(सं) विश्वास-प्रस्तुतिः ...{Loading}...
अनन्त-विजयं राजा +++(दध्मौ)+++
कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश् च
सुघोष–मणि-पुष्पकौ॥1.16॥
(सं) मूलम् ...{Loading}...
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
१९-तमस्य टीका दृश्या।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।। 1.16।। दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि। पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति। स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः। सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः। व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
1.1 - 1.19 Dhrtarastra said - Sanjaya said Duryodhana, after viewing the forces of Pandavas protected by Bhima, and his own forces protected by Bhisma conveyed his views thus to Drona, his teacher, about the adeacy of Bhima’s forces for conering the Kaurava forces and the inadeacy of his own forces for victory against the Pandava forces. He was grief-stricken within. Observing his (Duryodhana’s) despondecny, Bhisma, in order to cheer him, roared like a lion, and then blowing his conch, made his side sound their conchs and kettle-drums, which made an uproar as a sign of victory. Then, having heard that great tumult, Arjuna and Sri Krsna the Lord of all lords, who was acting as the charioteer of Arjuna, sitting in their great chariot which was powerful enough to coner the three worlds; blew their divine conchs Srimad Pancajanya and Devadatta. Then, both Yudhisthira and Bhima blew their respective conchs separately. That tumult rent asunder the hearts of your sons, led by Duryodhana. The sons of Dhrtarastra then thought, ‘Our cause is almost lost now itself.’ So said Sanjaya to Dhrtarastra who was longing for their victory. Sanjaya said to Dhrtarastra: Then, seeing the Kauravas, who were ready for battle, Arjuna, who had Hanuman, noted for his exploit of burning Lanka, as the emblem on his flag on his chariot, directed his charioteer Sri Krsna, the Supreme Lord-who is overcome by parental love for those who take shelter in Him who is the treasure-house of knowledge, power, lordship, energy, potency and splendour, whose sportive delight brings about the origin, sustentation and dissolution of the entire cosmos at His will, who is the Lord of the senses, who controls in all ways the senses inner and outer of all, superior and inferior - by saying, ‘Station my chariot in an appropriate place in order that I may see exactly my enemies who are eager for battle.’
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।1.16।। No commentary.
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
1.12 1.29 Sri Abhinavgupta did not comment upon this sloka.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।1.16।। Sri Madhvacharya did not comment on this sloka. The commentary starts from 2.11.
(सं) मध्वः जयतीर्थः ...{Loading}...
।।1.16।। Sri Jayatirtha did not comment on this sloka. The commentary starts from 2.11.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
1.16 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।1.16।। Sri Sankaracharya did not comment on this sloka.
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
1.16 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।1.16।। एतेषामीदृशीं प्रवृत्तिं प्रतीत्य परिपालनावकाशमासाद्य राज्ञो
युद्धिष्ठिरस्यापि प्रवृत्तिं दर्शयति अनन्तेति। ज्यायसां
भ्रातॄणामनुसरणमावश्यकमिति मत्वा तयोर्यवीयसोर्भ्रात्रोरपि प्रवृत्तिमाह
**नकुल इति।
**
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।। 1.16अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।। 1.16अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।
(सं) शङ्करः धनपतिः ...{Loading}...
।।1.16।। एतेषां प्रवृत्तिमनुमोदयन् युधिष्ठोरोऽपि शङ्खपूरणे प्रवृत्त इत्याह अनन्तविजयमिति। शत्रूञ्जित्वा
निष्कण्टकराज्यलाभस्तस्यैव भविष्यतीति द्योतनार्थं राजेति पदम्। कुन्त्या दुःखं राज्यलाभेनापाकरिष्यतीति कुन्तीपुत्रत्वेन ध्वनितम्। युद्धे सर्वाञ्जित्वायमेव स्थिरो भविष्यतीति सूचनाय युधिष्ठिर इति। कुन्तीपुत्रः कुन्त्या महता तपसा धर्ममाराध्य लब्धः। स्वयं राजसूययाजित्वेन मुख्यो राजेति भाव इति केचित्। ज्येष्ठभ्रातॄणां मार्गं नकुलसहदेवावनुसृतवन्तावित्याहनकुल इति। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। शङ्खतच्छब्दकर्तृनामकीर्तनेन परेषामुत्कर्षः सूचितः।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।1.15 1.19।। ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।1.16।। अनन्तानां विजयो येन तादृशं वादितवान्। राजेति प्रवृत्तावावश्यकता। कीदृशो राजा कुन्तीपुत्रः। कुन्तीपुत्र इति तत्प्रेरितत्वं भगवत्कृपाधिकारित्वं च ज्ञापितम्। युधिष्ठिर इति सार्थकनाम्ना सामर्थ्यम्। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ वादयामासतुः।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।1.16।। अनन्तजयमिति। नकुलः सुघोषं नाम शङ्खं दध्मौ। सहदेवो मणिपुष्पकं नाम।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।1.16।।
No commentary.
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।1.16।। कुन्तीपुत्र राजा युधिष्ठिर ने अनन्त विजय नामक शंख और नकुल व सहदेव ने क्रमश: सुघोष और मणिपुष्पक नामक शंख बजाये।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।1.16।। कुन्तीपुत्र राजा युधिष्ठिर ने अनन्तविजय नामक शंख बजाया तथा नकुल और सहदेव ने सुघोष और मणिपुष्पक नामक शंख बजाये।
(हि) रामसुखदासः टीका ...{Loading}...
।।1.16।।**व्याख्या–‘अनन्तविजयं राजा ৷৷. सुघोषमणिपुष्पकौ’–**अर्जुन,
भीम और युधिष्ठिर–ये तीनों कुन्तीके पुत्र हैं तथा नकुल और सहदेव–ये
दोनों माद्रीके पुत्र हैं, यह विभाग दिखानेके लिये ही यहाँ युधिष्ठिरके
लिये ‘कुन्तीपुत्र’ विशेषण दिया गया है।
युधिष्ठिरको ‘राजा’ कहनेका तात्पर्य है कि युधिष्ठिरजी वनवासके पहले अपने
आधे राज्य-(इन्द्रप्रस्थ-) के राजा थे, और नियमके अनुसार बारह वर्ष वनवास
और एक वर्ष अज्ञातवासके बाद वे राजा होने चाहिये थे। ‘राजा’ विशेषण देकर
सञ्जय यह भी संकेत करना चाहते हैं कि आगे चलकर धर्मराज युधिष्ठिर ही
सम्पूर्ण पृथ्वीमण्डलके राजा होंगे।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
1.16. Kunti’s son, the king Yudhisthira blew the Anantavijaya; Nakula and Sahadeva blew [respectively] the Sughosa and the Manipuspaka.
(Eng) गम्भीरानन्दः ...{Loading}...
1.16 King Yudhisthira, son of Kunti, (blew) the Anantavijaya; Nakula and Sahadeva, the Sughosa and the Manipuspaka (respectively).
(Eng) पुरोहितस्वामी ...{Loading}...
1.16 The King Dharmaraja, the son of Kunti, blew the Anantavijaya, Nakalu and Sahadeo, the Sugosh and Manipushpaka, respectively.
(Eng) आदिदेवनन्दः ...{Loading}...
1.16 King Yudhisthira the son of Kunti blew his conch Anantavijaya and Nakula and Sahadeva blew their conchs Sughosa and Manipuspaka.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
1.16. The king Yodhishthira, the son of Kunti, blew the Anantavijaya; Nakula and Sahadeva blew the Sughosha and the Manipushpaka.
(Eng) शिवानन्दः टीका ...{Loading}...
1.16 अनन्तविजयम् (the conch named) Anantavijayam; राजा the king; कुन्तीपुत्रः son of Kunti; युधिष्ठिरः Yudhishthira; नकुलः Nakula; सहदेवः Sahadeva; च and; सुघोषमणिपुष्पकौ (the conches named) Sughosha and Manipushpaka.No Commentary.