+०१ अर्जुन-विषाद-योगः

शङ्करः …{Loading}…

शङ्करः - मूलम्

मङ्गलम्

नारायणः परोऽव्यक्ताद्
अण्डम् अव्यक्त-सम्भवम् ।
अण्डस्यान्तस् त्व् इमे लोकाः
सप्त-द्वीपा च मेदिनी ॥

आनन्दगिरिः

कर्मनिष्ठा-ज्ञाननिष्ठेत्य् उपायोपेय-भूतं निष्ठा-द्वयम् अधिकृत्य प्रवृत्तं गीता-शास्त्रं व्याचिख्यासुर्
भगवान् भाष्यकारो विघ्नोपप्लवोपशमनादि-प्रयोजन-प्रसिद्धये
प्रामाणिक-व्यवहार-प्रमाणकम् इष्ट-देवता-तत्त्वानुस्मरणं मङ्गलाचरणं सम्पादयन्
अन्-अवशेषेणेतिहास-पुराणयोर् व्याचिख्यासित-गीता-शास्त्रेणैकवाक्यताम् अभिप्रेत्य
पौराणिक-श्लोकम् एवान्तर्यामि-विषयम् उदाहरति –
नारायण इति । +++(5)+++

आपो नारा इति प्रोक्ता
आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं
तेन नारायणः स्मृतः ॥
[मनुः १.१०]

इति स्मृति-सिद्धः स्थूल-दृशां नारायण-शब्दार्थः ।
सूक्ष्म-दर्शिनः पुनर् आचक्षते –
नरशब्देन चराचरात्मकं शरीरजातम् उच्यते ।
तत्र नित्य-सन्निहिताश् चिद्-आभासा जीवा
नारा इति निरुच्यन्ते ।
तेषाम् अयनम् आश्रयो नियामको ऽन्तर्यामी नारायण इति,
यम् अधिकृत्य अन्तर्यामि-ब्राह्मणं श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते ।
तद् अनेन शास्त्र-प्रतिपाद्यं विशिष्टं तत्त्वम् आदिष्टं भवति ।+++(5)+++

ननु परस्य आत्मनो मायासम्बन्धाद् अन्तर्यामित्वं
शास्त्र-प्रतिपाद्यत्वं च वक्तव्यम् ।
अन्यथा कूटस्थासङ्गाविषयाद्वितीयस्य तद्-अयोगात् ।

तथा च शुद्धतासिद्धौ
कथं यथोक्ता पर-देवता शास्त्रादाव् अनुस्मर्यते ?
शुद्धस्य हि तत्त्वस्य अनुस्मरणम्
अभीष्ट-फलवद् अभीष्टम् ।

तत्राह – परो ऽव्यक्ताद् इति । अव्यक्तम् अव्याकृतं मायेत्य् अनर्थान्तरम् । तस्मात् परो – व्यतिरिक्तस् तेन असंस्पृष्टो ऽयं परः, ‘अक्षरात् परतः परः’ (मु. उ. २-१-२) इति श्रुतेर् गृहीतः ।
तत्त्वतो मायासम्बन्धाभावेऽपि
कल्पनया तदीय-सङ्गतिम् अङ्गीकृत्य
अन्तर्यामित्वादिकम् उन्नेयम् ।

यस्माद् ईश्वरस्य व्यतिरेको विवक्षितस्
तस्मिन्न् अव्यक्ते साक्षि-सिद्धेऽपि,
कार्य-लिङ्गकम् अनुमानम् उपन्यस्यति – अण्डम् इति ।
अपञ्चीकृत-पञ्च-महाभूतात्मकं हैरण्यगर्भं तत्त्वम्
अण्डम् इत्य् अभिलप्यते ।
तद् अव्यक्तात् पूर्वोक्ताद् उत्पद्यते ।
प्रसिद्धा हि श्रुति-स्मृति-वादेषु
हिरण्यगर्भस्य मूल-कारणाद् उत्पत्तिः ।
तथा च कार्य-लिङ्गाद् अव्यक्ताद् अभिव्यक्तिर् इत्य् अर्थः ।

हिरण्यगर्भे श्रुति-स्मृति-समधिगतेऽपि कार्य-लिङ्गकम् अनुमानम् अस्तीति मन्वानो विराड्-उत्पत्तिम् उपदर्शयति – अण्डस्य इति । उक्तस्य अण्डस्य हिरण्यगर्भ-अभिधानीयस्य अन्तर् इमे भूर्-आदयो लोका विराड्-आत्मका वर्तन्ते । कार्यं हि कारणस्य अन्तर् भवति । तेन हिरण्यगर्भ-अन्तर्भूता भूर्-आदयो लोका विराड्-आत्मानस् तेन सृष्टा इति तल्-लिङ्गाद् हिरण्यगर्भ-सिद्धिर् इत्य् अर्थः ।

लोकान् एव पञ्चीकृत-पञ्च-महाभूतात्मक-विराड्-आत्मत्वेन व्युत्पादयति – सा पृथिव्य् अभवत् [बृ.उ. १.२.२] इति श्रुतौ विराजो जन्म सङ्कीर्तितम् इत्य् अङ्गीकाराद् अशेष-द्वीपोपेता पृथिवीत्य् अनेन सर्व-लोकात्मको विराड् एवोच्यते । च-शब्देन विराजो हि हिरण्यगर्भे पूर्वोक्ताण्डात्मन्य् अन्तर्भावात्, ततः सम्भवो ऽनुकृष्यते । परमात्मा हि स्वाज्ञान-द्वारा जगद् अशेषम् उत्पाद्य स्वात्मन्य् एव अन्तर्भाव्य् अखण्डैकरस-सच्चिदानन्दात्मना स्वे महिम्नि तिष्ठतीत्य् अर्थः । अत्र च नारायण-शब्देनाभिधेयम् उक्तम् । नरा एव नारा जीवाः, त्वम्-पद-वाच्याः, तेषाम् अयनम् अधिष्ठानं तत्-पद-वाच्यं परं ब्रह्म । तथा च कल्पितस्य अधिष्ठान-अतिरिक्त-स्वरूपाभावाद् वाच्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्म-मात्रत्वाद् ब्रह्मात्मैक्यं विषयो ऽत्र सूच्यते । तेनार्थाद् विषय-विषयि-भावः सम्बन्धो ऽपि ध्वनितः । परो ऽव्यक्ताद् इत्य् अनेन माया-संस्पर्शाभावोक्त्या सर्वानर्थ-निवृत्त्या परमानन्दाविर्भाव-लक्षणो मोक्षो विवक्षितः । तेन च तत्-कामस्याधिकारो द्योतितः । परिशिष्टेन तु, शब्देन वस्तुनो वास्तवम् अद्वितीयत्वम् आवेदितम् । तेन च वस्तु-द्वारा परम-विषयत्वं तज्-ज्ञान-निष्ठायास् तद्-उपाय-भूत-कर्म-निष्ठायाश् चावान्तर-विषयत्वम् इत्य् अर्थात् उक्तम् इत्य् अवधेयम् ॥ १ ॥

जगद्-उत्पत्तिः, धर्म-प्रतिष्ठा

स भगवान् सृष्ट्वेदं जगत् ,
तस्य च स्थितिं चिकीर्षुः,
मरीच्यादीन् अग्रे सृष्ट्वा प्रजापतीन् ,
प्रवृत्ति-लक्षणं धर्मं ग्राहयाम् आस वेदोक्तम् ।

आनन्दगिरिः

ननु नैवं साध्यसाधनभूतं निष्ठाद्वयमत्र भगवता प्रतिपाद्यते, भूमिप्रार्थितेन ब्रह्मणाऽभ्यर्थितस्य भगवतो भूमिभारापहारार्थं वसुदेवेन देवक्यामाविर्भूतस्य तादर्थ्येन मध्यमं पृथासुतं प्रथितमहिमानं प्रेरयितुं धर्मयोरिहानूद्यमानत्वात् , अतो नास्य शास्त्रस्य निष्ठाद्वयं परापरविषयभावमनुभवितुमलमिति । तन्न । भगवतो धर्मसंस्थापनस्वाभाव्यध्रौव्याद् धर्मद्वयस्थापनार्थमेव प्रादुर्भावाभ्युपगमाद्भूभारपरिहारस्य चाऽऽर्थिकत्वात् , अर्जुनं निमित्तीकृत्याधिकारिणं स्वधर्मप्रवर्तनद्वारा ज्ञाननिष्ठायामवतारयितुं गीताशास्त्रस्य प्रणीतत्वात् , उचितमस्य निष्ठाद्वयविषयत्वमिति परिहरति – स भगवान् इत्यादिना धर्मद्वयमर्जुनायोपदिदेश इत्यन्तेन भाष्येण ।

तत्र, नेदं गीताशास्त्रं व्याख्यातुमुचितमाप्तप्रणीतत्वानिर्धारणात् तथाविधशास्त्रान्तरवदित्याशङ्क्य, मङ्गलाचरणस्योद्देश्यं दर्शयन् आदौ शास्त्रप्रणेतुराप्तत्वनिर्धारणार्थं सर्वज्ञत्वादिप्रतिज्ञापूर्वकं सर्वजगज्जनयितृत्वमाह – स भगवानिति । प्रकृतो नारायणाख्यो देवः सर्वज्ञः सर्वेश्वरः समस्तमपि प्रपञ्चमुत्पाद्य व्यवस्थितः । न च तस्यानाप्तत्वम् , ईश्वरानुगृहीतानामाप्तत्वप्रसिद्ध्या तस्य परमाप्तत्वप्रसिद्धेरित्यर्थः । ननु भगवता सृष्टमपि चातुर्वर्ण्यादिविशिष्टं हिरण्यगर्भादिलक्षणं जगत् न व्यवस्थितिमास्थातुं शक्यते व्यवस्थापकाभावात् , न च परस्यैवेश्वरस्य व्यवस्थापकत्वं वैषम्यादिप्रसङ्गात् , तत्राह – तस्य चेति । सृष्टस्य जगतो मर्यादाविरहितत्वे शङ्किते तदीयां व्यवस्थां कर्तुमिच्छन् व्यवस्थापकमालोच्य क्षत्रस्यापि क्षत्रत्वेन प्रसिद्धं धर्मं तथाविधमधिगम्य सृष्टवानित्यर्थः । सृष्टस्य धर्मस्य साध्यस्वभावतया साधयितारमन्तरेणासम्भावत् तस्यैव तदनुष्ठातृत्वानभ्युपगमात् प्राणिप्रभेदानामधर्मप्रायाणां तदयोगात् कुतस्तदीया सृष्टिरित्याशङ्क्याह – मरीच्यादीनिति । तेषां भगवता सृष्टानां प्रजासृष्टिहेतूनां यागदानादिप्रवृत्तिसाध्यं धर्ममनुष्ठातुमधिकृतानां स्वकीयत्वेन तदुपादानमुपपन्नमित्यर्थः । चैत्यवन्दनादिभ्यो विशेषार्थं धर्मं विशिनष्टि – वेदोक्तमिति ।

ततोऽन्यांश् च सनक-सनन्दनादीन् उत्पाद्य,
निवृत्ति-लक्षणं धर्मं ज्ञान-वैराग्य-लक्षणं ग्राहयाम् आस ।

आनन्दगिरिः

ननु नैतावता जगदशेषमपि व्यवस्थापयितुं शक्यते, प्रवृत्तिमार्गस्य पूर्वोक्तधर्मं प्रति नियतत्वेऽपि निवृत्तिमार्गस्य तेन व्यवस्थापनायोग्यत्वात् , तत्राह – ततोऽन्यांश्चेति । निवृत्तिरूपस्य धर्मस्य शमदमाद्यात्मनो गमकमाह – ज्ञानेति । विवेकवैराग्यातिशये शमाद्यतिशयो गम्यते । ततो विवेकादि तस्य गमकमित्यर्थः ।

द्विविधो हि वेदोक्तो धर्मः,
प्रवृत्तिलक्षणो निवृत्तिलक्षणश् च,
जगतः स्थिति-कारणम् ।

आनन्दगिरिः

धर्मे बहुविदां विवाददर्शनाज्जगतः स्थेम्ने कारणीभूतधर्मान्तरमपि स्रष्टव्यमस्तीत्याशङ्क्याह – द्विविधो हीति ।

प्राणिनां साक्षाद् अभ्युदय-निःश्रेयस-हेतुर् यः
स धर्मो
ब्राह्मणाद्यैर् वर्णिभिर् आश्रमिभिश् च श्रेयोर्थिभिर् अनुष्ठीयमानो
दीर्घेण कालेन ।

आनन्दगिरिः

अतिप्रसङ्गाप्रसङ्गव्यावृत्तये प्रकृतं धर्मं लक्षयति – प्राणिनामिति । प्रवृत्तिलक्षणो धर्मोऽभ्युदयार्थिनां साक्षादभ्युदयहेतुः, निश्रेयसार्थिनां परम्परया निःश्रेयसहेतुः । निवृत्तिलक्षणस्तु धर्मः साक्षादेव निःश्रेयसहेतुरिति विभागः । ज्ञानस्यैव निःश्रेयसहेतुत्वेऽपि शमादीनां ज्ञानद्वारा मोक्षहेतुत्वं, ज्ञानातिरिक्तव्यवधानाभावाच्च साक्षादित्युक्तम् । यद्येवं धर्मो लक्ष्यते, तर्हि वर्णित्वमाश्रमित्वं चोपेक्ष्य सर्वैरेव पुरुषार्थार्थिभिर्द्वावपि धर्मौ यथायोग्यमनुष्ठेयावित्यानुष्ठातृनियमासिद्धिरित्याशङ्क्याह – ब्राह्मणाद्यैरिति । अर्थित्वाविशेषेऽपि श्रुतिस्मृतिपर्यालोचनयाऽनुष्ठानान्नियमसिद्धिरित्यर्थः ।
नित्यनैमित्तिकेषु यावज्जीवमनुष्ठानं
काम्येषु करणांशे रागाधीना प्रवृत्तिः
इतिकर्तव्यतांशे वैधीति विभागेऽपि
कदाचिद् एवानुष्ठानमिति विभागमभिप्रेत्याह – दीर्घेणेति ।

अवतारः

अनुष्ठातॄणां कामोद्भवात्
हीयमान-विवेक-विज्ञान-हेतुकेनाधर्मेण अभिभूयमाने धर्मे,
प्रवर्धमाने च अधर्मे,
जगतः स्थितिं परिपिपालयिषुः
स आदिकर्ता नारायणाख्यो विष्णुः
भौमस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं
देवक्यां वसुदेवादंशेन
कृष्णः किल सम्बभूव ।

आनन्दगिरिः

अथ यथोक्तधर्मवशादेव जगतो विवक्षितस्थितिसिद्धेर्भगवतो नारायणस्यादिकर्तुरनेकानर्थकलुषितशरीरपरिग्रहासम्भवादन्यस्यैव कस्यचिदनाप्तस्य वैषम्यनैर्घृण्यवतो निग्रहपरिग्रहद्वारेण गीताशास्त्रप्रणयनमिति कुतोऽस्य आप्तप्रणीतत्वम् , तत्राह – अनुष्ठातॄणामिति । अथवा यथोक्तशङ्कायां दीर्घेणेत्यारभ्योत्तरम् । महता कालेन कृतत्रेतात्यये द्वापरावसाने साधकानां कामक्रोधादिपूर्वकादविवेकादधर्मबाहुल्याद्धर्माभिभवादधर्माभिवृद्धेश्च जगतो मर्यादाभेदे तदीयां मर्यादामात्मनिर्मितां पालयितुमिच्छन् प्रकृतो भगवान् एतदर्थेन चातुर्वर्ण्यादिसंरक्षणार्थं लीलामयं मायाशक्तिप्रयुक्तं स्वेच्छाविग्रहं जग्राहेत्यर्थः । ‘भौमस्य ब्रह्मणो गुप्त्यै वसुदेवादजीजनत्’ [म.भा.शां. ४७.२९] इति स्मृतिमनुसृत्य पदद्वयमनूद्य व्याचष्टे – भौमस्येति । अंशेनेति । स्वेच्छानिर्मितेन मायामयेन स्वरूपेणेत्यर्थः । किल इति किलेत्यस्मिन्नर्थे पौराणिकी प्रसिद्धिरनूद्यते । न हि भगवतो व्यतिरिक्तस्येदं जन्मेति युज्यते, बहुविधागमविरोधादिति भावः ।

ब्राह्मणत्वस्य हि रक्षणे
रक्षितः स्याद् वैदिको धर्मः,
तद्-अधीनत्वाद् वर्णाश्रम-भेदानाम् ॥

आनन्दगिरिः

ननु वैदिकधर्मसंरक्षणार्थं भगवतो जन्म, ‘यदा यदा हि धर्मस्य’ [भ. गी. ४.७] इत्यादिदर्शनात् । किमिदं ब्राह्मणत्वस्य रक्षणार्थमिति तत्राह – ब्राह्मणत्वस्य हीति । तथापि वर्णाश्रमभेदव्यवस्थापनं विना कथं यथोक्तधर्मरक्षणमित्याशङ्क्याह – तदधीनत्वादिति । ब्राह्मणं हि पुरोधाय क्षत्रादिः प्रतिष्ठां प्रतिपद्यते, याजनाध्यापनयोस्तद्धर्मत्वात् तद्द्वारा च वर्णाश्रमभेदव्यवस्थापनात् । अतो ब्राह्मण्ये रक्षिते सर्वमपि सुरक्षितं भवतीत्यर्थः ।

स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नः
त्रिगुणात्मिकां स्वां मायां मूल-प्रकृतिं वशीकृत्य,
अजोऽव्ययो भूतानाम् ईश्वरो
नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावोऽपि सन् ,
स्वमायया देहवान् इव, जात इव च
लोकानुग्रहं कुर्वन् लक्ष्यते ।

आनन्दगिरिः

नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्त्वे सत्यस्मदादिभिरविशेषादनीश्वरत्वप्रसक्तिरित्याशङ्क्य ज्ञानादिकृतं विशेषमाह – स चेति । ज्ञानं – ज्ञप्तिः – अर्थपरिच्छित्तिः, ऐश्वर्यम् – ईश्वरत्वं स्वातन्त्र्यम्, शक्तिः – तदर्थनिर्वर्तनसामर्थ्यम् , बलम् – सहायसम्पत्तिः, वीर्यम् – पराक्रमवत्त्वम् , तेजस्तु प्रागल्भ्यमधृष्यत्वम् , एते च षड्गुणाः सर्वविषयाः सर्वदा भगवति वर्तन्ते । तथा च तस्य शरीरादिमत्त्वेऽपि नास्मदादिसाम्यमित्यर्थः । अथैवमपि कथमीश्वरस्यानादिनिधनस्य नित्यशुद्धबुद्वमुक्तस्वभावस्य स्वभावविपरीतं जन्मादि सम्भवति ? न हि भूतानामीशिता स्वतन्त्रः स्वात्मनोऽनर्थं स्वयमेव सम्पादयितुमर्हति, न चास्य देहादिग्रहे किमपि फलमुपलभ्यते, तत्राह – त्रिगुणात्मिकामिति । सिसृक्षितदेहादिगतवैरूप्यसिद्ध्यर्थमिदं विशेषणम् । तस्या व्यापकत्वं वक्तुं वैष्णवीमित्युक्तम् । ईश्वरपारवश्यं तस्या दर्शयति – स्वामिति । तस्याश्च प्रतिभासमात्रशरीरत्वमेव न तु वस्तुत्वमित्याह – मायामिति । तस्या नानाविधकार्याकारेण परिणामित्वं सूचयति – मूलप्रकृतिमिति । ईश्वरस्य प्रकृत्यधीनत्वं वारयति – वशीकृत्येति । नित्यशुद्धबुद्धमुक्त नित्यत्वं कार्याकारविरहितत्वम् , शुद्धत्वमकारणत्वम् , बुद्धत्वं अजडत्वम् , मुक्तत्वं अविद्याकामकर्मपारतन्त्र्यराहित्यम् । न च नित्यत्वादयः संसारावस्थायामसन्तो मोक्षावस्थायां सम्भवन्तीति युक्तमित्याह – स्वभाव इति । स्वमायया । देहग्रहे प्राधान्यं मायाया दर्शयितुं पुनः स्वमाययेत्युक्तम् । ‘स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः’ (बृ. उ. १४-३-८) इति श्रुतिमाश्रित्याह – देहवानिति । इव जात इव इवकाराभ्यां देहादेरवस्तुत्वेन कल्पितत्वं द्योत्यते । लोकानुग्रहमिति धर्मद्वयोपदेशद्वारा प्राणिवर्गस्याभ्युदयनिःश्रेयसतत्परत्वापादनं लोकानुग्रहः । यद्यपि कूटस्थः स्वतन्त्रो नित्यत्वादिलक्षणश्चायमीश्वरः स्वतो दृश्यते, तथापि यथोक्तमायाशक्त्या देहादि गृहीत्वा प्राणिनामनुग्रहमादधानो न स्वभावविपर्ययं पर्येतीत्यर्थः ।

गीतोपदेशः

स्व-प्रयोजनाभावेऽपि
भूतानुजिघृक्षया वैदिकं धर्म-द्वयम्
अर्जुनाय शोक-मोह-महोदधौ निमग्नाय +उपदिदेश,
गुणाधिकैर् हि गृहीतोऽनुष्ठीयमानश् च धर्मः
प्रचयं गमिष्यतीति ।+++(5)+++

विश्वास-टिप्पनी

२.१२ इत्यत्र रामानुजोक्तं चोद्यम् इह सङ्गच्छते।

आनन्दगिरिः

ननु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ‘ इति न्यायादीश्वरस्याऽऽप्तकामतया कृतकृत्यस्य प्रयोजनाभावादनुग्राह्याणां चाद्वैतवादे व्यतिरिक्तानामसत्त्वान्न धर्मद्वयमुपदेष्टुमुचितमिति, तत्राह – स्वप्रयोजनेति । कल्पितभेदभाञ्जि भूतान्युपादाय तदनुग्रहेच्छया चैत्यवन्दनादिविलक्षणं धर्मद्वयमर्जुनं निमित्तीकृत्याऽऽप्तकामोऽपि भगवानुपदिष्टवानित्यर्थः । अर्जुनस्योपदेशापेक्षास्तीति दर्शयितुं विशिनष्टि – शोकेति । ननु भूतानुग्रहे कर्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते, तत्राह – गुणाधिकैरिति । प्रचयं गमिष्यतीति मत्वा धर्मद्वयमर्जुनायोपदिदेशेति सम्बन्धः ।

तं धर्मं भगवता यथोपदिष्टं
वेदव्यासः सर्वज्ञो भगवान्
गीताख्यैः सप्तभिः श्लोक-शतैर् उपनिबबन्ध ॥

आनन्दगिरिः

अथ तथापि सुगतोपदिष्टधर्मवदयमपि भगवदुपदिष्टो धर्मो न प्रामाणिकोपादेयतामुपगच्छेदित्याशङ्क्य वेदोक्तत्वान्नास्य तत्तुल्यत्वमित्युक्तमित्यभिप्रत्य शिष्टपरिगृहीतत्वाच्च मैवमित्याह – तं धर्ममिति । अधर्मे धर्मबुद्धिर्वेदव्यासस्य जातेत्याशङ्क्याह – सर्वज्ञ इति । ‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्’ [वि.पु. ३.४.५] इति स्मृतेः सज्जनोपकारकभगवदवतारत्वाच्च व्यासस्य नान्यथाबुद्धिरित्याह – भगवानिति ।

प्रतिज्ञा

तद् इदं गीता-शास्त्रं
समस्त-वेदार्थ-सार-सङ्ग्रह-भूतं दुर्विज्ञेयार्थं,

आनन्दगिरिः

गीताशास्त्रस्यानाप्तप्रणीतत्वमपाकृत्य व्याख्येयत्वमुपपादितमुपसंहरति – तदिदमिति । पौरुषेयस्य वचसो मूलप्रमाणाभावेनाप्रामाण्यमिति मत्वा विशिनष्टि – समस्तेति । शास्त्राक्षरैरेव तदर्थप्रतिपत्तिसम्भवे किमिति व्याख्यानमित्याशङ्क्याह – दुर्विज्ञेयार्थमिति ।

तद्-अर्थाविष्करणायानेकैर् विवृत-पद-पदार्थ-वाक्यार्थ-न्यायम् अपि
अत्यन्त-विरुद्धानेकार्थवत्त्वेन लौकिकैर् गृह्यमाणम् उपलभ्य

आनन्दगिरिः

‘पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याक्यानं पञ्चलक्षणम् ॥’ इत्यादिक्रमेणास्य शास्त्रस्य पूर्वाचार्यैर्व्याख्यातत्वात् किमर्थमिदमारभ्यते गतार्थत्वात् , तत्राह – तदर्थेति । गीताशास्त्रार्थस्य प्रकटीकरणार्थं पदविभागस्तदर्थोक्तिः समासद्वारा वाक्यार्थनिर्देशः, तत्रापेक्षितो न्यायश्चाक्षेपसमाधानलक्षणो वृत्तिकारैर्दर्शितः तथापि तथाविधमेव शास्त्रं शास्त्रपरिचयशून्यैः समुच्चयवादिभिर्विरुद्धार्थत्वेनानेकार्थत्वेन च गृहीतमालक्ष्य तद्बुद्धिमनुरोद्धुमिदमारब्धव्यमित्यर्थः ।

अहं विवेकतो ऽर्थ-निर्धारणार्थं
सङ्क्षेपतो विवरणं करिष्यामि ॥

आनन्दगिरिः

येषां प्राचीने व्याख्याने बुद्धिरप्रविष्टा तेषां सम्प्रतितने एतस्मिन्नसौ प्रवेक्ष्यतीति कुतो नियमस्तत्राह – विवेकत इति । पूर्वव्याख्याने तत्तदर्थनिर्धारणार्थोपन्यासः सङ्कीर्णवद्भातीति न तत्र केषाञ्चिन्मनीषा समुन्मिषति, प्रकृते त्वसम्प्रकीर्णतया तत्तत्पदार्थनिर्णयोपयोगिन्यायो विव्रियते, तेनात्र मन्दमध्यमयोरपि बुद्धिरवतरतीत्यर्थः । किञ्च अनपेक्षिताधिकग्रन्थसद्भावान्न प्राचीने व्याख्याने श्रोतॄणां प्रवृत्तिः । अत्र त्वपेक्षिताल्पग्रन्थे विवरणे प्रायशः सर्वेषां प्रवृत्तिः स्यादिति मत्वाह – सङ्क्षेपत इति ।

प्रयोजनम्

तस्यास्य गीता-शास्त्रस्य सङ्क्षेपतः प्रयोजनं
परं निःश्रेयसं
स-हेतुकस्य संसारस्यात्यन्तोपरम-लक्षणम् ।

आनन्दगिरिः

ननु अनाप्तप्रणीतत्वाद्यभावेऽपि नेदं शास्त्रं व्याख्येयं विषयाद्यनुबन्धस्यानभिहितत्वेन शास्त्रत्वाभावादित्याशङ्क्य सर्वव्यापाराणां प्रयोजनार्थत्वादादौ प्रयोजनमाह – तस्येति । प्रसाधितप्रामाण्यस्य, व्याख्येयत्वेन मनसि संनिहितस्य गीताशास्त्रस्य सङ्क्षेपतः सङ्ग्रहः सम्पिण्डितत्वमेकवाक्यत्वं, तेनेदं परमं फलं यन्निश्चितं श्रेयो निःश्रेयसं कैवल्यम् । अवान्तरफलं तु तत्रतत्रावान्तरवाक्यभेदेन मनोनिग्रहादि विवक्ष्यते । निःश्रेयसं च द्विविधम् – निरतिशयसुखाविर्भावो निःशेषानर्थोच्छित्तिश्च । तत्राद्यमुदाहरति – परमिति । द्वितीयं दर्शयति – सहेतुकस्येति । संसारोपरमस्यात्यन्तिकत्वं प्रतियोगिनः संसारस्य पुनरुत्पत्त्ययोग्यत्वम् । तच्च स्वापमूर्च्छादिव्यवच्छेदार्थं विशेषणम् । तदेव साधयितुं सहेतुकस्येत्युक्तम् ।

सर्व-कर्म-सन्न्यासः

तच् च सर्व-कर्म-संन्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठा-रूपात् धर्मात् भवति ।+++(5)+++

आनन्दगिरिः

उक्तं फलं
समुच्चिताद् एकाकिनो वा कर्मणः स्याद्
इति तस्यैव शास्त्र-प्रतिपाद्यता

इत्य् आशङ्क्याभिधेयम् अभिधित्समानः समाधत्ते – तच्चेति ।
आत्म-ज्ञान-निष्ठा-शेषत्वेन कर्मनिष्ठा अत्रोच्यते ।
प्राधान्येन त्व् आत्मज्ञान-निष्ठैवात्र प्रतिपाद्यत इत्यर्थः ।

ननु शेषिणी निष्ठा
कुतो भवति संन्यासात् ?
न कर्मनिष्ठायाः - शेषत्वात्

तत्राह – सर्वेति ।
संन्यास-द्वारेणासकृद्-अनुष्ठित-श्रवणादेः
शेषिणी निष्ठा सिद्ध्यति,
शेषत्वं च कर्मणः, तत्र परस्पराश्रयत्वम् इत्यर्थः ।

तथा इमम् एव गीतार्थं धर्मम् उद्दिश्य
भगवतैवोक्तम् —

‘स हि धर्मः सुपर्याप्तो
ब्रह्मणः पद-वेदने’
(अश्व. १६ । १२)

इत्य् अनुगीतासु ।

आनन्दगिरिः

ननु ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ’ [भ. गी. १८.५] इति वाक्यशेषात् समुच्चितमात्मज्ञानमत्र प्रतिपाद्यते, नेत्याह – तथेति । सर्वकर्मसंन्यासपूर्वकमात्मज्ञाननिष्ठारूपं धर्मं निःश्रेयसप्रयोजनं प्रागुक्तं परामृशति – इममेवेति । वक्तृभेदादभिप्रायभेदाशङ्कां वारयति – भगवतैवेति । उक्तमनुगीतास्विति सम्बन्धः । ब्रह्मणः पदं ब्रह्मणः पदं – पूर्वोक्तं निःश्रेयसम् । तस्य वेदनं लाभः । तत्र विशिष्टो ज्ञाननिष्ठारूपो धर्मः समर्थो भवतीत्यर्थः । यज्ञदानादिवाक्यस्य तु तद्वयाख्यानावसरे तात्पर्यं वक्ष्यते ।

तत्रैव चोक्तम् —

‘नैव धर्मी न चाधर्मी
न चैव हि शुभाशुभी ।’
(अश्व. १९ । ७)

‘यः स्याद् एकासने लीनस्
तूष्णीं किञ्चिद् अचिन्तयन्’
(अश्व. १९ । १) ॥

इति

‘ज्ञानं संन्यास-लक्षणम्’ (अश्व. ४३ । २६)

इति च ।

आनन्दगिरिः

कर्मत्यागस्य भगवतोऽभिप्रेतत्वे वाक्यान्तरमनुगीतागतमेवोदाहरति – तत्रैवेति । धर्माधर्मापूर्वासंसर्गित्वे हेतुमाह – नैवेति । क्रियाद्वयसम्बन्धाभावात् तन्निर्वर्त्त्यापूर्वाभ्यामसम्बन्धे प्राप्तमर्थमाह – यः स्यादिति । वागादिबाह्यकरणव्यापारविरहितत्वं तूष्णीमित्युच्यते । किञ्चिदचिन्तयन् इत्यन्तःकरणव्यापाराभावोऽभिप्रेतः । द्विविधकरणव्यापारविरहितः सन् प्रागुक्तो योऽधिकारी केवलमेकस्मिन् – अद्वितीये ब्रह्मणि आसनमवस्थानम् , तत्र लीनः, तस्मिन्नेव समाप्तिभागी स्यात् , तस्यासम्प्रज्ञातसमाधिनिष्ठस्य सर्वकर्मत्यागहेतुकं ज्ञानं मुक्तिहेतुर्भवतीत्यर्थः ।

इहापि चान्तय् उक्तम् अर्जुनाय —

‘सर्व-धर्मान् परित्यज्य
माम् एकं शरणं व्रज’
(भ. गी. १८ । ६६)

इति ।

आनन्दगिरिः

न केवलमनुगीतास्वेव यथोक्तं ज्ञानमुक्तम् । किन्तु प्रकृतेऽपि शास्त्रे समाप्त्यवसरे दर्शितमित्याह – इहापीति ।

कर्म-योगे सत्त्व-शुद्धिः

अभ्युदयार्थो ऽपि यः प्रवृत्ति-लक्षणो धर्मो वर्णानाश्रमांश् चोद्दिश्य विहितः,
स देवादि-स्थान-प्राप्ति-हेतुर् अपि सन्,
ईश्वरार्पण-बुद्ध्या अनुष्ठीयमानः
सत्त्व-शुद्धये भवति
फलाभिसन्धि-वर्जितः ।

आनन्दगिरिः

नन्वत्र निवृत्तिलक्षणधर्मात्मकं ससंन्यसमात्मज्ञानमेव न प्रतिपाद्यते, ‘कुरु कर्मैव तस्मात् त्वम् ’ [भ. गी. ४.१५] इत्यादौ प्रवृत्तिलक्षणस्यापि धर्मस्य वक्ष्यमाणत्वात् , धर्मयोश्च प्रकृतत्वाविशेषात् , तत्राह – अभ्युदयार्थोऽपीति । ननु वर्णिभिराश्रमिभिश्चानुष्ठेयत्वेनान्यत्र विहितस्यापि तस्य न युक्तं मोक्षसाधनत्वाधिकारे विधानम् , देवादिस्थानप्राप्तिहेतुत्वेन मोक्षं प्रति प्रतिपक्षत्वात् । सत्यम् , तथापि फलाभिलाषमन्तरेणेश्वरार्पणधिया कृतस्य बुद्धिशुद्धिहेतुत्वात् तस्येह वचनमित्याह – स देवादीति । फलाभिसन्धिद्वारा कृतः सन्निति शेषः ।

शुद्ध-सत्त्वस्य च ज्ञान-निष्ठा-योग्यता-प्राप्ति-द्वारेण ज्ञानोत्पत्ति-हेतुत्वेन च निःश्रेयस-हेतुत्वम् अपि प्रतिपद्यते ।

आनन्दगिरिः

प्रवृत्तिलक्षणधर्मस्योक्तरीत्या चित्तशुद्धिहेतुत्वेऽपि मोक्षहेतुत्वेन कुतो मोक्षाधिकारे निर्देशः स्यादित्याशङ्क्याह – शुद्धेति । प्रतिपद्यते प्रागुक्तो धर्म इति शेषः ।

तथा चेमम् अर्थम् अभिसन्धाय वक्ष्यति —
‘ब्रह्मण्य् आधाय कर्माणि’ (भ. गी. ५ । १०)

‘योगिनः कर्म कुर्वन्ति
सङ्गं त्यक्त्वात्म-शुद्धये’ (भ. गी. ५ । ११)

इति ॥

आनन्दगिरिः

यदुक्तं फलाभिसन्धिवर्जितमीश्वरार्पणबुद्ध्याऽनुष्ठितं कर्म बुद्धिशुद्धये भवतीति, तत्र वाक्यषेषमनुकूलयति – तथा चेति । शास्त्रस्य प्रयोजनं ससाधनमुक्तमनूद्य विषयं दर्शयति – इममिति ।

उपसंहारः

इमं द्वि-प्रकारं धर्मं निःश्रेयस-प्रयोजनं,
परमार्थ-तत्त्वं च +++(मया-सङ्गतं सत्)+++ वासुदेवाख्यं परं ब्रह्माभिधेय-भूतं +++(=मायायाः परत्वात्)+++
विशेषतो ऽभिव्यञ्जयत्
विशिष्ट-प्रयोजन-सम्बन्धाभिधेयवद् गीता-शास्त्रम् ।

विश्वास-टिप्पनी

अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभवः उत्पत्तिः ।

इति दशमाध्याये यथा,
तथाऽत्रापि प्रकरण-वशाद्, आख्यादिभिश् च
सगुणम् एव ब्रह्मोक्तम्।
“अभिधेय-भूतम्” इति निर्गुणब्रह्मणो व्यावृत्तम् अपि।
परमार्थ-तत्त्वम् इति सगुण-ब्रह्मणो निज-स्वरूपं मायाविवर्जितं वदति।
कथं निर्गुण-सगुणयोर् उद्देश्य-विधेय-भावस् सङ्गच्छत इति चेत् -
अविद्यायाः पारमार्थिक-सत्ताभावात्,
तथापि व्यावहारिकसत्तायाम् मायानियामकस्येश्वरस्यापि विवक्षितत्वात्,
यथाहादौ - नारायणः परो ऽव्यक्ताद् +++(=अविद्यायाः)+++।

आनन्दगिरिः

दर्शितेन फलेन
शास्त्रस्य निष्ठा-द्वय-द्वारा साध्य-साधन-भावः सम्बन्धो
विषयेण विषय-विषयित्वम् इति विवक्षित्वाह – विशेषत इति । एवम् अनुबन्ध-त्रय-विशिष्टं शास्त्रं व्याख्यानार्हम् इत्य् उपसंहरति – विशिष्टेति ।

यतः तद्-अर्थ-विज्ञाने
समस्त-पुरुषार्थ-सिद्धिः,
अतस् तद्-विवरणे यत्नः क्रियते मया ॥

आनन्दगिरिः

सिद्धे व्याख्यान-योग्यत्वे व्याख्येयत्वं फलितमाह – यत इति ।

आनन्दगिरिः

दृष्टिं मयि विशिष्टार्थां
कृपापीयूष-वर्षिणीम् । हेरम्ब देहि प्रत्यूह-
क्ष्वेड-व्यूह-निवारिणीम् ॥ १ ॥

यद्-वक्त्र-पङ्के-रुह-सम्प्रसूतं
निष्ठाऽमृतं विश्व-विभाग-निष्ठम् । साध्येतराभ्यां परिनिष्ठितान्तं
तं वासुदेवं सततं नतो ऽस्मि ॥ २ ॥

प्रत्यञ्चम् अच्युतं नत्वा
गुरून् अपि गरीयसः । क्रियते शिष्य-शिक्षायै
गीता-भाष्य-विवेचनम् ॥ ३ ॥