01 धर्मक्षेत्रे

विश्वास-प्रस्तुतिः …{Loading}…

+++(धृतराष्ट्र उवाच)+++

धर्मक्षेत्रे कुरुक्षेत्रे
समवेता युयुत्सवः
मामकाः पाण्डवाश् चैव
किम् अकुर्वत सञ्जय॥1.1॥

रामानुजः …{Loading}…

रामानुजः - मूलम्

यत्-पदाम्भोरुह-ध्यान-
विध्वस्ताशेष-कल्मषः ।
वस्तुताम् उपयातो ऽहं
यामुनेयं नमामि तम् ॥

श्रियः पतिः, निखिलहेयप्रत्यनीक-कल्याणैकतानः,
स्वेतर-समस्त-वस्तु-विलक्षणानन्त-ज्ञनानन्दैक-स्वरूपः,
स्वाभाविकानवधिकातिशय-ज्ञान-बल+ऐश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गण-महोदधिः,
स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य-निरतिशय+औज्ज्वल्य-
सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधि-दिव्य-रूपः,
स्वोचित-विविध-विचित्रानन्ताश्चर्य-नित्य-निरवद्यापरिमित-दिव्य-भूषणः,
स्वानुरूपासङ्ख्येयाचिन्त्य-शक्ति-नित्य-निरवद्य-निरतिशय-कल्याण-दिव्यायुधः,

स्वाभिमतानुरूप-नित्य-निरवद्य-स्वरूप-रूप-गुण-विभवैश्वर्य-शीलाद्य्–
अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-श्री-वल्लभः,
स्वसङ्कल्पानुविधायि-स्वरूप-स्थिति-प्रवृत्ति-भेदाशेष-शेषतैक-रति-रूप-
नित्य-निरवद्य-निरतिशय-ज्ञान-क्रियैश्वर्याद्य्-अनन्त-गुण-गणापरिमित-सूरिभिर्
अनवरताभिष्टुत-चरण-युगलः,
वाङ्-मनसाऽपरिच्छेद्य-स्वरूप-स्वभावः
स्वोचित-विविध-विचित्रानन्त-भोग्य-भोगोपकरण-भोग-स्थान-समृद्धानन्ताश्चर्यानन्त-
महा-विभवानन्त-परिमाण-नित्य-निरवद्याक्षर-परम-व्योम-निलयः,
विविध-विचित्रानन्त-भोग्य-भोक्तृ-वर्ग-परिपूर्ण-
निखिल-जगद्-उदय-विभव-लय-लीलः,
परं ब्रह्म पुरुषोत्तमो नारायणः,
ब्रह्मादि-स्थावरान्तम् अखिलं जगत् सृष्ट्वा ,

स्वेन रूपेणावस्थितो ब्रह्मादि-देव-मनुष्याणां ध्यानाराधनाद्य्-अगोचरः,
अपार-कारुण्य-सौशील्य-वात्सल्यौदार्य-महोदधिः,
स्वम् एव रूपं तत्-तत्-सजातीय-संस्थानं
स्व–स्व-भावम् अजहद् एव कुर्वन्

तेषु तेषु लोकेष्व् अवतीर्यावतीर्य
तैस् तैर् आराधितस्
तत् तद् इष्टानुरूपं धर्मार्थ-काम-मोक्षाख्यं फलं प्रयच्छन्,
भू-भारावतारणापदेशेनास्मद्-आदीनाम् अपि समाश्रयणीयत्वायावतीर्योर्व्यां

सकल-मनुज-नयन-विषयतां गतः,
परावर-निखिल-जन-मनो-नयन-हारि-दिव्य-चेष्टितानि कुर्वन्,
पूतना-शकट-यमलार्जुनारिष्ट-प्रलम्ब-धेनुक-कालिय-केशि-
कुवलयापीड-चाणूर-मुष्टिक-तोसल-कंसादीन् निहत्य

अनवधिक-दया-सौहार्दानुराग-गर्भावलोकनालापामृतैर् विश्वम् आप्याययन्,

निरतिशय-सौन्दर्य-सौशील्यादि-गुण-गणाविष्कारेणाक्रूर-मालाकारादीन् परम-भागवतान् कृत्वा,
पाण्डु-तनय-युद्ध-प्रोत्साहन-व्याजेन
परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया वेदान्तोदितं
स्व-विषयं ज्ञान-कर्मानुगृहीतं भक्ति-योगम् अवतारयाम् आस

तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे
स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगदुपकृति-मर्त्य आश्रित-वात्सल्य-विवशः
पार्थं रथिनम्, आत्मानं च सारथिं सर्वलोक-साक्षिकं चकार

एवं ज्ञात्वापि
सर्वात्मनान्धो धृतराष्ट्रः
सुयोधन-विजय-बुभुत्सया सञ्जयं पप्रच्छ ।

वेदान्तदेशिकः

00 तात्पर्यचन्द्रिका वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका

यतिपरिबृढो यद्गीतानामदर्शयदञ्जसानिगमपरिषन्न दीयांसं २निरामयमाशयम् ।

जननपदवीयातायातश्रमापहरां धियं ।जनयतु स मे देवः श्रीमान्धनञ्जयसारथिः ॥

अनुचितपदवीभिश्चिन्तयित्वा प्रयातान्यलमल ३मतिमात्रत्रासचिन्ताविषादैः ।

उपनिषदमुदारा ४मुद्वमन्पाण्डवार्थशरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा ॥

५सन्तः सारलिहश्चित्ततमःप्रमथिनीमिमान् ।

भजन्तु भगवद्गीताभाष्यतात्पर्यचन्द्रिकाम् ॥

श्रीमद्गीतां व्याचिख्यासु:, अविघ्नपरिपूरणप्रचयगमनार्थ परमाचार्यस्य संग्रहश्लोकनिर्माण. मुखेन तदर्थोपदेष्ट्रतां तदनुवृत्तेः स्वाचार्यसंप्रीणनतामप्यनुसन्दधानः, परमाचार्यभजनरूपं मङ्गलमाचरति –यत्पदाम्भोरुहेत्यादि । ६यच्छब्देन सर्वोत्तराचार्यगुणपौष्कल्यहेतुकां प्रसिद्धि सूचयति । अम्भोरुहशब्देन भोग्यत्वप्रतीतेर्भक्तिरूपत्वं ध्यानस्य व्यज्यते । ७यामुनाचार्यस्य, द्रोणाचार्यस्य एकलव्य इवाहमित्यभिप्रायेण ध्यानशब्दः । सकृत्सन्दर्शनेन प्रायशः कल्मषाणि विध्वस्तानि, तन्मूलनिरन्तरस्मरणेन तेषां सवासनोन्मूलनं कृतमित्यभिप्रायेण ध्यानविध्वस्ताशेषकल्मषः’ इत्युक्तम् । वस्तुताम्८‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विन्दुः’ इत्याद्युक्तप्रकाराम् । अहं वस्तुतामुपयात इत्याश्चर्यगर्भम् ।।

एवमनिष्टनिवर्तनेष्टप्रापणरूपोपकारस्मृतिप्रेरितवागादि त्रितयकरणकः प्रणामः शिष्यशिक्षणार्थ श्रोतृणां फलसिद्धयर्थं च ग्रन्थे निवेशितः।तेन स्वाचार्यवत्तदाचार्यपरम्पराया अपि भजनमत्यादरेणकरणीयमित्यपि शिक्षितम् । तथा च श्रूयते, २ ३ से चाचार्यवंशो ज्ञेयो भवति, आचार्याणामसावसावित्या भगवत्तः’ इति ।।

अथाभिमतपरदैवतस्य भगवतः ४स्वरूपरूपगुणविभवादिभावनावर्णनाभ्यामर्थादभङ्गुरं मङ्गलमाचरन्, ५‘स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म गीताशास्त्रे समीरितः इति संग्रहानुरोधेन व्याख्येयशास्त्रप्रधानप्रतिपाद्यं च सप्रकारं दर्शयन्, शास्त्रप्रमाण्यस्थापनाय वक्तु: स्वतः सर्वज्ञत्वपरमकारुणिकत्वसाधुपरित्राणोन्मुखावस्थत्व६सर्वशक्तित्वादिना भ्रमविप्रलम्भ७प्रमादाशक्त्याद्यभावप्रदर्शनेनाप्ततमत्वं समर्थयन्, अपवर्गप्रधानचतुर्वर्गोपायवोधात्मकमवान्तरप्रयोजनम् अपवर्गदशानुभाव्य ८सप्रकारभगवत्स्वरूपं च परमप्रयोजनं प्रकाशयन्, शंकरादिपक्षे शास्त्रोपदेशारम्भाद्यनुपपत्तेर्वक्ष्यमाणायाः स्वपक्षे प्रसङ्गाभावाय शास्त्रोपदेशाद्यनुकूलजीवपरमात्मपारमार्थिकभेदादिकथनेन शास्त्रारम्भं समञ्जसयन्, कारणशोधकोपासनभेदाभेदघटकवचसां सर्वेषामपि मुख्यतां ख्यापयन्, गुणतनुजनिविभवविहरणादिविधिनिषेधोपनिषदामल्पश्रुतकुमतिविहितप्रतारणकृतकलहकूलङ्कषां ९विषयव्यवस्थामपि स्थापयन्,अवाप्तसमस्तकामस्यापि लीलामात्रविहितनिखिलव्यापारत्वेन शारीरकद्वितीयाध्यायसिद्धं विरोधपरिहारमुपलक्षयन्, जिज्ञास्यजगत्कारणपरब्रह्मभृतदेवताविशेषमपि सर्वशाखाप्रत्ययसामान्यविशेषादिन्यायैः १०त्रिमूर्त्यैक्यसाम्योत्तीर्णव्यक्त्यन्तरत्वव्युदासेन निरूपिताकारं ११निर्दिशन्, १२‘बहु स्याम्’ इति संकल्पमारभ्य सारथ्यचर्यापर्यन्तस्य सर्वस्य जगद्व्यापारस्याश्रितार्थतया व्याजमात्रलाभादपि परमपुरुषार्थभूतस्वात्मोपलम्भकाध्यात्मशास्त्रावतरणादिना च सौलभ्यातिशयमुद्धोषयन्, प्राप्यत्वोपास्यत्वैकान्तपरत्वसौलभ्यस्थापनौपयिकगुण१३वर्गद्वये जगत्पतित्वसर्वज्ञत्वसर्वशक्तित्वसर्वेश्वरत्वादिकं परमकारुणिकत्वशुभाश्रयत्वाश्रितार्थावतारत्वविरोधिनिरसनशीलत्वासेचनकदर्शनत्वादिकंचोदाहरन्, पञ्चमवेदपरमप्रतिपाद्यस्य भगवतो नारायणस्य प्राक्तनोदन्तं गीतोपनिषदुपदेशेन संगमयति–श्रियः पतिरित्यादिना अवतारयामासेत्यन्तेन । तत्रेत्यादिना चकारेत्यन्तेन द्वितीयेन वाक्येन बुभुत्सोर्धृतराष्ट्रस्य ज्ञातांशनिष्कर्षः । एवंज्ञात्वापीत्यादिना तु १४तृतीयेन वाक्येन १५शास्त्रोपोद्धातारम्भभूतप्रश्नसंङ्गतिः । अत्र दिव्यात्मस्वरूपव्यतिरिक्त समस्तमपि नारशब्दार्थतया विचिच्य दर्शयिष्यन्, तदयनं स्वरूपमन्यपदार्थतया उत्तरपदार्थतया १६वा समासद्वयेऽपि प्रधानभूतं प्रथमं निष्कृष्य दर्शयति –

श्रियःपतिरित्यादिना। विशेषज्ञप्तये भर्तुरभिगम्यत्वसिद्धये । समस्तमङ्गलाप्त्यै च प्रथमं श्रीरिहोदिता ।। १’एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः । नागपर्यङ्गमुत्सृज्य ह्यागतो मधुरां पुरीम्’ २‘अर्थो विष्णुरियं वाणी’ इत्यादिकमिह भाव्यम् । कतिपयहेयनिवर्तकतीर्थसेवादिव्युदासाय निखिलेति विशेषणम् । अत्र हेयशून्यत्वमर्थसिद्धम् । न हि परगतनिखिलहेयनिराकरणसमर्थः स्वगतं हेयं क्षमते । यद्वा हेयविरोधिस्वभावतया ३हेयशून्यमित्यर्थः । तदा निखिलशब्दः सर्वाचिद्गतं विकारादिकं सर्वचिद्गतं क्लेशादिकं च संगृह्णाति; कुमतिपरिकल्पितमंशभेदेनाकल्याणस्पर्शमपाकर्तुं कल्याणैतानशब्दः । अत एव ‘ज्ञानानन्दैकस्वरूपः’ इत्यनेनापौनरुक्त्यम् । अथवा सामान्यविशेषनिर्देशरूपत्वादपुनरुक्तिः । यद्वा ४कल्याणैकतानः५कल्याणगुणानामेवाश्रयभूत इति वक्ष्यमाणगुणप्रपञ्चस्य ६संग्रहः ।।

त्रिविधानां चेतनाचेतनानां पराधीनत्वादिसाम्यादेवंभूतं वस्त्वन्तरं नास्तीत्यभिप्रायेणाह‌‌‌‌– स्वेतरेति । एतेन ज्ञानभोगसाम्येऽपि सर्वप्रकारसमत्वनिषेधः।७‘नित्यं विभुं सर्वगतम्’ ८’विश्वमेवेदं पुरुषः’ इत्यादिप्रसिद्धं त्रिविधपरिच्छेदराहित्यं प्राधान्यतः पृथगाह–अनन्तेति । अनन्तं त्रिविधपरिच्छेदरहितम् । ‘अत्रैव देशेऽस्ति, अत्र तु नास्ति’ इति देशपरिच्छेदः; ‘अत्र कालेऽस्ति, अत्र तु नास्ति’ इति कालपरिच्छेदः; ‘इदम् इदं न भवति’ इति वस्तुपरिच्छेदः, अल्पवर्णस्वर्णवत् स्वरूपापकृष्टत्वादिकं वा । एवंविधपरिच्छेदत्रयराहित्यं नाम सर्वदेशसर्वकालव्यापित्व९सर्वान्तर्यामित्वरूपम् । वस्तुपरिच्छेदराहित्यं हि समस्तवस्तुसामानाधिकरण्ययोग्यत्वादिकम्; न पुनमर्थांविरुद्धविविधवस्तुतादात्म्यं स्वव्यतिरिक्तसमस्तवस्तुमिथ्यात्वं वा, १०उभयोरत्यन्तासंभावितत्वात् । विस्तरस्तु शतदूषण्यां कृतोऽस्माभिः । आनन्दस्य ज्ञानविशेषत्वात् ज्ञानानन्दशब्दयोः सामानाधिकरण्यमुपपन्नम् । तर्हिआनन्दशब्दस्य विशेष शब्दत्वात् १ ‘घटद्रव्यम्’ इत्यादिवत् ‘आनन्दज्ञानम्’ इति वक्तव्यमिति चेत्, तन्न; बहुलग्रहणेन सर्वोपपत्तेः । यद्वा आनन्दशब्दस्य अनुकूलवेदनीयेषु जडेष्वपि प्रयोगात्तद्विशेषणतया ज्ञानशब्दस्य पूर्वत्वोपपत्तिः । स्वरूपं प्रतीदं विशेषणद्वयं वा ।।

स्वाभाविकेति। स्वरूपापेक्षया गुणविग्रहादीनामपृथक्सिद्धिसाम्येऽपि विग्रहादिधारणनियमनादौ ज्ञानादिगुणगणापेक्षत्वप्रदर्शनाय उत्तरोत्तरसुग्रहत्वसिद्धये च प्रथमं गुणोक्तिः । समस्तगुणबुन्दप्रधानतया षाड्गुण्यस्य स्वरूपेणोपादानम्; इतरेषां च सौशील्यादीनां प्रभृतिशब्देन संग्रहणं कृतम् । २’तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यैस्त्वयेव जगत्कुक्षावन्येऽप्यन्तर्निवेशिताः’ इति ह्याहुः । संहृतिसृष्टिस्थितिहेतुभूतसंकर्षणादिव्यूहत्रये ज्ञानबलादि ३द्वन्द्वत्रिकस्य यथाक्रमं तत्तत्कार्य विशेषोन्मुखत्वेनाविर्भावविशेषात् ज्ञानबलेत्यादिक्रमविशेषः कृतः । स्वतः सर्वं सर्वथा ४सर्वदा साक्षात्करोति, तथा साक्षात्कृतं च सर्वं धारयति, धारयन्नेव नियच्छति, धारयन्नियच्छं५श्चाशिथिलो भवति, अघटितं च घटयति, तत्र च सहकारिनिरपेक्षो न ६केनचिदभिभूयते किंतु सर्वाभिभूर्भवति, इति च गुणक्रमपाठ ७विवक्षा। स्वाभाविकत्वमनन्याधीनत्वम् । मुक्तनित्ययोरपि हि तादृशं ज्ञानादिकं तदनुगुणपरमात्मसंकल्पाधीनम् । अनवधिकत्वमत्रोत्कृष्टावधिराहित्यम् । द्वाभ्यां विशेषणाभ्यां ८’परास्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया च’ इत्याम्नाते परत्वस्वाभाविकत्वे प्रतिगुणमन्विते प्रदर्शिते । असङ्ख्येयशब्देन महोदधिशब्देन च ‘यथा रत्नानि जलधेरसङ्ख्येयानि पुत्रक। ९तथा गुणा १०ह्यनन्तस्य असङ्ख्येया महात्मनः’ इत्यादि स्मारितम् । कल्याणशब्देन गुणनिषेधवचनानां हेयगुणविषयत्वमुत्सर्गा११पवादन्यायसिद्धं १२सूचितम्।।

अथ कारणोपासनादिप्रकरणेष्वस्त्रभूषणाध्यायादिषु च प्रतिपन्नं विलक्षणविग्रहयोंगं दर्शयतिस्वाभिमतेति । अभिमतेऽप्यननुरूपत्वस्य अनुरूपेऽप्यनभिमतत्वस्य लोके दृष्टत्वात्तदुभयव्यवच्छेदाय स्वाभिमतानुरूपेत्युक्तम्। एकरूपेत्यनेन व्यूहविभवाद्यवस्थास्वपि हेयप्रत्यनीकत्वानन्दावहत्वमूमुक्षूपास्यत्व प्राप्यत्वादिस्वभावापरित्यागोऽभिहितः । यद्वा व्यहादिपरिणामे सत्यपि परमव्योम१निलयस्य विग्रहस्य प्राचीनसंस्थानावस्थितिरुक्ता ।‘सावयवत्वादनित्यम्’ इत्यादीनां धर्मिग्राहकबाधादिभिराभासतामभिप्रेत्य अचिन्त्यत्वोक्तिः । एको दिव्यशब्दः संस्थानवैलक्षण्यपरः, परमव्योमवर्तित्वमात्रपरो वा; इतरस्त्वप्राकृतत्वपरः । विचित्रावतारयोगः, प्रतिक्षणमपूर्ववदनुभाव्यत्वम्, वटपत्रशयनविश्वरूपाद्यवस्थागतमाश्चर्यं च, अद्भूतशब्देन विवक्षितम् । नित्यत्वं २कालापरिच्छिन्नत्वम् । तथा चामानन्ति रहस्याम्नायविदः, ३’नित्यालिङ्गा स्वभावसंसिद्धिरिन्द्रियाकाराङ्गप्रत्यङ्गव्यञ्जनवती’ इति । श्रीपौष्करे च,४’५नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर । यस्यास्ति सत्ता हृदये तस्यासौ संनिधिं व्रजेत्’ इति । निरवद्यत्वं जरादिराहित्यम् । उत्तरोत्तरनिरवद्यशब्देषु पूर्वपूर्वेभ्यः सुग्रहत्वं विवक्षितम् । शुभाश्रयत्वभोग्यत्वाद्युपयुक्तमङ्गलगुणयोगो निरतिशयौज्ज्वल्येत्यादिनोक्तः । निरतिशयत्वं स्वापेक्षया उत्कृष्टराहित्यम्, अनुत्तमत्ववत् । तच्च प्रतिगुणमन्वेतव्यम् । औज्ज्वल्यं भास्वरत्वम् । सौन्दर्यम् ६अवयवशोभा । ७’सर्वगन्धः’ इति श्रुतिरनुकूलगन्धविषया; स्रक्चन्दनादि चात्र कृतकरमित्यभिप्रायेण सौगन्ध्यशब्दः । सौकुमार्यं महाबलत्वेऽपि८’पुष्पहासः इति नाम दुहानं मार्दवम्; यथोक्तम्, ९ ‘सुकुमारौ महाबलौ’ इति ! लावण्यं समुदायशोभा। यत्तदुच्यते भगवच्छास्त्रे, १०’विश्वमाप्याययन्कान्त्या पूर्णेन्द्वयुततुल्यया’ इति । ११ ‘भूयिष्ठं तेज एवाद्भिर्बहुलाभिमृदूकृतम् ।चक्षुरानन्दजननं लावण्यमिति कथ्यते’ इति ह्याहुः । यौवनं कौमारानन्तर्योपलक्षणीयः स्वाभवविशेषः, न तु कौमारानन्तरभाविन्येव दशाः तद्यौवनस्यानादित्वात् देवादिषु च केषांचित् युवत्वेनैवोत्पत्तिदर्शनात् । आदिशब्देन शुभाश्रयप्रकरणेषूक्ताः सर्वे विग्रहगुणाः संगृहीताः ।।

एवं स्वरूपतद्गुणौ बिग्रहतद्गुणौ च प्रतिपाद्य, विग्रहाश्रितमाभरणवर्गमायुधवर्गं च दर्शयति-स्वोचिते त्यादिपदद्वयेन । पूर्वोक्तविलक्षणविग्रहविशिष्टं स्वरूपमिह स्वशब्दार्थः । अत्र १ ‘आयताश्च सुवृत्ताश्च वाहवः परिघोपमाः । सर्वभूषणभूषार्हा:’ इत्यादि भाव्यम् । किरीटहारादिरूपेण वैविध्यम् । एकजातीयेष्वपि मणिकाञ्चनादिद्रव्यविशेषवर्णसंस्थानादिविशेषविशिष्टव्यक्तिभेदाद्वैचित्र्यम् । अपरिमितेत्यसंख्येयत्वोक्ते: अनन्तत्वमाश्चर्यविशेषणम्। अनवधिकाश्चर्यरसावहत्वमनन्ताश्चर्यत्वम्; अथवा अनन्तानि आश्चर्याणि संस्थानविशेषसौगन्ध्यसुखस्पर्शत्वादीनि येषां भूषणानां तानि तथोक्तानि ।। नित्यनिरवद्यज्ञब्दौ पूर्ववत् ।अपरिमितत्वमसंख्येयत्वमेव, न तु ह्रस्वदीर्घादिपरिमाणविरहः। यद्वा अनन्तेत्यसंख्येयत्वम्, अपरिमितेति च विग्रहानुरूप महत्त्वं, विविक्षितम् । भूषणायुधयोदिव्यत्वमप्राकृतत्वम् । पूर्वोक्तगुणविग्रहाभरणविशिष्टः ‘स्वानुरूप’ इत्यत्र स्वशब्दार्थः । असंख्येयेति । पञ्चायुधत्वप्रसिद्धिः प्राधान्यादिति भावः । अचिन्त्यशक्तीति । कुठारटङ्ककुद्दालादिभिः प्रत्येक कृच्छ्रसाध्यं । सालशैलवसुधातलविदारणम् एकेन हि महेषुणा कृतमिति भावः । निरतिशयकल्याणत्वं निरतिशयानन्दावहत्वम्, भूषणकोटावप्यनुप्रवेशात्; यद्वा लोके यान्यायुधलक्षणानि मङ्गलावहतया प्रसिद्धानि, तैः सर्वैः संपूर्णत्वम् ।।

पूर्व स्वरूपनिरूपकतया सामान्यतोऽभिहितां श्रियं विभूतिमध्येऽपि स्थितां विशेषतो दर्शयन्नर्थात्तत्स्वरूपादिकमप्याह-स्वाभिमतेति । स्वरूपं स्वासाधारणधर्मविशिष्टं श्रियो दिव्यात्मस्वरूपम् ।। रूपं दिव्यविग्रहः । रूपानन्तरो गुणशब्दस्तद्गत निरतिशयौज्ज्वल्यसौन्दर्यादिपरः । विभवशब्दः परिजनपरिबर्हादिपरः । परत्वसौलभ्यौपयिकगुणवर्गद्वयम् ऐश्वर्यशीलपदाभ्यामुपलक्षितम् । ततश्चादिशब्दः प्रत्येकमन्वयात् ज्ञानशक्त्यादिकं वात्सल्यादिकं च संगृह्णाति । ऐश्वर्यशीलादयः अनवधिकातिशयाश्च असंख्येयाश्च कल्याणाश्च गुणा, इति विशेषणसमासः । एवंविधगुणानां गण इति षष्ठीतत्परुषः । ऐश्वर्यशीलादेर्गणविशेषणत्वानौचित्यात्, अनवधिकातिशयत्वस्यापि गणविशेषणत्वे प्रत्येकगुणानामुत्कर्षस्याशाब्दत्वात्, गुणविशेषणतयैव समासः उचितः । स्वरूपम्, रूपम्, तद्गुणः, विभव: ऐश्वर्यादिगुणग्णश्चइति द्वन्द्वः । स्वरूपादिपञ्चकं भगवदभिमतानुरूपं नित्यं निरवद्ययस्याः । स्वाभिमतेत्यादिगुणगणेत्यन्तेनोक्ता । स्वरूपम्, रूपम्, तद्गुणः, विभवः, ऐश्वर्यम्, शीलम् इत्यादिगुणगण इति योजनायां स्वरूपरूपयोरपि गुणानुप्रवेशप्रसङ्गः । स्वरूपादेः सर्वस्य परमात्माभिमतत्वं व्यक्तम्।स्वरूप्स्य नित्यत्वं निर्विकारतया सर्वकालवर्तमानत्वम् । निरवद्यत्वं पूर्वं परमात्मस्वरूपे प्रतिपादितप्रकारम्, तद्वत् पितृत्वप्रयुक्तकादाचित्कोष्मलत्वादिराहित्यं वा । अनुरूपत्वं तु यथाप्रमाणं प्राग्देव कल्याणैकतानत्वादिकम् । शान्तानन्त’ इत्यादिकमिह भाव्यम् । रूपस्य नित्यत्वमवतारादिदशायामपि परमपदनिलयभगवदेकासनस्थितस्य तथावस्थितत्वम् । अनुरूपत्वं च, ‘अस्या देव्या ।यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् । रामस्य च यथारूपं तस्येयमसितेक्षणा’ ‘विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम्’ ।इत्यादि प्रतिपादितम् । विग्रहगुणानां नित्यत्वं नाम औज्ज्वल्यादेः कदाचिदप्यपकर्षाद्यभावः। निरवद्यत्वं च दुष्प्रेक्षतादिराहित्यम् । अनुरूपत्वं, ‘घनकनकद्युती युवदशामपि मुग्धदशाम् इत्याद्युक्तप्रकारम् । विभवस्यानुरूपत्वं, ‘देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः । स्त्रीनाम्नी ‘लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम्’ इत्यादिभिरनुसंन्धेयम् । अनवधिकातिशयत्ववचनादीश्वरव्यतिरिक्ताशेषगोचरस्यापि तदैश्वर्यस्य ईश्वराभिमतत्वान्न द्वैराज्यादिदोषः। ‘अस्येशाना जगतो विष्णुपत्नी’ इति विष्णुपत्नीत्ववेषेण हि सर्वस्य जगत इयमीष्टे । ‘ईश्वरीं सर्वभूतानाम्’ इत्यत्र तु, यद्यपि सर्वभूतानामिति प्रतिसम्बन्धिनिर्देशात् स्त्रीप्रत्ययानुसारेण ईश्वरपत्नीति विवक्षा न शक्या।।तथापि वाक्यान्तरबलादर्थस्य तथात्वसिद्धिः । निरद्यत्वं भगवदैश्वर्यैकरसत्वं वा निग्रहादि प्रसङ्गाभावो वा । प्रतिकुल दण्डकत्वं हि पुंस्त्वानुरूपं तद्वल्लभस्यैव भागः । शीलस्य नित्यत्वं महत्त्वे सत्यपि मन्दैः सह नोरन्ध्रसंश्लेषे कदाचिदपि स्वोत्कर्षप्रकाशनाभावः । निरवद्यत्वं तत्र विप्रलम्भाभिप्रायादिविरहः । अनुरूपत्वम्, अनवधिकातिशयत्वं च, तूल्यशीलवयोवृत्ताम्’ इत्याद्युक्तप्रकारम्। एवं श्रियः पृथङ्नि त्यस्वरूपगुणविभवैश्वर्यशीलादिप्रतिपादने ज्ञानादिगुणवदपृथक्सिद्धशक्तिमात्रत्वम् व्यूहविशेषत्वम्, स्वरूपैक्यम् अन्यदपि, वदन्तो निरस्ताः। शक्तित्ववादास्तु पत्नीत्वेन कार्योपयुक्तविशेषणत्वाभिप्रायाः । प्रयुज्यते हि शास्त्रेषु सर्वत्र स्त्रीपुंसात्मकेषु द्वन्द्वान्तरेष्वपि स्त्र्यंशे शक्तिशब्दः । एकत्ववादास्तु समस्तप्रपञ्चप्रतियोगिकैकशेषित्वाश्रयत्वेन, विशिष्टैक्येन, आत्महविः प्रत्युद्देश्यै कदेवतात्वादिवेषेण वा, निर्वाह्याः । अत एव हि त्र्यापकावतिसंश्लेषादेकतत्त्वमिवोदितौ इत्युच्यते। उक्तं च श्रीराममिश्रैः षडर्थसंक्षेपे ‘उभयाधिष्ठानं चैकं शेषित्वम्’ इत्यादि । एवंविधाया भगवत्याः, श्रियो वल्लभः प्रियतमः । श्रीः वल्लभा यस्येति वा । न चाभिमतशब्दपुनरुक्तिः, प्रत्येकममुदायविषयतयाभिमतत्वातिशयव्यञ्जनपरत्वादिति।।

अथ नित्यपरिजनविशिष्टतां दर्शयति स्वसङ्कल्पेति । स्वरूपं धर्म्यंशः । स्थितिः अप्रच्युततयावस्थानम् । प्रवृत्तिः व्यापारः । नित्यानां स्वरूपस्थित्योः परमात्मसंकल्पानुविधायित्वं नाम तन्नित्येच्छासिद्धत्वम् । तच्चानिच्छासम्भवे निवर्तयितुं शक्यतामात्रम् । तेषु त्वनिच्छायाः कदाचिदप्यभावात् स्थितेः सदातनत्वम् । इदं च परमात्मसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तित्व बद्धमुक्तप्रकृतप्राकृतकालादिष्वपि भाव्यम् । तच्च सर्वं प्रपञ्चयिष्यते । शेषता शेषवृत्तिरित्यर्थः । अशेषशेषता यथाभिमताकारता। अत्र ‘शरा नानाविधाश्चापि धनुरायतविग्रहम् । अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहा; ‘निवासशय्यासनपादुका इत्यादि द्रष्टव्यम् । एकैककृतस्यैव हि कैङ्कर्यस्य मिथः सर्वार्थतयाऽनुसन्धानात् सर्वेऽप्यस्य सर्वकैङ्कर्यकारिणो भवेयुः । यद्वा स्वरूपस्थितिप्रवृत्तिभेदा एव अशेषशब्देन संगृह्यन्ते; तेषामशेषाणां परमात्मानं प्रति शेषता शेषभावः । एवमुक्तप्रकारायां शेषतायामितरपरित्यागेन तदेकावलम्बिनी प्रीतिरेव रूपं स्वरूपं स्वभावो वा येषां ते अशेषशेषतैकरतिरूपाः । ते च सर्वे नित्याः । स्वरूपनित्यत्वस्य सर्वात्मसाधारणत्वात् मूक्तवत्कदाचिदाविर्भूत स्वरूपत्वमिह नित्यशब्देन व्युदस्यते, नित्यासंकुचितज्ञानादिगुणा इत्यर्थः । तत एव निरवद्या: क्लेश कर्मस्वातन्त्र्याभिमानादिदोषात्यन्ताभाववन्तः । एषां ज्ञानस्य निरतिशयत्वं परमात्मज्ञानतुल्यत्वम्। क्रियाया निरतिशयत्वं स्वच्छन्दानन्तकैङ्कर्यात्मकत्वम् । ऐश्वर्यस्य निरतिशयत्वं परमात्मकैङ्कर्योपयोगिस्वेच्छागृहीतशरीरेन्द्रियादिनियमने निर्विघातत्वम् न तु सर्वविषयत्वम् । “जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च’ इति न्यायात् । अत्र निरतिशयज्ञानक्रियैश्वर्यादिनन्तो गुणगणो येषामिति विग्रहः । ते च अपरिमिताः असङ्ख्येयाः सूरयः । ‘सदा पश्यन्ति सूरयः, तद्विप्रासो विपन्यवो जागृवाँसः समिन्धते’ इत्याद्यनुसन्धानेनाह–अनवरताभिष्टुतचरणयुगल इति । विपन्यवः विशेषेण स्तुतिशीलाः । ‘पण व्यवहारे स्तुतौ च । पन| च।’ अभिष्टुतेत्यभिर्विशब्दार्थः । स्तुतिशीलत्वादनवरतत्वोक्तिः ।।

स्तुतिविषियत्व प्रसक्तमैश्वर्यादेरियत्तारूपं परिच्छेदमपाकरोति–वाङ मनसेति । एतेन ‘यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्’ ‘सो अङ्ग वेद यदि वा न वेद’ ‘यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह’ इत्यादीनां वाङ्मनसयोरवेद्यत्वार्थतां वदन्तो निररताः। तथा सति ‘तद्विजिज्ञासस्व’ ‘मनसा तु विशुद्धेन’ ‘ब्रह्मवित्’ ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादिभिः, ‘यतो वाचो निवर्तन्ते’ इत्यत्र यच्छब्दादिभिश्च, विरोधप्रसङ्गः ।विरोधपरिहाराय मुख्यवृत्तिनिषेधविषयतया व्यवस्थाप्यत इति चेत्, आगतोऽसि पन्थानम्; विषयव्यवस्था तुयथाप्रमाणमस्माभिः क्रियत इति विशेषः । वाङ्मनसेत्यादिकं परमव्योमविशेषणतया केचिद्व्याचक्षते, श्रीवैकुण्ठगद्ये तथोक्तेः वयं तु अत्रैव षष्ठाध्याये’योगिनामपि’ इति श्लोके’वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्’ इति परमात्मविशेषणत्वेनैवाभिधानात्, कुमतिनिरासार्थमपेक्षितत्वाच्च अत्रापि तथा विवक्षामाचक्ष्महे ।।

स्वोचितेत्यादि । अत्राप्यनन्ताश्चर्यशब्दः पूर्ववत् । विभवशब्देन वाहनरत्नादि संग्रहः । अनन्तपरिमाणत्वं तिर्यगूर्ध्वादिदेशापेक्षया, अधस्तात् प्रकृत्यवच्छिन्नत्वात् । अनन्तशब्दावृत्तिः प्रत्येकमानन्त्ये तात्पर्यातिरेकात् । नित्यत्वं प्राकृतव्योमवल्लयरहितत्वम् । निरद्यत्वं शुद्धसत्त्वमयत्वेन रजस्तमस्तत्कार्यराहित्यम् । अक्षरत्वम् अंशतोऽपि सृष्टिसंहारविरहः । परमशब्देन परनिर्दिष्टप्रक्रियया प्राकृतव्योमव्यवच्छेदः । एतेन ‘तदक्षरे परमे व्योमन्’ इत्यादिश्रुतिसूचनम् । एवं नित्यविभूतियोग उक्तः ।।

अथ लीलाविभूतियोगप्रतिपादनमुखेन ‘यतो वा इमानि इत्यादि वाक्यैः ‘जन्माद्यस्य यतः’ इति सूत्रेण च, निरूपितं जिज्ञास्यब्रह्मलक्षणयोगं दर्शयति–विविधेति । शब्दस्पर्शादिरूपेण- दिव्यादिव्यादिभेदेन चात्र भोग्य वैविध्यवैचित्र्ये । ‘इमानि’ इत्यादिश्रुत्या हस्तप्रसारणेन तत्तत्प्रमाणसिद्धसमस्तकार्यप्रकारनिर्देशात् बहुवचनासङ्कोचाच्च भोक्तृणां ज्ञानसुखादितारतम्यहेतुभूतं देवादिरूपेण वैविध्यम्, तदवान्तरविधाभूत ब्राह्मणादिरूपेण वैचित्र्यं च, दर्शितम् । यद्वा विविधशब्द एव सावान्तरभेदं समस्तं वैविध्यं संगृह्णाति । विचित्रशब्दस्त्वा श्चर्यपरत्वेनान्याशक्यत्वपरः, ‘मेघोदयः’ इत्यारभ्य ‘विष्णोर्विचित्राः प्रभवन्ति मायाः’ इत्यादिवत् । ज्ञानसुखादितारतम्याभावेन परमव्योम्नि भोक्तृवैविध्याभावात् परभोग्यतैक रसानां नित्यसूरीणां पृथगुक्तत्वाच्च तत्र भोक्तृवर्गानुक्तिः । भोगोपकरणभोगस्थानान्यत्राप्यर्थसिद्धानि । एवंविधायाश्च विषम सृष्टेर्विचित्रानादिचेतनकर्मप्रवाहमूलत्वाल वैषम्यादिदोषः। निखिलशब्देन कतिपयसृष्ट्यादिनिमित्तोपादानभूतचतुर्मुखादिव्यावर्तनम् । उदयशब्देनसद्वारकाद्वारकसमस्तसृष्टिसंग्रहणम् । एवं विभवशब्देन विष्ण्ववतारान्तर्यामित्वादिकृतविविधस्थितिसंग्रहः । लयोऽपि नित्यनैमित्तिकादिरूपः । निखिलसृष्ट्यादिष्वन्यतमस्यैव ब्रह्मलक्षणत्वे संभवत्यपि, उपात्तव्यतिरिक्तयोः किमन्यः कर्तेति शङ्काव्यावर्तनाय सृष्ट्यादित्रयोपादानम् । जगद्गतानां त्रयाणामुदयविभवलयानामेतद्गतलीलात्वेन व्यपदेशादुपादानत्वं सूचितम् । जगदाकारेण जायमानत्वादीन्यस्य लीलाः, ‘बहुस्यां प्रजायेय’ इति हि जगत्कारणस्य तस्य संकल्पः । सूक्ष्मचिदचिद्विशिष्टस्यैवोपादनत्वात् बालस्येव युवत्वादिप्राप्तौ न स्वरूपतो विकार इति निर्विकारत्वश्रुत्यविरोधः ।अवाप्तसमस्तकामस्य कथं जगद्व्यापार इतिशङ्कांपरिहरतालीलाशब्देननिमित्तत्वमपि तस्यैवेति सिद्धम् । एतेन निमित्तोपादानभेदं वदन्तो निरस्ताः । न च लोके निमित्तोपादानभेददर्शनमात्राद्विरोधः, लौकिककारणविलक्षणत्वाच्छ्रुतिसिद्धस्य ब्रह्मणः । अन्ततो वैशेषिकादिभिरपि घटेश्वरगतसंयोगविभागद्वित्वपृथक्त्वादिकार्येष्वीश्वरस्यैव निमित्तत्वम् उपादानत्वं च अभ्युपगतमिति न कश्चिदस्मिन्मते दोषः । तथा बुद्धिपूर्वकस्वसुखोत्पादनादावपि द्रष्टव्यम्।।

एवं ब्रह्मलक्षणयोगात् नारायणस्यैव परब्रह्मत्वं दर्शयन्, सद्ब्रह्मात्मादिसामान्यशब्दानां नाराणाख्यविशेषपर्यवसानं च सूचयन्, ‘नारायण परं ब्रह्म’ इति श्रुत्यनुकारिणः ‘नारायणः परं ब्रह्म गीताशास्त्रे समीरितः’ इति गीतार्थसंग्रहश्लोकस्य प्रपञ्चनमिह क्रियत इति च ज्ञापयन्, उक्तैः प्रकारैः समाख्यात्रयमस्यैव संगतमिति चोदाहरन्, उक्तेष्वर्थेषु वा समाख्यात्रयं प्रमाणयन्, ‘परं ब्रह्म परंधाम । पवित्रं परमं भवान्’ ‘प्रथितः पुरुषोत्तमः ‘एष नारायणः श्रीमान्’ इत्यमीषां कृष्णैकविषयत्वं च दर्शयन्, अभेदश्रुतीनां भेदश्रुतीनां घटकश्रुतीनां कारणशोधकोपासनश्रुतीनां च निष्कृष्टमर्थं संगृह्णाति परं ब्रह्म पुरुषोत्तमो नारायण इति । सर्वसामानाधिकरण्यंसर्ववैलक्षण्यं च सर्वान्तर्यामित्वेनोपपन्नमिति पदत्रयाभिप्रायः । अत एव अत्र प्रपञ्चबाधभेदाभेदादिना सामानाधिकरण्यं वदन्तो निरस्ताः । ‘एको ह वै नारायण आसीन्न ब्रह्मा नेशानः’ इत्यारभ्य, ‘तत्रब्रह्मा चतुर्मुखोऽजायत ।यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै’ इत्याद्युक्तकरणकलेवरप्रदानहितोपदेष्टृत्वादिकमभिप्रेत्याह-ब्रह्मादि स्थावरान्तमखिलं जगत् सृष्ट्वेति । ब्रह्मसृज्यस्य स्थावरपर्यन्तस्य जगतः परमात्मसृज्यत्ववचनात् ब्रह्मादिकञ्चुकितः परमात्मा तत्तत्सृजतीति सिद्धम् ।।

अथ स्वेच्छयावतारं तत्प्रयोजनं च वक्तुमनवतारदशायां तत्प्रयोजनानिर्वृत्ति दर्शयति स्वेनेत्यादिना अगोचर इत्यन्तेन । अगोचरत्वम् अव्यक्तत्वात् । यथोच्यते– ‘यैर्लक्षणैरुपेतो हि हरिरव्यक्तरूपधृत् । तैर्लक्षणैरुपेता हि व्यक्तरूपदशा युवाम्’ इति । ब्रह्मादिदेवेति वचनात् ‘तदुपर्यपि बादरायणः संभवात्’ इत्यधिकरणेऽर्थित्वसामर्थ्याभ्यां समर्थितं ब्रह्मरुद्रेन्द्रादिदेवजातीनामपि परमात्मोपासनाधिकारित्वं सूचितम् । स्वप्रयोजनाभावे कथं प्रवर्तेतेत्यत्राह–अपारेति । स्वार्थनिरपेक्षया परदुःखासहिष्णुतया, महत्त्वाप्रतिरुद्धया मन्दैः सह निरन्तरसंश्लेषरसिकतया, स्वाभाविकेन परदोषतिरस्कारिणा संबन्धविशेषेण, पिशाचगोपालगोपिकादिभ्यः स्वात्मसमर्पणे कृतेऽपि कियदृत्तमिति भावयता महौदार्येण च, प्रेरितोऽवतरतीत्यर्थः । अस्त्रभूषणाध्यायोक्तं विग्रहं समस्ताः शक्तयश्चैतनृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत्’ इति परामृश्य, ‘समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया’ इत्युक्तप्रकारेणावतारविग्रहस्याप्य -प्राकृतपरमपदनिलयविग्रहांशविशेषत्वं दर्शयितुं, स्वमेव रूपम् इत्यादि उपन्यस्तम् । ०’नैष गर्भत्वमापेदे न योन्यामवसत्प्रभुः’ ‘न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसंभवा ‘न भूतसंघसंस्थानो। देहोऽस्य परमात्मन.’ इति चोच्यते । ‘अजोऽपि सन्’ इत्यादि वक्ष्यमाणमनुसंदधान आह-। स्वस्वभावमजहदेवेति । ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत’ ‘संभवामि युगे युगे ! इत्यादिवीप्सार्थम्, ‘बहुनि मे व्यतीतानि जन्मानि’ इत्याद्यर्थं च भावयन्नाह तेषुतेषु लोकेष्ववतीर्यावतीर्येति । ‘स उ श्रेयान्भवति जायमानः ०‘यस्यावताररूपाणि समर्चन्ति दिवौकसः ।। अपश्यन्तः परं रूपम्’ इत्यादिकं स्मारयितुम् अवतीर्यावतीर्य तैस्तैराराधितः इत्युक्तम् । तत्तदिष्टानुरूपम्| इति वचनात् फलप्रदाने वैषम्यदोषः परिहृतः । ‘तस्मिन्प्रसन्ने किमिहास्त्यलभ्यम्’ इत्यादि चात्रानुसंधेयम्।।

एवमवतारसामान्यं तत्प्रयोजनं च दर्शितम् । अथ तद्विशेषं प्रस्तुतान्वितं दर्शयति-भूभारावतारणेत्यादिना । भूभारावतारणं व्याजमात्रम् । सर्वसमाश्रयणीयत्वं तु साक्षादुद्देश्यम् । दुष्कृद्विनाशस्य साधु परिमाणाख्यमहाप्रयोजनानुषङ्गिकत्वात् भूभारावतारणापदेशेन इत्युक्तम् । अस्मदादीनामपि अयोगिनामित्यर्थः । समाश्रयणीयत्वं विवृणोति—सकलेति । ‘यन्न देवा न मुनयो न चाहं न च शंकरः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम्’ इत्यादिप्रतिपादितप्रकारेण महायोगिनां परिशुद्धेन मनसापि दुग्रहः सौलभ्यातिरेकात् मनुष्याणां तत्राप्यागोपालमवधीरितविरुद्धाविरुद्ध विभागानां मांसचक्षुषा ग्राह्योऽभूदिति भावः। एवमवतरणनयनविषयत्वयोर्न केवलमाराध्यत्वमेव प्रयोजनम्, किन्तु तदनुभवोऽपीत्यभिप्रायेणाह-परावरेति । पराः उपसनसमर्था ब्रह्मरुद्रभीष्माक्रूरादयः । अवरास्तु आभीरप्रभृतयः । निखिलजन इति स्त्रीपुंसादिविभागोऽपि नास्तीत्यभिप्रेतम. पुंसां दृष्टिचित्तापहारिणम्’ इतिवत् । दिव्यचेष्टितानि नवनीतनटनादीनि । एवं विशेषणद्वयं साधुपरित्राण प्रकारविशेषतयाभिहितम् । अथ साधुपरित्राणानुषङ्गिकं दुष्कृद्विनाशनप्रकारं प्रपञ्चयति–पूतनेतिभगवतो बलभद्रस्याप्येतदंशरूपत्वात् प्रलम्बमुष्टिकादिहननमप्येतत्कर्तृकतयोपात्तम् । पुनः साधुपरित्राणान्तर्गतां भोग्यतां दर्शयति–अनवधिकेति । प्रियतमस्वरूप दर्शनं धारकम्; तच्चेष्टितदर्शनं पोषकम्; तेन सहालापादिः भोगप्रकारः; इति नयनविषयत्वचेष्टितालोकनादिविभागनिर्देशाभिप्रायः । दया स्वार्थनिरपेक्षा परदुःखनिराकरणेच्छा; सौहार्दं हितैषित्वम् अनुरागः प्रीतिः । एवं साधुपरित्राणं तदौपयिकं दुष्कृद्विनाशनं चोक्तम् । अथ धर्मसंस्थापनम् आराध्यस्वरूपप्रदर्शनेन देशकालविप्रकृष्टानामपि परम्परयानुग्राहकेणोपदेशेन च दर्शयति-निरतिशयेत्यादिना वाक्यशेषेण । एतच्चाखिलं ‘परित्राणाय’ इति श्लोके व्याख्यास्यते । तत्र हि साधूनां लक्षणस्वभावादिकमुक्त्वानन्तरमेवमुक्तम्‘मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय, तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्य आराध्यस्वरूपप्रदर्शनेन स्थापनाय च, देवमनुष्यादिरूपेण युगे युगेसंभवामि’ इति । उपदेशतो धर्मस्थापनं व्यासादिमुखे नापि कर्तुं शक्यम् । आराध्याकारप्रदर्शनेन स्थापनं तु स्वेनैवावश्यकर्तव्यमिति भावः । बाह्यान्तरकरण ग्राह्यगुणवर्गद्वयप्रदर्शनतया सौन्दर्यसौशील्ययोर्ग्रहणम् । परमभागवतान् कृत्वेति भगवद्भक्तिरूपपरधर्मनिष्ठान् कृत्वेत्यर्थः ।।

एवं प्राचीनभगवच्चरितस्य श्रीमद्गीतार्थोपदेशेन संगतिः प्रदर्शिता । पाण्डुतनययुद्धप्रोत्साहनव्याजेन इति तु भारतकथासंगतिः । अत्र व्याजशब्देन ‘अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थ प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम्’ इत्यत्र ‘उद्दिश्य’ इति पदस्याभिप्रायो विवृतः । ‘परमपुरुषार्थ’ इत्यादिना शास्त्रस्य परमप्रयोजनाभिधानम् । तेनात्र भूमविद्यायामिवात्मानुभवोक्तिरप्यैश्वर्योक्तिवद्भगवदनुभवापेक्षया निकृष्टपर्वज्ञापनायेति सूचितम् । मोक्षसाधनतया इति साध्यसाधनभावनिर्देशेन संसार्यात्मन एव नित्यमुक्तिं वदन्तो निराकृताः । वेदान्तोदितं वेदान्तविहितम्, न तु वेदान्तोत्पादितमित्यर्थः । एतेन अविधेयज्ञानवादिनो निरस्ताः । वेदान्तोदितस्यार्थस्योपबृंहणमत्र क्रियत इति भावः । स्वविषयमिति मोक्षार्थोपासनवाक्यानामनन्यपरतया साक्षात्परमपुरुषाराधनविषयत्वमेव । अथर्वशिरः प्रतर्दनविद्यादिषु रुद्रे न्द्रादिभिः स्वस्य मुमुक्षूपास्यत्व वचनेऽपि रुद्रेन्द्राद्यन्तर्यामिभूतः परमात्मैवोपास्य इति शास्त्रदृष्टया तूपदेशो वामदेवदत्’ इति सूत्रकारैरेव प्रतिपादितमिति भावः । एतेन वेदान्तोदितमाहात्म्यवादिनो भगवतः ‘स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसिनः’ इति सूचितम् । स्वविषयम् इति भक्तियोगस्य सिद्धरूपपरमप्रतिपाद्यानुबन्धित्वं दर्शितम् । प्रधानविधेयांशनिष्कर्षाय भक्तियोगम् इत्युक्तम् । ज्ञानकर्मानुगृहीतत्वं ज्ञानकर्मसाध्यत्वम् । एतेन समुच्चयादिपक्षा निरस्ताः । वैराग्यस्य संंग्रहश्लोके पृथगुक्तस्यापि निष्ठाद्वयानुप्रविष्टत्वादिहानुक्तिः । एवमुपायोपेयात्मकमुभयमपि शास्त्रप्रतिपाद्यमिति संग्रहश्लोकतात्पर्यमुक्तं भवति । मोक्षसाधनतया वेदान्तोदितं भक्तिभक्तियोगम् इति वचनात् उपासनस्यार्वाचीनब्रह्मप्राप्त्यादिसाधनत्वंवाक्यार्थज्ञानमात्रस्य मोक्षसाधनत्वं च वदन्तः प्रयुक्ताः । ज्ञानध्यानादिसामान्यवचसां भक्तिरूपविशेषे पर्यवसानमिति च भावः । एतच्चाखिलमुत्तरत्र व्यक्तं भविष्यति।

एवं शास्त्रं संगमय्य, शास्त्रोपोद्धातं संगमयितुं पाण्डुतनय इत्यादिना सूचितं पूर्ववृत्तान्तं प्रकटयन् सारथित्वेनावस्थायाचार्यकृत्यकरणे प्रतारकत्वशङ्कां च वारयति-तत्रेति । तत्र प्रथमं भक्तियोगमवतारयितुमेवं चकारेत्यर्थः; यद्वा तत्र युद्धे प्रारब्धे इत्यन्वयः; भक्तियोगावतरणव्याजभूतप्रोत्साहनविषयभूते युद्धे प्रारब्धे इत्यर्थः । भगवतोऽवतारदशायामपि पूर्णत्वस्वाच्छन्द्यादिक वात्सल्यादिमूलसारथ्याद्यपकृष्टकर्मानुष्ठानस्य गुणरूपत्वादिकं च प्रदर्शयितुं स भगवान् इत्याद्युक्तम् । स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरः इति चतुर्भिः पदैः स्वरूपगुणवैलक्षण्यविभूत्यादिप्रतिपादनेन परत्वसंग्रहः । सवेश्वरेश्वरः इत्यनेन ‘सर्वेश्वरेश्वरः कृष्णः’ इत्यादिवचनोक्तं स्वाच्छन्द्यं जगत्कुटम्बित्वं च ज्ञापितम् । जगदुपकृतिमर्त्य आश्रितवात्सल्यविवशः इति सौलभ्यसंग्रहः । अविप्रलम्भकत्वं चानेन व्यञ्जितम्; ‘जगतामुपकाराय’, ‘जगदुपकृतिमर्त्यं को विजेतुं समर्थः’ इत्यादिकमिह स्मारितम् । जगदुपकृतिमर्त्यत्वेऽप्युत्कृष्टचरितं परित्यज्य निकृष्टसारथ्यादिकृत्यंं किमर्थं कुरुते इत्यत्रोक्तम्-आश्रितवात्सल्यविवशः इति । पार्थ रथिनमात्मानंच सारथिमिति-अपकृष्टं पार्थमुत्कृष्टकृत्येस्वयमेवावस्थाप्य आत्मानमुत्कृष्टं निकृष्टकृत्ये चकारेति भावः । पार्थशब्देन वात्सल्यौपयिकलौकिकसम्बन्धविशेषोऽपि सूचितः; पितृष्वसा हि पृथा भगवतः । सर्वलोकसाक्षिकमिति–न चासौ निकृष्टकृत्यं सापत्रपो रहस्ये कृतवान्; अत इदमपि आश्रितवात्सल्यस्य नैरपेक्ष्यस्य अर्थापह्नवाद्यसंभवस्य च । लिङ्गमिति भावः । यद्वा सर्वेषां स्वसमाश्रयणेन पुरुषार्थलाभाय स्वस्य शास्त्रंकसमधिगम्यमाश्रितपारतन्त्र्यं सर्वलोकप्रत्यक्षं चकारेति भावः ।।

अथ ‘त्वां शीलरूप’ इत्यादिक्रमेणानन्यसाधारणशील रूपचरितपरमसत्त्वप्रबलशास्त्रदेवता पारमार्थ्यवेदिशान्तनवसञ्जयादिवचनैरप्यासुरप्रकृतीनां यथावदवगन्तुमशक्यतां प्रदर्शयन्, गीतोपनिषत्प्रस्तावनार्थ प्रथमश्लोकमवतारयति- एवमिति; श्रियः पतिरित्यादिना पूर्वोक्तप्रकारेणेत्यर्थः। सर्वात्मनेति–न केवलं चक्षुषा, परत्रेह च हितमजानता मनसापीत्यर्थः । एवंविधमान्ध्यं सुयोधनविजयाभिलाषेण प्रश्ने हेतुः । अत्र ‘मामकाः’ इति प्रथमोक्त्या ममकारेण, ‘यत्र योगेश्वरः’ इत्यादि – प्रतिवचनप्रक्रियया च, सूचितं प्रष्टुरभिप्रायं दर्शयितुं सुयोधन इत्यादिकमुक्तम् । सञ्जयमिति–व्यासप्रसादलब्धसकलभारतसमरवृत्तान्तसाक्षात्कारं ‘शुद्धभावं गतो भवत्या शास्त्राद्वेद्मि जनार्दनम् । इत्यादिवादिनम्; एवं यथार्थदर्शित्वयथादृष्टार्थवादित्वाभ्यामाप्ततमतया निर्णीतमिति भावः। पप्रच्छ, समरवृत्तान्तमिति शेषः ।।

॥1.1॥ धर्मक्षेत्रे धर्मस्य स्थानभूते समराध्वरसमुचिते इति भावः। कुरुक्षेत्रे पाण्डवधार्तराष्ट्राणां स्वकूटस्थनामोपलक्षितत्वेन बहुमानविषय इति भावः। युयुत्सवः समवेताः मिथः प्रत्यनीकरूपेण व्यूढा इत्यर्थः। च एव इत्यव्यय-द्व्यम् अनतिरिक्तार्थम्। यद्वा समस्त-भूमण्डल-वर्तिनां राज्ञां तत्र समाहारेऽपि तादर्थ्याद् वर्ग-द्वयम् एव तथाऽभूद् इत्य् एव-काराभिप्रायः। अकुर्वत इत्यात्मनेपदेन कर्त्रभिप्रायक्रियाफलविषयेण स्वार्थतोक्ता।

आदिदेवानन्दः

1.1 - 1.19 Dhrtarastra said - Sanjaya said Duryodhana, after viewing the forces of Pandavas protected by Bhima, and his own forces protected by Bhisma conveyed his views thus to Drona, his teacher, about the adeacy of Bhima’s forces for conering the Kaurava forces and the inadeacy of his own forces for victory against the Pandava forces. He was grief-stricken within. Observing his (Duryodhana’s) despondecny, Bhisma, in order to cheer him, roared like a lion, and then blowing his conch, made his side sound their conchs and kettle-drums, which made an uproar as a sign of victory. Then, having heard that great tumult, Arjuna and Sri Krsna the Lord of all lords, who was acting as the charioteer of Arjuna, sitting in their great chariot which was powerful enough to coner the three worlds; blew their divine conchs Srimad Pancajanya and Devadatta. Then, both Yudhisthira and Bhima blew their respective conchs separately. That tumult rent asunder the hearts of your sons, led by Duryodhana. The sons of Dhrtarastra then thought, ‘Our cause is almost lost now itself.’ So said Sanjaya to Dhrtarastra who was longing for their victory. Sanjaya said to Dhrtarastra: Then, seeing the Kauravas, who were ready for battle, Arjuna, who had Hanuman, noted for his exploit of burning Lanka, as the emblem on his flag on his chariot, directed his charioteer Sri Krsna, the Supreme Lord-who is overcome by parental love for those who take shelter in Him who is the treasure-house of knowledge, power, lordship, energy, potency and splendour, whose sportive delight brings about the origin, sustentation and dissolution of the entire cosmos at His will, who is the Lord of the senses, who controls in all ways the senses inner and outer of all, superior and inferior - by saying, ‘Station my chariot in an appropriate place in order that I may see exactly my enemies who are eager for battle.’

शङ्करः …{Loading}…

शङ्करः - मूलम्

1.1 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

गम्भीरानन्दः

1.1 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

हरिकृष्णदासः

॥1.1॥ Sri Sankaracharya did not comment on this sloka.

आनन्दगिरिः

॥1.1॥ एवं गीताशास्त्रस्य साध्यसाधनभूतनिष्ठाद्वयविषयस्य परापराभिधेयप्रयोजनवतो व्याख्येयत्वं प्रतिपाद्य व्याख्यातुकामः शास्त्रं तदेकदेशस्य प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य तात्पर्यमाह अत्र चेति। गीताशास्त्रे प्रथमाध्याये प्रथमश्लोके कथासंबन्धप्रदर्शनपरे स्थिते सतीति यावत्।
तत्रैवमक्षरयोजना धृतराष्ट्र उवाचेति। धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाद्बाह्यमर्थं प्रत्यक्षयितुमनीशः सन्नभ्याशवर्तिनं संजयमात्मनो हितोपदेष्टारं पृच्छति धर्मक्षेत्र इति। धर्मस्य तद्वृद्धेश्च क्षेत्रमभिवृद्धिकारणं यदुच्यते कुरुक्षेत्रमिति तत्र समवेताः संगता युयुत्सवो योद्धुकामास्ते च केचिन्मदीया दुर्योधनप्रभृतयः पाण्डवाश्चापरे युधिष्ठिरादयस्ते च सर्वे युद्धभूमौ संगता भूत्वा किमकुर्वत कृतवन्तः।

नीलकण्ठः

॥1.1॥ तत्र युद्धोद्यमं श्रुत्वौत्सुक्यादग्रिमं वृत्तान्तं बुभुत्सुर्धृतराष्ट्र उवाच धर्मक्षेत्र इति। तत्र वेदेतेषां कुरुक्षेत्रं देवयजनमास इति कर्मकाण्डप्रसिद्धं कुरुक्षेत्रमन्यत्अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् इत्यविमुक्ताख्यं ब्रह्मप्राप्तिस्थानभूतं कुरुक्षेत्रमन्यत्। ब्रह्मसदनत्वं चास्य अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवतीति वाक्यशेषेण व्युत्पादितम्। एतद्व्यावृत्त्यर्थं धर्मक्षेत्रे इति विशेषणम्। कुरुदेशान्तर्गतं हि कुरुक्षेत्रं धर्मक्षेत्रमेव नतु तद्ब्रह्मसदनम्। प्रवर्ग्यकाण्डे तस्य धर्मक्षेत्रत्वमात्रश्रवणात्। तत्र समवेता मिलिताः युयुत्सवो योद्धुमिच्छवः। पाण्डवानां पृथग्ग्रहणं तेषु ममत्वाभावसूचनार्थम्।

धनपतिः

॥1.1॥ इह खलु परमकारुणिकः परिपूर्णानन्दस्वभावः सकलैश्वर्यसंपन्नस्त्रिगुणात्मिकया स्ववशीकृतया निजमाययोपात्तकायो भगवान् वासुदेवः शोकमोहाभिभूतं जीवनिकायमुद्दिधीर्षुर्यद्गीताशास्त्रं सर्ववेदसारभूतं काण्डत्रयात्मकं तत्त्वम्पदाखण्डार्थप्रतिपादकं निजविग्रहायार्जुनाय ग्राहयामास। तदेव क्रमप्राप्तं दयानिधिर्वेदव्यासो महाभारते निबध्नाति धृतराष्ट्र उवाचेत्यादि। तत्र धृतराष्ट्र उवाच केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय। उदग्रमनसः केऽत्र के वा दीना विचेतसः॥ के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पिनि। मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय॥ इत्यादिना कृतं प्रश्नं वैशंपायनो जनमेजयंप्रति संक्षिप्योपोद्धातायानुवदति धृतराष्ट्र उवाचेति। मामकाः मदीयाः दुर्योधनादयः पाण्डवाः पाण्डुपुत्राः युधिष्ठिरादयः युयुत्सवः योद्धुमिच्छवः। धर्मस्योपचयस्थानत्वात् धर्मक्षेत्रे कुरुक्षेत्रे श्रुतिस्मृतिलोकप्रसिद्धे समवेता मिलिताः सन्तः किमकुर्वत किं कृतवन्तः। स्वधर्मभूतं धर्मयुद्धं कृतवन्त उताधर्मयुद्धमिति धर्मक्षेत्रपदेन बोधितम्। युयुत्सया समवेता इति मया विस्तरेण श्रुतं तदनन्तरं यथा यत्कृतवन्तः तथा तद्विस्तरेण वदेत्याशयः। भीष्मपतनेन कलहस्यानर्थबोधकानां भवदादिवाक्यानां सम्यग्जयो जात इति ध्वनयन्संबोधयति संजयेति। रागद्वेषादिदोषान्सभ्यग्जितवानसीति कृत्वा निर्व्याजेन त्वया कथनीयमिति सूचनार्थं संजयेति संबोधनमिति केचित्। किमा आक्षेपोऽपि ध्वनितः। अयोग्यं कृतवन्त इत्यर्थः। धर्मक्षेत्रे हिंसाप्रधानस्य युद्धस्यानुचितत्वात्। मामकानामधार्मिकत्वेन तत्संभवेऽपि परमधार्मिकत्वेन प्रसिद्धाः पाण्डवाः युधिष्ठिरादयो भीष्मादिपातनं किं कृतवन्त इति द्योतयन्नाह पाण्डवाश्चेति। पाण्डवेषु ममकाराभावप्रदर्शनेन तेषु द्रोहमभिव्यनक्तीति केचित्। यत्तु पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन् धृतराष्ट्र इत्यादिना। किं कृतवन्तः किं पूर्वोक्तयुयुत्सानुसारेण युद्धमेव कृतवन्तः उत केनचिन्निमित्तेन युयुत्सानिवृत्त्याऽन्यदेव किंचित्कृतवन्तः। भीमार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव। अदृष्टभयमपि दर्शयितुमाह धर्मक्षेत्र इति। तस्मिन् गताः पाण्डवाः पूर्वमेव धार्मिकाः। यदि पक्षद्वयहिंसानिमित्तादधर्माद्भीता निवर्तेन् ततः प्राप्तराज्या एव मत्पुत्राः। अथवा धर्मक्षेत्रमाहात्म्येन पापिनामपि मत्पुत्राणां कदाचिच्चित्तप्रसादाः स्यात्तदा च तेऽनुतप्ताः कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युः तर्हि विनापि युद्धं हता एवेति स्वपुत्रराज्यलाभे पाण्डवराज्यालाभे च दृढतरमुपायमपश्यतो महानुद्वेग एव प्रश्नबीजमिति केचिद्वर्णयन्ति तदुपेक्ष्यम्। अथ गावल्गणिर्धीमान्समरादेत्य संजयः। प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यतः॥ ध्यायतो धृतराष्ट्रस्य सहसोपेत्य दुःखितः। आचष्ट निहतं भीष्म भारतानां पितामहम्। संजयोऽहं महाराज नमस्ते भरतर्षभ॥ हतो भीष्मः शान्तनवो भारतानां पितामहः। यो ररक्ष समेतानां दशरात्रमनीकहा॥ जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्। यः स शक्र इवाक्षोभ्यो वर्षन्बाणन्सहस्त्रशः॥ जघान युधि योधानामर्बुदं दशभिर्दिनैः। स शेते निहतो भूमौ वातरुग्ण इव द्रुमः॥ इत्यादिसंक्षेपोक्तिपरपूर्वग्रन्थविरोधात्। ननु संक्षेपेण श्रुतमपि मोहाद्विस्मृत्य धृतराष्ट्रेण प्रश्नः कृत इतिचेन्न। प्रश्नस्य पूर्वग्रन्थानुरोधेनास्मदीयोक्तरीत्या सभ्यगुपपत्तेः। पूर्वोक्तविरुद्धप्रश्नव्याख्यानकर्तॄणामेव मोहादिति दिक्। यत्त्वन्ये धर्मक्षेत्रपदं कुरुक्षेत्रपदादविमुक्तक्षेत्रप्रतिपत्तिर्माभूदित्येतदर्थमिति। तन्न। कुरुक्षेत्रादागतं संजयं किमविमुक्तक्षेत्रे समवेता इति संशयरहितंप्रति विशेषणानर्थक्यात्। अन्येषामपि लोकप्रसिद्य्धा पूर्वग्रन्थेन च निर्णयस्य सत्त्वात्।

मधुसूदन-सरस्वती

॥1.1॥ तत्रअशोच्यान्वशोचस्त्वम् इत्यादिना शोकमोहादिसर्वासुरपाप्मनिवृत्त्युपायोपदेशेन स्वधर्मानुष्ठानात्पुरुषार्थः प्राप्यतामिति भगवदुपदेशः सर्वसाधारणः। भगवदर्जुनसंवादरूपा चाख्यायिका विद्यास्तुत्यर्था जनकयाज्ञवल्क्यसंवादादिवदुपनिषत्सु। कथं प्रसिद्धमहानुभावोऽप्यर्जुनो राज्यगुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्नेहनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वतएव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम। परधर्मं च भिक्षाजीवनादि क्षत्रियंप्रति प्रतिषिद्धं कर्तुं प्रववृते। तथाच महत्यनर्थे मग्नोऽभूत् भगवदुपदेशाच्चेमां विद्यां लब्धवा शोकमोहावपनीय पुनः स्वधर्मे प्रवृत्तः कृतकृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते। अर्जुनापदेशेन चोपदेशाधिकारी दर्शितः। तथाच व्याख्यास्यते। स्वधर्मप्रवृत्तौ जातायामपि तत्प्रच्युतिहेतुभूतौ शोकमोहौकथं भीष्ममहं संख्ये इत्यादिनार्जुनेन दर्शितौ। अर्जुनस्य युद्धाख्ये स्वधर्में विनापि विवेकं किंनिमित्ता प्रवृत्तिरितिदृष्ट्वा तु पाण्डवानीकम् इत्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम्। तदुपोद्धातत्वेन धृतराष्ट्रप्रश्नः संजयं प्रति धर्मक्षेत्रे इत्यादिना श्लोकेन। तत्र धृतराष्ट्र उवाचेति वैशम्पायनवाक्यं जनमेजयं प्रति। पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन्। पूर्वं युयुत्सवो योद्धुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगताः मामका मदीया दुर्योधनादयः पाण्डवाश्च युधिष्ठिरादयः किमकुर्वत किं कृतवन्तः। किं पुर्वोद्भूतयुयुत्सानुसारेण युद्धमेव कृतवन्त उत केनचिन्निमित्तेन युयुत्सानिवृत्त्यान्यदेव किंचित्कृतवन्तः भीष्मार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव अदृष्टभयमपि दर्शयितुमाह धर्मक्षेत्र इति। धर्मस्य पूर्वमविद्यमानस्योत्पत्तेर्विद्यमानस्य च वृद्धेर्निमित्तं सस्यस्येव क्षेत्रं यत्कुरुक्षेत्रं सर्वश्रुतिस्मृतिप्रसिद्धम्। बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् इति जाबालश्रुतेःकुरुक्षेत्रं वै देवयजनम् इति शतपथश्रुतेश्च। तस्मिन् गताः पाण्डवाः पूर्वमेव धार्मिकाः यदि पक्षद्वयहिंसानिमित्तादधर्माद्गीता निवर्तेरंस्ततः प्राप्तराज्या एव मत्पुत्राः अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिच्चित्तप्रसादः स्यात्तदा च तेऽनुतप्ताः प्राक्कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनापि युद्धं हता एवेति स्वपुत्रराज्यलाभे पाण्डवराज्यलाभे च दृढतरमुपायमपश्यतो महानुद्वेग एव प्रश्नबीजम्। संजयेति च संबोधनं रागद्वेषादिदोषान्सम्यग्जितवानसीति कृत्वा निर्व्याजमेव कथनीयं त्वयेति सूचनार्थम्। मामकाः किमकुर्वतेत्येतावतैव प्रश्ननिर्वाहे पाण्डवाश्चेति पृथङ्निर्दिशन्पाण्डवेषु ममकाराभावप्रदर्शनेन तद्द्रोहमभिव्यनक्ति।

रामरायः - १

अन्धो धृतराष्ट्रः स्वस्य (स्व)भारत-युद्ध-वृत्तान्त-कथनार्थं व्यासेन नियुक्तेन तद्दत्तशक्तिना च सञ्जयेन साकं प्रश्नोत्तरिकया व्यवहृतवान् इति कृत्वाह भगवान् व्यासः — धृतराष्ट्र उवाचेति। धृतं राष्ट्रं जगद् रूपं येन स धृतराष्ट्रेश्वर इति भगवत्-स्मरणात्मक-मङ्गलं व्यञ्जना-वृत्त्या भगवता बादरायणेन ग्रन्थादौ ग्रथितम्। यद्वा भारत-ग्रन्थान्तर्गतत्वात् तद् आदौ यन् मङ्गलं कृतं तद् एव गीता-शास्त्रस्यापि निर्विघ्न-परिसमाप्तये ऽलम् इति न पृथङ् मङ्गलं कृतम्। वस्तुतस्तु गीता-शास्त्रस्य “अशोच्यानित्य्”-आदित्वात् तद् आदौ “भगवान् उवाच” इति मङ्गलं ग्रथितम् एवेति बोध्यम्। उवाचेति। पप्रच्छेत्य् अर्थः। सञ्जयम् इति शेषः।

तद् एवाह — धर्मक्षेत्र इति । हे सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे युयुत्सवः समवेता मामकाः पाण्डवाश् चैव किम् अकुर्वतेत्य् अन्वयः। धर्मो यज्ञ-युद्धादिः श्रुत्य्-आदि-विहितः स्वर्गादि-हेतुः, तस्य क्षेत्रं विहित-स्थलं धर्मक्षेत्रम्। पुण्य-भूमित्वाद् अत्र कृतः स्वल्पो ऽपि धर्मो बहु-फल-दो भवतीति द्योतनार्थम् इदं विशेषणम्। कुरुक्षेत्रे कुरु-राज-पाल्य-भूमौ। योद्धुम् इच्छवो युयुत्सवः। युध्यतेः सन्नन्तादुः1। सन्त इति शेषः। समवेताः सङ्गताः। ममेमे मामकाः “तवकममकाव्-एक-वचने” इति ममकादेशः, मत्-पुत्राः दुर्योधनादयः। पाण्डोर् अपत्यानि पाण्डवाः, “तस्यापत्यम्” इत्य् अण्, धर्म-राजादयः। चकाराद् अन्ये सहाया राजानः। एवकाराच् चतुरङ्ग-सैन्यानि। किम् अकुर्वत किम् अनुष्ठितवन्तः? किं युद्धं चक्रुः, यद्वा सन्धिम् इति प्रश्नार्थः। कर्म-फलस्य विजयादि-रूपस्यात्मगामित्वाद् आत्मनेपद-निर्देशः ॥१॥

[[१६]]

मध्वः …{Loading}…

मध्वः - मूलम्

॥1.1॥ Sri Madhvacharya did not comment on this sloka. The commentary starts from 2.11.

जयतीर्थः

॥1.1॥ Sri Jayatirtha did not comment on this sloka. The commentary starts from 2.11.

अभिनव-गुप्तः …{Loading}…

अभिनवगुप्तः - मूलम्

॥1.1॥ धर्मक्षेत्र इति। अत्र केचित् व्याख्या-विकल्पम् आहुः -
कुरूणां करणानां यत् क्षेत्रम् अनुग्राहकं - अत एव सांसारिक-धर्माणां +++(S सांसारिकत्वधर्माणां)+++ सर्वेषां क्षेत्रम् - उत्पत्ति-निमित्तत्वात्।+++(5)+++

अयं स परमो धर्मो यद् योगेनात्मदर्शनम् (या. स्मृ. I 8) इत्य् अस्य च धर्मस्य क्षेत्रम् समस्त-धर्माणां क्षयात् अपवर्ग-प्राप्त्या त्राणभूतं तद्-अधिकारि-शरीरम्।

सर्व-क्षत्राणां - क्षदेः हिंसार्थत्वात् - परस्-परं वध्य-घातक-भावेन +++(S परस्पर-वध्य)+++ वर्तमानानां राग-वैराग्य-क्रोध-क्षमा-प्रभृतीनां समागमो यत्र, तस्मिन् स्थिता ये मामका अविद्या-पुरुषोचिता अविद्या-मयाः संकल्पाः, पाण्डवाः शुद्ध-विद्या-पुरुषोचिता विद्यात्मानः, ते किमकुर्वत कैः खलु के जिताः इति। मामकः अविद्या-पुरुषः पाण्डुः शुद्धः।

शङ्करनारायणः

1.1 Dharmaksetre etc. Here some [authors] offer a different explanation as1 :-Kuruksetra : the man’s body is the ksetra i.e., the facilitator, of the kurus, i.e., the sense-organs. 2 The same is the field of all wordly duties, since it is the cuse of their birth; which is also the field of the righteous act that has been described as : ‘This is the highest righteous act viz., to realise the Self by means of the Yogas’; and which is the protector4 [of the embodied Self] by achieving emancipation [by means of this], through the destruction of all duties. It is the location where there is the confrontation among all ksatras, the murderous ones-because the root ksad means ’to kill’ - viz, passion and asceticism, wrath and forbearance, and others that stand in the mutual relationship of the slayer and the slain. Those that exist in it are the mamakas,-i.e., the intentions that are worthy of man of ignorance and are the products of ignorance-and those that are born of Pandu: i.e., the intentions, of which the soul is the very knowledge itself5 and which are worthy of persons of pure knowledge. What did they do; In other words, which were vanished by what; Mamaka : a man of ignorance as he utters [always] ‘mine'6. Pandu : the pure one.7

वल्लभः …{Loading}…

वल्लभः - मूलम्

॥1.1॥ धर्मक्षेत्रे इत्यारभ्यस घोषो धार्तराष्ट्राणां 1।19 इत्यन्तं सम्बन्धः। अत्रैतदध्यायव्याख्या श्रीविठ्ठलेशप्रभुकृता बोध्या।

पुरुषोत्तमः

॥1.1॥ वैशम्पायनस्तु जनमेजयाय कथासङ्गतिं वक्तुं प्रथमतो धृतराष्ट्रसंवादमाह। तत्र धृतराष्ट्रो बहुधा पाण्डवान् धर्मपरानेवावगत्य बन्धलक्षणमधर्मं कथं कृतवन्त इत्यभिप्रेत्य पृच्छति। अत्र ह्येवं कथाप्रकारः सञ्जय आगत्य पूर्वं सेनापतिमरणं वक्ति ततो धृतराष्ट्रेण तत्परिदेवने कृते पश्चात्तन्निवृत्तौ सर्वा कथां विस्तारेण वदतीति। तत्र पाण्डवानां स्वल्पं सैन्यं स्वस्य तु महत् स्वस्य शूराश्च भूयांसः तेषां सर्वेषामेव पश्यतां तैरुपेक्षितो भीष्मो रणे पतितः उत पाण्डवैः प्रसह्य मारितः पाण्डवाश्च तादृशे क्षेत्रे पितामहावज्ञालक्षणमधर्मं कथं कृतवन्तः इति ज्ञातुं हे सञ्जय धर्मक्षेत्रे धर्मोत्पत्तिभूमौ कुरुक्षेत्रे मामकाः मत्पुत्राः पाण्डवाः पाण्डुपुत्राश्च युयुत्सवो योद्धुकामाः समवेताः मिलिताः किमकुर्वत किं कृतवन्तः।

स्वपुत्राणामधर्मपरायणत्वाद्धर्मक्षेत्रेऽप्यधर्ममेव कृतवन्तः किंवा धर्ममिति स्वीयानां प्रश्नः पाण्डवाश्च धर्मपरायणास्तत्र धर्मक्षेत्रे द्रोणादीन् गुरून् कथं मारितवन्तः इति तेषां प्रश्नः। इदमेव चकारेण द्योतितम्यत्तेषां धर्मपरायणत्वम्। तथा चैकमरणेनैवान्यस्य राज्यप्राप्तिरिति निश्चित्यापि किं कृतवन्त इत्यर्थः। सञ्जयस्य वरप्राप्तसर्वज्ञत्वमालक्ष्य सम्बोधनम्।

श्रीधर-स्वामी …{Loading}…

॥1.1॥ इह खलु सकललोकहितावतारः सकलवन्दितचरणः परमकारुणिको भगवान् देवकीनन्दनस्तत्त्वाज्ञानविजृम्भितशोकमोहविभ्रंशितविवेकतया निजधर्मत्यागपरधर्माभिसंधिपरमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार। तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनः सप्तभिः श्लोकशतैरुपनिबबन्ध। तत्र च प्रायशः श्रीकृष्णमुखनिःसृतानेव श्लोकानलिखत् कांश्चित्तत्संगतये स्वयं व्यरचयत्। यथोक्तं गीतामाहात्म्ये गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता॥ इति। तत्र तावद्धर्मक्षेत्र इत्यादिना

विषीदन्निदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसंवादप्रस्तावाय कथा निरूप्यते धर्मक्षेत्र इति। भो संजय धर्मभूमौ कुरुक्षेत्रे मत्पुत्राः पाण्डुपुत्राश्च युयुत्सवो योद्धुमिच्छन्तः समवेता मिलिताः सन्तः किं कृतवन्तः।

English …{Loading}…

आदिदेवानन्दः

1.1 Dhrtarastra said On the holy field of Kuruksetra, gathered together eager for battle, what did my people and the Pandavas do, O Sanjaya;

गम्भीरानन्दः

1.1. Dhrtarastra said O Sanjaya, what did my sons (and others) and Pandu’s sons (and others) actually do when, eager for battle, they assembled on the sacred field, the Kuruksetra (Field of the Kurus);

पुरोहितस्वामी

1.1 The King Dhritarashtra asked: “O Sanjaya! What happened on the sacred battlefield of Kurukshetra, when my people gathered against the Pandavas;”

शङ्करनारायणः

1.1. Dhrtarastra said O Sanjaya ! What did my men and the sons of Pandu do in the Kuruksetra, the field of righteousness, where the entire warring class has assembled ; or O Sanjaya ! What did the selfish intentions and the intentions born of wisdom do in the human body which is the field-of-duties, the repository of the senseorgans and in which all the murderous ones (passions and asceticism etc.) are confronting [each other].

शिवानन्दः - अनुवादः

1.1 Dhritarashtra said What did my people and the sons of Pandu do when they had assembled together eager for battle on the holy plain of Kurukshetra, O Sanjaya.

शिवानन्दः - टीका

1.1 धर्मक्षेत्रे on the holy plain; कुरुक्षेत्रे in Kurukshetra; समवेताः assembled together; युयुत्सवः desirous to fight; मामकाः my people; पाण्डवाः the sons of Pandu; च and; एव also; किम् what; अकुर्वत did do; सञ्जय O Sanjaya.

Commentary Dharmakshetra – that place which protects Dharma is Dharmakshetra. Because it was in the land of the Kurus; it was called Kurukshetra.

Sanjaya is one who has conered likes and dislikes and who is impartial.

हिन्दी …{Loading}…

रामसुखदासः - अनुवादः

।।1.1।। धृतराष्ट्र बोले (टिप्पणी प₀ 1.2) - हे संजय! (टिप्पणी प₀ 1.3) धर्मभूमि कुरुक्षेत्र में युद्ध की इच्छा से इकट्ठे हुए मेरेे और पाण्डु के पुत्रों ने भी क्या किया;

रामसुखदासः - टीका

1।।व्याख्या– ‘धर्मक्षेत्रे’ ‘कुरुक्षेत्रे’– कुरुक्षेत्र में देवताओं ने यज्ञ किया था। राजा कुरु ने भी यहाँ तपस्या की थी। यज्ञादि धर्ममय कार्य होने से तथा राजा कुरु की तपस्याभूमि होने से इसको धर्मभूमि कुरुक्षेत्र कहा गया है।
यहाँ ॓**‘धर्मक्षेत्रे’** और ‘कुरुक्षेत्रे’ पदों में ‘क्षेत्र’ शब्द देने में धृतराष्ट्र का अभिप्राय है कि यह अपनी कुरुवंशियों की भूमि है। यह केवल लड़ाई की भूमि ही नहीं है, प्रत्युत तीर्थभूमि भी है, जिसमें प्राणी जीते-जी पवित्र कर्म करके अपना कल्याण कर सकते हैं। इस तरह लौकिक और पारलौकिक सब तरह का लाभ हो जाय– ऐसा विचार करके एवं श्रेष्ठ पुरुषों की सम्मति लेकर ही युद्ध के लिये यह भूमि चुनी गयी है।
संसार में प्रायः तीन बातों को लेकर लड़ाई होती है– भूमि, धन और स्त्री। इस तीनों में भी राजाओं का आपस में लड़ना मुख्यतः जमीन को लेकर होता है। यहाँ ‘कुरुक्षेत्रे’ पद देने का तात्पर्य भी जमीन को लेकर ल़ड़ने में है। कुरुवंश में धृतराष्ट्र और पाण्डु के पुत्र सब एक हो जाते हैं। कुरुवंशी होने से दोनों का कुरुक्षेत्र में अर्थात् राजा कुरु की जमीन पर समान हक लगता है। इसलिये (कौरवों द्वारा पाण्डवों को उनकी जमीन न देने के कारण) दोनों जमीन के लिये लड़ाई करने आये हुए हैं।
यद्यपि अपनी भूमि होने के कारण दोनों के लिये ‘कुरुक्षेत्रे’ पद देना युक्तिसंगत, न्यायसंगत है, तथापि हमारी सनातन वैदिक संस्कृति ऐसी विलक्षण है कि कोई भी कार्य करना होता है, तो वह धर्म को सामने रखकर ही होता है। युद्ध-जैसा कार्य भी धर्मभूमि– तीर्थभूमि में ही करते हैं, जिससे युद्ध में मरने वालों का उद्धार हो जाय, कल्याण हो जाय। अतः यहाँ कुरुक्षेत्र के साथ ‘धर्मक्षेत्रे’ पद आया है।
यहाँ आरम्भ में ‘धर्म’ पद से एक और बात भी मालूम होती है। अगर आरम्भ के ‘धर्म’ पद में से ‘धर्’ लिया जाय और अठारहवें अध्याय के अन्तिम श्लोक के ‘मम’ पदों से ‘म’ लिया जाय, तो ‘धर्म’ शब्द बन जाता है। अतः सम्पूर्ण गीता धर्म के अन्तर्गत है अर्थात् धर्म का पालन करने से गीता के सिद्धान्तों का पालन हो जाता है और गीता के सिद्धान्तों के अनुसार कर्तव्य कर्म करने से धर्म का अनुष्ठान हो जाता है।
इन ‘धर्मक्षेत्रे कुरुक्षेत्रे’ पदों से सभी मनुष्यों को यह शिक्षा लेनी चाहिये कि कोई भी काम करना हो तो वह धर्म को सामने रखकर ही करना चाहिये। प्रत्येक कार्य सबके हित की दृष्टि से ही करना चाहिये, केवल अपने सुख-आराम-की दृष्टि से नहीं; और कर्तव्य-अकर्तव्य के विषय में शास्त्र को सामने रखना चाहिये (गीता 16। 24)।
** ‘समवेता युयुत्सवः’–राजाओं के द्वारा बारबार सन्धि का प्रस्ताव रखने पर भी दुर्योधन ने सन्धि करना स्वीकार नहीं किया। इतना ही नहीं, भगवान् श्रीकृष्ण के कहने पर भी मेरे पुत्र दुर्योधन ने स्पष्ट कह दिया कि बिना युद्ध के मैं तीखी सूई की नोक-जितनी जमीन भी पाण्डवों को नहीं दूँगा। (टिप्पणी प₀ 2.1) तब मजबूर होकर पाण्डवों ने भी युद्ध करना स्वीकार किया है। इस प्रकार मेरे पुत्र और पाण्डुपुत्र– दोनों ही सेनाओं के सहित युद्ध की इच्छा से इकट्ठे हुए हैं।
दोनों सेनाओं में युद्ध की इच्छा रहने पर भी दुर्योधन में युद्ध की इच्छा विशेषरूप से थी। उसका मुख्य उद्देश्य राज्य-प्राप्ति का ही था। वह राज्य-प्राप्ति धर्म से हो चाहे अधर्म से, न्याय से हो चाहे अन्याय से, विहित रीति से हो चाहे निषिद्ध रीति से, किसी भी तरह से हमें राज्य मिलना चाहिये– ऐसा उसका भाव था। इसलिये विशेषरूप से दुर्योधन का पक्ष ही युयुत्सु अर्थात् युद्ध की इच्छावाला था।
पाण्डवों में धर्म की मुख्यता थी। उनका ऐसा भाव था कि हम चाहे जैसा जीवन-निर्वाह कर लेंगे, पर अपने धर्म में बाधा नहीं आने देंगे, धर्म के विरुद्ध नहीं चलेंगे। इस बात को लेकर महाराज युधिष्ठिर युद्ध नहीं करना चाहते थे। परन्तु जिस माँ की आज्ञा से युधिष्ठिर ने चारों भाइयों सहित द्रौपदी से विवाह किया था, उस माँ की आज्ञा होने के कारण ही महाराज युधिष्ठिर की युद्ध में प्रवृत्ति हुई थी (टिप्पणी प₀ 2.2) अर्थात् केवल माँ के आज्ञा-पालनरूप धर्म से ही युधिष्ठिर युद्ध की इच्छावाले हुये हैं। तात्पर्य है कि दुर्योधन आदि तो राज्य को लेकर ही युयुत्सु थे, पर पाण्डव धर्म को लेकर ही युयुत्सु बने थे।
** ‘मामकाः पाण्डवाश्चैव’–
पाण्डव धृतराष्ट्र को (अपने पिता के बड़े भाई होने से) पिता के समान समझते थे और उनकी आज्ञा का पालन करते थे। धृतराष्ट्र के द्वारा अनुचित आज्ञा देने पर भी पाण्डव उचित-अनुचित का विचार न करके उनकी आज्ञा का पालन करते थे। अतः यहाँ ‘मामकाः’ पद के अन्तर्गत कौरव (टिप्पणी प₀ 3.1) और पाण्डव दोनों आ जाते हैं। फिर भी ‘पाण्डवाः’ पद अलग देने का तात्पर्य है कि धृतराष्ट्र का अपने पुत्रों में तथा पाण्डुपुत्रों में समान भाव नहीं था। उनमें पक्षपात था,अपने पुत्रों के प्रति मोह था। वे दुर्योधन आदि को तो अपना मानते थे, पर पाण्डवों को अपना नहीं मानते थे। (टिप्पणी प₀ 3.2) इस कारण उन्होंने अपने पुत्रों के लिये ‘मामकाः’ और पाण्डुपुत्रों के लिये ‘पाण्डवा’ पद का प्रयोग किया है; क्योंकि जो भाव भीतर होते हैं, वे ही प्रायः वाणी से बाहर निकलते हैं। इस द्वैधीभाव के कारण ही धृतराष्ट्र को अपने कुल के संहार का दुःख भोगना पड़ा। इससे मनुष्यमात्र को यह शिक्षा लेनी चाहिये कि वह अपने घरों में, मुहल्लों में, गाँवों में, प्रान्तों में, देशों में, सम्प्रदायों में द्वैधीभाव अर्थात् ये अपने हैं, ये दूसरे हैं– ऐसा भाव न रखे। कारण कि द्वैधीभाव से आपस में प्रेम, स्नेह नहीं होता, प्रत्युत कलह होती है।
यहाँ ‘पाण्डवाः’ पद के साथ ‘एव’ पद देने का तात्पर्य है कि पाण्डव तो बड़े धर्मात्मा हैं; अतः उन्हें युद्ध नहीं करना चाहिये था। परन्तु वे भी युद्ध के लिये रणभूमि में आ गये तो वहाँ आकर उन्होंने क्या किया;
** ‘मामकाः’** और ‘पाण्डवाः’ (टिप्पणी प₀ 3.3) इनमें से पहले ‘मामकाः’ पद का उत्तर सञ्जय आगे के (दूसरे) श्लोक से तेरहवें श्लोक तक देंगे कि आपके पुत्र दुर्योधन ने पाण्डवों की सेना को देखकर द्रोणाचार्य के मन में पाण्डवों के प्रति द्वेष पैदा करने के लिये उनके पास जाकर पाण्डवों के मुख्य-मुख्य सेनापतियों के नाम लिये। उसके बाद दुर्योधन ने अपनी सेना के मुख्य-मुख्य योद्धाओं के नाम लेकर उनके रण-कौशल आदि की प्रशंसा की। दुर्योधन को प्रसन्न करने के लिये भीष्मजी ने जोर से शंख बजाया। उसको सुनकर कौरव-सेना में शंख आदि बाजे बज उठे। फिर चौदहवें श्लोक से उन्नीसवें श्लोक तक ‘पाण्डवाः’ पद का उत्तर देंगे कि रथ में बैठे हुए पाण्डवपक्षीय श्रीकृष्ण ने शंख बजाया। उसके बाद अर्जुन, भीम, युधिष्ठिर, नकुल, सहदेव आदि ने अपने-अपने शंख बजाये, जिससे दुर्योधन की सेना का हृदय दहल गया। उसके बाद भी सञ्जय पाण्डवों की बात कहते-कहते बीसवें श्लोक से श्रीकृष्ण और अर्जुन के संवाद का प्रसङ्ग आरम्भ कर देंगे।
** ‘किमकुर्वत’– ‘किम्’** शब्द के तीन अर्थ होते हैं– विकल्प, निन्दा (आक्षेप) और प्रश्न।
युद्ध हुआ कि नहीं; इस तरह का विकल्प तो यहाँ लिया नहीं जा सकता; क्योंकि दस दिन तक युद्ध हो चुका है और भीष्म जी को रथ से गिरा देने के बाद सञ्जय हस्तिनापुर आकर धृतराष्ट्र को वहाँ की घटना सुना रहे हैं।
‘मेरे और पाण्डु के पुत्रों ने यह क्या किया, जो कि युद्ध कर बैठे! उनको युद्ध नहीं करना चाहिये था’– ऐसी निन्दा या आक्षेप भी यहाँ नहीं लिया जा सकता; क्योंकि युद्ध तो चल ही रहा था और धृतराष्ट्र के भीतर भी आक्षेपपूर्वक पूछने का भाव नहीं था।

चिन्मयानन्दः

।।1.1।। सम्पूर्ण गीता में यही एक मात्र श्लोक अन्ध वृद्ध राजा धृतराष्ट्र ने कहा है। शेष सभी श्लोक संजय के कहे हुए हैं जो धृतराष्ट्र को युद्ध के पूर्व की घटनाओं का वृत्तान्त सुना रहा था।
निश्चय ही अन्ध वृद्ध राजा धृतराष्ट्र को अपने भतीजे पाण्डवों के साथ किये गये घोर अन्याय का पूर्ण भान था। वह दोनों सेनाओं की तुलनात्मक शक्तियों से परिचित था। उसे अपने पुत्र की विशाल सेना की सार्मथ्य पर पूर्ण विश्वास था। यह सब कुछ होते हुये भी मन ही मन उसे अपने दुष्कर्मों के अपराध बोध से हृदय पर भार अनुभव हो रहा था और युद्ध के अन्तिम परिणाम के सम्बन्ध में भी उसे संदेह था। कुरुक्षेत्र में क्या हुआ इसके विषय में वह संजय से प्रश्न पूछता है। महर्षि वेदव्यास जी ने संजय को ऐसी दिव्य दृष्टि प्रदान की थी जिसके द्वारा वह सम्पूर्ण युद्धभूमि में हो रही घटनाओं को देख और सुन सकता था।

तेजोमयानन्दः - अनुवादः

।।1.1।। धृतराष्ट्र ने कहा – हे संजय ! धर्मभूमि कुरुक्षेत्र में एकत्र हुए युद्ध के इच्छुक (युयुत्सव:) मेरे और पाण्डु के पुत्रों ने क्या किया;


  1. “सनाशंसभिक्ष उः” (पा.सू. ३.२.१६८) इति सूत्रेणेति शेषः। ↩︎