गीतार्थ-सङ्ग्रहः

वेङ्कटनाथार्यः

श्रीमन्निगमान्तमहादेशिकविरचिता गीतार्थसंग्रहरक्षा।

श्रीमान् वेङ्कटनाथार्यः
कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे
सन्निधत्तां सदा हृदि ॥

मानत्वं भगवन्-मतस्य महतः पुंसस् तथा निर्णयस्
तिस्रस् सिद्धय आत्म-संविद्-अखिलाधीशान् अतत्त्वाश्रयाः ।
गीतार्थस्य च सङ्ग्रहः स्तुतियुगं श्रीश्रीशयोर् इत्य् अमून्
यद्-ग्रन्थान् अनुसन्दधे यतिपतिस् तं यामुनेयं नुमः ॥1॥

श्रीमद्-वेङ्कटनाथेन
यथा-भाष्यं विधीयते ।
भगवद्-यामुनेयोक्त-गीता-
सङ्ग्रह-रक्षणम् ॥2॥

‘तत्त्वं जिज्ञासमानानां
हेतुभिस् सर्वतोमुखैः ।
तत्त्वम् एको महा-योगी
हरिर्नारायणः परः ॥’
(भा.शा.347.83)

‘आलोड्य सर्वशास्त्राणि
विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं
ध्येयो नारायणस् सदा ॥’
(ना.पु. 18.34)

इत्यादिभिस् तत्त्व-हित-रूपं समस्ताध्यात्म-शास्त्रार्थ-सारं महर्षयस् सञ्जगृहुः ।
तद् एतद् उभयं सर्वोपनिषत्-सार-सङ्कलनात्मिकायां भगवद्गीतायां प्रतिपाद्यतया प्रदर्शयन्
तत्राप्य् उपनिषदां तत्त्व-प्राधान्यस्य शारीरके सूत्रितत्वाद्
इहापि तत्प्रधानतया व्यपदिशति ॥

(यत्-पदाम्भो-रुह-ध्यान-
विध्वस्ताशेष-कल्मषः ।
वस्तुताम् उपयातोऽहं
यामुनेयं नमामि तम् ॥)

०१ शास्त्रार्थः

विश्वास-प्रस्तुतिः

स्व-धर्म–ज्ञान–वैराग्य-
साध्य-भक्त्य्-एक-गोचरः ।
नारायणः परं ब्रह्म
गीता-शास्त्रे समीरितः ॥1॥

English

In the Scripture known as the Bhagavad Gita, Narayana, the Supreme Brahman is declared. He is attainable by Bhakti alone, which is to be brought about by the observance of one’s own Dharma, acquisition of knowledge and renunciation of attachment.

वेङ्कटनाथार्यः

स्वे धर्माः स्वधर्माः - स्ववर्णाश्रमनियतशास्त्रार्थाः, ‘स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः’ (18.45) इति हि गीयते । स्वस्य धर्म इति समासेऽप्ययमेवार्थः । ज्ञानमत्र परशेषतैकरसयथावस्थितात्मविषयम् । वैराग्यं - परमात्मव्यतिरिक्तेषु सर्वेषु विरक्तिः, ‘परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि’ (बार्ह. स्मृ) इति मुमुक्षोः स्वभावप्रतिपादनात् । तथा च पातञ्जलयोगानुशासनसूत्रं - ‘दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यं’ (यो.सू. 1.15) इति । कर्मयोगपरिकरभूतस्यापि वैराग्यस्य पृथगुपादानमपवर्गस्य तदन्वयव्यतिरेकानुविधायित्वेन तत्प्राधान्यज्ञापनार्थं, कन्दभूतरागनिवृत्त्या तन्मूलक्रोधादिसमस्तदोषनिवृत्तिज्ञापनार्थञ्च । तत्र स्वधर्मज्ञानयोः प्रथमं कर्मयोगज्ञानयोगरूपेणावस्थितयोः आत्मसाक्षात्कारद्वारा भक्तियोगाधिकारनिर्वर्तकत्वेन तत्साधकत्वम् । तदभिप्रायेणोक्तमात्मसिद्धौ - ‘उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्यः’ (आ.सि.?) इति । उत्पन्नभक्तियोगानामपि विशदतमप्रत्यक्षसमानाकारस्य तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपस्य आप्रयाणादनुवर्तनीयस्य अहरहरभ्यासाधेयातिशयस्य भक्तियोगस्य सत्त्वविवृद्धिसाध्यतया तद्विरोधिरजस्तमोमूलभूतपापनिबर्हणद्वारेण सत्त्वोपचयहेतुतयोपकारकत्वादात्मयाथात्म्यज्ञानपूर्वकैः परित्यक्तफलसङ्गकर्तृत्वादिभिः परमपुरुषाराधनैकवेषैर्नित्यनैमित्तिककर्मभिर्भक्तेरूपचीयमानत्ववेषेण साध्यत्वम् । तदेत्सर्वमभिसंधायोक्तं भगवता पराशरेण - ‘इयाज सोपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥’ (वि.पु. 6.6.12) इति । महनीयविषये प्रीतिर्भक्तिः । ‘(प्रीति)स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते’ (लै.पु. 9.19) इति वचनमपि पूज्यविषयविशेषनियतं योज्यम् । सैव वेदनोपासनध्यानादिशब्दैरध्यात्मशास्त्रेषु मोक्षोपायविधिवाक्यैस्सामान्यतो विशेषतश्च प्रतिपाद्यते, गुरुलघुविकल्पानुपपत्तेः, सामान्यशब्दानां समानप्रकरणोक्तविशेषविश्रमे च सम्भवति द्वारिद्वारादिकल्पनायोगात्, विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात् ‘निदिध्यासितव्यः’ (बृ.उ. 4.4.5, 6.5.6) इत्यस्य स्थाने विज्ञानशब्दश्रवणाच्च, परमपुरुषवरणीयताहेतुभूतगुणविशेषवतैव लभ्यत्वश्रुतेश्च, तद्वरणस्यास्मिन् शास्त्रे भक्त्यधीनत्वोक्तेश्च । एवं सति वेदनेतरमोक्षोपायनिषेधकश्रुतीनां ‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥’ (11.54) इत्यादिस्मृतीनां चाविरोधः । तदेतदुक्तं भक्त्येकगोचरः इति । भक्तेरेव गोचरो नान्यस्येत्यर्थः । एतेन कर्मसमुच्चय-वाक्यार्थज्ञानादिपक्षाः प्रतिक्षिप्ताः । गोचरत्वमिह फलत्वेन ग्राह्यम्, ‘भक्त्येकलभ्ये पुरुषे पुराणे’ (गा.पू. 219.34) इत्यादिभिरैकरस्यात्, भक्तियोगलभ्य इति स्वोक्तसंवादाच्च । उपायतया फलतया चैकस्यैवावलम्बनादैश्वर्याद्यर्थभक्तिव्यवच्छेदार्थं वात्रैकशब्दः । अत्र ह्यैश्वर्याद्यर्वाचीनपुरुषार्थग्रहणं भूमविद्यायामिव निरतिशयपुरुषार्थप्रतिपादनार्थम् । तदभिप्रायेण च भाष्यं - ‘परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमवतारयामास’ (गी.भा.1) इति । यद्वा निरतिशयैश्वर्ययुक्ततया भक्त्यर्हत्वमिह तद्गोचरत्वम् । ऐकान्तिकत्वादिव्यञ्जनाय त्वेकशब्दः । ‘परावरज्ञं भूतानाम्’ (भा.मो. 229.7) इत्याद्युक्तपरावरतत्त्वनिश्चयेन अन्यभक्त्युन्मूलनादव्यभिचारेण अनन्यविषयत्वमैकान्तिकत्वम् । सातिशयनिरतिशयपुरुषार्थविवेकेन तदेकभोग्यतया उत्तरावधिराहित्यमात्यन्तिकत्वम् । कारणवाक्यस्थानां सद्ब्रह्मादिसामान्यशब्दानां समानप्रकरण-महोपनिषदादिपठित-अबाधितासंभवद्गत्यन्तर-नारायणादिविशेषशब्दार्थ-विश्रमं व्यञ्जयितुं ‘नारायणः परं ब्रह्म’ इति विशेषतस्सामान्यतश्च व्यपदेशद्वयम् । अनेनाविभक्तिकेऽपि नारायणानुवाकवाक्ये पूर्वापरवाक्यच्छायानुसाराच्छाखान्तरसविसर्जनीयपठनाच्च व्यस्तत्वं व्यञ्जितम् । तेन च सर्वपरविद्योपास्यविशेषनिर्धारणार्थतया केवलपरतत्त्वप्रतिपादनपरनारायणानुवाकसिद्ध एवास्य शास्त्रस्य विषयः । तद्विभूतित्वेन ‘विश्वमेवेदं पुरुषः’ (तै.ना.) इतिवत्समानाधिकरणतया तत्राम्नातानां ब्रह्मशिवेन्द्रादीनां नारशब्दार्थानामिहापि ‘ब्रह्माणमीशम्’ (11.15) इत्यादिभिस्तद्विभूत्येकदेशाश्रयत्वं प्रतिपाद्यत इति ख्यापितम् । उक्तञ्च स्तोत्रे - ‘स्वाभाविकानवधिकातिशयेशितृत्वं नारायण त्वयि न मृष्यति वैदिकः कः । ब्रह्मा शिवश्शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविप्रुषस्ते’ (स्तो.र.11) इति । संवित्सिद्धौ च अद्वितीयश्रुतिव्याख्याने च दर्शितम् - ‘यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूतले । इति तत्तुल्यनृपतिनिवारणपरं वचः ॥ न तु तत्पुत्रतद्भृत्यकलत्रादिनिवारकम् । तथा सुरासुरनरब्रह्माण्डशतकोटयः । क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः । ज्ञानादिषाड्गुण्यनिधेरचिन्त्यविभवस्य ताः । विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषः’ (सं.सि. ?) इति । पुरुषनिर्णये च एतत्प्रपञ्चो ग्राह्यः । तदेतद्व्यपदेशद्वयं ‘श्रियःपतिः’ (गी.भा.1) इत्यादिना प्रारम्भभाष्येण व्याकृतम् । अत एव हि तत्रापि ‘ब्रह्म पुरुषोत्तमो नारायणः’ (गी.भा.1) इत्यन्तेन समभिव्याहृतम् । प्रपञ्चितमेतदस्माभिस्तात्पर्यचन्द्रिकायामिति नात्र विस्तृणीमहे । निर्विशेषणस्यैव ब्रह्मशब्दस्य काष्ठाप्राप्तबृहत्त्वबृंहणत्वयोगिनि परमात्मन्येव योगरूढत्वेऽपि तस्मादन्यत्र जीवादौ तद्गुणलेशयोगादौपचारिकप्रयोगरूढेस्तद्व्यवच्छेदाय ‘परम्’ इति विशेषितम् । एवमेव ह्यन्यत्रापि विशेष्यते । व्योमातीतवादिमतनिरासार्थं वा परत्वोक्तिः । गीतैव तत्त्वहितयोर्यथावच्छासनात् शास्त्रम् । उपनिषत्समाधिना सिद्धव्यवहारनिरूढेः स्त्रीलिङ्गनिर्देशः । एतेन शास्त्रस्याधिक्यं व्यञ्जितम् । स्वयं च महाभारते महर्षिणोक्तम् ‘अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्’ (महा.आ.1.279) इति । उक्तं चाभियुक्तैः ‘यस्मिन् प्रसादसुमुखे कवयोऽपि ते ते शास्त्राण्यशासुरिह तन्महिमाश्रयाणि । कृष्णेन तेन यदिह स्वयमेव गीतं शास्त्रस्य तस्य सदृशं किमिवास्ति शास्त्रम्’ (?) इति । पञ्चमवेदे चास्यांशस्य प्राधान्यमुद्धृत्याहुः ‘भारते भगवद्गीता धर्मशास्त्रेषु मानवम् । वेदेषु पौरुषं सूक्तं पुराणेषु च वैष्णवम्’ (?) इति । समीरितः सम्यगीरितः; अज्ञानसंशयविपर्ययप्रतिक्षेपेण परमप्राप्यत्व-प्रापकत्व-सर्वकारणत्व-सर्वरक्षकत्व-सर्वसंहर्तृत्व-सर्वाधिकत्व-सर्वाधारत्व-सर्वनियन्तृत्व-सर्वशेषित्व-सर्ववेदवेद्यत्व-सर्वहेयरहितत्व-सर्वपापमोचकत्व-सर्वसमाश्रयणीयत्वादिभिः स्वभावैस्समस्तवस्त्वन्तरविलक्षणतया पुरुषोत्तमत्वेन प्रतिपादित इत्यर्थः । समन्वयसूत्रवन्निरतिशयपुरुषार्थत्वविवक्षया वा समित्युपसर्गः । एवमनेन श्लोकेन शास्त्रार्थः संगृहीतः ॥1॥

४२-इञ्जिमेडु-यतिः - १

श्रीः
श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः
श्रीमते श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवकश्रीवण्शठकोपश्रीश्रीरङ्गशठकोपयतीन्द्रमहादेशिकाय नमः
गीतार्थसङ्ग्रहः
विगाहे यामुनं तीर्थं साधुबृन्दावने स्थितम् । निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥
प्रणम्य यामुनं तीर्थं रङ्गनाथाख्यसूरिणा । प्रकाशिकेयं गीतार्थसङ्ग्रहस्य विरच्यते ॥
“नाथोपज्ञं प्रवृत्तम्”, “कुरुकाधीशनाथाद्याः” इत्यादिगळिऱ्‌ सॊल्लुगिऱबडि विशिष्टाद्वैतसिद्धान्तप्रवर्तकरिल् प्रधानरायुम्, ईश्वरसाक्षात्कारमुळ्ळवरायुम्, प्रसिद्धि पॆऱ्‌ऱ नाथमुनिकळुडैय पौत्ररायुम्, श्रीभाष्यकाररुडैय प्राचार्यरायुम्, सोऴराज सदस्सिल् परतत्त्वनिर्णयम् सॆय्दु आळवन्दारॆऩ्ऱु पॆयर् पॆऱ्‌ऱवरायुमुळ्ळ यामुनाचार्यराले विरचितङ्गळाऩ ऎट्टु ग्रन्थङ्गळिल् अभ्यर्हितमाऩ गीतार्थसङ्ग्रहम् ऎऩ्गिऱ ग्रन्थत्तिऩ् यथाश्रुतमाऩ अर्थत्तै, श्रीमन्निगमान्तमहादेशिकऩाल् अनुग्रहिक्कप्पट्टिरुक्कुम् सङ्ग्रह रक्षैयै अनुसरित्तु यथामति प्रकाशप्पडुत्तुगिऱेऩ्।
गीताशास्त्रत्तिऩ् प्रधानार्थत्तैयुम्, मूऩ्ऱु षट्कङ्गळिऩ् अर्थङ्गळैयुम्, पदिऩॆट्टु अध्यायार्थ ङ्गळैयुम्, कर्मयोग-ज्ञानयोग-भक्तियोगस्वरूपङ्गळैयुम्, अधिकारिभेदम् मुदलाऩवैगळैयुम् मुप्पत्तिरण्डु श्लोकङ्गळाले सङ्ग्रहिक्कत् तिरुवुळ्ळङ्गॊण्डु, मुदलिल् मङ्गलश्लोकत्ताले सकलोपनिषत्सारभूतमाऩ तत्त्वहितप्रदर्शनपूर्वकमागप् परतत्त्वमाऩ नारायणऩे गीताशास्त्रत्तिऩ् प्रधानप्रतिपाद्यार्थम् ऎऩ्गिऱार्।
स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥ १ ॥
स्वधर्म - स्वीयमाऩ धर्मङ्गळ्; शास्त्रविहितमाऩ तम् तम् वर्णाश्रमधर्मङ्गळ्। ज्ञान - जीवतत्त्वम् नारायणऩुक्के शेषमॆऩ्गिऱ ज्ञानम्। वैराग्य - परमात्मावल्लाद वस्तुक्कळिडत्तिल् आसैयऱ्‌ऱिरुक्कै। इन्दप् पदङ्गळिऩाल् वैराग्यत्तोडु कूडिय कर्मयोग-ज्ञानयोगङ्गळ् सॊल्लिऱ्‌ऱायिऱ्‌ऱु। साध्य - इवैगळाल् सम्पादिक्कक्कूडिय, भक्त्येकगोचरः - भक्तियॊऩ्ऱुक्के फलमाग विषयमाऩवऩ्; अदावदु तैलधारै पोल निरन्तरमायुम् स्वयंप्रीतिरूपमागवुम् वैशद्यविशेषत्ताले प्रत्यक्षत्तिऱ्‌कु सममुमाऩ स्मृतित् तॊडर्च्चियागिऱ भक्तियोगमॊऩ्ऱालेये अडैयत्तगुन्दवऩ्। परं ब्रह्म - सर्वोत्कृष्टमाऩ ब्रह्मभूतऩ्। इदऩाल् गुणलेशयोगत्ताले ब्रह्मशब्दवाच्यङ्गळाऩ जीवतत्त्वम्, प्रकृतितत्त्वम् मुदलाऩवैगळिऩ् वैलक्षण्यम् सॊल्लप्पट्टदु। नारायणः - मऱ्‌ऱॊरुवरुक्कुम् पॊरुन्दाद नारायणऩॆऩ्गिऱ शब्दत्ताल् सॊल्लत् तगुन्दवऩ्। गीताशास्त्रे - सर्वज्ञऩाऩ कृष्णऩाले गीतमाय् सर्वानुष्ठानविधायकमुमाय्, “अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्” ऎऩ्ऱु महर्षियाल् श्लाघिक्कप्पट्टदुमाऩ गीताशास्त्रत्तिल्, समीरितः - अज्ञानसंशयविपर्यय मऩ्ऱिक्के परमप्राप्यऩॆऩ्ऱुम्, प्रापकऩॆऩ्ऱुम्, सर्वकारणऩॆऩ्ऱुम्, सर्वरक्षकऩॆऩ्ऱुम्, सर्ववेदवेद्यऩॆऩ्ऱुम्, सर्वपापमोचकऩॆऩ्ऱुम्, सर्वसमाश्रयणीयऩॆऩ्ऱुम्, परमपुरुषार्थभूतऩॆऩ्ऱुम् सॊल्लप् पट्टाऩ्। इदऩाल्, “नारायणपरं ब्रह्म तत्त्वं नारायणः परः” इत्यादिवाक्यङ्गळाले सकलपरविद्योपास्यनिर्णयम् सॆय्गिऱ नारायणानुवाकत्तिऩ् अर्थमे इन्द गीताशास्त्रत्तिऩ् मुख्यमाऩ अर्थमॆऩ्ऱु सॊल्लप्पट्टदु। (१)

मूलम्

स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥1॥

०२-०४ षट्कानि

०२ ०१-०६

विश्वास-प्रस्तुतिः

ज्ञान-कर्मात्मिके निष्ठे
योग-लक्ष्ये सुसंस्कृते ।
आत्मानुभूति-सिद्ध्यर्थे
पूर्व-षट्केन चोदिते ॥2॥

English

In the first hexad, the performance of desireless Karma and Jnana, with the practice of Yoga in view, is enjoined for the realisation of the self.

वेङ्कटनाथार्यः

अथ त्रिभिः श्लोकैस्त्रयाणां षट्कानामर्थं संगृह्णाति ॥ ज्ञानात्मिका निष्ठा ज्ञानयोगः, कर्मात्मिका निष्ठा कर्मयोगः । नितिष्ठत्यस्मिन्नर्थे अधिकर्तव्येऽधिकारीति निष्ठा, नियता स्थितिरेव वा निष्ठा, यावत्फलं स्थिरपरिगृहीतमुपायानुष्ठानमित्यर्थः । अनयोः स्वरूपं व्यञ्जयिष्यति । ‘कर्मयोगस्तपस्तीर्थ’ (गी.सं.23) इत्यादिना । योगलक्ष्ये योगस्साध्यतया लक्ष्यमुद्देश्यं ययोस्ते योगलक्ष्ये । अत्र कर्मनिष्ठया ज्ञाननिष्ठामारुह्य तया योगप्राप्तिरिति द्वैतीयः क्रमः । तार्तीयस्तु ज्ञाननिष्ठाव्यवधानमन्तरेण कर्मनिष्ठयैव यावद्योगारम्भं दृढपरिगृहीतया अन्तर्गतात्मज्ञानया शिष्टतया व्यपदेश्यानां लोकानुविधेयानुष्ठानानामितरेषामपि निष्प्रमादसुकरोपायसक्तानां योगावाप्तिरिति । योगोऽत्रासनादिविशेषपरिकरवान् साक्षात्कारार्थम् आत्मावलोकानापरनामा चित्तसमाधानविशेषरूपो व्यापारः, तत्साध्यसाक्षात्कार एव वा । तेन स्मृतिसंततिविशेषरूपात् स्वकारणभूतज्ञानयोगात् स्वकार्यभूतादात्मानुभवाच्च भेदः । सुसंस्कृते परमात्माधीनत्वतत्प्रीत्यर्थत्वफलान्तरसङ्गराहित्यादिबुद्धिविशेषैः परिकर्मिते, इत्यर्थः । आत्मानुभूतिसिद्ध्यर्थे ‘सुखमात्यन्तिकं यत्तत्’ (6.21) इत्याद्युक्तप्रकारेण वैषयिकानन्दविलक्षणस्वेतरसमस्तवैतृष्ण्यावहसुखस्वभावप्रत्यगात्मसाक्षात्कारविशेषरूपसिद्धिविशेषप्रयोजने, इत्यर्थः । पूर्वषट्केन चोदिते कर्तव्यतयानुशिष्टे, इति यावत् । तादर्थ्यादुपोद्घातरूपस्य प्रथमाध्यायस्य ‘न त्वेवाहम्’ (2.12) इत्यतः पूर्वस्य द्वितीयाध्यायैकदेशस्य च तदनुप्रवेशवाचो युक्तिः । आहुश्चोपोद्घातलक्षणं ‘चिन्तां प्रकृतसिध्यर्थामुपोद्घातं प्रचक्षते’ (?) इति । एवमनेन श्लोकेन प्रथमषट्कस्यावरतत्त्वविषयव्यवहितोपायपरत्वमुक्तम् ॥2॥

मूलम्

ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते ।
आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते ॥2॥

४२-इञ्जिमेडु-यतिः - २

इऩि मूऩ्ऱु श्लोकङ्गळाल् मूऩ्ऱु भागङ्गळागप् पिरिक्कप्पट्टिरुक्कुम् गीताशास्त्रत्तिऩ् मूऩ्ऱु षट्कङ्गळुडैय अर्थङ्गळै सङ्ग्रहिक्कत् तिरुवुळ्ळङ्गॊण्डु, मुदलिल् मुदल् षट्कत्तिऩ् अर्थत्तैप् पिऩ्वरुम् श्लोकत्ताल् सङ्ग्रहिक्किऱार्।
ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते । आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते ॥ २ ॥
योगलक्ष्ये - इङ्गु योगमावदु आत्मावलोकनमागिऱ चित्तसमा(धा)नविशेषम्। अदै लक्ष्यमाग उडैयवैगळॆऩ्ऱाल् तऩक्कु साध्यमाऩ फलमाग उडैयवैगळ्। सुसंस्कृते - नऩ्ऱागप् परिष्करिक्कप्पट्टवैगळ्; परिष्कारमावदु - इवैगळैप् परमात्मावे सॆय्दु वैक्किऱाऩॆऩ्ऱुम् अवऩ् प्रीतिये इवैगळुक्कुप् फलमॆऩ्ऱुम् तॆरिन्दुगॊण्डु मऱ्‌ऱैप् फलङ्गळिल् आसैयऱ्‌ऱु प्रवृत्तिक्कै। आत्मानुभूतिसिद्ध्यर्थे - जीवात्मानुभवरूपमाऩ सिद्धिविशेषत्तै प्रयोजनमाग उडैयवैगळ्; अदावदु “सुखमात्यन्तिकं यत् तत्” ऎऩ्गिऱबडि वैषयिकानन्दविलक्षणमायुम्, इतरमाऩ समस्तफलङ्गळिलुमुळ्ळ आसैयैप् पोक्कडिक्कक्कूडियदायुमुळ्ळ जीवसाक्षात्कारमॆऩ्गिऱ सिद्धियैप् फलमाग उडैत्तायिरुक्कै। इप्पडिप्पट्ट ज्ञानकर्मात्मिके निष्ठे - ज्ञानस्वरूपमायुम् कर्मस्वरूपमायुमिरुक्किऱ निष्ठैकळ्। अदावदु फलम् किडैक्कुम् वरैयिल् स्थिरमाय्प् परिग्रहिक्कप्पट्टवैगळाऩ कर्मयोगज्ञानयोगमागिऱ उपायानुष्ठानङ्गळ्। पूर्वषट्केन चोदिते - मुदल् आऱु अध्यायङ्गळाल् कर्त्तव्यङ्गळॆऩ्ऱु विधिक्कप्पट्टिरुक्किऩ्ऱऩ। इदिल् मुदल् अध्यायमुम्, “न त्वेवाहं जातु नासम्” ऎऩ्गिऱ श्लोकत्तिऱ्‌कु मुऱ्‌पट्ट इरण्डावदु अध्यायश्लोकङ्गळुम् प्रकृतोपयुक्तङ्गळागैयाल् इन्द गीताशास्त्रत्तिऱ्‌कुक् घटकङ्गळाग व्यवहरिक्कप्पडुगिऩ्ऱऩ। (२)

०३ ०७-१२

विश्वास-प्रस्तुतिः

मध्यमे भगवत्-तत्त्व-
याथात्म्यावाप्ति-सिद्धये ।
ज्ञान-कर्माभिनिर्वर्त्यो
भक्ति-योगः प्रकीर्तितः ॥3॥

English

In the middle hexad, Bhakti Yoga, which can be brought about by Karma and Jnana is treated for the attainment of the exact knowledge of Bhagavan, the Supreme Being, as He is.

वेङ्कटनाथार्यः

अथ मध्यमषट्कस्य परतत्त्वविषयाव्यवहितोपायपरत्वमाह ॥ पूर्वश्लोके समासस्थस्यापि षट्कशब्दस्यात्र बुद्ध्या निष्कृष्य विपरिणतस्यानुषङ्गः । भगवच्छब्दो मध्यमषट्कोक्तसकलजगदेककारणत्वनिर्दोषत्वकल्याणगुणाकरत्वयोगिनि परस्मिन् ब्रह्मणि प्रत्यक्षरं प्रकृतिप्रत्ययरूढिभिश्च भगवत्पराशरादिभिर्निरुक्तो द्रष्टव्यः । यस्यैष संग्रहः - ‘तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचोरण ह्यन्यत्र ह्युपचारतः’ (वि.पु. 6.5.77) इति । अयञ्च ब्रह्मशब्दस्य परस्मिन्नेव मुख्यत्वे निदर्शनतया शारीरकभाष्यारम्भे दर्शितः ‘भगवच्छब्दवत्’ (श्रीभा.1.1.1) इति । भक्तेषु भागवतसमाख्या च भजनीये भगवच्छब्दस्य नामधेयतां व्यनक्ति । भगवानेव तत्त्वं भगवत्तत्त्वम् । तत्त्वमिह प्रामाणिकः पदार्थः । ‘तत्त्वेन प्रवेष्टुम्’ (11.44) इत्यस्यार्थं व्यनक्ति याथात्म्यावाप्तिसिद्धय इति । ऐश्वर्यादिपुरुषार्थान्तरोक्तेरात्मानन्यार्थत्वमनेन सूचितम् । याथात्म्यमत्र अनवच्छेदेन पुष्कलमनारोपितं रूपम् । अवाप्तिरनवच्छिन्नानन्दतयानुभूतिः, सैव सिद्धिः । पुरुषार्थकाष्ठारूपत्वात्तस्या वा सिद्धिर्लब्धिः । ज्ञानकर्माभिनिर्वर्त्य इत्यनेन प्रथममध्यमषट्कयोः क्रमनियामकस्सङ्गतिविशेषस्सूचितः । तदनुसारेण सप्तमारम्भे भाष्यं - ‘प्रथमेनाध्यायषट्केन परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवद्यस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतात्मभूतस्य सत्यसङ्कल्पस्य महाविभूतेः श्रीमन्नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतमात्मज्ञानपूर्वककर्मानुष्ठानसाध्यं, प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनमुक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतं परमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यमुच्यते । तदेतदुत्तरत्र - ‘यतः प्रवृत्तिर्भूतानाम्’ (18.46) इत्यारभ्य ‘मद्भक्तिं लभते पराम्’ (18.54) इति संक्षिप्य वक्ष्यत (गी.भा.7.1) इति । भक्तिरेव योगः भक्तियोगः । ‘योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु’ (ना.शा.3.179) इति पाठाद्योगशब्दोऽत्र उपायपरः । ध्यानपरत्वेपि सामान्यविशेषरूपतयान्वयसिद्धिः । प्रकीर्तितः स्वरूपत इतिकर्तव्यतातो विषयतः कार्यतश्च प्रकृष्टतया कीर्तित इत्यर्थः ॥3॥

मूलम्

मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥3॥

४२-इञ्जिमेडु-यतिः - ३

इरण्डावदु षट्कत्तिल् परब्रह्मप्राप्तिक्कु साक्षादुपायमाऩ भक्तियोगम् सॊल्लप्पडुगिऱदु।
मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये । ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥ ३ ॥
मध्यमे - इरण्डावदु षट्कत्तिल्, भगवत्तत्त्व - हेयगुणशून्यमायुम् ज्ञानशक्तिमुदलाऩ षाड्गुण्यपरिपूर्णमायुमिरुक्किऱ परतत्त्वत्तिऩुडैय, याथात्म्य - यथावस्थितरूपत्तिऩ्। अदावदु अपरिमितमायुम् ब्रह्मम् मुदलाऩवैगळाल् कल्पितमल्लामलुम् इरुक्कुम्बडियाऩ रूपत्तिऩुडैय ऎऩ्ऱबडि। अवाप्तिसिद्धये - अनुभवरूपमागिऱ मोक्षप्राप्तियिऩ् सिद्धिक्काग, ज्ञानकर्माभिनिर्वर्त्यः - ज्ञानयोगत्तालुम् कर्मयोगत्तालुम् साधिक्कक् कूडियदाऩ, भक्तियोगः - भक्तियागिऱ मोक्षोपायम्, प्रकीर्तितः - स्वरूपत्तालुम्, अङ्गत्तालुम्, विषयत्तालुम्, फलत्तालुम् उत्कृष्टमागच् चॊल्लप्पट्टदु। (३)

०४ १३-१८

विश्वास-प्रस्तुतिः

प्रधान-पुरुष-व्यक्त-
सर्वेश्वर-विवेचनम्
कर्म-धीर् भक्तिर् इत्यादिः
पूर्व-शेषो ऽन्तिमोदितः ॥4॥

English

In the last hexad,
which subserves the two preceding hexads, is treated, matter (Pradhana) in the primordial condition,
matter in its evolved state,
the self (Purusa)
and Isvara the Ruler of all.

Besides, the disciplines relating to work, to knowledge and to devotion are again dealt with by way of supplementing and completing what has been taught earlier.

वेङ्कटनाथार्यः

एवं षट्कद्वयोक्तनानाविधतत्त्वहितविशोधनपरं क्रमादन्तिमषट्के त्रिकद्वयमित्यभिप्रायेणाह ॥ प्रधानं कारणावस्थमचिद्द्रव्यम् । पुरुषः अचिन्मिश्रावस्थो विशुद्धावस्थश्च, व्यक्तं तु महदादिविशेषान्ततदारब्धदेवतिर्यङ्मनुष्यादिरूपञ्च कार्यजातम् । सर्वेश्वरः ‘यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’ (15.17) इत्युक्तः पुरुषोत्तमः । एतेनार्वाचीनपरिच्छिन्नेश्वरव्यवच्छेदः । समाख्या चैषा सार्था भगवतः, ‘अजस्सर्वेश्वरस्सिद्धः’ इति तन्नामपाठात् । एतेषां विवेचनं परस्परव्यावर्तको धर्मः । तेन वा पृथक्त्वेनानुसन्धानम् । कर्मधीर्भक्तिरिति कर्मयोगादीनां स्वरूपग्रहणम्, इति निर्दिष्टपदार्थवर्गः आदिः यस्य स इत्यादिः । आदिशब्देन तदुपादानप्रकारः तदुपयुक्तशास्त्रवश्यत्वादिकं च गृह्यते । पूर्वशेष इत्यनेन प्रकृतशोधनरूपतया पुनरुक्तिपरिहारः सङ्गतिप्रदर्शनञ्च । अयं श्लोकः त्रयोदशारम्भभाष्येण स्पष्टं व्याख्यातः । ‘पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यमुक्तम् । मध्यमे च परमप्राप्यभूत भगवत्तत्त्वयाथात्म्यतन्माहात्म्यज्ञानपूर्विकैकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयितैश्वर्यापेक्षणामात्मकैवल्यमात्रापेक्षाणाञ्च भक्तियोगस्तत्तदपेक्षितसाधनमिति चोक्तम् । इदानीमुपरितने तु षट्के प्रकृतिपुरुषतत्संसर्गरूपप्रप़ञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश्च षट्कद्वयोदिता विशोध्यन्त’ (गी.भा.13.1) इति । अत्र त्रिकभेदविवक्षा च षोडशारम्भे दर्शिता - ‘अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विभक्तयोस्संसृष्टयोश्च याथात्म्यं तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुकत्वं सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर्भगवद्विभूतित्वं, विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपादव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन च याथात्म्यञ्च वर्णितम्’ (गी.भा. 16.1) इति । तदत्र तृतीयषट्के तत्त्वविशोधनपरं प्रथमत्रिकम् । अनुष्ठानशोधनपरं द्वितीयमिति प्रायिकतयाऽयं विभागो ग्राह्यः ॥

मूलम्

प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।
कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः ॥4॥

४२-इञ्जिमेडु-यतिः - ४

इदऱ्‌कु मेल् मूऩ्ऱावदु षट्कत्तिऩ् अर्थत्तै सङ्ग्रहिक्कक् करुदि, अदिल् तत्त्वशोधकमाऩ मुदल् मूऩ्ऱु अध्यायङ्गळिऩ् अर्थत्तैप् पूर्वार्धत्तालुम्, अनुष्ठानविशोधकमाऩ मेल् मूऩ्ऱु अध्यायङ्गळिऩ् अर्थत्तै उत्तरार्धत्तालुम् सङ्ग्रहिक्किऱार्।
प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् । कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः ॥ ४ ॥
प्रधान - मूलप्रकृतियॆऩ्ऩ, पुरुष - जीवऩॆऩ्ऩ, व्यक्त - महत् मुदलागि पृथिवी वरैयिलाऩ प्रकृतिविकारङ्गळ्, इवैगळुडऩ् कलन्दु निऱ्‌कुम् देवतिर्यङ्मनुष्यर् मुदलाऩ चेतनर्गळ्, इवर्गळुडैय समुदायरूपमाऩ प्रपञ्चमॆऩ्ऩ, सर्वेश्वर - सर्वनियन्तावाऩ परतत्त्वमॆऩ्ऩ, विवेचनम् - इवैगळुक्कुप् परस्परमुळ्ळ भेदत्तैक् काट्टुम् धर्मत्तैक् कॊण्डु इवैगळै वॆव्वेऱाग अनुसन्धिक्कै; कर्म - कर्मयोगमॆऩ्ऩ, धीः - ज्ञानयोगमॆऩ्ऩ, भक्तिः - भक्तियोगमॆऩ्ऩ, इत्यादिः - इवैगळै मुदलागवुडैय, पूर्वशेषः - मुऱ्‌सॊल्लप्पट्ट इरण्डु षट्कङ्गळुक्कु उपयुक्तमाऩ विषयङ्गळ्, अन्तिमोदितः - मूऩ्ऱावदु षट्कत्तिल् सॊल्लप्पट्टऩ। (४)

०५-२२ अध्यायार्थाः

०५ ०१

विश्वास-प्रस्तुतिः

अ-स्थान-स्नेह-कारुण्य-
धर्माधर्म-धिया ऽऽकुलम् ।
पार्थं प्रपन्नम् उद्दिश्य
शास्त्रावतरणं कृतम् ॥5॥

English

The treatise was initiated for the sake of Arjuna, who was overtaken by misplaced love and compassion and also perplexity as to what was Dharma and what Adharma, and who took refuge in Sri Krishna.

वेङ्कटनाथार्यः

एवं शास्त्रार्थष्षट्कत्रयार्थश् च चतुर्भिश्श्लोकैस्संगृहीतः । इतः परमष्टादशभिः श्लोकैः प्रत्यध्यायमर्थास्संगृह्यन्ते । तत्र शोकतदपनोदनरूपकथावान्तरसङ्गत्या महर्षिणा प्रथमद्वितीयाध्यायविभागे कृतेऽपि शास्त्रैतदुपोद्घातरूपार्थविभागज्ञापनाय द्वितीयैकदेशमपि प्रथमश्लोकेन संगृह्णाति । तद्व्यञ्जनाय च ‘तमुवाच हृषीकेशः’ (2.10) इत्यस्मात्पूर्वम् अर्थव्याख्यानपूर्वकमयं श्लोको भाष्यकारैरुदाहृतः - ‘एवमस्थाने समुपस्थितस्नेहकारुण्याभ्यामप्रकृतिङ्गतं क्षत्रियाणां युद्धं परमधर्ममप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थमुद्दिश्य आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विनास्य मोहो न शाम्यतीति मत्वा भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् ‘अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम्’ इति’ (गी.भा.2.8,9) । अस्थानस्नेहकारुण्याभ्यां जाता धर्माधर्मधीः अस्थानस्नेहकारुण्यधर्माधर्मधीरिति अत्र भाष्याभिप्रायः। ‘बन्धुस्नेहेन परया च कृपया धर्मभयेन च अतिमात्रसन्नसर्वाङ्गः’ (गी.भा. 1.26-47) इति प्रथमाध्यायान्तभाष्यानुसारेण ‘धर्माधर्मभयाकुलम्’ इति पाठे त्रयाणां द्वन्द्वः । धर्माधर्मभयं रज्जुसर्पभयमितिवत् । तदेतत्सूचितमारम्भे ‘पाण्डुतनययुद्धप्रोत्साहनव्याजेन’ इति । प्रपन्नत्वात्तमुद्दिश्येति विवक्षितम् । तदपि सूचितम् ‘अस्य मोहो न शाम्यतीति मत्वा’ इति । तदत्र ‘तमुवाच’ (2.10) इत्यादिश्लोकत्रयपर्यन्तो ग्रन्थः शास्त्रावताररूपः । तावत्संग्रहणायात्र श्लोके प्रथमाध्याय इत्यनुक्तिः । अस्ति ह्युत्तरेषु सप्तदशसु तत्तदध्यायग्रहणम् । अनन्तरे च संग्रहश्लोके ‘न त्वेवाहं जातु नासम्’ इत्यादेरर्थमभिप्रेत्य द्वितीयग्रहणम् । स च द्वितीयान्ते व्याख्यानपूर्वकमुद्धृतः - ‘एवमात्मयाथात्म्यं युद्धाख्यस्य च कर्मणस्तत्प्राप्तिसाधनतामजानतश्शरीरात्मज्ञानेन मोहितस्य तेन च मोहेन युद्धान्निवृत्तस्यास्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धिस्तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञता योगसाधनभूता द्वितीयाध्याये प्रोक्ता । तदुक्तम् - ‘नित्यात्मासङ्ग ……. मोहशन्तये’ इति’ (गी.भा. 2.72) ॥5॥

मूलम्

अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।
पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् ॥5॥

४२-इञ्जिमेडु-यतिः - ५

इप्पडि शास्त्रत्तिऩ् मुख्यमाऩ अर्थत्तैयुम्, मूऩ्ऱु षट्कार्थङ्गळैयुम् नालु श्लोकङ्गळाल् सङ्ग्रहित्तु, मेल् पदिऩॆट्टु श्लोकङ्गळाल् प्रत्येकमाग अध्यायार्थङ्गळैच् चॊल्लक् करुदि, मुदल् श्लोकत्ताल् प्रकृतशास्त्रोपोद्घातरूपमाऩ मुदल् अध्यायत्तिऩुडैयवुम्, “न त्वेवाहं जातु नासम्” ऎऩ्गिऱ श्लोकपर्यन्तमुळ्ळ इरण्डावदु अध्यायश्लोकङ्गळुडैयवुम् अर्थत्तै सङ्ग्रहित्तुक् काट्टुगिऱार्।
अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् ॥ ५ ॥
अस्थान - असमयत्तिलुण्डाऩ, स्नेह - बन्धुस्नेहत्तालुम्, कारुण्य - दयाविशेषत्तालुम् उण्डायिरुक्किऱ, धर्माधर्मधिया - क्षत्रियऩुक्कुप् परमधर्ममाऩ युद्धत्तिल् अधर्मबुद्धियाल्, आकुलम् - व्याकुलमाऩ मनस्सैयुम् बुद्धियैयुम् शरीरत्तैयुम् उडैयवऩुम्, प्रपन्नम् - धर्मत्तै अऱिन्दुगॊळ्ळ वेणुमॆऩ्गिऱ विरुप्पत्ताल् “शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्” ऎऩ्ऱु शरणमडैन्दवऩुमाऩ, पार्थम् - अर्जुनऩै, उद्दिश्य - व्याजीकरित्तु (समस्तलोकोज्जीवनार्थमाग), शास्त्रावतरणं कृतम् - परमनिःश्रेयसत्तिऱ्‌कु साधकमाऩ इन्द गीताशास्त्रम् आरम्भिक्कप्पट्टदु। (५)

०६ ०२

विश्वास-प्रस्तुतिः

नित्यात्मा-सङ्ग-कर्मेहा-
गोचरा साङ्ख्य-योग-धीः ।
द्वितीये स्थित-धी-लक्षा
प्रोक्ता तन्-मोह-शान्तये ॥6॥

English

The knowledge of Sankhya and Yoga, which comprehend in their scope the eternal self and disinterested activity respectively, leading to the state of steady wisdom, is taught in the second chapter for removing Arjuna’s delusion.

वेङ्कटनाथार्यः

संख्यया बुद्ध्या अवधारणीयमात्मतत्त्वं सांख्यम्, तद्विषयबुद्धिस्सांख्यधीः । नित्यात्मगोचरेति तद्विवरणम् । एवमत्र असङ्गकर्मेहाशब्देनापि योगशब्दार्थविवरणादपौनरुक्त्यम् । सांख्ययोगयोर्धीः सांख्ययोगधीः । स्थितधीः स्थितप्रज्ञता, ज्ञाननिष्ठेत्यर्थः । सा साध्यत्वेन लक्षं यस्यास्सा तथोक्ता । तन्मोहशान्तये - उक्तप्रकारस्य अर्जुनस्य देहात्मादिभ्रमनिवृत्त्यर्थम् । एवं द्वितीयाध्यायोक्तस्य प्रपञ्चनरूपतया षष्ठान्तानां चतुर्णामेकपेटिकात्वम् । एकीकरणार्थं तृतीयारम्भे भाषितम् - ‘तदेवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशयासंख्येयकल्याणगुणगण परब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्तिकात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं ‘य आत्मा अपहतपाप्मा’ (छा.उ. 8.9.1) इत्यादिप्रजापतिवाक्योदितं प्राप्तुरात्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यमुक्तम्’ - इत्यारभ्य ‘अतः परमध्यायचतुष्टयेन इदमेव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्च्यते’ (गी.भा. 3.1) इति ॥6॥

मूलम्

नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः ।
द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये ॥6॥

४२-इञ्जिमेडु-यतिः - ६

इरण्डावदु अध्यायत्तिऩ् अर्थम् पिऩ्वरुम् श्लोकत्ताल् सॊल्लप्पडुगिऱदु।
नित्यात्माऽसङ्गकर्मेहागोचरा साङ्ख्ययोगधीः । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये ॥ ६ ॥
द्वितीये - इरण्डावदु अध्यायत्तिल्, नित्यात्मा - नित्यऩाऩ जीवऩैयुम्, असङ्गकर्मेहा - फलम् मुदलियवऱ्‌ऱिल् आसक्तियऱ्‌ऱुक् कर्मत्तिल् आस्थैयैयुम्, गोचरा - विषयमागवुडैयदुम्, स्थितधीलक्षा - स्थिरप्रतिज्ञतारूपमाऩ ज्ञाननिष्ठैयैत् तऩ्ऩाल् साधिक्कत् तगुन्द फलमाग उडैयदुमाऩ, साङ्ख्ययोगधीः - जीवात्मविषयकमाऩ बुद्धियॆऩ्ऩ, कर्मयोगविषयकमाऩ बुद्धियॆऩ्ऩ इवै इरण्डुम्, (सङ्ख्या ऎऩ्ऱाल् बुद्धि। अदऩाल् निर्णयिक्कप्पडुगैयाले जीवात्मावुक्कु साङ्ख्यम् ऎऩ्ऱु पॆयर्), तन्मोहशान्तये - शोकत्ताल् पीडिक्कप्पट्टवऩायुम् तत्त्वत्तैत् तॆरिन्दुगॊळ्ळ वेणुमॆऩ्गिऱ विरुप्पत्तोडु कूडियवऩायुम् इरुक्किऱ अर्जुनऩुडैय देहात्मभ्रमत्तै निवृत्तिक्कुम् पॊरुट्टु, प्रोक्ता - विस्तारमागच् चॊल्लप्पट्टऩ। इङ्गु इरण्डावदु पदत्ताल् सॊल्लप्पट्ट साङ्ख्ययोगङ्गळुक्कु, मुदल् पदमागिऱ “नित्यात्माऽसङ्गकर्मेहा” ऎऩ्बदु विवरणमागिऱबडियाल् पौनरुक्त्यदोषम् इल्लै। (६)

०७ ०३

विश्वास-प्रस्तुतिः

अ-सक्त्या लोक-रक्षायै
गुणेष्व् आरोप्य कर्तृताम्
सर्वेश्वरे वा न्यस्योक्ता
तृतीये कर्म-कार्यता ॥7॥

English

In the third chapter is taught the need for the performance of works without attachment to any fruits other than the pleasure of the Lord and for the protection of the world, ascribing the agency to the Guna-s or placing it in the Lord of all.

वेङ्कटनाथार्यः

असक्त्या - परमपुरुषप्रीतिव्यतिरिक्तस्वर्गादिफलसङ्गत्यागपूर्वकमित्यर्थः । लोकरक्षायै - अनुविधेयानुष्ठानस्य कृत्स्नविदः स्वानुष्ठानानुसंधानेन अकृत्स्नविदश्शिष्टलोकस्य निष्प्रमादलुण्टाकरहितघण्टापथप्रवर्तनार्थमित्यर्थः । एतेन लोकसंग्रहशब्दो व्याख्यातः । एवं लोकरक्षणार्थं प्रवृत्तेरन्ततः स्वरक्षापर्यन्तत्वं भाष्योक्तम् - ‘अन्यथा लोकनाशजनितं पापं ज्ञानयोगादप्येनं प्रच्यावयेत्’ इति । गुणेषु - सत्त्वरजस्तमस्संज्ञकेषु प्रकृतिगुणेष्वित्यर्थः । आरोप्य कर्तृतां - स्वस्य देशकालावस्थादिनियतविषयज्ञानचिकीर्षाप्रयत्नाश्रयत्वलक्षणां कर्तृतां गुणप्रयुक्ततया अनुसंधायेत्यर्थः । तथा च भाष्यं - ‘गुणेषु कर्तृत्वानुसन्धानं च इदमेवात्मनो न स्वरूपप्रयुक्तमिदं कर्तृत्वम्, अपि तु गुणसंपर्ककृतमिति प्राप्ताप्राप्तविवेकेन गुणकृतमित्यनुसंधानम्’ (गी.भा.3.29) इति । ‘मयि सर्वाणि कर्माणि’ (3.30) इत्यत्र अस्मच्छब्दाभिप्रेतं व्यनक्ति - सर्वेश्वरे वा न्यस्येति । गुणानां तदाश्रयस्य त्रिगुणद्रव्यस्य तत्संसृष्टस्य वियुक्तस्य च जीवस्य नियन्तरि भगवति तस्यास्तन्मूलत्वभावनया निवेश्येत्यभिप्रायः । सूत्रकारश्च ‘कर्ता शास्त्रार्थवत्त्वात्’ (ब्र.सू.2.3.33) इति आत्मनः कर्तृत्वमुपपाद्य अनन्तरं तस्य परमात्माधीनत्वं ‘परात्तु तच्छ्रुतेः’ (ब्र.सू.2.3.40) इत्याह । सर्वेश्वरे कर्तृत्वानुसंधानप्रकारश्चैवं भाषितः ‘इदानीमात्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च कर्तृत्वमारोप्य कर्मकर्तव्यतोच्यते’ (गी.भा. 3.30) इति । पिण्डितार्थश्च दर्शितः - ‘स्वकीयेनात्मना कर्त्रा स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषस्सर्वशेषी सर्वेश्वरस्स्वयमेव स्वकीयकर्माणि कारयति’ (गी.भा. 3.30) इत्यादिना ॥7॥

मूलम्

असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम् ।
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥7॥

४२-इञ्जिमेडु-यतिः - ७

इदऱ्‌कु मेल् नालु अध्यायङ्गळालुम्, इरण्डावदु अध्यायत्तिल् सॊल्लप्पट्ट जीवात्मदर्शनमे साधक(न?)त्तोडु वॆळियिडप्पडुगिऱदु।
असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम् । सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥ ७ ॥
असक्त्या - भगवत्प्रीतिव्यतिरिक्तमाऩ स्वर्गादिफलङ्गळिल् आसै अऩ्ऱिक्के, लोकरक्षायै - लोकत्तै रक्षिक्कुम् पॊरुट्टु, (इङ्गु लोकत्तै रक्षिक्कैयावदु - ज्ञानयोगत्तिल् शक्तऩाऩ तऩक्कुक् कर्मयोगत्तै अनुष्ठिक्कामलिरुप्पदिल् बाधकमिल्लाविडिऩुम्, ज्ञानयोगत्तिऱ्‌कु अशक्तराऩ जनङ्गळुम् “यद्यदाचरति श्रेष्ठः” ऎऩ्गिऱबडि ‘नामुम् कर्मयोगत्तै विट्टिरुप्पोम्’ ऎऩ्ऱु ऎण्णामलिरुक्कुम्बडि, ताऩुम् कर्मानुष्ठानम् सॆय्दु अदऩाल् मऱ्‌ऱवर्गळैयुम् कर्मानुष्ठानम् सॆय्युम्बडि सॆय्विक्कै। ज्ञानयोगत्तिऱ्‌कु अशक्तर् कर्मयोगत्तै विट्टु ज्ञानयोगत्तिल् प्रवृत्तित्ताल् नरकानुभोक्ता आवार्गळऩ्ऱो?) कर्तृताम् - तऩ्ऩुडैय सर्वकार्यकर्तृत्वत्तैयुम्, गुणेषु - सत्त्वरजस्तमोगुणङ्गळिल्, आरोप्य - आरोपणम् सॆय्दु, (आरोपणमावदु - सर्वकार्यमुम् सत्त्वम् मुदलाऩ गुणङ्गळाल् सॆय्यप्पडुगिऩ्ऱऩ ऎऩ्ऱु ऎण्णुगै।) सर्वेश्वरे वा - इन्दक् गुणम् मुदलाऩ सर्ववस्तुक्कळुक्कुम् नियन्तावाऩ नारायणऩिडत्तिलावदु, न्यस्य - मुऱ्‌सॊऩ्ऩ कार्यकर्तृत्वत्तै वैत्तु, (सर्वेश्वरऩिडत्तिल् कार्यकर्तृत्वत्तै वैप्पदावदु - नाम् सॆय्युम् कार्यमॆल्लाम् भगवदधीनमॆऩ्ऱु निऩैक्कै।) कर्मकार्यता - कर्मङ्गळुडैय अवश्यम् अनुष्ठिक्कवेण्डुम् तऩ्मैयाऩदु, तृतीये प्रोक्ता - मूऩ्ऱावदु अध्यायत्तिल् व्यक्तमागच् चॊल्लप्पट्टिरुक्किऱदु। (७)

०८ ०४

विश्वास-प्रस्तुतिः

प्रसङ्गात् स्व–स्व-भावोक्तिः
कर्मणो ऽकर्मता +++(→अंशतो ज्ञानता)+++ ऽस्य च ।
भेदा ज्ञानस्य माहात्म्यं
चतुर्थाध्याय उच्यते ॥8॥

English

In the fourth chapter, the following matters are treated: His nature is explained by the way. Next it is taught that Karma Yoga has an aspect other than action, i.e., knowledge-aspect. The varieties of Karma Yoga and the eminence of knowledge in it are emphasised.

वेङ्कटनाथार्यः

स्वशब्देनावतीर्णावस्थो भगवानिह विवक्षितः, तस्य स्वभावः स्वासाधारणो भावः; स्वस्वभावोक्तिरुच्यत इति ओदनपाकः पच्यत इतिवत्, क्रियत इत्यर्थः । कर्मणोऽकर्मता ‘कर्मण्यकर्म यः पश्येत्’ (4.18) इत्यादिभिरुक्ता; अकर्मशब्दोऽत्र तदन्यवृत्त्या कर्मयोगासन्नात्मज्ञानविषयः; अस्य च भेदाः ‘दैवमेवापरे यज्ञम्’ (4.25) इत्यादिनोक्ताः । देवार्चनेन्द्रियनिरोधप्राणायामयागदानहोमतपस्तीर्थसेवास्वाध्यायतदर्थाभ्यासादिरूपा वर्णाश्रमधर्मेतिकर्तव्यताकाः यथाज्ञानं यथाशक्ति यथारुचि प्रधानतया परिगृहीताः कर्मयोगावान्तरविशेषा इत्यर्थः । ज्ञानस्य माहात्म्यं - ‘श्रेयान् द्रव्यमयाद्यज्ञात्’ (4.33) इत्युक्तं प्राधान्यम् । अयं च श्लोकः तृतीयसङ्गतिपूर्वकं चतुर्थारम्भे व्याख्यातः - ‘तृतीयेऽध्याये प्रकृतिसंसृष्टस्य मुमुक्षोस्सहसा ज्ञानयोगेऽनधिकारात्कर्मयोग एव कार्यः ज्ञानयोगाधिकारिणोऽपि अकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयानिति सहेतुकमुक्तम्; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति चोक्तम् । चतुर्थेन इदानीमस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादावेवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयाऽस्यैव ज्ञानयोगाकारतां प्रदर्श्य कर्मयोगस्वरूपं, तद्भेदः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते; प्रसङ्गाच्च भगवदवतारयाथात्म्यमुच्यते’ इति । (गी.भा.4.1) । ईदृशं चावतारमाहात्म्यमत्र निरमन्थि - निखिलहेयप्रत्यनीककल्याणैकतानस्यापि भगवतो जन्म नेन्द्रजालवन्मिथ्या, अपि तु सत्यम्, अवतरंश्च भगवानस्मदादिवन्न ज्ञानसंकोचादिमान् भवति, किंतु अजत्वाव्ययत्वसर्वेश्चरत्वादिकं सर्वं पारमेश्वरं स्वभावमजहदेवावतरति, न चावतारविग्रहोऽप्यस्य गुणत्रयमयः प्राकृतः, प्रत्युत अप्राकृतशुद्धसत्त्वमयः; न चास्य जन्म पुण्यापुण्यरूपेण कर्मणा, अपि तु स्वेच्छयैव, न वा कर्मविपाककाले अस्य जन्म, अपि तु धर्मग्लान्यधर्मोत्थानकाले, नापि भगवज्जन्मनः सुखदुःखमिश्राणि फलानि, अपि तर्हि साधुपरित्राणदुष्कृद्विनाशनधर्मसंस्थापनादीनीति स्वरूपतः प्रकारतो द्रव्यतः कारणतः कालतः प्रयोजनतश्च दिव्यत्वम् । एवं जानतश्चैकस्मिन्नेव जन्मनि उपायपूर्त्यानन्तरजन्मप्रतिषेधेन भगवत्प्राप्तिर्गीयते ‘जन्म कर्म च मे दिव्यम्’ (4.9) इत्यादिना । अत एव हि प्राचेतसपाराशर्यशुकशौनकादयः परमर्षयः प्रायस्तत्रैव निष्ठाम्भूयसीमाद्रियन्ते - इति ॥8॥

मूलम्

प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मतास्य च ।
भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥8॥

४२-इञ्जिमेडु-यतिः - ८

प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मताऽस्य च । भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥ ८ ॥
प्रसङ्गात् - प्रसक्तानुप्रसक्तियाले, स्वस्वभावोक्तिः - वसुदेवपुत्रऩाग अवदरित्तुम् षाड्गुण्यपरिपूर्णऩाऩ तऩ्ऩुडैय असाधारणधर्मङ्गळैच् चॊल्वदुम्, कर्मणः - कर्मत्तिऩुडैय, अकर्मता - “कर्मण्यकर्म यः पश्येत्” ऎऩ्बदाल् सॊल्लप्पट्ट ज्ञानाकारत् तऩ्मैयुम्, अस्य - इन्दक् कर्मत्तिऩुडैय, भेदाश्च - भेदङ्गळुम्, (कर्मत्तिऩुडैय भेदङ्गळावऩ - “दैवमेवापरे यज्ञम्” इत्यादिकळिल् सॊल्लप्पट्ट वर्णाश्रमधर्मङ्गळै अङ्गमाग उडैयदुम्, ज्ञानत्तिऱ्‌कुम् शक्तिक्कुम् इच्छैक्कुम् अनुगुणमाग अव्वव्वधिकारिकळाल् मुक्कियमाग परिग्रहिक्कप्पट्टदुमाऩ देवार्चनम्, इन्द्रियनिरोधनम्, प्राणायामम्, यागम्, दानम्, तपस्, तीर्थयात्रै, वेदाध्ययनम्, वेदार्थचिन्तनम् इवै मुदलाऩवैगळ्।) ज्ञानस्य - ज्ञानयोगत्तिऩुडैय, माहात्म्यम् - “श्रेयान् द्रव्यमयात् यज्ञात्” इत्यादिकळिल् सॊल्लप्पट्टिरुक्कुम् उत्कर्षमुम्, चतुर्थाध्याये - नाऩ्गावदु अध्यायत्तिल्, उच्यते - सॊल्लप्पडुगिऩ्ऱऩ। इव्वध्यायत्तिल् भगवाऩुडैय अवदारम् इन्द्रजालम् पोलऩ्ऱिक्के सत्यमॆऩ्ऱुम्, अवतीर्णऩाऩ भगवाऩ् नम्मैप्पोल सङ्कुचितज्ञानवाऩऩ्ऱिक्के सर्वज्ञऩॆऩ्ऱुम्, अवऩुडैय दिव्यमङ्गलविग्रहम् पाञ्चभौतिकमऩ्ऱिक्के अप्राकृतमॆऩ्ऱुम्, अवऩुडैय जन्मम् पुण्यपापरूपकर्मजन्यमऩ्ऱिक्के तऩ्ऩुडैय इच्छामात्रत्ताल् उण्डागिऱदॆऩ्ऱुम्, अवऩुडैय उत्पत्तिकालम् कर्माधीनमऩ्ऱिक्के जगत्तिल् धर्मग्लानि-अधर्माभ्युत्थानम् मुदलियवैगळ् उण्डागुम् कालमॆऩ्ऱुम्, अवऩुडैय जन्मफलम् सुखदुःखाद्यनुभवमऩ्ऱिक्के साधुसंरक्षणमुम् दुष्टनिग्रहमुम् धर्मसंस्थापनमुमॆऩ्ऱुम्, इप्पडि भगवज्जन्मादिकळ् स्वरूपत्तालुम्, विशेषणत्तालुम्, द्रव्यत्तालुम्, कारणत्तालुम्, कालत्तालुम्, प्रयोजनत्तालुम् उत्कृष्टतमङ्गळॆऩ्ऱुम् सॊल्लप्पडुगिऩ्ऱऩ। इदु “स्वस्वभावोक्ति” ऎऩ्ऩुमिडत्तिल् स्वभावशब्दत्ताल् विवक्षितमाऩ अर्थम्। (८)

०९ ०५

विश्वास-प्रस्तुतिः

कर्म-योगस्य सौकर्यं
शैघ्र्यं काश्चन तद्-विधाः+++(=प्रकाराः)+++ ।
ब्रह्म-ज्ञान-प्रकारश् च
पञ्चमाध्याय उच्यते ॥9॥

English

In the fifth chapter are set forth the ease and quick efficacy of Karma Yoga, some of its elements and the mode of knowledge of Brahman, i.e., the individual self.

वेङ्कटनाथार्यः

तृतीयचतुर्थाभ्यां यथांशं सङ्गतिप्रदर्शनपूर्वकमयं श्लोकः पञ्चमारम्भे व्याख्यातः ‘चतुर्थेऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदः, ज्ञानांशस्य च प्राधान्यमुक्तम् । ज्ञानयोगाधिकारिणोऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वादप्रमादत्वात् सुशकत्वात् निरपेक्षत्वाच्च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश्शैघ्र्यं, कर्मयोगान्तर्गताकर्तृत्वानुसन्धानप्रकारं च प्रतिपाद्यं तन्मूलं ज्ञानं च विशोध्यते (गी.भा.5.1) इति । सौकर्यस्यात्रानुद्धरणं पूर्वोक्तानुवादताज्ञापनार्थम् । सौकर्यशब्देनात्र ‘सुखं बन्धात्प्रमुच्यते’ (5.3) इत्यस्य हेतुर्दर्शितः । शैघ्र्यं तु ‘योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति’ (5.6) इत्युक्तम् । अत्र विधाशब्द इतिकर्तव्यतापरः; तथा खलु ‘नैव किञ्चित्करोमि’ (5.8) इत्यादेरधिष्ठिका - ‘यतस्सौकर्याच्छैघ्र्याच्च कर्मयोग एव श्रेयानतस्तदपेक्षितं शृणु’ (गी.भा. 5.8) इति । अकर्तृत्वानुसन्धानप्रकारशब्दोऽप्येतत्परः । ब्रह्मशब्दोऽत्र ब्रह्मसमानाकारशुद्धात्मविषयः । ज्ञानशब्दश्चात्र समदर्शनरूपज्ञानविपाकविश्रान्तः । प्रकारशब्दस्तु तद्धेतुभूतप्रकारार्थः । अतएव हि ‘येन प्रकारेणावस्थितस्य कर्मयोगिनस्समदर्शनरूपो ज्ञानविपाको भवति तं प्रकारमुपदिशति’ (गी.भा.5.20) इत्युक्त्वा ‘न प्रहृष्येत्प्रियं प्राप्य’ (5.20) इत्यादिकमवतारितम् । षष्ठारम्भस्त्वेवं सङ्गमितः ‘उक्तः कर्मयोगस्सपरिकरः, इदानीं ज्ञानयोगसाध्यात्मावलोकनरूपयोगाभ्यासविधिरुच्यते, तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगो योगशिरस्कोऽनूद्यते’ (गी.भा. 6.1) इति । एतेन, ‘योगी युञ्जीत’ (6.10) इत्यतः पूर्वस्य ग्रन्थस्यानुवादरूपत्वात्संग्रहे नोपन्यास इति व्यञ्जितम् ॥9॥

मूलम्

कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः ।
ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते ॥9॥

४२-इञ्जिमेडु-यतिः - ९

मूऩ्ऱावदु अध्यायत्तिल् सॊऩ्ऩ कर्मयोगत्तिऩ् सौकर्यप्रयुक्तमाऩ उत्कर्षत्तै ऐन्दावदु अध्यायत्तिलुम् कर्मयोगत्तिऱ्‌कु इरुक्कुम् शीघ्रतैयैक् कॊण्डु निरूबित्तुप्, पिऱगु कर्मयोगत्तैच् चेर्न्द अकर्तृत्वानुसन्धानप्रकारत्तैच् चॊल्लि, अदऱ्‌कु मूलमाऩ ज्ञानमुम् शोधिक्कप्पडुगिऱदॆऩ्बदै अडुत्त श्लोकत्ताल् सङ्ग्रहिक्किऱार्।
कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः । ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते ॥ ९ ॥
कर्मयोगस्य - कर्मयोगत्तिऩुडैय, सौकर्यम् - सुलभमागच् चॆय्यक्कूडुम् तऩ्मैयुम्, शैघ्र्यम् - आत्मावलोकनसाधनविषयत्तिल् इरुक्कुम् शीघ्रतैयुम्, काश्चन - सिल, तद्विधाः - कर्मयोगत्तिऩ् अङ्गभेदङ्गळुम्, ब्रह्मज्ञानप्रकारश्च - ब्रह्मत्तिऱ्‌कु समानमाऩ आकारत्तै उडैय जीवऩ्गळुडैय समदर्शनरूपमाऩ ज्ञानत्तिऩ् रीतियुम्, पञ्चमाध्याये - ऐन्दावदु अध्यायत्तिल्, उच्यते - सॊल्लप्पडुगिऩ्ऱऩ। (९)

१० ०६

विश्वास-प्रस्तुतिः

योगाभ्यास-विधिर् योगी
चतुर्धा योग-साधनम् ।
योग-सिद्धिः स्व-योगस्य
पारम्यं षष्ठ उच्यते ॥10॥

English

In the sixth chapter are taught the practice of Yoga (concentration and meditation), the four-fold divisions of (successful) Yogin-s, the means to success in Yoga, and the supermacy of Yoga concerning Himself.

वेङ्कटनाथार्यः

ननु अत्र पञ्चार्थास्संगृहीताः भाष्ये तु कथमेकः ? इत्थम् । ‘स्पर्शान् कृत्वा बहिर्बाह्यान्’ (5.27) इत्यादिना पञ्चमे प्रस्तुतो योगाभ्यासविधिरेवात्र प्रप़ञ्च्यत इति तत्प्रधानोऽयमध्यायः, तदनुबन्धाः प्रसङ्गादन्ये प्रतिपाद्यन्त इति । एतेनाध्यायान्तरेष्वप्यनेकानुबन्ध एकैकार्थः प्रधानतम इति सूचितम् । तद्यथा श्रवणाधिकारी, तन्मोहशमनं, कर्मयोगकर्तव्यत्वम्, तदवान्तरभेदः, तदन्तर्गतज्ञानविपाकः, योगाभ्यासविधिः, प्रतिबुद्धप्राधान्यम्, त्रिविधाधिकारवेद्योपादेयविभागः, सप्रका[रो]रको भक्तियोगः, गुणविभूत्यानन्त्यम्, वैश्वरूप्यदर्शनोपायः, भक्त्यारोहक्रमः, विशुद्धक्षेत्रज्ञविज्ञानम्, त्रैगुण्यविशोधनम्, पुरुषोत्तमवैलक्षण्यम्, शास्त्रवश्यत्वम्, शास्त्रीयविवेचनम्, सारोद्धारः इति । अतोऽत्र योगाभ्यासविध्यनुबन्धत्वेन योगि (योगे) चातुर्विध्यादिप्रदर्शनम् । योगी चतुर्धा ‘सर्वभूतस्थमात्मानम्’ (6.29) इत्यादिश्लोकचतुष्टयोदितसमदर्शनचातुर्विध्यात् । तत्र ह्येवं भाष्यम् - अथ योगविपाकदशा चतुष्प्रकारोच्यत इति । एवं तत्र समदर्शनविपाकक्रमोऽभिप्रेतः, आत्मनां ज्ञानत्वानन्दत्वादिभिरन्योन्यसाम्यदर्शनम्, शुद्धावस्थायामपहतपाप्मत्वादिभिरीश्वरेण साम्यदर्शनम्, परित्यक्तप्राकृतभेदानामसंकुचितज्ञानैकाकारतया ईश्वरेण तदपृथक्सिद्धविशेषणत्वादिभिरन्योन्यं च साम्यदर्शनम्, औपाधिकैः पुत्रादिभिरसंबन्धसाम्यदर्शनं चेति । योगसाधनम् - अभ्यासवैराग्यादिकम् । योगसिद्धिः - योगभ्रष्टस्यापि प्रत्यवायविरहः पुण्यलोकाद्यवाप्तिर्विच्छिन्नप्रतिसन्धानाद्यनुरूपविशिष्टकुलोत्पत्तिः अभिक्रमनाशाभावेन क्रमाच्छेषपूरणेन अपवर्गाविनाभावः इत्येवंरूपाः । स्वयोगस्य पारम्यम् - वक्तुर्भगवतो वासुदेवस्य भजनरूपो योगोऽत्र स्वयोगः; तस्य पारम्यं स्वापेक्षयोत्कृष्टराहित्यम् । एतच्च मध्यमषट्कप्रतिपाद्यमपि तत्प्रस्तावनारूपेण, योगिनामपि सर्वेषामिति प्रथमषट्कान्तिमश्लोकेन दर्शितम् । तथा हि तत्र भाष्यम् - ‘तदेवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनमुक्तम्, अथ परविद्यां प्रस्तौती’ (गी.भा.6.47) ति ॥10॥

मूलम्

योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् ।
योगसिद्धिः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥10॥

४२-इञ्जिमेडु-यतिः - १०

योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् । योगसिद्धिः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥ १० ॥
योगाभ्यासविधिः - ज्ञानयोगकर्मयोगसाध्यमाऩ आत्मावलोकनरूपमागिऱ योगत्तिऩ् अभ्यासविधियुम्, (अदावदु - अनुष्ठानक्रमम् ऎऩ्ऱबडि), योगी चतुर्धा - योगिकळुडैय नाऩ्गु विधमाऩ भेदङ्गळुम्, (इङ्गु “सर्वभूतस्थमात्मानं सर्वाभूतानि चात्मनि” इत्यादियाऩ श्लोकङ्गळिल् सॊल्लप्पट्ट समदर्शनरूपज्ञानम् नाऩ्गु विधमागप् भेदिक्किऱबडियाल् योगिकळुम् अन्द ज्ञानभेदत्ताल् नाऩ्गु विधप्पडुगिऱार्गळ् ऎऩ्ऱु सॊल्लप्पडुगिऱदु।) योगसाधनम् - आत्मावलोकनत्तिऱ्‌कु साधनमाऩ अभ्यासम् वैराग्यम् मुदलियवै, योगसिद्धि: - योगत्तिऩ् सिद्धियुम् (सिद्धियावदु - योगत्तिलिरुन्दु नऴुविऩवऩागिऱ योगभ्रष्टऩुक्कुम् प्रत्यवायम् इल्लामै, पुण्यलोकप्राप्ति, योगिकळिऩ् कुलत्तिल् पिऱप्पु, ‘आरम्भित्तुच् चॆय्यप्पट्ट योगम् पूर्तियागाविट्टालुम् निष्प्रयोजनमागिऱदिल्लै’ ऎऩ्गिऱबडियाल् पिऩ्बु जन्मान्तरङ्गळिल् योगपूर्तियाल् मोक्षलाभम् मुदलियवैगळ्), स्वयोगस्य - वासुदेवऩाऩ तऩ्ऩुडैय योगत्तिऱ्‌कु, पारम्यम् - अळवऱ्‌ऱ उत्कर्षमुम्, षष्ठ उच्यते - आऱावदु अध्यायत्तिल् सॊल्लप्पडुगिऩ्ऱऩ। गीताशास्त्रत्तिल् मुदल् षट्कत्तिल् जीवयोगमुम्, इरण्डावदु षट्कत्तिल् भगवद्भजनरूपभक्तियोगमुम् सॊल्लप्पडुगिऩ्ऱऩ ऎऩ्बदु नियतमाऩालुम्, इङ्गु इरण्डावदिल् सॊल्लप्पडप्पोगिऱ भक्तियोगत्तिऱ्‌कु प्रस्तावनारूपमाग “योगिनामपि सर्वेषाम्” ऎऩ्गिऱ आऱावदु अध्यायत्तिऩ् अन्तिमश्लोकत्तिऩ् अर्थत्तिल् नोक्कागैयाल् विरोधमिल्लै। (१०)

११ ०७

विश्वास-प्रस्तुतिः

स्व-याथात्म्यं प्रकृत्या ऽस्य
तिरो-धिः शरणागतिः
भक्त-भेदः प्रबुद्धस्य
श्रैष्ठ्यं सप्तम उच्यते ॥11॥

English

In the seventh chapter is taught the exact knowledge of Himself, His concealment by the Prakrti, the surrender to Him as the means to overcome this, observation on various types of devotees and the superiority of the man of wisdom among these devotees.

वेङ्कटनाथार्यः

तत्र भाष्यम् - सप्तमे तावदुपास्यभूतपरमपुरुष (स्वरूप) याथात्म्यम्, प्रकृत्या तत्तिरोधानम्, तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदो ज्ञानिनश्श्रैष्ठ्यं चोच्यत इति । तत्र प्रकृतिशब्देन, ‘मम माया दुरत्यया’ (7.13) इति मायाशब्दो व्याख्यातः । गुणमयीति विशेषणात् सैव हि विवक्षितेति गम्यते । श्रुतावपि, ‘अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः’ (श्वे. 4.9) इति प्रस्तुतयोर्मायातद्वतोः, ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे.4.9) इति स्वयमेव विवरणा़च्च । अतो विचित्रसृष्ट्युपकरणवस्तुत्वात् प्रकृताविह मायाशब्दप्रयोग इति भावः । अष्टमारम्भसङ्गतौ चैतच्छ्लोकार्थः स्पष्टमभिहितः - ‘सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वम्, निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर्देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैरनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुकभगवत्प्रपत्त्या च तन्निवर्तनम्, सुकृततारतम्येन च प्रतिपत्तिवैशेष्यादैश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षया चोपासकभेदम्, भगवन्तं प्रेप्सोर्नित्ययुक्ततया एकभक्तितया च अत्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश्च प्रास्तौषी’ (गी.भा. 8.1) दिति ॥11॥

मूलम्

स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥11॥

४२-इञ्जिमेडु-यतिः - ११

इऩि एऴावदु अध्यायत्तै सङ्ग्रहित्तुच् चॊल्लुगिऱार्।
स्वयाथात्म्यं प्रकृत्याऽस्य तिरोधिः शरणागतिः । भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥ ११ ॥
सप्तमे - एऴावदु अध्यायत्तिल्, स्वयाथात्म्यम् - उपासिक्कत् तगुन्दवऩाय् इरुक्कुम् परमपुरुषऩागिऱ तऩ्ऩुडैय याथात्म्यमुम्, प्रकृत्या - प्रकृतियिऩाल्, अस्य - भगवाऩुडैय याथात्म्यत्तिऱ्‌कु, तिरोधिः - मऱैवुम्, (इन्द श्लोकत्तिल् सॊल्लियिरुक्कुम् प्रकृतिशब्दत्ताल् “मम माया दुरत्यया” ऎऩ्बदिलुळ्ळ मायाशब्दत्तिऩ् अर्थम् प्रकाशितमायिऱ्‌ऱु।) शरणागतिः - “मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” ऎऩ्ऱु सॊल्लप्पट्ट भगवत्प्रपदनमुम्, (इन्द प्रपदनमे मायारूपमाऩ मऱैवै निवृत्तिक्किऱदु), भक्तभेदः - “आर्तो जिज्ञासुः” ऎऩ्गिऱ इडत्तिल् सॊल्लप्पट्टिरुक्कुम् भक्तर्गळुडैय भेदमुम्, प्रबुद्धस्य - अवर्गळिल् प्रबुद्धऩाऩ ज्ञानिक्कु, श्रैष्ठ्यम् - “एकभक्तिः विशिष्यते” ऎऩ्ऱु सॊल्लप्पडुम् उत्कर्षमुम्, उच्यते - सॊल्लप्पडुगिऱदु। (११)

१२ ०८

विश्वास-प्रस्तुतिः

ऐश्वर्याक्षर-याथात्म्य-
भगवच्-चरणार्थिनाम् ।
वेद्योपादेय-भावानाम्
अष्टमे भेद उच्यते ॥12॥

English

In the eigth chapter are discussed the distinction of what are to be understood and acquired by each of the three classes of devotees - those who are after prosperity, after the true nature of the self and after the feet of the Lord.

वेङ्कटनाथार्यः

अष्टमश्चैवमवतारितः - इदानीमष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान्विविनक्तीति (गी.भा. 8.1) । तत्रैष संग्रहः - ऐश्वर्यमत्र इन्द्रप्रजापतिपशुपतिभोगेभ्योऽतिशयितभोगः, अक्षरयाथात्म्यम् - विविक्तात्मस्वरूपम्, वेद्यास्तु ‘अक्षरं ब्रह्म परमम्’ (8.3) इत्यादिनोक्ताः शुद्धात्मस्वरूपप्रभृतयः उपादेयास्तु तत्तदिष्टफलानुरूपपरमपुरुषचिन्तनान्तिमप्रत्ययगतिचिन्तनादयः त एव भावाः - पदार्थाः, तेषां भेदः तत्तदधिकारानुरूपो विशेषः ॥12॥

मूलम्

ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम् ।
वेद्योपादेयभावानामष्टमे भेद उच्यते ॥12॥

४२-इञ्जिमेडु-यतिः - १२

ऎट्टावदु अध्यायत्तै सङ्ग्रहित्तुक् काट्टुगिऱार्।
ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम् । वेद्योपादेयभावानामष्टमे भेद उच्यते ॥ १२ ॥
ऐश्वर्य - ब्रह्मा, रुद्रऩ् इवर्गळ् मुदलाऩ देवतैकळुडैय भोगत्तैक् काट्टिलुम् अतिशयितमाऩ भोगत्तैयुम्, अक्षरयाथात्म्य - प्रकृतिसंबन्धमऱ्‌ऱ शुद्धजीवस्वरूपत्तैयुम्, भगवच्चरण - परमप्राप्यमाऩ वासुदेवचरणारविन्दङ्गळुडैय परिचरणत्तैयुम् आग इवैगळै, अर्थिनाम् - तङ्गळ् तङ्गळ् फलमागक् कोरुगिऱ ऐश्वर्यार्थिकळॆऩ्ऩ, कैवल्यार्थिकळॆऩ्ऩ, मोक्षार्थिकळॆऩ्ऩ इम्मूवरुक्कुम्, वेद्योपादेयभावानाम् - अऱियवेण्डुवऩवुम् अनुष्ठिक्क वेण्डुवऩवुमाऩ पदार्थङ्गळुडैय, भेदः - विशेषमाऩदु, अष्टमे उच्यते - ऎट्टावदु अध्यायत्तिल् सॊल्लप्पडुगिऱदु। (इम्मूवरुक्कुम् ज्ञातव्यमाऩ अंशङ्गळावऩ - “अक्षरं ब्रह्म परमम्” इत्यादिकळिल् सॊल्लप्पट्ट शुद्धात्मस्वरूपम् मुदलाऩवै। इम्मूवरालुम् अनुष्ठिक्कवेण्डिय अंशङ्गळावऩ - तङ्गळ् तङ्गळुडैय इष्टफलत्तिऱ्‌कुत् तगुन्द भगवदुपासनम्, अन्तिमस्मृति, गतिचिन्तनम् मुदलियवै।) (१२)

१३ ०९

विश्वास-प्रस्तुतिः

स्व-माहात्म्यं मनुष्यत्वे
परत्वं च महात्मनाम् ।
विशेषो नवमे योगो
भक्ति-रूपः प्रकीर्तितः ॥13॥

English

In the ninth chapter are treated His own eminenece, His undiminished supermacy as the Divine even when He assumes embodiments as Incarnations the excellence of Mahatma-s or devotees who seek God alone, and the discipline of Bhakti or devotion to God.

वेङ्कटनाथार्यः

स्वमाहात्म्यम् - ‘मया ततमिदं सर्वम्’ (गीता-९.४) इत्यादिभिः शोधितम् । ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो ममाव्ययमनुत्तमम्’ (गीता-९.११) इति परत्वस्य मनुष्यदशायामपि अव्ययत्वमुक्तम् । प्रस्तुतावतारविवक्षया मनुष्यावस्थत्वोक्तिः, तन्मुखेन सर्वेष्वप्यवतारेषु अव्ययः परमो भाव उपलिलक्षयिषितः । उक्तञ्च श्रीवत्सचिह्नमित्रैः “परो वा व्यूहो वा विभव उत वार्चावतरणो भवन् वान्तर्यामी वर वरद यो यो भवसि वै । स स त्वं सन्नैशान् वरगुणगणान् बिभ्रदखिलान् भजद्भ्यो भास्येवं सततमितरेभ्यस्त्वितरथा ॥” इति । (वरदराजस्तवे.१८) “महात्मानस्तु मां पार्थ’ (गीता-९.१३) इत्यादिना महात्मनां विशेषो विशोधितः । अत्र भक्तिरूपस्य योगस्यैव प्राधान्यं भाष्योक्तम् “उपासकभेदनिबन्धनाविशेषाः प्रतिपादिताः; इदानीमुपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपमुच्यते’ इति ॥१३॥

मूलम्

स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥13॥

४२-इञ्जिमेडु-यतिः - १३

ऒऩ्बदावदु अध्यायत्तै सङ्ग्रहिक्किऱार्।
स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् । विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥ १३ ॥
स्वमाहात्म्यम् - “मया ततमिदं सर्वम्” इत्यादिकळिल् सॊल्लप्पट्ट तऩ्ऩुडैय माहात्म्यमुम्, मनुष्यत्वे च - मनुष्यऩाग अवतरित्त दशैयिलुम्, परत्वम् - “अवजानन्ति मां मूढाः” इत्यादिकळिल् सॊल्लप्पट्टिरुक्कुम् उत्कर्षमुम्, (इङ्गु प्रस्तुतमागैयाले मनुष्यावतारत्तैच् चॊऩ्ऩबडि। ऎल्ला अवतारङ्गळुम् व्यूहादिकळुम् इम्मादिरियाऩ उत्कर्षत्तुडऩ् कूडियवै ताम्।) महात्मनाम् - “महात्मानस्तु मां पार्थ” इत्यादिकळिल् सॊल्लप्पट्ट महात्माक्कळुडैय, विशेषः - विशेषमुम्, (विशेषमावदु वेऱॊऩ्ऱिलुम् मऩम् सॆल्लादवर्गळागवुम् ऎप्पॊऴुदुम् भगवन्नामसङ्कीर्तनत्तुडऩ् कूडिऩवर्गळागवुम् इरुक्कुम् तऩ्मै), भक्तिरूपो योगः - प्रीतिरूपापन्नमायुम्, दर्शनसमानाकारमायुम् तैलधारै पोल इडैविडाद स्मृतिसन्ततिरूपमायुम् इरुक्किऱ भगवद्भक्तियागिऱ भगवत्प्राप्त्युपायमुम्, नवमे प्रकीर्तितः - ऒऩ्बदावदु अध्यायत्तिल् विस्तारमाग प्रतिपादिक्कप्पट्टिरुक्किऱदु। (१३)

१४ १०

विश्वास-प्रस्तुतिः

स्व-कल्याण-गुणानन्त्य-
कृत्स्न-स्वाधीनता-मतिः ।
भक्त्य्-उत्पत्ति-विवृद्ध्य्-अर्था
विस्तीर्णा दशमोदिता ॥14॥

English

In the tenth chapter are described in detail, the infinite auspicious attributes of the Lord and His absolute control over everything, so as to generate and develop Bhakti or Devotion to God in the minds of aspirants.

वेङ्कटनाथार्यः

अत्र नवमसंगतिपूर्वकं भाष्यम् - ‘भक्तियोगस्सपरिकर उक्तः, इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भगवतो निरङ्कुशैश्वर्यादिकल्याणगुणानन्त्यं (वक्तुं) कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपंच्यत’ (गी.भा.) इति । एकादशारम्भे च भाषितम् ‘एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतस्सर्वात्मत्वं, तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् । तमेतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशादुपश्रुत्य एवमेवेति निश्चित्य तथाभूतं साक्षात्कर्तुकामोऽर्जुन उवाचे’ (गी.भा. 11.1) ति ॥14॥

मूलम्

स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृद्ध्यर्था विस्तीर्णा दशमोदिता ॥14॥

४२-इञ्जिमेडु-यतिः - १४

पत्तावदु अध्यायार्थत्तै सङ्ग्रहित्तुक् काट्टुगिऱार्।
स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः । भक्त्युत्पत्तिविवृद्ध्यर्था विस्तीर्णा दशमोदिता ॥ १४ ॥
भक्त्युत्पत्तिविवृद्ध्यर्था - कीऴ्च् चॊल्लप्पट्ट सपरिकरमाऩ भक्तियोगत्तिऩुडैय स्वरूपोत्पत्तियैयुम् अभिवृद्धियैयुम् प्रयोजनमाग उडैयदाऩ, मतिः - ज्ञानमाऩदु, विस्तीर्णा - अतिविस्तीर्णमाग, दशमोदिता - पत्तावदु अध्यायत्तिल् प्रतिपादिक्कप् पट्टुळ्ळदु। अन्द मति ऎप्पडिप्पट्टदु ऎऩ्ऱाल्, स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनता - तऩ्ऩुडैय मङ्गलगुणङ्गळुडैय मुडिविल्लामैयैयुम्, समस्तजगत्तुम् भगवाऩुक्कु अधीनमाग इरुक्कुम् तऩ्मैयैयुम् विषयीकरित्तु निऱ्‌कुम्। “यो मामजमनादिं च” इत्यादिकळिल् मङ्गलगुणङ्गळ् सॊल्लप्पट्टुळ्ळऩ। “अहं कृत्स्नस्य प्रभवः” इत्यादिकळिल् जगत्तिऩ् भगवदधीनतै सॊल्लप्पट्टिरुक्किऱदु। (१४)

१५ ११

विश्वास-प्रस्तुतिः

एकादशे स्व-याथात्म्य-
साक्षात्-कारावलोकनम् ।
दत्तम् उक्तं विदि+++(=ज्ञान)+++-प्राप्त्योर्
भक्त्य्-एकोपायता तथा ॥15॥

English

In the eleventh chapter, it is stated that the divine eye which can give an immediate vision of Him as He is, was given to Arjuna, and accordingly it is stated that bhakti is the only means of knowing and attaining Him in the way described.

वेङ्कटनाथार्यः

साक्षात्कारहेतुभूतमवलोकनं साक्षात्कारावलोकनम्, अवलोक्यतेऽनेनेत्यवलोकनमिह दिव्यचक्षुः । विदिप्राप्त्योरिति दर्शनस्याप्युपलक्षणम् । तथा हि गीयते ‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥’ (11.54) इति । अयं तु संग्रहो द्वादशारम्भे सङ्गतिं विवक्षद्भिर्व्याख्यातः ‘भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशैश्वर्यं साक्षात्कर्तुकामायार्जुनायानवधिकातिशयकारुण्यौदार्यसौशील्यादिगुणसागरेण सत्यसङ्कल्पेन भगवता स्वैश्वर्यं यथावदवस्थितं दर्शितम्, उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनामैकान्तिकात्यन्तिकभगवद्भक्त्येकलभ्यत्वम् (गी.भा.12.1) इति ॥15॥

मूलम्

एकादशे स्वयाथात्म्यसाक्षात्कारावलोकनम् ।
दत्तमुक्तं विदिप्राप्त्योर्भक्त्येकोपायता तथा ॥15॥

४२-इञ्जिमेडु-यतिः - १५

पदिऩोरावदु अध्यायत्तिल्, अर्जुनऩुक्कुत् तऩ्ऩुडैय विश्वरूपत्तै साक्षात्करिक्कक् कूडियदाऩ दिव्यचक्षुस्सैक् कॊडुप्पदुम्, तऩ्ऩुडैय ज्ञानमुम् दर्शनमुम् वेण्डुमाऩाल् भक्तियॊऩ्ऱिऩा लेये अवै अडैयत्तगुन्दवै ऎऩ्बदुम् सॊल्लप्पडुगिऩ्ऱऩ ऎऩ्गिऱार्।
एकादशे स्वयाथात्म्यसाक्षात्कारावलोकनम् । दत्तमुक्तं विदिप्राप्त्योर्भक्त्येकोपायता तथा ॥ १५ ॥
एकादशे - पदिऩोरावदु अध्यायत्तिल्, स्वयाथात्म्य - समस्तचिदचित् इन्द वस्तुक्कळै शरीरमाग वैत्तिरुक्कुम् तऩ्ऩुडैय यथावस्थितस्वभावत्तै, साक्षात्कार - साक्षात्करिक्कक् कारणमाऩ, अवलोकनम् - दिव्यनेत्रमाऩदु, दत्तम् - (वासुदेवऩाल्) कॊडुक्कप्पट्टदाग, उक्तम् - सॊल्लप्पट्टिरुक्किऱदु। (“पश्यामि देवान् तव देव देहे” ऎऩ्ऱऩ्ऱो अर्जुनऩ् साक्षात्करित्तदु। अवलोकनम् ऎऩ्बदाल् सामान्यमागप् ‘पार्वै’ ऎऩ्ऩुम् अर्थम् किडैत्तालुम्, ‘अवलोक्यते अनेन’ ऎऩ्ऱु व्युत्पत्ति सॆय्दु ‘नेत्रम्’ ऎऩ्ऩुम् अर्थमुम् किडैक्कलाम्।) विदिप्राप्त्योः - भगवज्ज्ञानमॆऩ्ऩ, प्राप्तियॆऩ्ऩ इवैगळुक्कु, भक्त्येकोपायता - भक्तियैये प्रधानमाऩ उपायमाग उडैत्तायिरुक्कैयुम्, तथा प्रोक्ता - मुऩ्बोलच् चॊल्लप्पट्टुळ्ळदु। (ज्ञानम्, प्राप्ति इव्विरण्डै मात्तिरम् इव्विडत्तिल् सॊऩ्ऩबोदिलुम्, अन्दप् पदत्तै दर्शनत्तिऱ्‌कुम् उपलक्षणमाग ऎडुत्तुक्कॊळ्ळवेणुम्। एऩॆऩ्ऱाल्, “भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥” ऎऩ्ऱऩ्ऱो गीतावाक्यम् निऱ्‌किऱदु।) (१५)

१६ १२

विश्वास-प्रस्तुतिः

भक्तेः श्रैष्ठ्यम् उपायोक्तिर्
अ-शक्तस्यात्म-निष्ठता ।
तत्-प्रकारास् त्व् अति-प्रीतिर्
भक्ते द्वादश उच्यते ॥16॥

English

In the twelth chapter are taught the superiority of Bhakti Yoga, the means thereto, the direction for the one unqualified to meditate on the self, the details of the qualities to be acquired and modes of Sadhana to be practiced for that end, and immense love of the Lord for the devotees.

वेङ्कटनाथार्यः

अत्र च भाष्यम् - ‘अनन्तरमात्मप्राप्तिसाधनभूतादात्मोपासनाद्भक्तिरूपस्य स्वसाध्यनिष्पादने शैघ्र्यात् सुसुखोपादानत्वाच्च श्रैष्ठ्यं भगवदुपासनोपायश्च तदशक्तस्याक्षरनिष्ठता तदपेक्षिताश्चोच्यन्त’ (गी.भा.12.1) इति । अत्रातिप्रीतिर्भक्ते इत्यस्योपादानमुपसंहारमात्रताव्यञ्जनार्थम् । उपायोक्तिः ‘अथ चित्तं समाधातुम्’ (12.9) इत्यादिश्लोकद्वयेन कृता । भगवति चित्तं समाधातुमशक्तस्य भगवद्गुणाभ्यासस्तत्राप्यशक्तस्य प्रीतिपूर्वकभगवदसाधारणकर्मकरणम्, तस्मिन्नप्यसमर्थस्यात्मनिष्ठेति क्रमः । तत्प्रकाराः कर्मयोगाद्यपेक्षिताः ‘अद्वेष्टा सर्वभूतानाम्’ (12.13) इत्यादिनोक्ताः उपादेयगुणप्रकाराः । तथा च तत्र भाषितम् - ‘अनभिसंहितफलकर्मनिष्ठस्योपादेयान् गुणानाह’ (गी.भा.12.13) इति । अतिप्रीतिर्भक्ते ‘ये तु धर्म्यामृतमिदं यथोक्तम्’ (12.20) इत्यादिना अध्यायान्तिमश्लोकेनोक्ता । तदभिप्रेतं चैवमुक्तम् ‘(त)अस्मादात्मनिष्ठाद्भक्तियोगनिष्ठस्य श्रैष्ठ्यं प्रतिपादयन्यथोपक्रममुपसंहरति’ (गी.भा. ) इति ॥16॥

मूलम्

भक्तेः श्रैष्ठ्यमुपायोक्तिः अशक्तस्यात्मनिष्ठता ।
तत्प्रकारास्त्वतिप्रीतिः भक्ते द्वादश उच्यते ॥16॥

४२-इञ्जिमेडु-यतिः - १६

पऩ्ऩिरण्डावदु अध्यायत्तै सङ्ग्रहिक्किऱार्।
भक्तेः श्रैष्ठ्यमुपायोक्तिः अशक्तस्यात्मनिष्ठता । तत्प्रकारास्त्वतिप्रीतिः भक्ते द्वादश उच्यते ॥१६॥
भक्तेः - भगवद्भक्तिक्कु, श्रैष्ठ्यम् - आत्मप्राप्तिसाधनभूतमाऩ जीवोपासनत्तैक् काट्टिलुम् इरुक्कुम् उत्कर्षमुम्, (इन्द उत्कर्षम्, तऩ्ऩुडैय फलत्तै साधित्तुक्कॊडुक्कुम् विषयत्तिलिरुक्कुम् शैघ्र्यत्तालुम् सुकरतैयालुम् एऱ्‌पडुगिऱदु), उपायोक्तिः - “अथ चित्तं समाधातुम्” इत्यादिकळिल् सॊल्लप्पट्टिरुक्कुम् भक्त्युपायविवरणमुम्, अशक्तस्य - पर्वक्रममागच् चॊल्लप्पट्ट चित्तसमाधानत्तिलुम्, भगवद्गुणाभ्यासत्तिलुम्, भगवाऩुक्कु असाधारणमाग इरुक्कुम् मण्टपम् गोपुरम् मुदलियवैगळैक् कट्टुवदिलुम् अशक्तऩाऩ अधिकारिक्कु, आत्मनिष्ठता - जीवोपासनमुम्, (इन्द जीवोपासनम् भगवद्भक्तिक्कुक् कारणम्; मुदल् आऱु अध्यायङ्गळिल् सॊल्लप्पट्टिरुक्किऱदु), तत्प्रकाराः - अप्पडिप्पट्ट उपासनत्तिऱ्‌कु उपयोगियाग निऱ्‌कुम् कर्मयोगत्तिऱ्‌कु अपेक्षितङ्गळाऩ उपादेयगुणङ्गळिऩ् प्रकारङ्गळुम्, भक्ते - भक्तविषयत्तिल्, अतिप्रीतिः - अळवऱ्‌ऱ प्रीतियुम्, (“श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः” ऎऩ्ऩुम् इडत्तिल् इन्द प्रीति काण्बिक्कप्पट्टिरुक्किऱदु), द्वादश उच्यते - पऩ्ऩिरण्डावदु अध्यायत्तिल् सॊल्लप्पडुगिऱदु। (१६)

१७ १३

विश्वास-प्रस्तुतिः

देह-स्व-रूपम् आत्माप्ति-
हेतुर् आत्म-विशोधनम् ।
बन्ध-हेतुर् विवेकश् च
त्रयो-दश उदीर्यते ॥17॥

English

In the thirteenth chapter, the nature of the body, the means for the realisation of the self, investigation of the nature of the self, the cause of bondage and the discrimination between the self and the body are dealt with.

वेङ्कटनाथार्यः

अत्र भाष्यम् - ‘तत्र तावत् त्रयोदशे देहात्मनोस्स्वरूपं देहयाथात्म्यशोधनं देहवियुक्तात्मप्राप्त्युपायो विविक्तात्मस्वरूप(सं) शोधनं तथाविधस्यात्मनश्चाचित्संबन्धहेतुस्ततो विवेकानुसन्धानप्रकारश्चोच्यत’ (गी.भा. 13.1) इति । अत्र देहस्वरूपमित्यनेनैवाभिप्रेतं देहात्मनोस्स्वरूपमिति देहयाथात्म्यशोधनमिति च विवृतम् । आत्माप्तिहेतुः - ‘अमानित्वम्’ (13.7) इत्यादिभिरुक्तः । आत्मविशोधनं - ‘ज्ञेयं यत्तत्प्रवक्ष्यामि’ (13.12) इत्युपक्रम्य कृतम् । बन्धहेतुस्तु, ‘कारणं गुणसंगोऽस्य सदसद्योनिजन्मसु’ (13.21) इत्युक्तः । ‘ध्यानेनात्मनि पश्यन्ति’ (13.24) इत्यादिना विवेकानुसन्धानप्रकारो यथाधिकारं दर्शितः ॥17॥

मूलम्

देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् ।
बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते ॥17॥

४२-इञ्जिमेडु-यतिः - १७

इदुवरैयिल् मुदल् इरण्डु षट्कङ्गळिल् अडङ्गिय पऩ्ऩिरण्डु अध्यायङ्गळिऩ् अर्थङ्गळ् सङ्ग्रहिक्कप्पट्टऩ। इदऱ्‌कु मेल् मूऩ्ऱावदु षट्कत्तिऩ् अध्यायार्थङ्गळ् सङ्ग्रहिक्कप्पडुगिऩ्ऱऩ। इन्द मूऩ्ऱावदु षट्कम् इरण्डु भागमागप् पिरिन्दु, अदिल् मुदल् मूऩ्ऱु अध्यायङ्गळ् अडङ्गिय मुदऱ्‌ भागमागिय प्रथमत्रिकत्ताल् तत्त्वङ्गळिऩ् स्वभावत्तैयुम्, अडुत्त मूऩ्ऱु अध्यायङ्गळ् अडङ्गिय इरण्डावदु भागमागिय द्वितीयत्रिकत्ताल् कर्मयोगम् मुदलिय कर्तव्यङ्गळिऩ् स्वभावत्तैयुम् निरूपित्तुच् चॊल्लुगिऱदु। इन्द षट्कत्तिऩ् मॊत्त अर्थत्तै सङ्ग्रहिक्कुम्बॊऴुदे, इम्मादिरियाऩ विभागत्तै मनस्सिल् वैत्तु सङ्ग्रहित्तिरुक्किऱार्। “प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम्” ऎऩ्गिऱ मुदल् पादि तत्त्वनिरूपणत्तैयुम्, “कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः” ऎऩ्गिऱ इरण्डावदु पादि कार्यनिरूपणत्तैयुम् काट्टुगिऩ्ऱऩ। इप्पॊऴुदु प्रथमत्रिकत्तिल् मुदल् अध्यायमागिऱ पदिऩ्मूऩ्ऱावदु अध्यायत्तिऩ् अर्थत्तै सङ्ग्रहिक्किऱार्।
देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् । बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते ॥ १७ ॥
देहस्वरूपम् - “महाभूतान्यहङ्कारः” ऎऩ्ऱु तॊडङ्गि “एतत् क्षेत्रं समासेन सविकारमुदाहृतम्” ऎऩ्गिऱ वरैयिलुळ्ळ श्लोकङ्गळाल् सॊल्लप्पट्ट सकार्यकमाऩ शरीरत्तिऩ् स्वरूपमुम्, (इदु आत्मस्वरूपत्तुक्कुम् उपलक्षणम् ऎऩ्ऱु श्रीभाष्यकारर् तिरुवुळ्ळम्।) आत्माप्तिहेतुः - प्रकृतियै विट्टुप् पिरिन्दु निऱ्‌कुम् जीवऩुडैय अडैदलुक्कुक् कारणमुम्, (“अमानित्वमदंभित्वम्” इत्यादिकळिल् सॊल्लप्पट्टिरुक्कुम् गुणविशेषङ्गळ् ताऩ् जीवऩै अडैदलुक्कुक् कारणम्।) आत्मविशोधनम् - अप्पडिप्पट्ट जीवऩुडैय विशेषित्त शोधनमुम्, (“ज्ञेयं यत् तत् प्रवक्ष्यामि” इत्यादिकळिल् इदु सॊल्लप्पट्टिरुक्किऱदु।), बन्धहेतुः - प्रकृतिसम्बन्धमागिऱ बन्धत्तिऱ्‌कुक् कारणमुम्, (इदु “कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु” ऎऩ्गिऱ इडत्तिल् सॊल्लप्पट्टिरुक्किऱदु।) विवेकश्च - “ध्यानेनात्मनि पश्यन्ति” ऎऩ्ऱु तॊडङ्गि, नम्माल् पार्क्कप्पड वेण्डिय पॊरुळ् ऎऩ्ऱु सॊल्लप्पट्टिरुक्कुम् आत्माविऩुडैय विवेचित्तु अनुसन्धानम् पण्णुगैयुम्, (इङ्गु विवेकशब्द त्ताले देहात्माक्कळुडैय विविच्य ज्ञापनमावदु अवैगळुडैय भेदमावदु विवक्षितमऩ्ऱु; ‘आत्मविशोधनम्’ ऎऩ्ऱु कीऴ्च् चॊल्लप्पट्टिरुक्किऱ शब्दत्ताले इन्द अर्थम् किडैत्तुविट्टदु।) त्रयोदश उदीर्यते - आग इवैगळॆल्लाम् पदिऩ्मूऩ्ऱावदु अध्यायत्तिल् सॊल्लप्पडुगिऩ्ऱऩ। (१७)

१८ १४

विश्वास-प्रस्तुतिः

गुण-बन्ध-विधा तेषां
कर्तृत्वं तन्-निवर्तनम् ।
+++(ऐश्वर्य-कैवल्य-मोक्ष→)+++ गति-त्रय-स्व-मूलत्वं
चतुर्दश उदीर्यते ॥18॥

English

In the fourteenth chapter are explained the various ways in which the Guna-s bind the self, how they are the agents in respect of all works and how to eliminate their hold. It also explains how the Supreme Person is the basis of all the three ends attainable, namely, heavenly sovereignty, the abidance in the pristine state of the self and dwelling in the Lord.

वेङ्कटनाथार्यः

अत्र प्रकृतिविशोधनरूपतया सङ्गतिपूर्वकभाष्यम् - ‘त्रयोदशे प्रकृतिपुरुषयोरन्योन्यसंसृष्टयोः स्वरूपयाथात्म्यं विज्ञाय अमानित्वादिभिर्भगवद्भक्त्यनुगृहीतैर्बन्धान्मुच्यते’ इत्युक्तम् । तत्र बन्धहेतुः पूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम् - ‘कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु’ इति । अथेदानीं गुणानां बन्धहेतुताप्रकारो गुणनिवर्तनप्रकारश्चोच्यत इति । गुणकर्तृत्वादेरिह भाष्येऽनुक्तिः पूर्ववदेवेति भाव्यम् । सत्त्वं सुखज्ञानसङ्गेन बध्नाति, रजस्तु कर्मसङ्गेन, तमस्तु प्रमादालस्यनिद्राभिरिति बन्धहेतुताप्रकारः, तेषां कर्तृत्वं प्रागुक्तप्रकारेण प्राप्ताप्राप्तविवेकेन तेष्वारोपितम्, तच्चात्र ‘नान्यं गुणेभ्यः कर्तारम्’ (गीता-१४.१२) इति स्मारितम् । गुणनिवर्तनप्रकारस्तु - ‘मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते’ (गीता-१४.२६) इत्यन्तेनोक्तः । अत एवात्र ‘गतित्रयस्वमूलत्वम्’ इत्येतत् ‘ब्रह्मणो हि प्रतिष्ठाहम्’ इत्यध्यायान्तिमश्लोकोक्तमेव संगृह्णाति । तत एव हि तत्रैवं भाषितम् - पूर्वत्र ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव हि प्रपद्यन्ते मायामेतां तरन्ति ते’ (गीता-७.१४) इत्यारभ्य गुणात्ययस्य तत्पूर्वकाक्षरैश्वर्यभगवत्प्राप्तीनां च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वादेकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययस्तत्पूर्वको ब्रह्मानुभवश्चेति । ‘ऊर्ध्वं गच्छन्ति’ (गीता-१४.१८) इत्याद्युक्तगतित्रयविवक्षायां तु सङ्ग्रहक्रमभङ्गः स्यात् ॥18॥

मूलम्

गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम् ।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥18॥

४२-इञ्जिमेडु-यतिः - १८

पदिऩ्मूऩ्ऱावदु अध्यायत्तिल् सत्त्वम् मुदलाऩ गुणङ्गळागिऱ बन्धहेतुक्कळ् सॊल्लप्पट्टऩ ऎऩ्ऱार्। इऩिप् पदिऩाऩ्गिल् गुणबन्धप्रकारमुम्, अदऩै निवृत्तिक्कक् कूडिय उपायमुम् सॊल्लप्पडुगिऩ्ऱऩ ऎऩ्गिऱार्।
गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम् । गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥ १८ ॥
गुणबन्धविधा - सत्त्व, रजस्, तमस्सुक्कळुडैय बन्धप्रकारमुम्, (“सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ” ऎऩ्गिऱ श्लोकत्ताल् सुखसङ्गत्तालुम् ज्ञानसङ्गत्तालुम् सत्त्वगुणम् बन्धकम् ऎऩ्ऱुम्, “तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्” ऎऩ्बदऩाल् यज्ञम् मुदलाऩ कर्मसङ्गत्ताल् रजोगुणम् बन्धकम् ऎऩ्ऱुम्, “प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत” ऎऩ्बदऩाल् कवऩक् कुऱैविऩालुम्, सोम्बलालुम्, तूक्कत्तालुम् तमोगुणम् बन्धकम् ऎऩ्ऱुम्, बन्धनप्रकारङ्गळ् सॊल्लप्पट्टिरुक्किऩ्ऱऩ), तेषां कर्तृत्वं तन्निवर्तनम् - अन्द सत्त्वम् मुदलाऩ गुणङ्गळ् ताम् समस्तव्यापारङ्गळुक्कुम् कर्ताक्कळ् ऎऩ्ऱु उणर्वदु, अन्दक् गुणङ्गळिलिरुन्दु विडुवित्तुक् कॊळ्ळुम् उपायम् ऎऩ्बदुम्, (इदु “नान्यं गुणेभ्यः कर्तारम्” ऎऩ्बदऩालुम्, “मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥” ऎऩ्बदऩालुम् सॊल्लप्पट्टिरुक्किऱदु), गतित्रयस्वमूलत्वम् - परिच्छिन्नऩाऩ जीवऩै अडैवदु, ऐश्वर्यत्तै अडैवदु, ब्रह्मत्तै अडैवदु आगिऱ मूऩ्ऱु गतिकळुक्कुम् सर्वेश्वरऩाऩ ताऩे मूलमाग इरुक्किऱाऩ् ऎऩ्बदुम्, (इङ्गुच् चॊल्लप् पट्टिरुक्कुम् मूऩ्ऱु गतिकळुम् इवैदाम् ऎऩ्बदु, “ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥” ऎऩ्गिऱ कडैसि श्लोकत्ताल् तॆरिगिऱदु। “ऊर्ध्वं गच्छन्ति सत्त्वस्थाः” ऎऩ्गिऱ इडत्तिल् सॊल्लप्पट्टुळ्ळ मूऩ्ऱु गतिकळ् इङ्गु विवक्षितङ्गळल्ल। अप्पडियागिल्, ऊर्ध्वं इत्यादिश्लोकङ्गळ् “मां च योऽव्यभिचारेण” ऎऩ्गिऱ श्लोकत्तिऱ्‌कु मुऱ्‌पट्टवैगळागैयाल्, सङ्ग्रहश्लोकत्तिल् क्रमभङ्गदोषम् प्रसङ्गिक्कुम्), चतुर्दश उदीर्यते - इवैगळॆल्लाम् पदिऩाऩ्गावदु अध्यायत्तिल् सॊल्लप्पडुगिऩ्ऱऩ। (१८)

१९ १५

विश्वास-प्रस्तुतिः

अचिन्-मिश्राद् विशुद्धाच् च
चेतनात् पुरुषोत्तमः ।
व्यापनात् भरणात् स्वाम्यात्
अन्यः पञ्च-दशोदितः ॥19॥

English

In the fifteenth chapter, the Supreme person is declared to be other than the self both in Its state of conjunction with non-conscient matter and in Its state of pristine purity, because He pervades, sustains and rules over them and the universe.

वेङ्कटनाथार्यः

अत्र ‘अचिन्मिश्राद्विशुद्धाच्च’ इत्यस्य सूचनीयां सङ्गतिं विवृण्वन् क्षराक्षरशब्दव्याख्यानतां व्यनक्ति - ‘क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयोः प्रकृतिपुरुषयोः स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्नज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसम्बन्धोऽनादिरित्युक्तम् । अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसम्बन्धो गुणसङ्गमूलो भगवतैव कृत इत्युक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्मयाथात्म्यावाप्तिश्च भगवद्भक्तिमूलेत्युक्तम् । इदानीं भजनीयस्य भगवतः क्षराक्षरात्मकबद्धमुक्तविभूतिमतां विभूतिभूतात्क्षराक्षरपुरुषद्वयान्निखिलहेयप्रत्यनीककल्याणैकतानतयात्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तत्त्वं वक्तुमारभते’ इति । अत्र व्यापनभरणस्वाम्यानि - ‘यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । (गीता-१५.१७) इति प्रतिपादितानि । एवं प्राधान्यतश्चिदचिदीश्वररूपतत्त्वत्रयविशोधनं क्रमादध्यायत्रयेण कृतमित्यनुसन्धेयम् ॥19॥

मूलम्

अचिन्मिश्राद्विशुद्धाच्च चेतनात् पुरुषोत्तमः ।
व्यापनात् भरणात् स्वाम्यात् अन्यः पञ्चदशोदितः ॥19॥

४२-इञ्जिमेडु-यतिः - १९

पदिऩाऩ्गावदु अध्यायत्तिल्, गुणसङ्गत्तै निवृत्ति सॆय्दुगॊळ्ळवुम्, अदऩ्बिऱगु आत्मयाथात्म्यत्तै अडैयवुम् भगवद्भक्तिये मूलम् ऎऩ्ऱु “मां च योऽव्यभिचारेण” इत्यादिकळिल् सॊल्लप्पट्टदु। पदिऩैन्दावदु अध्यायत्तिल्, नम्माल् भक्ति पण्णक्कूडियवऩायुम्, समस्तकल्याणगुणपरिपूर्णऩायुम् इरुक्किऱ भगवाऩुक्कुप् पुरुषोत्तमत्वम् सॊल्लप्पडुगिऱदु ऎऩ्ऱुम्, अन्दप् पुरुषोत्तमत्वम् ‘भगवान् शुद्धाशुद्धजीवऩ्गळैक् काट्टिलुम् उयर्न्दवऩ्’ ऎऩ्बदऩाल् एऱ्‌पडुगिऱदॆऩ्ऱु प्रतिपादिक्कप्पडुगिऱदु ऎऩ्ऱुम् सङ्ग्रहिक्किऱार्।
अचिन्मिश्राद् विशुद्धाच्च चेतनात् पुरुषोत्तमः । व्यापनाद् भरणात् स्वाम्यात् अन्यः पञ्चदशोदितः ॥ १९ ॥
पुरुषोत्तमः - “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥” ऎऩ्गिऱ श्लोकत्तिल् क्षराक्षरर्गळाऩ बद्ध-मुक्तर्गळैक् काट्टिलुम् उत्तमऩागच् चॊल्लप्पट्टिरुक्कुम् भगवाऩाऩवऩ्। (इन्द पुरुषोत्तमशब्दत्तिऱ्‌कु पुरुषेभ्यः उत्तमः ऎऩ्ऱुम्, पुरुषाणामुत्तमः ऎऩ्ऱुम्, पुरुषेषु उत्तमः ऎऩ्ऱुम् आग इम् मूऩ्ऱु विधमागवुम् व्युत्पत्ति सॆय्यलाम्। श्रुतप्रकाशिकै, स्तोत्रभाष्यम् इवै इम् मूऩ्ऱु विधव्युत्पत्तियैयुम् अङ्गीकरिक्किऩ्ऱऩ)। अचिन्मिश्रात् विशुद्धाच्च चेतनात् - प्रकृति कलन्द बद्धऩ्, प्रकृतिवियुक्तऩाऩ मुक्तऩ् इव्विरु चेतनरैक् काट्टिलुम्, अन्यः - अत्यन्तम् वेऱुबट्टवऩ्। इप्पडि वेऱुबट्टवऩॆऩ्ऱु सॊल्लक् कारणङ्गळ् ऎऩ्ऩवॆऩ्ऱाल्, व्यापनात् - वॆळियिलुम् उळ्ळुम् व्यापित्तिरुप्पदऩालुम्, भरणात् - धारणत्तालुम्, स्वाम्यात् - स्वामित्वत्तालुम्, आग इम् मूऩ्ऱु कारणङ्गळाल् अन्यः ऎऩ्ऱु एऱ्‌पडुगिऱदु। (इवैगळ् “यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः” ऎऩ्गिऱ श्लोकत्तिल् सॊल्लप्पट्टिरुक्किऩ्ऱऩ), इदुदाऩ् पञ्चदशोदितः - पदिऩैन्दावदु अध्यायत्तिल् सॊल्लप्पट्टिरुक्किऱदु। “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” ऎऩ्बदिल् इदैक् काणलाम्। इप्पडि मुख्यमागच् चित्, अचित्, ईश्वरऩ् ऎऩ्ऩुम् मूऩ्ऱु तत्त्वङ्गळिऩ् शोधनम् क्रममाग इम् मूऩ्ऱु अध्यायङ्गळिल् सॆय्यप्पट्टिरुक्किऱदु ऎऩ्बदु व्यक्तम्। (१९)

२० १६

विश्वास-प्रस्तुतिः

देवासुर-विभागोक्ति-
पूर्विका शास्त्र-वश्यता
तत्त्वानुष्ठान-विज्ञान-स्थेम्ने
षोडश उच्यते ॥20॥

English

The sixteenth chapter deals first with the distinction between the divine and the demonic nature
in order to establish what is truth and what is right conduct, which can be attained by submission to Sastra-s.

वेङ्कटनाथार्यः

अत्र पूर्वोत्तरसमस्तप्रतिष्ठापकष्षोडशाध्यायार्थस्संगृह्यते । एतदभिप्रायेण भाष्यम् ‘अनन्तरमुक्तस्य तु कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यत्वं वक्तुं शास्त्रवश्यतद्विपरीतयोर्देवासुरसर्गयोः विभागं श्रीभगवानुवाच’ (गी.भा. 16.1) इति । अत एव सप्तदशमवतारयन्नेवमन्वभाषत - ‘देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वैदिकमूलमित्युक्तम्’ (गी.भा. 17.1) इति । अत्र शास्त्रवश्यता ‘तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि’ (16.24) इति अध्यायान्तिमश्लोकेनोक्ता ॥20॥

मूलम्

देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता ।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥20॥

४२-इञ्जिमेडु-यतिः - २०

इऩिक् कडैसियाऩ मूऩ्ऱु अध्यायङ्गळाल् “कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः” ऎऩ्गिऱबडि, कार्यनिरूपणम् सॆय्यप्पडुगिऱदु ऎऩ्ऱु सङ्ग्रहिक्कत् तिरुवुळ्ळम् पऱ्‌ऱि, मुदलिल् पदिऩाऱावदु अध्यायत्तिऩ् अर्थत्तै सङ्ग्रहिक्किऱार्।
देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता । तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥ २० ॥
देवासुरविभागोक्तिपूर्विका - दैवासुरविभागकथनत्तै मुदलाग उडैयदाऩ, शास्त्रवश्यता - शास्त्रत्तिऱ्‌कुक् कट्टुप् पट्टिरुक्कुम् तऩ्मैयाऩदु (अदावदु - शास्त्रङ्गळिल् सॊल्लप्पट्टिरुक्किऱबडिये सकलानुष्ठान ङ्गळैयुम् सॆय्गिऱ तऩ्मै ), षोडश उच्यते - पदिऩाऱावदु अध्यायत्तिल् सॊल्लप्पडुगिऱदु। ऎदऱ्‌काग इदु सॊल्लप्पडुगिऱदु ऎऩ्ऱाल्, तत्त्वानुष्ठानविज्ञानस्थेम्ने - इदऱ्‌कु मुऩ्ऩुम् पिऩ्ऩुम् सॊल्लप्पडुम् तत्त्वङ्गळिऩ् विज्ञानमुम्, अनुष्ठानत्तिऩ् विज्ञानमुम् स्थिरमाग प्रतिष्ठितमागुम् पॊरुट्टु, इन्द शास्त्रपरतन्त्रतै सॊल्लप्पडुगिऱदु। “तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥” ऎऩ्गिऱ कडैसि श्लोकत्तिल् इन्द नियमनत्तैक् काणलाम्। (दैवासुरविभागमुम्, “अभयं सत्त्वसंशुद्धिः” ऎऩ्ऱु तॊडङ्गि, “द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च” इत्यादियाऩ श्लोकङ्गळिल् सॊल्लप्पडुगिऱदु।) (२०)

२१ १७

विश्वास-प्रस्तुतिः

अ-शास्त्रम् आसुरं कृत्स्नं,
शास्त्रीयं गुणतः पृथक् ।
+++(“ॐ, तत्, सत्”→)+++ लक्षणं शास्त्र-सिद्धस्य
त्रिधा सप्त-दशोदितम् ॥21॥

English

In the seventeenth chapter, the following are dealt with: what are not ordained by the Sastra-s and for that reason wholly demonic;
what are ordained in the Sastra-s and varied in accordance with the Guna-s;
and the characteristics of what are established in the Sastra-s as threefold in terms of ‘Aum’,‘Tat’, ‘Sat’.

वेङ्कटनाथार्यः

अत्र भाष्यम् - ‘इदानीमशास्त्रविहितस्यासुरत्वेन अफलत्वं, शास्त्रविहितस्य च गुणतस्त्रैविध्यं, शास्त्रसिद्धस्य लक्षणं चोच्यते’ (गी.भा. 17.1) इति । शास्त्रं यस्य विधायकत्वेन नास्ति, तदशास्त्रमित्यभिप्रायेण - ‘अशास्त्रविहितस्य’ इत्युक्तम् । ‘ओंतत्सदिति’ (17.23) शास्त्रसिद्धस्य त्रिविधं लक्षणमुक्तम् ॥21॥

मूलम्

अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् ।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥21॥

४२-इञ्जिमेडु-यतिः - २१

पदिऩाऱावदु अध्यायत्तिल् ‘तत्त्वज्ञानमुम् अदै अडैविप्पिक्कक् कूडिय उपायङ्गळिऩ् ज्ञानमुम्, वेदत्तैये मूलमाग उडैयऩ’ ऎऩ्ऱु सॊल्लप्पट्टदु। पदिऩेऴावदु अध्यायत्तिल्, शास्त्रङ्गळिल् सॊल्लप्पडाद कर्मम् आसुरमागैयाल् निष्फलम् ऎऩ्ऱुम्, शास्त्रङ्गळिल् सॊल्लप्पट्टिरुक्कुम् कर्मम् सत्त्वम् मुदलिय गुणभेदत्ताल् मूवगैप्पट्टदु ऎऩ्ऱुम् सॊल्लप्पडुवदुडऩ्, शास्त्रसिद्धङ्गळाऩ कर्मङ्गळुक्कु असाधारणमाग निऱ्‌कुम् मूऩ्ऱु लक्षणङ्गळुम् सॊल्लप्पडुगिऩ्ऱऩ ऎऩ्ऱु सङ्ग्रहिक्किऱार्।
अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् । लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥ २१ ॥
अशास्त्रम् - (न विद्यते विधायकत्वेन शास्त्रं यस्य) शास्त्रङ्गळिल् विधिक्कप्पडाददाऩ, कृत्स्नम् - समस्तमाऩ कर्ममुम्, आसुरम् - आसुरमागैयाल् अफलम्। शास्त्रीयम् - शास्त्रङ्गळिल् विधिक्कप्पट्ट कर्मम्, गुणतः - सत्त्वम् मुदलाऩ गुणङ्गळाल्, पृथक् - वेऱुबट्टदु। शास्त्रसिद्धस्य - शास्त्रविहितमाऩ कर्मत्तिऱ्‌कु, त्रिधा लक्षणम् - ओं, तत्, सत् ऎऩ्ऱु मूऩ्ऱु विधमाऩ लक्षणमुम्, इवैयॆल्लाम्, सप्तदशोदितम् - पदिऩेऴावदु अध्यायत्तिल् सॊल्लप्पट्टुळ्ळऩ। (२१)

२२ १८

विश्वास-प्रस्तुतिः

ईश्वरे कर्तृता-बुद्धिः,
सत्त्वोपादेयता, ऽन्तिमे ।
स्व-कर्म-परिणामश् +++(→भगवत्-प्राप्तिः)+++ च
शास्त्र-सारार्थ उच्यते ॥22॥

English

The last chapter presents the mental state required for ascribing the agency to the Lord, the necessity of cultivating the Sattvic quality, the spiritual culmination of discharging one’s duties and Bhakti Yoga which forms the essence of the Gita Sastra.

वेङ्कटनाथार्यः

तद् एतत्-पूर्वाध्याय-संगति-प्रदर्शन-पूर्वकं व्याचष्टे -

अतीतेनाध्याय-द्वयेन
+अभ्युदय-निश्-श्रेयस–साधन-भूतं वैदिकम् एव यज्ञ-तपो-दानादिकं कर्म; नान्यत्,
वैदिकस्य कर्मणः सामान्य-लक्षणं प्रणवान्वयः ।
तत्र मोक्षाभ्युदय-साधनयोर् भेदस्
“तत्-सच्”-छब्द-निर्देश्यत्वेन;
मोक्ष-साधनं च कर्म-फलाभिसन्धि-रहितं यज्ञादिकम्,
तद्-आरम्भः सत्त्वोद्रेकाद् भवति;
सत्त्वोद्रेकश् च सात्त्विकाहार-सेवनयेत्य् उक्तम्,
अनन्तरं मोक्ष-साधनतया निर्दिष्टयोस् त्याग-संन्यासयोर् ऐक्यम्,
त्यागस्य स्वरूपं भगवति सर्वेश्वरे सर्वकर्मणां कर्तृत्वानुसन्धानं,
सत्त्व-रजस्-तमसां कार्य-वर्णनेन सत्त्व-गुणस्योपादेयत्वं,
स्ववर्णोचितानां कर्मणां परम-पुरुषाराधन-भूतानां परम-पुरुष-प्राप्ति-निर्वर्तन-प्रकारः,
कृत्स्नस्य च गीताशास्त्रस्य सारार्थो भक्ति-योग इत्य् एते प्रतिपाद्यन्ते,

इति । अत्र त्याग-संन्यास-शब्दाव् एकार्थाव् इति
भगवद्-उक्तेनोत्तरेण ख्यापितं भाष्ये ।
सर्वेश्वरे कर्तृत्वानुसन्धानं च
‘दैवं चैवात्र पञ्चमम्’ इत्यत्रैव दर्शितम् ।
अत्र कर्म-हेतुक-लापे दैवं पञ्चमम् ।
परमात्मान्तर्यामी कर्म-निष्पत्तौ प्रधानहेतुर् इत्य् अर्थः ।
उक्तं हि

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर् ज्ञानम् अपोहनं च

इति । वक्ष्यति च

ईश्वरः सर्वभूतानां
हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि
यन्त्रारूढानि मायया ॥+++(5)+++

इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वं
‘परात्तु तच्छ्रुतेः’ (ब्र.सू. 2.3.40) इति प्रतिपादितम् ।

नन्व् एवं परमात्मायत्ते जीवात्मनः कर्तृत्वे
जीवात्मा कर्मण्य् अनियोज्यो भवतीति
विधिनिषेध-शास्त्राण्य् अनर्थकानि स्युः । +++(4)+++

इदमपि चोद्यं सूत्रकारेण एव परिहृतं -

‘कृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः’ (ब्र.सू.2.3.41)

इति ।
एतद् उक्तं भवति -

परमात्मना दत्तैस् तदाधारैश् च करण-कलेबरादिभिस् तद्-आहित-शक्तिभिस्
स्वयं च जीवात्मा तदाधारस् तद्-आहितशक्तिस् सन्
कर्मनिष्पत्तये स्वेच्छया करणाद्य्-अधिष्ठानाकारं प्रयत्नं चारभते ।
तद्-अन्तर्-अवस्थितः परमात्मा स्वानुमति-दानेन तं प्रवर्तयतीति +++(5)+++
जीवस्यापि स्व-बद्ध्यैव प्रवृत्ति-हेतुत्वम् अस्ति;
यथा गुरुतर–शिला-मही-रुहादि-चलनादि-फल-प्रवृत्तिषु
बहु-पुरुष-साध्यासु बहूनां हेतुत्वं विधि-निषेध-भाक्तत्वं च

इति । तत्र शास्त्रसारार्थः ‘सर्वगुह्यतमम्’ (18.64) इत्यादिना सादरं संमुखीकृत्य
‘मन्मना भव मद्भक्तः’ (18.65) ‘सर्वधर्मान् परित्यज्य’ (18.66) इति श्लोकद्वयेन शिष्टः ।

चरमश्लोकार्थश् च तात्पर्य-चन्द्रिकायां निक्षेप-रक्षायां चास्माभिः
यथाभाष्यं यथासंप्रदायं च समस्त-पर-पक्ष-प्रतिक्षेप-पूर्वकम् उपपादितः ।
तत्रायम् अस्मदीयसंग्रहः -

सुदुष्करेण शोचेद् यो
येन येनेष्टहेतुना ।
स स +++(हेतुः)+++ तस्याहम् एवेति
चरम-श्लोकसंग्रहः

इति ।
सारार्थो भक्तियोग इति भाष्ये त्व् अङ्गाधिकारे
प्रपत्तिं प्रत्यपि -
भक्तेर् अङ्गित्वेन प्राधान्यात् ॥22॥

मूलम्

ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे ।
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥22॥

४२-इञ्जिमेडु-यतिः - २२

इप्पडिप् पदिऩाऱु पदिऩेऴु अध्यायङ्गळिल्, वेदमागिऱ शास्त्रत्तिल् सॊल्लप्पट्टिरुक्कुम् यज्ञम्, तपस्, दानम् मुदलिय कर्ममे अभ्युदयत्तिऱ्‌कुम् मोक्षत्तिऱ्‌कुम् साधनम् ऎऩ्ऱुम्, मऱ्‌ऱवै अवैगळै साधित्तुक् कॊडुक्कमाट्टा ऎऩ्ऱुम्, वैदिककर्मसामान्यत्तिऱ्‌कु प्रणवम् सेर्प्पदु लक्षणम् ऎऩ्ऱुम्, अदिल् मोक्षत्तै साधित्तुक् कॊडुक्कुम् कर्मत्तिऱ्‌कुत् तच्छब्दम् सेर्वदुम्, अभ्युदयत्तै साधित्तुक् कॊडुक्कुम् कर्मत्तिऱ्‌कु सच्छब्दम् सेर्वदुम् पिरित्तुक् काट्टुम् अडैयाळम् ऎऩ्ऱुम् सॊल्लप्पट्टदु। तविरवुम्, फलत्तैत् तेडामल् सॆय्यप्पडुम् कर्ममे मोक्षत्तै साधित्तुक् कॊडुक्कुम् ऎऩ्ऱुम्, अप्पडिप्पट्ट कर्मत्तै आरम्भिप्पदऱ्‌कु सत्त्वगुणम् मेलिट्टिरुप्पदु कारणम् ऎऩ्ऱुम्, अन्द सत्त्वोद्रेकम् सात्त्विकमाऩ आहारत्ताल् उण्डागुम् ऎऩ्ऱुम् प्रासङ्गिकमागच् चॊल्लप्पट्टदु।
इऩिप् पदिऩॆट्टावदु अध्यायत्तिल्, सर्वेश्वरऩे सर्वकर्मङ्गळुक्कुम् कर्ता ऎऩ्गिऱ अनुसन्धानम् सॆय्य वेण्डुम् ऎऩ्ऱुम्, सत्त्वगुणमे अवश्यम् अङ्गीकरिक्कप्पड वेण्डियदु ऎऩ्ऱुम्, तङ्गळ् तङ्गळ् वर्णाश्रमङ्गळुक्कुत् तगुन्द कर्मङ्गळैच् चॆय्युम्बॊऴुदु ‘इवै परमपुरुषाराधनम्’ ऎऩ्गिऱ अध्यवसायत्तुडऩ् सॆय्वदु परमपुरुषऩै अडैवदऱ्‌कुक् कारणम् ऎऩ्ऱुम्, इन्दक् गीताशास्त्रत्तिऱ्‌कु सारभूतमाऩदु भक्तियोगम् ऎऩ्ऱुम् सॊल्लप्पडुगिऱदु ऎऩ्ऱु सङ्ग्रहिक्किऱार्।
ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयताऽन्तिमे । स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥ २२ ॥
ईश्वरे - सर्वेश्वरऩागिऱ नारायणऩिडत्तिल्, कर्तृताबुद्धिः - ‘सर्वकर्मङ्गळुक्कुम् अवऩे कर्ता’ ऎऩ्गिऱ बुद्धियुम्, सत्त्वोपादेयता - ‘सत्त्व गुणमे अवश्यम् अङ्गीकरिक्कत् तगुन्ददु’ ऎऩ्बदुम्, स्वकर्मपरिणामश्च - ‘तङ्गळ् तङ्गळ् वर्णाश्रमङ्गळुक्कुत् तगुन्द कर्मङ्गळिऩ् अनुष्ठानम् परमपुरुषऩै अडैविक्किऱदु’ ऎऩ्बदुम्, शास्त्रसारार्थः च - गीताशास्त्रत्तिऱ्‌कु सारभूतमाऩ अर्थमागिऱ भक्तियोगमुम्, अन्तिमे - कडैसियाऩ पदिऩॆट्टावदु अध्यायत्तिल्, उच्यते - सॊल्लप्पडुगिऩ्ऱऩ। (१ - सर्वकर्मङ्गळुक्कुम् ईश्वरऩे कर्ता ऎऩ्बदु “दैवं चैवात्र पञ्चमम्” ऎऩ्गिऱ इडत्तिल् सॊल्लप् पट्टिरुक्किऱदु। अदऱ्‌कुक् कूऱियिरुक्कुम् भाष्यमावदु - “अत्र - कर्महेतुकलापे, दैवं पञ्चमम् - परमात्माऽन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्यर्थः” इन्द सर्वकर्मकर्तृत्वत्तै “सर्वस्य चाहं हृदि सन्निविष्टः”, “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति” ऎऩ्गिऱ इडङ्गळिलुम् काणलाम्। २ - गीताशास्त्रत्तिऱ्‌कु सारभूतमाऩ अर्थम् भक्तियोगम् ताऩ् ऎऩ्बदु, “मन्मना भव मद्भक्तः” इत्यादिकळिल् सॊल्लप्पट्टिरुक्किऱदु।) (२२)

२३-२६ योगाः

२३

विश्वास-प्रस्तुतिः

कर्म-योगस् तपस्-तीर्थ-
दान-यज्ञादि-सेवनम् +++(←आफलोदयं, नियतम्)+++ ।
ज्ञान-योगो जित-स्वान्तैः
परिशुद्धात्मनि +++(निरन्तर-चिन्तनेन)+++ स्थितिः ॥23॥

English

Karma Yoga is resorting to austerity, pilgrimage, charities, sacrifice and such other acts.
Jnana Yoga is the abidance in the purified self by those who have controlled their minds.

वेङ्कटनाथार्यः

अथ दशभिः श्लोकैः सुख-ग्रहणाय
कर्म-योग–ज्ञान-योग–भक्ति-योगादीनां स्व-रूपादिकं विविनक्ति ।

तत्र कर्मयोगस्य लक्षणं पूर्वमेव दर्शितमिति कृत्वा
तत्-तद्-अधिकारिणां ज्ञान-शक्ति-योग्यतानुगुण्येन
यथाऽधिकारं परिग्रहार्थं च
चतुर्थोक्तान् अवान्तर-भेदान् अनुक्तान् अपि सर्वान्
आदि-शब्देन संगृह्णन्न् उदाहरति ।
आफलोदयं सादरं निरन्तर-परिग्रहोऽत्र सेवनम् ।+++(5)+++

अथ तत्साध्यस्य ज्ञान-योगस्याधिकारि-प्रदर्शन-पूर्वकं लक्षणम् आह - निरन्तर-चिन्तन-रूपेणेति शेषः ।
तेन तत्-फल–तद्-उपाय-ज्ञानाभ्यां व्यवच्छेदः ॥23॥

मूलम्

कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् ।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥23॥

४२-इञ्जिमेडु-यतिः - २३

इऩिप् पत्तु श्लोकत्ताल्, ऎळिदिल् विळङ्गुम् पॊरुट्टुक् कर्मयोग-ज्ञानयोग-भक्तियोगम् मुदलाऩवऱ्‌ऱिऩ् स्वरूपम् मुदलियवै स्पष्टमाग प्रकाशिक्कप्पडुगिऩ्ऱऩ। अदिल् कर्मयोगम् मुदलियवऱ्‌ऱिऩ् लक्षणङ्गळ् मुऩ्ऩमे सॊल्लप्पट्टऩ आगैयाल्, इङ्गु अन्द अन्द अधिकारिकळिऩ् ज्ञान-शक्ति-योग्यतैकळुक्कु अनुगुणमाग अनुष्ठिक्क वेण्डियवैगळाय् नालावदु अध्यायत्तिल् सॊल्लप्पट्टिरुक्कुम् कर्मयोगत्तिऩ् पिरिवुगळैयुम्, इदु वरैयिल् सॊल्लप्पडामलिरुक्कुम् सिल अंशङ्गळैयुम् इन्द श्लोकत्ताल् सङ्ग्रहित्तुक् काट्टुगिऱार्।
कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् ।
तपः - कृच्छ्रचान्द्रायणम् मुदलिय तपोविशेषमॆऩ्ऩ, तीर्थ - पुण्यतीर्थङ्गळॆऩ्ऩ। दान - दानमॆऩ्ऩ, यज्ञ - यागमॆऩ्ऩ, आदि - इवैगळै मुदलाग उडैय प्राणायामादिकळॆऩ्ऩ, सेवनम् - इवैगळिऩ् अनुष्ठानम्, कर्मयोगः - कर्मयोगम् ऎऩप्पडुम्। (इङ्गु इवैगळिऩ् अनुष्ठानमावदु - फलम् किडैक्कुम् वरैयिल् आदरवोडु इवैगळिल् ऒऩ्ऱै अङ्गियाग अवलन्बित्तु अनुष्ठिप्पदु ताऩ्।)
अडुत्त पादि श्लोकत्ताल्, अन्दक् कर्मयोगत्ताल् साधिक्कक् कूडियदाऩ ज्ञानयोगत्तिऩ् अधिकारिकळैयुम्, अदऩ् लक्षणत्तैयुम् सॊल्लुगिऱार्।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥ २३ ॥

जितस्वान्तैः - अन्तःकरणजयमुळ्ळवर्गळाल्,
परिशुद्धात्मनि - प्रकृतियै विट्टुप् पिरिन्दु निऱ्‌कुम् जीवऩिडत्तिल्,
स्थितिः - इडैविडाद चिन्तनत्ताल् इरुप्पु (अदावदु - परिशुद्धात्मावै इडैविडामल् चिन्तनम् पण्णुगै),
ज्ञानयोगः - ज्ञानयोगम् ऎऩप्पडुम्। (२३)

२४

विश्वास-प्रस्तुतिः

भक्ति-योगः परैकान्त-
प्रीत्या ध्यानादिषु स्थितिः
त्रयाणाम् अपि योगानां
त्रिभिर् अन्योन्य-सङ्गमः ॥24॥

English

Bhakti Yoga is abidance in meditation and other forms of adoration with one-pointed love for the Supreme Being. The three Yoga-s are interconnected.

वेङ्कटनाथार्यः

अथान्तरङ्गैस्सह भक्तियोगं लक्षयति - परस्मिन् ब्रह्मण्येकान्तेन प्रीतिः परैकान्तप्रीतिः तेन ‘महनीयविषये प्रीतिः भक्तिः’ इति लक्षणं सूचितम् । ‘स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते ।’ (लै.पु. 9.19) इत्याद्यनुसारेण । लक्ष्यस्वरूपं ध्यानशब्देनोक्तम् । आदिशब्देनार्चनप्रणामाद्यन्तरङ्गवर्गसंग्रहः । उक्तं च वेदार्थसंग्रहे ‘अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थः - जीवपरयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रियस्तत्प्राप्तिफलः’ (वे.सं.) इति ।

ननु कर्मयोगेऽप्य् आत्म-ज्ञानम् आराध्य-प्रीतिश् चानुवर्तते,
ज्ञानयोगे ऽप्य् अन्तः-करण-शुद्ध्य्-अर्थं
नियतं कर्म न त्याज्यं,
तद्-आराध्येश्वर-भक्तिश् च ।
एवं भक्तियोगेऽपि तद्-इतरानुवृत्तिस् सिद्धा ।
अतो विभागानुपपत्तिर्

इत्य्-अत्राह -
प्रधान-भूते कस्मिंश्चित्
क्षीर-शर्करादि-न्यायेन गुणतया इतरानुप्रवेशो
न विभाग-भञ्जक इति भावः ॥24॥

मूलम्

भक्तियोगः परैकान्तप्रीत्या ध्यानादिषु स्थितिः ।
त्रयाणामपि योगानां त्रिभिरन्योन्यसङ्गमः ॥24॥

४२-इञ्जिमेडु-यतिः - २४

अडुत्त श्लोकत्ताल्, भक्तियोगत्तिऱ्‌कु अन्तरङ्गमाऩ अर्चनम् प्रणामम् मुदलियवैगळैयुम्, भक्तियोगत्तिऱ्‌कु उरिय लक्षणत्तैयुम् सॊल्लुगिऱार्।
भक्तियोगः परैकान्तप्रीत्या ध्यानादिषु स्थितिः ।
परैकान्तप्रीत्या - परब्रह्मत्तिऩिडत्तिल् एकान्तमाऩ प्रीतियै वैत्तु (अदावदु - वेऱॊऩ्ऱैयुम् विषयीकरिक्कामल् अवऩैये विषयीकरित्तु), ध्यानादिषु - तैलधारै पोल इडैवॆळियिल्लाद तॊडर्न्द निऩैवागिऱ ध्यानत्तै मुदलाग उडैय अर्चनमॆऩ्ऩ, वन्दनमॆऩ्ऩ इवैगळिल्, स्थितिः - इरुप्पु, भक्तियोगः - भक्तियोगम् ऎऩप्पडुम्। (इदऩाल्, परमप्रीतियोडु परब्रह्मत्तैच् चिन्दिप्पदुम्, अदऱ्‌कु अनुगुणमागप् पूजैयैयुम् प्रणामत्तैयुम् सॆय्वदुमे भक्तियोगम् ऎऩ्ऱु सॊल्लप्पट्टदु।)
‘कीऴ्च् चॊल्लप्पट्ट लक्षणङ्गळैयुम्, गीतैयिऩ् तात्पर्यत्तैयुम् परामर्शित्तुप् पार्त्ताल्, १) कर्मयोगत्तिल्, आत्मज्ञानमुम् आराध्यऩागिऱ देवतैयिऩिडत्तिल् प्रीतियुम् अवश्यम् वेण्डियवै ऎऩ्ऱुम्, २) ज्ञानयोगत्तिलुम् अन्तःकरणशुद्धिक्काग नियतकर्ममुम्, अदऩाल् आराधिक्कप्पडुम् भगवाऩिडत्तिल् प्रीतियुम् आवश्यकमॆऩ्ऱुम्, ३) भक्तियोगत्तिलुम् कर्मयोगज्ञानयोगङ्गळुक्कु अनुवर्तनम् आवश्यकम् ऎऩ्ऱुम् तोऩ्ऱुगिऱदे; अप्पडियागल् इम् मूऩ्ऱुक्कुम् विभागम् सॊल्वदु कूडुमो?’ ऎऩ्ऱु ऒरु शङ्गै उण्डाग, अदऱ्‌कुत् तात्पर्यत्ताल् समाधानमॊऩ्ऱु पिऩ् वरुम् पादि श्लोकत्ताल् अरुळिच्चॆय्गिऱार्।
त्रयाणामपि योगानां त्रिभिरन्योन्यसङ्गमः ॥ २४ ॥
त्रयाणामपि योगानाम् - मूऩ्ऱु विधमाऩ योगङ्गळुक्कुम्, त्रिभिः - स्वात्मकमाऩ मूऩ्ऱोडु, अन्योन्यसङ्गमः - परस्परसम्बन्धमाऩदु इरुक्किऩ्ऱदु। इदऩाल्, पालुम् सर्क्करैयुम् कलप्पदु पोल प्रधानमाग निऱ्‌कुम् ऒऩ्ऱुक्कुळ् मऱ्‌ऱवैगळुक्कुक् गुणभूतमाग अनुप्रवेशम् इरुन्दालुम्, अन्द अनुप्रवेशम् परस्परविभागत्तिऱ्‌कु विरोधमाग माट्टादु ऎऩ्ऱु काण्बिक्कप्पडुगिऱदु। (२४)

२५

विश्वास-प्रस्तुतिः

नित्य-नैमित्तिकानां च
पराराधन-रूपिणाम् +++(त्रिभिः सङ्गमः)+++।
आत्म-दृष्टेस् त्रयो ऽप्य् एते +++(←ज्ञान-कर्यम-योगयोर् अङ्गतया ऽपरा भक्तिः)+++
योग-द्वारेण साधकाः ॥25॥
+++(भक्ति-योगे विशेषो वक्ष्यते)+++

English

The obligatory and occasional works are associated with all the three Yoga-s,
as they are of the form of worship of the Supreme Being.
All these Yoga-s serve as the means for the vision of the self through Yoga.
But Bhakti Yoga +++(as an anga of karma or jnAna yogas)+++ can be practiced even before gaining the vision of the self. The aspirants can repeat His name, sing hymns, visit holy places, even with superficial love of the Lord.

वेङ्कटनाथार्यः

नन्वेवं परैकान्तप्रीतिस्त्रिष्वपि समाना । ऐकान्त्यं चानन्यदेवताकत्वपर्यन्तम् । यथोक्तं मोक्षधर्मे - ‘ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः । प्रतिबुद्धाः न सेवन्ते यस्मात्परिमितं फलम्’ (भार.मो.350.36) इति । आश्वमेधिके च ‘अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः । मामेव शरणं प्राप्तास्ते मद्भक्ताः प्रकीर्तिताः’ (भार.आश्व. 104.91) इति । तपश्चाग्नीन्द्रादिनानादेवतासंकीर्णानां वर्णाश्रमधर्माणामैकान्त्यविरोधात् त्रिष्वपि योगेषु तत्परित्यागः प्राप्त इत्यत्राह - अत्र त्रिभिस्सङ्गम इत्यर्थतो बुद्ध्या विभज्यान्वेतव्यम् । अयमभिप्रायः ‘नियतस्य’ (18.7) ‘यतः प्रवृत्तिः’ (18.46) ‘आचारप्रभवः’ (भार.आनु. 254.139)) ‘वर्णाश्रमाचारवता’ (वि.पु. 3.8.9) इत्यादिभर्वर्णाश्रमधर्मेतिकर्तव्यताकत्वसिद्धेः अग्रीन्द्रादिशब्दानामपि प्रतर्दनविद्यान्यायेन तच्छरीरकपरमात्मपर्यन्तत्वानुसन्धानात्, ‘साक्षादप्यविरोधं जैमिनिः’ (ब्र.सू.1.2.29) इति न्यायेन यज्ञाग्रहराध्यायोक्त (भार. मो. 349) प्रक्रियया च साक्षात्प्रतिपादकत्वेन वा तत्तत्कर्मणामपि परमपुरुषाराधनत्वसंभवात्, तदनुष्ठातुरनन्याराधकत्वसिद्धेरैकान्त्यं प्रतिष्ठितम् - इति । एतेन कर्मयोगेऽपि नित्यनैमित्तिकानामति कर्तव्यतात्वं सूचितम् । तथा ‘सर्वेऽप्येते यज्ञविदः’ (4.30) इति श्लोके भाष्यं ‘द्रव्ययज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे ‘सह यज्ञैः प्रजाः सृष्ट्वा’ (3.10) इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविदस्तन्निष्ठाः तत एव क्षपितकल्मषा यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्तः एते कर्मयोगे व्यापृतास्सनातनं ब्रह्म यान्ति’ (गी.भा. 4.30) इति । ‘एवं बहुविधा यज्ञाः’ (4.32) इत्यत्र चोक्तम् - ‘एवं हि बहुप्रकाराः कर्मयोगा ब्रह्मणो मुखे वितताः । आत्मयाथात्म्यावाप्तिसाधनतया स्थिताः, तानुक्तलक्षणानुक्तभेदान् कर्मयोगान् सर्वान् कर्मजान् विद्धि - अहरहरनुष्ठीयमाननित्यनैमित्तिककर्मजान् विद्धि’ (गी.भा. 4.32) इति । ‘भोक्तारं यज्ञतपसाम्’ (5.29) इति श्लोकमवतारयंश्चैवमाह - ‘उक्तस्य नित्यनैमित्तिककर्मेतिकर्तव्यताकस्य कर्मयोगस्य योगशिरस्कस्य सुशकत्वमाह’ (गी.भा. 5.29) इति ॥

अथ त्रयाणां योगानां परभक्तिजनने प्रत्यगात्मदर्शनरूपमवान्तरव्यापारं सहेतुमाह - आत्मेति । योगोऽत्र समाधिरूपमन्तःकरणैकाग्र्यं, तत्साध्यसाक्षात्कारो दृष्टिः । ननु यद्यपि कर्मयोगस्य ज्ञानयोगव्यवधानमन्तरेणापि आत्मावलोकनसाधनत्वं पूर्वमेवोक्तं, तथापि भक्तियोगस्य तत्साधकत्वमयुक्तं, तस्यात्मावलोकनपूर्वकत्वादिति चेत्, मैवम्, भक्तिनिष्ठाया एव पर्वभेदेन सर्वोपपत्तेः ज्ञानदर्शनप्राप्तीनामविशेषेण भक्तिसाध्यत्वमुच्यते, तच्च पर्वभेदमन्तरेण नोपपद्यते । अत एव ह्यात्मावलोकनानन्तरं - ‘मद्भक्तिं लभते पराम्’ (18.54) इति परशब्देन विशेष्यते । अत आत्मावलोकनरहितस्याप्यद्यतनभक्तानामिव स्तुतिनमस्कारकीर्तनादिनिष्ठया सेवारूपत्वादभिव्यक्तया भक्तिशब्दाभिलप्यया आत्मावलोकनमुपपद्यते । दर्शितश्च परावरभक्तिविभागो वेदार्थसंग्रहे - ‘सोऽयं परब्रह्मभूतः पुरुषोत्तमः निरतिशयपुण्यसंचयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदाभिमुख्यस्य सदाचार्योपदेशोपबृंहितशास्त्राधिगततत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमशौचक्षमार्जवभयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतवर्णाश्रणोचितपरमपुरुषाराधनरूपनित्यनैमित्तिककर्मोपसंभूतनिषिद्धपरिहारनिष्ठस्य परमपुरुषचरणयुगलन्यस्तात्मात्मीयस्य तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतियतनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिभिः प्रीतः परमकारुणिकः पुरुषोत्तमप्रसादविध्वस्तस्वान्तध्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः’ (वे.सं.) इति । तदुक्तं परमगुरुभिर्भगवद्यामुनाचार्यपादैः ‘उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्यः’ (आ.सि.) इति ॥25॥

मूलम्

नित्यनैमित्तिकानां च पराराधनरूपिणाम् ।
आत्मदृष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः ॥25॥

४२-इञ्जिमेडु-यतिः - २५

इदऩाल्, मूऩ्ऱु अधिकारिकळुक्कुम्, परमात्माविऩिडत्तिल् एकान्तमाऩ प्रीतियैच् चॆय्दल् आवश्यकम् ऎऩ्ऱु एऱ्‌पट्टदु।
एकान्तप्रीतियावदु - मऱ्‌ऱॊरु देवतैयिऩिडत्तिल् प्रीति पण्णामल्
परमात्माविऩिडत्तिल् मात्तिरम् प्रीति सॆय्वदे
ऎऩ्ऱु मोक्षधर्मम् मुदलियवैगळिल् सॊल्लप्पट्टिरुक्किऱदु।
अप्पडियागिल्, अग्नि, इन्द्रऩ् मुदलाऩ देवतैकळुडऩ् कलन्दु निऱ्‌कुम् वर्णाश्रमधर्मङ्गळाल्
ऐकान्त्यत्तिऱ्‌कुप् भङ्गम् वरुमागैयाल्,
मूऩ्ऱु योगिकळुक्कुम् वर्णाश्रमधर्मङ्गळै विडुवदऱ्‌कु प्रसङ्गियादो?
ऎऩ्ऩ, समाधानत्तै सूचिप्पिक्किऱार्।

नित्यनैमित्तिकानां च पराराधनरूपिणाम् ।

इङ्गु, “त्रिभिः सङ्गमः” ऎऩ्ऱु मुन्दिऩ श्लोकत्तिलिरुन्दु योजित्तुक् कॊळ्ळ वेण्डियदु।
पराराधनरूपिणाम् - परमपुरुषऩुडैय आराधनरूपमाऩ,
नित्यनैमित्तिकानां च - नित्यनैमित्तिककर्मङ्गळुक्कुम्,
त्रिभिः - मूऩ्ऱु योगङ्गळोडुम्, सङ्गमः - सम्बन्धम् उण्डु।

अदावदु - इन्दक् कर्मङ्गळ् अङ्गङ्गळागवुम्, योगङ्गळ् अङ्गिगळागवुम् निऱ्‌किऩ्ऱऩ।
इप्पडि मूऩ्ऱु योगङ्गळुक्कुम् नित्यनैमित्तिककर्मङ्गळ् अङ्गङ्गळागच् चॊल्लप् पट्टदऩ् तात्पर्यम् ऎऩ्ऩव् ऎऩ्ऱाल्,
कर्मङ्गळिल् कलक्कुम् अग्नि, इन्द्रऩ् मुदलिय शब्दङ्गळ् भगवाऩैये प्रतिपादिक्किऩ्ऱऩ ऎऩ्ऱुम्,
आगैयाल् अन्दक् कर्मङ्गळॆल्लाम् भगवदाराधनरूपमागिऩ्ऱऩ ऎऩ्ऱुम्,
आदलाल् अन्दक् कर्मङ्गळिऩ् अनुष्ठानत्ताल्
ऐकान्त्यत्तिऱ्‌कु भङ्गम् वरादॆऩ्ऱुम् एऱ्‌पडुगिऱदु।
अग्नि, इन्द्रऩ् मुदलिय शब्दङ्गळ् भगवाऩै ऎप्पडिक् काट्टुम्? ऎऩ्ऱाल्, अदऱ्‌कु इरण्डु विधमाग समाधानम् उण्डु।

अवैयावऩ -
(१) प्रतर्दनादिन्यायत्ताल् सकलशब्दङ्गळुम् भगवाऩ् वरैयिल् ऎट्टुम्।
(२) “साक्षादप्यविरोधं जैमिनिः” ऎऩ्गिऱ न्यायत्ताल् साक्षात्तागवे इन्द शब्दङ्गळ् भगवाऩै प्रतिपादिक्किऩ्ऱऩ। अग्रनयनादिव्युत्पत्तिकळ् इदऱ्‌कु प्रमाणम्।

इदऱ्‌कु मेल् इन्द मूऩ्ऱु योगङ्गळुम्
आत्मसाक्षात्कारत्तिऱ्‌कु योगत्तिऩ् वऴियागक् कारणङ्गळ् आगिऩ्ऱऩ ऎऩ्गिऱार्।

आत्मदृष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः ॥ २५ ॥

एते त्रयोऽपि - इन्द मूऩ्ऱु योगङ्गळुम्,
योगद्वारेण - योगत्तिऩ् वऴियाग,
(इङ्गु योगमावदु - परिशुद्ध-जीवऩ्-इडत्तिल् समाधिरूपम् आऩ अन्तःकरणत्तिऩ् ऐकाग्र्यम्),
आत्मदृष्टेः - परिशुद्धात्माविऩ् साक्षात्कारत्तिऱ्‌कु, साधकाः - कारणङ्गळ्।

‘ज्ञान-योगम् आत्म-साक्षात्कारत्तिऱ्‌कुक् कारणम् ऎऩ्ऱुम्,
कर्मयोगमुम् ज्ञानयोगत्तै इडैय् इडामल् अन्तर्गत-ज्ञानम् आय्क् कॊण्ड् इरुक्किऱ बडियाल्
आत्मसाक्षात्कारसाधकम्
ऎऩ्ऱुम् इदुवरैयिल् सॊल्लप्पट्टदु।
इप्पॊऴुदु सॊल्वदिल् इरुन्दु भक्तियोगमुम्
आत्मसाक्षात्कारसाधकम्
ऎऩ्ऱु एऱ्‌पडुगिऱदे,
इदु कूडुमो?
आत्मसाक्षात्कारम् अऩ्ऱो भक्तियोगत्तिऱ्‌कु साधकमाग वेणुम्?’

ऎऩ्ऱु सिल तात्पर्यम् अऱियादवर्गळिऩ् चोदनम्।
भगवद्-भक्तिक्कु मुडिविल् उळ्ळ ज्ञान-दर्शन-प्राप्ति-रूपमाऩ उत्कृष्ट-पर्व-भेदम् पोल,
आत्मावलोकनत्तिऱ्‌कु वेण्डिय भगवद्-वन्दन-कीर्तन-हेतु-भूतम् आऩ भक्तियिऩ् पर्वविशेषमाऩदु त्रयोऽप्येते ऎऩ्गिऱ इडत्तिल् विवक्षितम् आगैयाल्
विरोधमिल्लै।

आगैयालेयिऱे, आत्मावलोकनम् पिऱन्द पिऩ्बु
परमाऩ भक्तियै अडैगिऱाऩ् ऎऩ्ऱु
“मद्भक्तिं लभते पराम्” ऎऩ्गिऱ इडत्तिल् सॊल्लप्पट्टिरुक्किऱदु।
इदऩाल्, आत्मावलोकनत्तिऱ्‌कु मुऩ् अपरमाऩ भक्ति उण्डु ऎऩ्बदु सिद्धमिऱे। (२५)

२६-२९ भक्तियोगे फल-भेदाः

२६

विश्वास-प्रस्तुतिः

निरस्त-निखिलाज्ञानो
दृष्ट्वा ऽऽत्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं
तयैवाप्नोति तत्-पदम् ॥26॥

English

When one’s nescience is removed and one perceives the self as subservient to the Supreme, one attains supreme devotion and through it alone reaches His realm. There is Vaidhi-bhakti or discipline-bound devotion, next Para-bhakti (higher devotion of love) and then the final stage Parama bhakti or pre-eminently supreme love.

वेङ्कटनाथार्यः

एवं यथाधिकारं परिगृहीतैस्त्रिभिरात्मावलोकनसिद्धिद्वारा परमभक्त्युत्पादनप्रकारं परमभक्तेरेव प्रकृष्टायाः परमप्राप्तिसाधनत्वं च दर्शयति - निरस्तेति । उपायविरोधिसर्वाज्ञाननिवृत्तिरिह ‘निरस्तनिखिलाज्ञानः’ इत्यनेन विवक्षिता; परानुगं परानुचरं, परशेषतैकरसमित्यर्थः । यथोच्यते ‘नायं देवो न मर्त्यो वा न तिर्यक् स्थावरोऽपि वा । ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः’ (?) इति । आह च सर्वज्ञो मन्त्रराजपदस्तोत्रे ‘दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम्’ (म.रा.प.स्तो.11) इति । प्रतिलभ्य परमात्मसकाशात्प्राप्येत्यर्थः । तयैव परमभक्तिरूपविपाकापन्नयेति शेषः । अत एवकारेण नैरपेक्ष्यमव्यवहितत्वं च व्यज्यते । तत्पदं तच्चरणं, पद्यत इति व्युत्पत्त्या पदं, मुक्तप्राप्यतया सिद्धं, परमपुरुषस्याप्राकृतं स्थानं स्वरूपं वा । तदेतच्छ्लोकद्वयेन गीयते – ‘ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥’ (18.54,55) इति ॥26॥

मूलम्

निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं तयैवाप्नोति तत्पदम् ॥26॥

४२-इञ्जिमेडु-यतिः - २६

कीऴिल् कर्मयोग-ज्ञानयोग-भक्तियोगङ्गळ् आत्मावलोकनत्तिऱ्‌कु साधकङ्गळ् ऎऩ्ऱार्। मेल् श्लोकत्ताल्, तऩ् अधिकारानुगुणमागप् परिगृहीतङ्गळाऩ मूऩ्ऱु योगङ्गळुक्कुम् आत्मावलोकनसिद्धिवऴियागप् परभक्ति उण्डागुम् प्रकारत्तैयुम्, प्रकृष्टमाऩ परभक्तिये परमप्राप्तियै साधित्तुक् कॊडुक्कुम् ऎऩ्बदैयुम् सॊल्लुगिऱार्।
निरस्तनिखिलाज्ञानो दृष्ट्वाऽऽत्मानं परानुगम् । प्रतिलभ्य परां भक्तिं तयैवाप्नोति तत्पदम् ॥ २६ ॥
निरस्तनिखिलाज्ञानः - पोक्कडिक्कप्पट्ट समस्ताज्ञानत्तैयुडैय अधिकारि, परानुगम् - परमपुरुषानुगममाऩ (परशेषतैकस्वभावमाऩ ऎऩ्ऱबडि), आत्मानम् - प्रकृतिवियुक्तमाऩ जीवस्वरूपत्तै, दृष्ट्वा - साक्षात्करित्तु, पराम् - उत्कृष्टमाऩ, भक्तिम् - भक्तियोगत्तै, प्रतिलभ्य - (भगवदनुग्रहत्ताल्) अडैन्दु, तयैव - परमभक्तियिऩ् परिपाकत्तै अडैन्द अन्दप् परभक्तियिऩालेये, तत्पदम् - अन्दप् परमपुरुषऩुडैय तिरुवडियै (अल्लदु, मुक्तर्गळुक्कु प्राप्यतया सिद्धमाऩ परमपुरुषऩुडैय अप्राकृतस्थानत्तै, अल्लदु स्वरूपत्तै), आप्नोति - अडैगिऱाऩ्। इन्द अर्थङ्गळै, “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥”, “भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥” ऎऩ्गिऱ इरण्डु श्लोकङ्गळिल् गीताचार्यऩ् अरुळिच् चॆय्दार्। (२६)

२७

विश्वास-प्रस्तुतिः

भक्ति-योगस् तद्-अर्थी चेत्
समग्रैश्वर्य-साधकः ।
आत्मार्थी चेत् त्रयोऽप्य् एते
तत्+++(→आत्म)+++-कैवल्यस्य साधकाः ॥27॥

English

Bhakti Yoga helps to attain prosperity or comprehensive, sovereignty, if one desires it. If one desires the self, all these three Yoga-s serve that purpose, which consists in the attainment of pure Isolation (Kaivalya)

वेङ्कटनाथार्यः

एवं भक्तेर्मोक्षसाधनत्वमुक्तम् । सैव मध्यमषट्कोक्तप्रकारेणाचिद्द्रव्यपरिणामविशेषानुभवरूपस्यैश्वर्यस्यापि साधिकेत्याह भक्तीति । एकस्य कथं परस्परविरुद्धयोर्बन्धमोक्षयोः साधनत्वमित्यत्रोक्तम् - तदर्थी चेदिति । एकस्यैव तत्तत्फलरागवशाद्विचित्रफलसाधनत्वं ‘सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः’ इत्यादिष्वपि प्रसिद्धम् । ब्रह्मादिप्रदेयैश्वर्येभ्यः समधिकत्वमिह समग्रत्वम् । दृष्टं च लोके सम्राट्सामन्तसेवयोः सिद्धितारतम्यम् । न च हिरण्यगर्भादयो हिरण्यगर्भादिपदं प्रदातुं प्रभवन्ति । स्वयमेव ह्युक्तं ब्रह्मणा ‘प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम्’ इति । अन्यत्र चोक्तम् ‘युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः । पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम’ इत्यादि । रौद्रस्यापि पदस्य भगवत्प्रत्तत्वमाम्नायते - ‘अस्य देवस्य मीढुषो वयो विष्णोरेषस्य अवभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यानेष्टुं वर्तिरश्विनाराविवत्” इति । अस्य स्वेतरसमस्तव्यावृत्तातिशयतया श्रुत्यादिप्रसिद्धस्य, देवस्य अनितरसाधारणात्यद्भुताप्रतिहतक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिप्रभृतिनित्यनिरवद्यनिरतिशयानन्तमङ्गलगुणमहोदधेः । मीढुषः - ‘मिह सेचने’ सेक्तुर्दातुः उदारस्येत्यर्थः । वयः - अवयवतया शाखाभूतः शरीरतयाङ्गभूतः इत्यर्थः । ‘वयः शाखाः’ इति यास्कः । सर्वव्यापनशीलतया सर्वान्तर्यामिभूतस्य नारायणस्य । ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णम् पुरुषेण सर्वम्, इति श्रूयते । एषस्य एषणीयस्य प्रार्थनीयस्य अभिमतफलार्थं याचनीयस्येत्यर्थः । अवभृथे हविर्भिः - सर्वमेधाख्ये यागे विष्णवे समर्पितैः स्वात्मपर्यन्तैर्हविभिः ॥ विदे हि - विदे लेभे, हीति हेतौ, प्रसिद्धौ वा । रुद्रियं - रुद्रस्य सम्बन्धि स्वसम्बन्धीत्यर्थः । यद्वा - ब्रह्मरुद्रेन्द्रादीनां प्रवाहानादित्वाद्रुद्रजातिसम्बन्धितया प्रथितं, महित्वम् - महिमानमित्यर्थः । एतदुपबृंहणाभिप्रायेण चोक्तं महाभारते ‘महादेवः सर्वमेधे महात्मा हुत्वात्मानं देवदेवो बभूव’ इति । “एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदादर्शितपन्थानौ सृष्टिसंहारकारिणौ’ इत्यादिभिश्च सर्वत्रायमर्थः प्रसिद्ध इत्यलं विस्तरेण ॥ एवमचित्तत्त्वानुभवरूपैश्वर्यसाधकत्वं भक्तेरुक्तम् । अथ चेतनरूपात्मतत्त्वानुभवरूपार्वाचीनकैवल्यस्य साधनत्वं तस्याः प्रदर्शयन् ज्ञानयोगकर्मयोगयोरप्यर्थस्वभावात् परमपुरुषप्रीतिद्वारेण तत्साधनत्वं युक्तमित्यभिप्रायेणाह - आत्मेति ।

अ-चिद्-अनुभवाद् ईश्वरानुभवाच् च विविक्त-रूपो ऽनुभव
इह तत्-कैवल्य-शब्देन विवक्षितः ।
अत्र च वक्तव्यं सर्वं तात्पर्यचन्द्रिकायां प्रपञ्चितमस्माभिः ॥27॥

मूलम्

भक्तियोगस्तदर्थी चेत्समग्रैश्वर्यसाधकः ।
आत्मार्थी चेत् त्रयोऽप्येते तत्कैवल्यस्य साधकाः ॥27॥

४२-इञ्जिमेडु-यतिः - २७

कीऴ् श्लोकत्ताल् भक्तियोगम् मोक्षसाधनम् ऎऩ्ऱु सॊल्लप्पट्टदु। इप्पॊऴुदु अन्द भक्तियोगमे इरण्डावदु षट्कत्तिल् सॊऩ्ऩबडि, अचिद्द्रव्यपरिणामविशेषत्तिऩ् अनुभवरूपमाऩ ऐश्वर्यत्तिऱ्‌कुम् साधनम् ऎऩ्ऱु सॊल्लप्पडुगिऱदु।
भक्तियोगस्तदर्थी चेत् समग्रैश्वर्यसाधकः ।
तदर्थी चेत् - अधिकारियाऩवऩ् प्रसिद्धमाऩ ऐश्वर्यत्तैक् कोरिऩाऩाऩाल् अन्द अधिकारिक्कु, भक्तियोगः - भक्तियोगमाऩदु, समग्रैश्वर्यसाधकः - ब्रह्मा मुदलाऩवर्गळिऩ् ऐश्वर्यत्तैक् काट्टिलुम् उत्कृष्टतममाऩ ऐश्वर्यत्तिऱ्‌कुक् कारणमागिऱदु। ‘भक्तियोगम् ऒऩ्ऱे मोक्षत्तैयुम् साधित्तुक् कॊडुक्कुम्, ऐश्वर्यरूपमाऩ बन्धत्तिऱ्‌कुम् कारणमागुम्’ ऎऩ्ऱु सॊल्वदु कूडुमो? ऎऩ्ऩिल्, अदु अधिकारियिऩ् कोरिक्कैयैप् पॊऱुत्तदु; आऩदाल् विरोधमिल्लै। इप्पडिये, “सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः” ऎऩ्गिऱ इडत्तिल्, ‘ऒरु ज्योतिष्टोमयागत्तिऱ्‌के अधिकारियिऩुडैय रागविशेषत्ताल् विचित्रमाऩ फलङ्गळै साधित्तुक् कॊडुक्कुम् तऩ्मै उण्डु’ ऎऩ्ऱु मीमांसकगोष्ठियिल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु।
इप्पडि, भक्तियोगत्तिऱ्‌कु ऐश्वर्यसाधकत्वम् सॊल्लप्पट्टदु। इऩि, ‘अन्दप् भक्तियोगत्तिऱ्‌के शोधनरूपमाऩ आत्मतत्त्वत्तिऩुडैय अनुभवरूपमागिऱ अर्वाचीनकैवल्यसाधकत्वत्तैक् काण्बित्तुक्कॊण्डु, कर्मयोगज्ञानयोगङ्गळुक्कुम् अर्थस्वभावत्ताल् परमपुरुषप्रीतियै द्वारमागक् कॊण्डु कैवल्यत्तै साधित्तुक् कॊडुक्कुम् तऩ्मै उण्डु’ ऎऩ्गिऱ अभिप्रायत्तै वॆळियिडुगिऱार्।
आत्मार्थी चेत् त्रयोऽप्येते तत्कैवल्यस्य साधकाः ॥ २७ ॥
आत्मार्थी चेत् - अधिकारियाऩवऩ् आत्मानुभवत्तै इच्छित्ताल् अवऩुक्कु, एते त्रयोऽपि - कर्मयोग-ज्ञानयोग-भक्तियोगमागिऱ इन्द मूऩ्ऱु योगङ्गळुम्, तत्कैवल्यस्य - मुऩ् सॊल्लप्पट्ट कैवल्यत्तिऱ्‌कु, (अदावदु मोक्षमागिऱ भगवदनुभवम्, ऐश्वर्यमागिऱ अचिद्-अनुभवम् इवैगळैक् काट्टिलुम् विलक्षणमाऩ जीवस्वरूपानुभवरूपमागिऱ कैवल्यत्तिऱ्‌कु ऎऩ्ऱबडि), साधकाः - कारणङ्गळ्। (२७)

२८

विश्वास-प्रस्तुतिः

ऐकान्त्यं भगवत्य् एषां
समानम् अधिकारिणाम् ।
यावत्-प्राप्ति +++(भगवद्→)+++परार्थी चेत्
तद् एवात्यन्तम् अश्नुते ॥28॥

English

The attitude, that the Bhagavan is the ultimate end, is common to all these types of the devotees. But if one aspires exclusively for the Lord overlooking the other two till such attainment, he attains Him completely.

वेङ्कटनाथार्यः

एवमतिशयितैश्वर्यकैवल्यभगवत्प्राप्त्यर्थिनामधिकर्तव्यायाः भक्तेः सारभूतं साधारणं रूपं निष्कर्षयति - ऐकान्त्यमिति । ऐकान्त्यमत्रानन्यदेवताकत्वम्, ‘चतुर्विधा मम जना भक्ता एव हि ते स्मृताः । तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः’ इत्यनुगीतावचनं ज्ञानिनामैकान्त्यस्य नित्यत्वाभिप्रायेण । अत्र तु यावत्स्वाभिमतफललाभमैकान्त्यं समानमित्युच्यते । एतेन कर्मयोगज्ञानयोगावस्थयोरप्यैकान्त्यं सिद्धम्, सर्वत्र भगवत्प्रपत्तिपूर्वकत्वावश्यम्भावात् । एवमचिदनुभवात्स्वानुभवाच्च विलक्षणमीश्वरानुभवमभ्यर्थयमानस्याधिकार्यन्तरव्यावृत्तात्यन्तिकत्वलक्षणभक्तिवैशिष्ट्यादव्यवधानेनात्यन्तिकतत्प्राप्तिमाह - यावदिति । फलान्तरसङ्गरूपान्तरायानुपहतश्चेदव्यवधानेन भगवन्तं प्राप्य पुनः संसारं न प्राप्नोतीत्यर्थः । पदाभिप्रायेण तदिति नपुंसकत्वम् ॥28॥

मूलम्

ऐकान्त्यं भगवत्येषां समानमधिकारिणाम् ।
यावत्प्राप्ति परार्थी चेत् तदेवात्यन्तमश्नुते ॥28॥

४२-इञ्जिमेडु-यतिः - २८

इऩि, अडुत्तु वरुगिऱ पादि श्लोकत्ताल्, ऐश्वर्यार्थी, कैवल्यार्थी, भगवत्प्राप्त्यर्थी आगिऱ इम् मूऩ्ऱु विद अधिकारिकळुक्कुम् अनुष्ठानार्थमाग सारभूतमाऩ पॊदु धर्ममॊऩ्ऱैक् काट्टुगिऱार्।
ऐकान्त्यं भगवत्येषां समानमधिकारिणाम् ।
एषामधिकारिणाम् - इन्द मूऩ्ऱु विद अधिकारिकळुक्कुम्, भगवति - वासुदेवऩिडत्तिल्, ऐकान्त्यम् - मऱ्‌ऱॊरु देवतैयै विषयीकरिक्कामल् परदेवतैयिऩिडत्तिलेये भक्तियै उडैत्तायिरुक्कुम् तऩ्मैयाऩदु, समानम् - तुल्यम्। इङ्गु अधिकारिकळुक्कुम् इम्मादिरियाऩ ऐकान्त्यम् सॊऩ्ऩदु कूडुमो? अप्पडियागिल्, “चतुर्विधा मम जना भक्ता एव हि ते स्मृताः । तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ॥” ऎऩ्ऱु ज्ञानिकळुक्कु मात्तिरम् ऐकान्त्यम् सॊल्लुगिऱ अनुगीतावचनम् विरोधियादो? ऎऩ्ऩिल्, अनुगीतैयिल् ज्ञानिकळुक्कु नित्यमाऩ ऐकान्त्यम् सॊल्लिऱ्‌ऱु; इङ्गु, मूऩ्ऱु अधिकारिकळुक्कुम् फलत्तै अडैयुम् वरैयिल् ऐकान्त्यम् तुल्यमॆऩ्ऱु विवक्षितमागैयाल् विरोधमिल्लै। इदऩाल्, कर्मयोगिकळुम् ज्ञानयोगिकळुम् भगवत्प्राप्तिनिष्ठर्गळागैयाल्, अवर्गळुक्कुम् ऐकान्त्यम् आवश्यकमॆऩ्ऱु सूचितमायिऱ्‌ऱु।
इप्पडि ऐश्वर्य-आत्मानुभवङ्गळैक् काट्टिलुम् विलक्षणमाऩ भगवदनुभवत्तैये कोरुगिऱ अधिकारिक्कु अनितरसाधारणमाऩ भक्तिविशेषत्ताले आत्यन्तिकमाऩ भगवत्प्राप्तियैच् चॊल्लुगिऱार्।
यावत्प्राप्ति परार्थी चेत् तदेवात्यन्तमश्नुते ॥ २८ ॥
यावत्प्राप्ति - ताऩ् कोरिय फलत्तै अडैयुम् वरैयिल्, परार्थी चेत् - उत्कृष्टमाऩ पदवियै प्रार्थित्ताऩागिल्, तदेव - अन्दप् परमपदत्तैये, अत्यन्तम् - मुडिविल्लामल्, अश्नुते - अनुभविक्किऱाऩ्। ऒरुवऩ् मऱ्‌ऱ ऎव्विद फलत्तिलुम् सङ्गमिल्लामल् उत्कृष्टपदवियैये प्रार्थित्तु भक्ति सॆय्दाल्, अवऩ् कालविळम्बमऩ्ऱिक्के भगवाऩै अडैन्दु मऱुबडि संसारत्तै अडैयामल् निऱ्‌किऱाऩ् ऎऩ्ऱु करुत्तु। (२८)

२९

विश्वास-प्रस्तुतिः

ज्ञानी तु परमैकान्ती
तद्-आयत्तात्म-जीवनः ।
तत्-संश्लेष-वियोगैक-
सुख-दुःखस् तद्-एक-धीः ॥29॥

English

The Jnani is one who is exclusively devoted to the Lord. His very existence depends on Him. Contact with Him is his only joy, separation from him is his only grief. His thought is focussed on Him alone.

वेङ्कटनाथार्यः

अथ ‘ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते स्मृताः । सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् ॥’ इत्यनुगीतस्य ‘यावत्प्राप्ति परार्थी चेत्’ इत्युक्तस्याधिकारिणोऽनन्यसाधारणं विशेषमनुष्ठानफलप्राप्त्योश्च प्रकारं तत्रैव च तात्पर्येणास्य शास्त्रस्यापवर्गशास्त्रत्वं चतुर्भिर्विवृणोति - ज्ञानी त्विति । एतेन ‘ज्ञानी त्वात्मैव मे मतम्’ ‘मच्चित्ता मद्गतप्राणाः’ इत्यादिकं स्मारितम् । परमश्चासावेकान्ती चेति परमैकान्ती, एकान्तिषु परम इत्यर्थः । परम एकान्तोऽनन्यत्वमस्यास्तीति वा । न केवलमनन्यदेवताकत्वम्, अपि त्वनन्यप्रयोजनत्वमस्यास्तीत्यर्थः । संश्लेषोऽत्र मनोवाक्कायसाध्यतदभिमतशास्त्रचोदितसपर्यामुखेन । वियोगोऽपि तद्विच्छेदः । यदाहुमहर्षयः ‘यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया । एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते । दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ॥” इति । तस्मिन्नेव धीश्चिन्ता यस्य तदेकधीः ॥29॥

मूलम्

ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः ।
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥29॥

४२-इञ्जिमेडु-यतिः - २९

इऩि, “ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः । सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् ॥” ऎऩ्ऱु अनुगीतैयिल् प्रतिबुद्धऩागक् कॊण्डाडप्पट्ट ज्ञानियागिऱ अधिकारिक्कु अनन्यसाधारणमाऩ पारमैकान्त्यरूपविशेषम् इऩ्ऩदु ऎऩ्बदैयुम्, अनुष्ठानप्रकारम् इऩ्ऩदु ऎऩ्बदैयुम्, फलप्राप्तिप्रकारम् इऩ्ऩदु ऎऩ्बदैयुम्, गीताशास्त्रम् पूर्वोक्ताधिकारियै प्रधानमाग उडैत्तायिरुक्कैयाल् इन्दक् गीतै अपवर्गशास्त्रम् ऎऩ्बदैयुम् नालु श्लोकङ्गळाल् वॆळियिडुगिऱार्।
ज्ञानी तु परमैकान्ती परायत्तात्मजीवनः । तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥ २९ ॥
परमैकान्ती - परमश्चासावेकान्ती च - एकान्तिकळुक्कुळ् उत्कृष्टतमऩाऩ, (अदावदु - परमः एकान्तः अनन्यत्वम् अस्य अस्तीति - मऱ्‌ऱ अधिकारिकळ् वेऱु देवतैकळै अऱियादवर्गळाऩदऩाल् अवर्गळुक्कु ऐकान्त्यम् मात्तिरम्; ज्ञानिकळो ऎऩ्ऱाल् अनन्यदेवताकर्गळाग इरुप्पदुडऩ् कूड वेऱु प्रयोजनत्तैयुम् अऱियादवर्गळाऩदऩाल् इवर्गळुक्कुप् पारमैकान्त्यम् ऎऩ्ऱबडि), ज्ञानी तु - इतरविलक्षणऩाऩ ज्ञानियाऩवऩ्, परायत्तात्मजीवनः - परमपुरुषऩुक्कु स्वाधीनमाऩ तऩ्ऩुडैय प्राणधारणम् मुदलिय व्यापारङ्गळै उडैयवऩायुम्, तत्संश्लेषवियोगैकसुखदुःखः - अन्द भगवाऩुडैय सेर्क्कैये सुखम्, अवऩुडैय पिरिवे दुःखम् ऎऩ्ऱु उणरुगिऱवऩायुम्, तदेकधीः - अन्द भगवाऩिडत्तिल् अनन्यविषयकमाऩ बुद्धियै उडैयवऩायुम्, इदऱ्‌कु मेल् श्लोकत्तोडु अन्वयम्। (इङ्गुप् भगवाऩुडऩ् सेर्क्कैयावदु - मनस्, वाक्, कायम् इवैगळाल् साध्यमायुम्, भगवाऩुक्कु अभिमतमायुम्, शास्त्रङ्गळिल् सॊल्लप्पट्टदायुमुळ्ळ पूजै मुदलाऩ व्यापारमागिऱ भगवत्सम्बन्धम्। अवऩुडैय पिरिवावदु - अन्दप् पूजै मुदलियवैगळिऩ् विच्छेदमे। इदै महर्षिकळुम्, “यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया ॥” इत्यादिकळिल् वॆळियिट्टार्गळ्। (२९)

३० सिद्धोपायः

३०

विश्वास-प्रस्तुतिः

भगवद्-ध्यान-योगोक्ति-
वन्दन-स्तुति-कीर्तनैः ।
लब्धात्मा तद्-गत-प्राण-
मनो-बुद्धीन्द्रिय-क्रियः …॥30॥

English

When one has begun to find life’s sole satisfaction in meditation on the Lord, the vision of Him through such meditation, speaking about Him, saluting Him, singing about Him and praising Him - then the operation of the senses, intellect, mind and vital forces will get concentrated on Him.

वेङ्कटनाथार्यः

ध्यानम् इहानुचिन्तनं,
योगस्तन्मूलमवलोकनं, विशिष्टक्षेत्रादिवर्तिनः परस्याभिगमनं वा, यदाहुः ‘पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ’ ‘योगस्तु द्विविधः प्रोक्तो बाह्यमाभ्यन्तरं तथा । बाह्यं बहिःक्रियापेक्षमान्तरं ध्यानमुच्यते’ इति । उक्तिः - शुश्रूषुभ्योऽधिकारिभ्यः प्रतिपादनम् । वन्दनम् - त्रिभिः करणैः प्रणाम इत्यर्थः । स्तुतिः - गुणकथनम् । कीर्तनम् तत्तद्गुणविभवचेष्टितादिगर्भाणां तदसाधारणनामधेयानां सङ्कीर्तनम्, तैर्लब्धात्मा, अन्यथा अवस्तुभूतमात्मानं मन्यमान इति भावः । प्रशिथिलकरणकलेबरादिको भवेदिति वा । प्राणादीनां क्रियायास्तद्गतत्वतदनुभवाभावे शैथिल्यादिति भाव्यम् । अथवा ‘यत्करोषि यदश्नासि” (गीता 9.27) इति न्यायेन स्वभावार्थशास्त्रप्राप्तानां कर्मणां भगवति समर्पणम् । मनः - सङ्कल्पविकल्पवृत्तिकमन्तःकरणम् । तस्याध्यवसायात्मिका वृत्तिर्बुद्धिः, यद्वा तदेवात्राध्यवसायवृत्तिविशिष्टं बुद्धिरित्युच्यते । यथोक्तं शारीरकभाष्ये ‘अध्यवसायाभिमानचिन्तावृत्तिभेदान्मनः एव बुद्ध्यहङ्कारचित्तशब्दैर्व्यपदिश्यते’ इति । इन्द्रियशब्दोऽत्र गोबलीवर्दन्यायाद् बाह्येन्द्रियविषयः ॥30॥

मूलम्

भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥30॥

४२-इञ्जिमेडु-यतिः - ३०

भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः । लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥ ३० ॥

निजकर्मादि भक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।
इदऱ्‌कु मुऩ् श्लोकत्तोडु अन्वयम्।

भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः लब्धात्मा - भगवाऩुडैय ध्यानम्, योगम्, उक्ति, वन्दनम्, स्तुति, कीर्तनम् इवैगळाल् आत्माविऩ् सत्तैयै अडैन्दवऩायुम्, (ध्यानम् ऎऩ्ऱाल् - अनुचिन्तनम्। योगम् ऎऩ्ऱाल् - अन्दच् चिन्तनत्तैक् कारणमागवुडैय साक्षात्कारम्, अल्लदु दिव्यक्षेत्रङ्गळिलुळ्ळ परमपुरुषऩुडैय सेवार्थम् गमनमागवुमाम्। “योगस्तु द्विविधः प्रोक्तो बाह्यमाभ्यन्तरं तथा । बाह्यं बहिःक्रियापेक्षमान्तरं ध्यानमुच्यते” ऎऩ्ऱार्गळिऱे। उक्ति ऎऩ्ऱाल् - केट्क वेणुम् ऎऩ्गिऱ विरुप्पमुळ्ळ अधिकारिकळुक्कु भगवद्गुणङ्गळैच् चॊल्लुगै। वन्दनम् ऎऩ्ऱाल् - मनस्, वाक्, कायम् इवैगळाल् सॆय्यप्पडुम् पूर्णप्रणामम्। स्तुति ऎऩ्ऱाल् - गुणङ्गळैयिट्टु स्तोत्रम् पण्णुगै। कीर्तनम् ऎऩ्ऱाल् - भगवाऩुडैय गुणविभवचेष्टादिकळैप् प्रतिपादिक्किऱ भगवन्नामसङ्कीर्तनम्), इदऩाल्, भगवद्ध्यानादिकळ् इल्लाविडिल् आत्मावुम् इल्लै ऎऩ्ऱु ऎण्णुम्बडियागुम् ऎऩ्बदु सूचितमायिऱ्‌ऱु। करणकळेबरङ्गळुम् शैथिल्यत्तैयडैयुम् ऎऩ्ऩवुमाम्। तद्गतप्राणमनोबुद्धीन्द्रियक्रियः - अन्दप् भगवाऩिडत्तिल् समर्पिक्कप्पट्ट प्राणऩ्, मनस्, बुद्धि, इन्द्रियम् इवैगळिऩ् क्रियैकळै उडैयवऩायुम्, (प्राणऩावदु - पञ्चवृत्ति प्राणऩ्। मनस्सावदु - सङ्कल्पम् मुदलियवैगळैयुडैय मनस्। बुद्धियावदु - अध्यवसायम्, निश्चयत्तोडु कूडिऩ मनस्सागवुमाम्। इन्द्रियमावदु - बाह्येन्द्रियङ्गळ्। इवैगळिऩ् क्रियैयावदु - स्वाभाविकमुम् शास्त्रप्राप्तमुमाऩ व्यापारङ्गळ्), प्रीत्यैव - भगवाऩिडत्तिल् प्रीतियालेये, कारितः - अन्द अन्दक् कर्मङ्गळिल् प्रेरितऩाय्क् कॊण्डु, निजकर्मादिभक्त्यन्तम् - वर्णाश्रमकर्मङ्गळडियागप् भक्तिवरैयिलुमुळ्ळ कृत्यङ्गळै, कुर्यात् - पण्णक्कडवऩ्। (इदऩाल्, “सततं कीर्तयन्तो माम्” ऎऩ्गिऱ इडत्तिल् सततशब्दम् नित्यनैमित्तिककर्मङ्गळुक्कु विरुद्धमल्लाद कालत्तैक् काट्टुगिऱदु ऎऩ्ऱु एऱ्‌पडुगिऱदु। नित्यदास्यत्तैये स्वभावमागवुडैय ज्ञानिक्कुम् मुक्तऩुक्कुप् पोलप् भगवत्परिचर्यादिकळ् भगवदाज्ञापरिपालनत्तिल् प्रीतियिऩाल् शास्त्रत्तिऱ्‌कु ऒत्तुम् तऩ् अधिकारत्तुक्कु अनुगुणमागवुम् अविरुद्धमाऩ अन्द अन्दक् कालङ्गळिल् किडैक्कत् तट्टिल्लै। अप्पडिक्कु इल्लाविट्टाल्, “सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु” ऎऩ्गिऱ शास्त्रत्ताल् भगवाऩुडैय अर्चऩै मुदलाऩ क्रियैकळिलुम् अनधिकारम् प्रसङ्गिक्कुम्। आगैयाल्, ज्ञानिकळुक्कुम् अवसियमाग अनुष्ठिक्क वेण्डिय कर्मङ्गळुडैय अनुष्ठानत्तिल् प्रियतमर्गळाऩ सुहृत्-पुत्रर् मुदलाऩवर्गळिऩ् उपलाळऩत्तिऱ्‌ पोल प्रीतिये प्रेरकम् ऎऩ्ऱु एऱ्‌पडुगिऱदु। शास्त्रमुम्, “यथा युवानं राजानं यथा च मदहस्तिनम् । यथा प्रियातिथिं प्राप्तं भगवन्तं तथार्चयेत् ॥” ऎऩ्ऱुम्, “यथा च पुत्रं दयितं तथैवोपचरेद्धरिम्” ऎऩ्ऱुम् नियमित्तदिऱे। (३०।५)

३१

विश्वास-प्रस्तुतिः

निज-कर्मादि भक्त्य्-अन्तं
कुर्यात् प्रीत्यैव कारितः ।
+++(प्रधान-)+++उपायतां परित्यज्य,
न्यस्येद् देवे तु ताम् +++(उपायताम्)+++ अभीः ॥31॥

English

Looking upon all disciplines from performance of duties to the practice of Bhakti as meant only for pleasing the Lord and not with any extraneous motive, one should abandon all dependence on any other means than Him (the supreme person), and remain without any fear of inadequacy of such resignation in respect of his salvation.

वेङ्कटनाथार्यः

एवंविधस्याधिकारिणः “सततं कीर्तयन्तो माम्’ इत्युक्तप्रक्रियया वर्णाश्रमधर्माणामपि लोपः स्यादित्यत्राह - निजकर्मेति । नित्यदास्यैकस्वभावस्य मुक्तस्येवास्यापि तत्परिचरणतदाज्ञानुवर्तनप्रीत्यैव यथाशास्त्रं यथाधिकारं यथावसरं च सर्वं घटते, अन्यथा ‘सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु’ इत्यादिभिर्भगवदर्चनादावप्यनधिकारप्रसङ्गात् । तस्माद्योग्यतासिद्ध्यर्थं लब्धांशस्य शैथिल्यपरिहारार्थम् उत्तरोत्तरोपचयार्थं सुदृढसिद्धोपायस्यापि स्वानुष्ठानेन परप्रवर्तनरूपभगवदाज्ञानुपालनार्थमवश्यकर्तव्यानामपि कर्मणां विधिपरामर्शमन्तरेण प्रियतमसृहत्पुत्राद्युपलालनवत्प्रीतिरेव ज्ञानिनः प्रयोजिकेति भावः । तथा च शिष्यते ‘यथा युवानं राजानं यथा च मदहस्तिनम् । यथा च पुत्रं दयितं तथैवोपचरेद्धरिम्’ इति । ‘यथा प्रियातिथिं प्राप्तं भगवन्तं तथार्चयेत्’ इति संहितान्तरम् । एवकाराभिप्रेतमन्यदपि विवृणोति - उपायतामिति । मुक्तव्यापारन्यायेन स्वयं स्वादुत्वात्क्षणिकस्य कालान्तरभाविफलसाधनत्वानुपपत्तिदर्शनाच्च नास्य स्वव्यापारे मोक्षोपायताबुद्धिरति स्यादिति भावः । अन्ततस्तैस्तैराराधितो भगवानेव हि सर्वत्रोपायः, न पुनः क्षणिकं तत्क्रियास्वरूपं तत्साध्यं किञ्चित्तत्प्रीत्यतिरिक्तमप्रामाणिकमपूर्वादिकं वा । अतस्तस्मिन्नेव ‘मामेकं शरणं व्रज’ (गीता 18.66) वक्तर्युपायताबुद्धिः कार्येत्याह - न्यस्येदिति । अनाश्रितानां बन्धनमाश्रितानां मोचनं च भगवतः स्वमाहात्म्यानुगुणलीलयैवेत्यभिप्रायेणाह - ‘तं हवै देवम्’ इति शरण्यविषयश्रुतिसूचनार्थमत्र देवशब्दः । ‘अपारकारुण्यसौशील्यवात्सल्यौदार्यदिगुणनिधौ’ ‘मित्रभावेन सम्प्राप्तम्’ ‘सकृदेव प्रपन्नाय’ ‘अपि चेत्सुदुराचारः’ (गीता 9.30), ‘क्षिप्रं भवति धर्मात्मा’, ‘मन्मना भव मद्भक्तः’ (गीता 18.61), ‘सर्वधर्मान् परित्यज्य’ (गीता 18.66) इति वक्तरि तस्मिन्नेवाशरण्यशरण्ये स्वयमुपायतयावस्थिते स्वापराधतत्स्वातन्त्र्यतत्सङ्कल्पकिङ्करहिरण्यगर्भरुद्रेन्द्रादिक्षुद्रेश्वरादिनिमित्तभयं न कर्तव्यमित्यभिप्रायेणाह - अभीरिति ॥31॥

मूलम्

निजकर्मादि भक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।
उपायतां परित्यज्य न्यस्येद् देवे तु तामभीः ॥31॥

४२-इञ्जिमेडु-यतिः - ३१

“प्रीत्यैव कारितः” ऎऩ्गिऱ इडत्तिलुळ्ळ एव ऎऩ्गिऱ शब्दत्ताल् विलक्कक् कूडिय वेऱु विषयत्तैक् काट्टुगिऱार्।

उपायतां परित्यज्य न्यस्येद्देवे तु तामभीः ॥ ३१ ॥

उपायताम् -

तऩ्ऩाल् अनुष्ठिक्कप्पडुम् वर्णाश्रमधर्ममडियागप् भक्तिवरैयिल् उळ्ळ व्यापारङ्गळ्
तऩक्कु मोक्षत्तै सम्पादित्तुक् कॊडुक्कक् कूडिय उपायङ्गळ्

ऎऩ्गिऱ बुद्धियै,

परित्यज्य - विट्टुविट्टु,

(अदावदु - “अन्द व्यापारङ्गळुक्कु नाम् कर्ता” ऎऩ्गिऱ बुद्धियै विडुवदुडऩ्,
“अवै मोक्षोपायङ्गळ्” ऎऩ्गिऱ बुद्धियैयुम् विलक्क वेणुम् ऎऩ्बदु तात्पर्यम्।

मुक्तकैङ्कर्यम् पोल वर्णाश्रमधर्मादिगळ् स्वयमे इऩियवैयागैयाले
इव्वधिकारियाल् अनुष्ठिक्कप्पट्टालुम्,
क्षणिकमाऩ इन्दक् कर्मङ्गळ्
कालान्तरत्तिल् उण्डागिऱ फलत्तै साधित्तुक् कॊडुक्कक् कूडियवैगळ् आगा
ऎऩ्गिऱ ज्ञानत्ताल्
कर्मादिगळिल् मोक्षोपायत्वबुद्धि उण्डागादु ऎऩ्ऱु करुत्तु।)

मुऱ्‌कूऱिय कारणत्तालुम्
मऱ्‌ऱुम् सिल कारणङ्गळालुम्
अन्द अन्दक् कर्मानुष्ठानत्ताल् प्रीतियै अडैयुम् भगवाऩे
अन्द अन्दप् फलत्तिऱ्‌कु उपायमागिऱाऩादलाल्,
“मामेकं शरणं व्रज” ऎऩ्ऱु सॊऩ्ऩ अवऩ्-इडत्तिलेये मोक्षोपायत्व-बुद्धियैच् चॆय्य वेण्डुम् ऎऩ्गिऱार्।

न्यस्येत् देवे तु तामभीः - ताम् - अन्द उपायत्वबुद्धियै देवे - तऩ् माहात्म्यत्तुक्कु अनुगुणमाऩ लीलैयाले तऩ्ऩै आश्रयिक्कादवर्गळुक्कुप् बन्धत्तैयुम्,
तऩ्ऩै आश्रयित्तवर्गळुक्कुप् बन्धमोचनत्तैयुम् सॆय्गिऱ भगवाऩिडत्तिल्,
अभीः - निर्भयऩाय्,
न्यस्येत् - वैक्कक् कडवऩ्।
अवऩ्दाऩ् उपायम् ऎऩ्गिऱ बुद्धियैच् चॆय्यक् कडवऩ् ऎऩ्ऱबडि।

अळव् अऱ्‌ऱ कारुण्यम्, सौशील्यम्, वात्सल्यम्, औदार्यम् मुदलिय कल्याणगुणङ्गळुक्कु निधियाय्,
“मित्रभावेन सम्प्राप्तम्”, “सकृदेव प्रपन्नाय”, “अपि चेत् सुदुराचारः”, “क्षिप्रं भवति धर्मात्मा”, “मन्मना भव मद्भक्तः”, “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज”
ऎऩ्ऱु सॊल्लुगिऱ शरण्यऩे उपायमाय् निऱ्‌कुम्बोदु,
तऩ्ऩुडैय अपराधत्तालुम्, अवऩुडैय स्वातन्त्र्यत्तालुम्
इव्व्-अधिकारिक्कुप् भयशङ्कै वेण्डाम् ऎऩ्ऱु करुत्तु। (३१)

३२

विश्वास-प्रस्तुतिः

एकान्तात्यन्त-दास्यैक-
रतिस् तत्-पदम् आप्नुयात्
तत्-प्रधानम् इदं शास्त्रम्
इति गीतार्थ-सङ्ग्रहः ॥32॥

English

Such a person finds his sole happiness in exclusive and continual service of God. He attains His realm. This work (Gita Sastra) is meant for such a devotee. Such is the summary of the meaning of the Gita.

वेङ्कटनाथार्यः

एवं स्थितस्य यथामनोरथमन्तरायानुपहतस्य फलसिद्धिमाह - एकान्तेति । उक्तं च परमैकान्तिनां परिचरणप्रकारमनुक्रम्य तस्य निर्विघ्नत्वं श्रीपौष्करे ‘प्रवृत्तिकालादारभ्य आत्मलाभावसानिकम् । यत्रावकाशो विघ्नानां विद्यते न कदाचन’ (पौ.सं.) इति । एतदेवाभिप्रेत्योक्तं ‘सङ्कल्पादेव भगवांतत्त्वतो भावितात्मनाम् । व्रतान्तमखिलं कालं सेचयत्यमृतेन तु । ज्ञात्वैव बन्धं मर्त्येन भवितव्यं सदैव हि । प्राप्तये सर्वकामानां संसारभयभीरुणा’ (?) इति । अतः ‘श्रूयते खलु गोविन्दे भक्तिमुद्वहतां नृणाम् । संसारन्यूनताभीतास्त्रिदशाः परिपन्थिनः । सत्यं शतेन विघ्नानां सहस्रेण तथा तपः । विघ्नायुतेन गोविन्दे नृणां भक्तिर्निवार्यते ।’ (वि.ध.2.25) इत्यादिकं परमभक्त्यवस्थातः प्राचीनावस्थाविषयं नेतव्यम् । अत्र भूमविद्यायामिव ऐश्वर्याद्यर्वाचीनपुरुषार्थप्रतिपादनं परमपुरुषप्राप्तिरूपप्रधानतमपुरुषार्थपारम्यसमर्थनार्थतया । उक्तं च श्रीसात्त्वते ‘प्रत्ययार्थं च मोक्षस्य सिद्धयस्सम्प्रकीर्तिताः ।’ (?) इति ॥ अतो मोक्षसाधनत्वमेवास्य शास्त्रस्येत्यभिप्रायेणाह - तदिति । अत्र यथार्हं न्यासोपासनरूपप्रापकनिष्ठाप्राप्तृतया निर्दिष्टः परमैकान्ती वा, तत्प्राप्यं वा तत्छब्देन परामृश्यते ॥ अथात्र सौगतार्हतादिगन्धानां शङ्करादिग्रन्थानां भगवदभिप्रायविरुद्धताख्यापनाय उक्तसंग्रहप्रकारेण शिष्याणां यथावस्थितसमस्तगीतार्थप्रपञ्चावगाहनाय च निगमयति - इतीति । इत्थमेव सत्त्वनिष्ठसंप्रदायपरंपरागतस्समीचीनो गीतार्थः, न पुनः कुदृष्टिभिरुन्नीतः, स चैष स्वयोगमहिमचुलकितपरमपुरुषविभूतियुगलभगवन्नाथमुनिनियोगानुवर्तिश्रीमद्राममिश्रसकाशाद् बहुशास्त्रविद्भिरस्माभिर्बहुशः श्रुतस्य भगवद्गीतार्थप्रपञ्चस्य संग्रह इति मुमुक्षुभिस्संग्राह्यतम इति भावः ॥32॥

मूलम्

एकान्तात्यन्तदास्यैकरतिः तत्पदमाप्नुयात् ।
तत्प्रधानमिदं शास्त्रमिति गीतार्थसङ्ग्रहः ॥32॥

वेङ्कटनाथार्यः

सारं फल्गुन-सारथीय-वचसां श्री-यामुनेयोद्धृतं
विस्पष्टैर् इति वेङ्कटेश्वर-कविर् व्याचष्ट भाष्याक्षरैः ।
यद्-वादेषु कु-दृष्टि-बाह्य-कुहना+++(=दम्भे-कृत-मौनादि)+++–कोलाहलास्कन्दिभिः
जङ्घालैर्+++(←जङ्घा)+++ जय-घोषणा-घण-घणैर् विद्राण-निद्रा दिशः ॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीगीतार्थसंग्रहरक्षा संपूर्णा ॥

विगाहे यामुनं तीर्थं
साधु-बृन्दा-वने स्थितम् ।
निरस्त-जिह्म-ग-स्पर्शे
यत्र कृष्णः कृतादरः ॥

॥ श्रीमद्-यामुन-मुनये नमः ॥
॥ श्रीमते रामानुजाय नमः ॥

४२-इञ्जिमेडु-यतिः - ३२

इप्पडिप्पट्ट अधिकारिक्कुत् तऩ् मनोरथप्पडिक्के विघ्नमिल्लामल् फलसिद्धि उण्डागुम् ऎऩ्गिऱार्।
एकान्तात्यन्तदास्यैकरतिस्तत्पदमाप्नुयात् । तत्प्रधानमिदं शास्त्रमिति गीतार्थसङ्ग्रहः ॥ ३२ ॥
एकान्त - देवतान्तरप्रयोजनान्तरसम्बन्धमऱ्‌ऱ, अत्यन्त - अऴिविल्लाद, दास्य - दासकृत्यमाऩ कैङ्कर्यत्तिले, एक - मुख्यमाऩ, रतिः - प्रीतियैयुडैय ज्ञानियाऩवऩ्, तत् - प्रसिद्धमाऩ, पदम् - प्राप्यमाऩ भगवत्स्वरूपत्तै, (तत्पदम् - भगवत्स्थानमागिऱ वैकुण्ठत्तै ऎऩ्ऩवुमाम्), आप्नुयात् - विघ्नमऩ्ऱियिल् अडैवाऩ्। इप्पडिये “प्रवृत्तिकालादारभ्य आत्मलाभावसानिकम् । यत्रावकाशो विघ्नानां वर्तते न कदाचन ॥” ऎऩ्ऱु पौष्करसंहितैयिल्, परमैकान्तिकळुक्कुप् भगवत्परिचर्यैयिल् विघ्नमिल्लामै सॊल्लप्पट्टदिऱे। “श्रूयते किल गोविन्दे भक्तिमुद्वहतां नृणाम् । संसारन्यूनताभीतास्त्रिदशाः परिपन्थिनः ॥” ऎऩ्ऱुम्, “सत्यं शतेन विघ्नानां सहस्रेण तथा तपः । विघ्नायुतेन गोविन्दे नृणां भक्तिर्निवार्यते ॥” ऎऩ्ऱुम्, भगवद्भक्तिक्कु विघ्नबाहुल्यम् सॊल्लियिरुक्क, इङ्गुप् भक्तिक्कु निर्विध्नमाय्प् फलजनकत्वम् सॊऩ्ऩदु कूडुमो? ऎऩ्ऩिल् - मुऩ्सॊऩ्ऩ पौष्करादिवचनङ्गळिल् परमैकान्तियिऩ् भक्तिक्कु विघ्नमिल्लामै सॊल्लुगैयाले, इवै परभक्तियै विषयमागक् कॊण्डवै। विघ्नबाहुल्यत्तैच् चॊल्लुगिऱ वचनङ्गळो, परभक्तिक्कु मुन्दिऩ अवस्थैयै आश्रयित्तिरुक्कुम् भक्तियै विषयमागक् कॊण्डवै ऎऩ्गिऱबडियाल् विरोधमिल्लै।
भूमविद्यैयिऱ्‌ पोल इन्दक् गीताशास्त्रत्तिलुम् ऐश्वर्यादिरूपमाऩ अल्पफलङ्गळैच् चॊऩ्ऩदु परमपुरुषप्राप्तिरूपमाऩ मुख्यपुरुषार्थत्तिऱ्‌कु उत्कर्षम् सॊल्लुगैक्कागवुम्, “प्रत्ययार्थं च मोक्षस्य सिद्धयः सम्प्रकीर्तिताः” ऎऩ्ऱु श्रीसात्वतत्तिल् सॊल्लियिरुक्किऱबडि सामान्यजनङ्गळुक्कु मोक्षत्तिल् नम्बिक्कैयै उण्डुबण्णुगैक्कागवुमाम्। आगैयाल्, इन्द शास्त्रम् परमपुरुषार्थत्तैये मुख्यमाग उडैत्तायिरुक्किऱदु ऎऩ्गिऱार्।
तत्प्रधानमिदं शास्त्रम् - इदम् - इन्द, शास्त्रम् - सर्वनियमनकारियाऩ गीताशास्त्रम्, तत्प्रधानम् - परमपुरुषार्थत्तै अडैविप्पिक्कक् कूडिय भक्तिप्रपत्तिकळै प्रधानप्रतिपाद्यमाग उडैयदु। (तत् - ऎऩ्ऱ शब्दत्ताल्, प्राप्तावाऩ परमैकान्तियैयुम्, अल्लदु प्राप्यमाऩ परब्रह्मत्तैयुम् सॊल्ललाम्।)
इऩि, मतान्तरग्रन्थङ्गळ् भगवाऩुडैय अभिप्रायत्तुक्कु विरुद्धङ्गळ् ऎऩ्बदै सूचिप्पित्तुक्कॊण्डु, इदुवरैयिल् सॊल्लप्पट्ट सङ्ग्रहरीतियाले शिष्यर्गळुक्कु यथावस्थितसमस्तगीतार्थतात्पर्यत्तिऩ् अवगाहनत्तिऩ् पॊरुट्टु निगमनम् पण्णुगिऱार्।
इति गीतार्थसङ्ग्रहः - इति - इव्वाऱाग, (अदावदु मतान्तरस्थर्गळाल् तङ्गळ् बुद्धियिऩाल् उत्प्रेक्षितमाऩबडि यऩ्ऱिक्के, नम्माल् सॊल्लप्पट्ट इम्मादिरियागवे ऎऩ्ऱु तात्पर्यम्) गीतार्थसङ्ग्रहः - गीताशास्त्रार्थत्तिऩ् सङ्ग्रहमाऩदु; (मुमुक्षुभिः सङ्ग्राह्यः - मुमुक्षुक्कळाल् सङ्ग्रहिक्कत् तगुन्ददु। इदु तॊक्कु निऱ्‌किऩ्ऱदु।) परमपुरुषऩुडैय विभूतिद्वयङ्गळैयुम् स्वयोगमाहात्म्यत्ताले साक्षात्करित्त नाथमुनिकळुडैय नियोगानुवर्त्तियाऩ राममिश्ररुडैय सकाशत्तिल् बहुशास्त्रङ्गळै अऱिन्द नम्माल् अनेकम् तडवै श्रुतमाऩ गीतार्थत्तिऩ् इन्द समुदायसङ्ग्रहमाऩदु मुमुक्षुक्कळुक्कु सङ्ग्राह्यतमम् ऎऩ्ऱु तात्पर्यम्। (३२)
इञ्जिमेडुनिवासेन रङ्गनाथाख्यसूरिणा । प्रकाशिकेयं गीतार्थसङ्ग्रहस्य प्रपञ्चिता ॥
शुभम् ॥