शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
नारायणः परोऽव्यक्ताद्
अण्डम् अव्यक्तसम्भवम् ।
अण्डस्यान्तस् त्व् इमे लोकाः
सप्त-द्वीपा च मेदिनी ॥
स भगवान् सृष्ट्वेदं जगत् , तस्य च स्थितिं चिकीर्षुः, मरीच्यादीनग्रे सृष्ट्वा प्रजापतीन् , प्रवृत्तिलक्षणं धर्मं ग्राहयामास वेदोक्तम् । ततोऽन्यांश्च सनकसनन्दनादीनुत्पाद्य, निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास । द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च, जगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोर्थिभिः अनुष्ठीयमानो दीर्घेण कालेन । अनुष्ठातॄणां कामोद्भवात् हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणे रक्षितः स्याद्वैदिको धर्मः, तदधीनत्वाद्वर्णाश्रमभेदानाम् ॥
स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नः त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् , स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते । स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध ॥
तदिदं गीताशास्त्रं समस्तवेदार्थसारसङ्ग्रहभूतं दुर्विज्ञेयार्थम् , तदर्थाविष्करणायानेकैर्विवृतपदपदार्थवाक्यार्थन्यायमपि अत्यन्तविरुद्धानेकार्थवत्वेन लौकिकैर्गृह्यमाणमुपलभ्य अहं विवेकतोऽर्थनिर्धारणार्थं सङ्क्षेपतो विवरणं करिष्यामि ॥
तस्य अस्य गीताशास्त्रस्य सङ्क्षेपतः प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसारस्य अत्यन्तोपरमलक्षणम् । तच्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठारूपात् धर्मात् भवति । तथा इममेव गीतार्थं धर्ममुद्दिश्य भगवतैवोक्तम् — ‘स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने’ (अश्व. १६ । १२) इति अनुगीतासु । तत्रैव चोक्तम् — ‘नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी । ’ (अश्व. १९ । ७) ‘यः स्यादेकासने लीनस्तूष्णीं किञ्चिदचिन्तयन्’ (अश्व. १९ । १) ॥ इति ‘ज्ञानं संन्यासलक्षणम्’ (अश्व. ४३ । २६) इति च । इहापि च अन्ते उक्तमर्जुनाय — ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ (भ. गी. १८ । ६६) इति । अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णानाश्रमांश्चोद्दिश्य विहितः, स देवादिस्थानप्राप्तिहेतुरपि सन् , ईश्वरार्पणबुद्ध्या अनुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः । शुद्धसत्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वमपि प्रतिपद्यते । तथा चेममर्थमभिसन्धाय वक्ष्यति — ‘ब्रह्मण्याधाय कर्माणि’ (भ. गी. ५ । १०) ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये’ (भ. गी. ५ । ११) इति ॥
इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनम् , परमार्थतत्त्वं च वासुदेवाख्यं परं ब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयत् विशिष्टप्रयोजनसम्बन्धाभिधेयवद्गीताशास्त्रम् । यतः तदर्थविज्ञाने समस्तपुरुषार्थसिद्धिः, अतः तद्विवरणे यत्नः क्रियते मया ॥