."
(Eng) आदिदेवनन्दः ...{Loading}...
2.8 Even if I should win unchallenged sovereignty of a prosperous earth or even the kingdom on lordship over the Devas, I do not feel that it would dispel the grief than withers up my senses.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
2.8 I do not see that it would remove this sorrow that burns up my senses, even if I should attain prosperous and unrivalled dominion on earth or lordship over the gods.
(Eng) शिवानन्दः टीका ...{Loading}...
2.8 न हि not; प्रपश्यामि I see; मम my; अपनुद्यात् would remove; यत् that; शोकम् grief; उच्छोषणम् drying up; इन्द्रियाणाम् of my senses; अवाप्य having obtained; भूमौ on the earth; असपत्नम् unrivalled; ऋद्धम् prosperous; राज्यम् dominion; सुराणाम् over the gods; अपि even; च and; आधिपत्यम् lordship.No commentary.