विश्वास-बोधः

परिचयः

अधस् सूचितं युष्मासु केषाञ्चित् स्याद् रुचय इति, गुणदोषसूचना आयान्त्व् इति च प्रसारयामि -

पूर्वं वेदान्ते तटस्थोऽपि, पारिवारिकक्षोभैर् विचालित आत्मानम् पुनर् अवाप्तुं भगवद्गीताम् अपाठिषम् । साध्वाश्रितो ऽयम् उपायो यतो ऽनेनेष्टं समाधानम् इव लब्धम्। तत्र भविष्यपठनादौ स्वप्रयोजनाय स्वीयो बोधसारः कश्चन लिखितो ऽत्र । अत्र पुरुषोत्तमो “देवग्राम”-शब्देन निर्दिष्टः, स्वानुमतं प्लैटव-यावन-देवादि-तत्त्व-दर्शनम् आश्रितम्।

प्रत्येकस्य श्लोकस्य स्वप्रतिपत्ति-स्मारक-प्रस्तुतिर् अपि रक्षिता, यथा ऽत्र

०२ साङ्ख्य-योगः

  • आत्मा ऽविनाशी। देह-नाशो ध्रुवः। स्व-धर्मानुसरणे कीर्तिः स्वर्गश्च।
  • +++(त्रैगुण्यात्मक-)+++प्रकृति-+++(आत्माख्य-)+++पुरुष-विवेकं साधय। क्षुद्र-फलेषु सक्तिं त्यक्त्वा ऽऽत्म-तत्त्वे स्थिरो भव - कर्मसु विभ्रम-नैयून्यं तेन सेत्स्यति।
  • (आत्म-)योग-स्थस् तु कर्माणि कुरु। आत्मनः प्रकृति-भिन्नस्य कर्म-फल-सङ्गाभावात् संसारान् मुक्तिः। शुभाशुभयोर् नाभिनन्दति न द्वेष्टि।
  • विषयेभ्यो रागद्वेषवन्ति +इन्द्रियाणि संहरेद् आत्म-निष्ठः। अन्यथा - विषय-ध्यानम् → सङ्गः → कामः → क्रोधः → सम्मोहः → स्मृतिविभ्रमः → बुद्धिनाशः। राग-द्वेष-वियुक्तैस् त्व् इन्द्रियैर् विषयाञ् चरन् प्रसादम् आप्नोति।

०३ कर्म-योगः

  • कर्मानिवार्यम् - गुणैः कार्यन्ते, ब्रह्मचेतसा वा। लोकयात्रायाय् अनिवार्यम्। लोकप्रेरणार्थं च।
  • इन्द्रिय-नियमनेन कर्त्रन्तरप्रज्ञया च यज्ञार्थं हि कर्मारम्भः। यज्ञे लोकसङ्ग्रहो ऽन्तर्भवति।
    • राग-द्वेषौ, काम-क्रोधौ च प्रकृत्या व्यवस्थितौ। तद्वशं परिहार्य स्वधर्मे वर्तेत। इन्द्रियाणि → मनो → बुद्धिर् → आत्मा +इति परत्वशृङ्ग्खला प्रयोज्या।
  • अकृत्स्नवित्सु भ्रमं न जनेयेत्।

०४ ज्ञान-योगः

  • नानारूपधृग् भगवान् काले काले ज्ञानम् एतद् आविर्-भावयति भक्तेभ्यः। तत्त्वदर्शिनोऽपि परिप्रश्नेन सेवया च बोधयन्ति। योगिनश् च स्वयं विन्दन्ति। अश्रद्दधानस् तु नास्मिन् लोके न च परे जयतितमाम्।
  • कर्म-फल-स्वामित्वं त्यजेत्। कर्म-वैफल्य-सम्भावना-प्रज्ञया वर्तेत। सर्वं ब्रह्ममयम् इति विदित्वा कुर्यात्।
  • नानाविधयज्ञाः - द्रव्ययज्ञः, प्राणयज्ञः, इन्द्रिययज्ञः, स्वाध्याय-यज्ञः … - ब्रह्ममयास् सन्तो मोक्षदाः। तेऽपि कर्मजाः, किञ्च ज्ञानयुक्तास् स्युः।

०५ कर्म-संन्यास-योगः

  • साङ्ख्यं योगश् च न पृथक्।
  • कर्तृत्वं, फल-सङ्गं च त्यजेत् - तेन कर्माणि न करोमीति भावयेत्। एवं सर्वत्र लोकं गुण-व्यवस्था-मयं समं पश्येत्।
  • इन्द्रिय-निग्रह–प्राणायामादिभिर् ध्यानम्, देव-ज्ञानं च मोक्षदम्।

०६ आत्मसंयम-योगः

  • प्रारम्भे प्रयासपूर्वकं फलत्यागादि कार्यम्। पश्चात् स्वाभाविकम्। योगासक्त-प्रकृत्यंशः फलासक्त-प्रकृत्यंशं जयेत्।
  • कर्म-फल-सङ्ग-त्यागेन योगे बद्धः, ब्रह्म-व्याप्ति-प्रज्ञः, सर्वत्र लोकम् आत्मसमेतं समं पश्येत्।
  • ध्यानादि-यज्ञैः सततम् एकान्ते शुचौ देशे स्थिर-मृद्व्-आसने योगं सम्पादयेत्। युक्ताहार-विहारस् स्यात्, युक्त-चेष्टश् च। काम-सङ्कल्पेभ्यो मनः सेन्द्रियं नियम्य +आत्मन्य् अवदध्यात्। तत्रापि देवभक्तिर् उत्तमोपायः।
    • एवम् अभ्यासेन वैराग्येण +उपायतः च मनो-योग-ग्रहणम्।
    • अयोगसिद्धाव् अपि न नश्यति - प्रेत्य सद्गतिं लभते, योगम् अनुवर्तयति।

०७ ज्ञान-विज्ञान-योगः

  • प्रकृति-भेदाः
    • ५ भूताः (पृथिव्य्-अप्-तेजो-वाय्व्-आकाशाः) + मनो बुद्धिः अहङ्कारः
    • जीवः (चैतन्यम्)
  • अव्यक्तो (न देव-व्यक्तिः), देवग्रामः सर्वस्मिन् व्याप्तः। देवमाया-च्छान्नो ऽपि तेजो-बल-बुद्ध्याद्य्-उत्कृष्ट-भाव-रूपैर् विशिष्य भाति। सौहार्दपूर्णो ऽयं देवग्रामो भक्तिम् अनुसृत्य फलं प्रददाति।
  • प्राकृतः त्रिगुणात्मको लोको देव-मायायाश् चमत्कारः। इच्छा-द्वेषात्मको मोह आवृणोति लोकम्। अध्यात्मकर्म, अधिभूतम्, चेतसि+++(=अधिदैवम्)+++, +अधियज्ञं च देवग्रामम् प्रपद्य तां तरितुं शक्यम्।

०८ अक्षर-पर-ब्रह्म-योगः

  • ब्रह्म नामाव्ययं सर्वं प्रकृति-पुरुषात्मकम्।
  • भूतसङ्घातानि शरीराणि वर्तन्ते। अधिभूतम् क्षरो भावः - सूक्ष्मशरीरम् + कारणशरीरम्।
  • अधिदैवम् साक्षि-चेतो अव्यक्तः पुरुषो देवग्रामेण व्याप्तः।
  • अक्षरस्, सनातनः, परः पुरुषश् च देवग्रामः। स ह्य् अधियज्ञः।
  • मृत्युकाले यं स्मरति, तम् एवैति भावम्। तेन तदा भ्रुवोर् मध्ये प्राणम् आवेश्य, ओंकारं व्याहरन्, देवग्रामं यो ऽनुस्मरेत्, स सर्वस्मिल्ँ लयमाप्नोति, न पुनर् जायते। मृत्यव उत्तरायणे शुक्लपक्षे दिनं प्रशस्तम् - योगस् तु सदाचरणीयः।
  • सततं यो देवग्रामं स्मरति, तस्य स सुलभः।

०९ राज-विद्या

  • जगद् देवग्रामेण ततम्, तस्यांशे वर्तते। तत एव जायन्ते, तत्रैव लीयन्ते कल्पान्ते।
  • कर्म-बन्ध-मोक्षार्थं देवग्राम-प्रतीकानि पूज्यानि, फलपुष्पादिभिः। ज्ञान-यज्ञेयन +एकत्वेन बहुत्वेन चापि देवग्रामः पूज्यः। देवग्रामसमावेशं लभन्ते, धर्मात्मानश् च भवन्ति।
  • देवग्रामो हि मन्त्रेषु भूतेषु क्रियासु च व्याप्तः।
  • सत्कृतिभ्यः स्वर्गे पुण्यक्षयं यावद् अवकाशः। किञ्च ये देवव्यक्तिम् एव सेवमाना अपि, न तत्त्वतो देवग्रामं न विदुः, त एवं च्यवन्ति।

१० विभूति-विस्तार-योगः

  • अनादिर् देवग्रामः, लोकमहेश्वरश् च। भगवद्ग्रामात् सर्वं प्रवर्तते। एवं सभावं ध्यायेत्, तेन बुद्धि-योगः, देवग्राम-समावेशः।
  • सर्वास्व् अपि जातिषु +उत्कृट-व्यक्तौ देवग्राम-विभूतिः प्रतिभातितमाम्।

११ विश्वरूपदर्शनम्

  • देवग्रामस्यैश्वरो ऽव्ययो भावः शत-सहस्रशो रूपैर् दर्श्यते।

१२ भक्तियोगः

  • देवग्रामे मन आवेश्य योग उत्तमः। अव्यक्तोपासनामार्गेणापि शक्यं - किञ्च क्लेशो ऽधिकतरः।
  • मनो बुद्धिं च देवग्रामे समावेशयेत्। तद्-अशक्ताव् अभ्यासेन लभेत। तद्-अशक्तौ देव-कर्म-परमो धानादिभिर् भवेत्। तद्-अशक्तौ सर्व-कर्म-फल-त्यागम् अभ्यस्येत्। तदर्थं चाद्वेषादिलक्षणं शान्तिम् अभ्यस्येत्। एवं सोपानक्रमेण +आनन्दाधिक्यम् प्राप्नुवन् देवग्रामसमावेशं लभेत।

१३ क्षेत्र-क्षेत्रज्ञ-योगः

  • क्षेत्रम् = शरीरम् = अव्यक्त्यम् (प्रकृतिः), ५ भूतानि, अहङ्कारः, मनः, बुद्धिः, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, ५ ज्ञानेन्द्रियविषयाः

  • क्षेत्र-विकाराः = इच्छा, द्वेषः, सुखम्, दुःखम्, स्थूल-देहस्थितिः, चेतना, धृतिः।

  • क्षेत्रज्ञः (अग्रे वक्ष्यमाणः) पुरुष इव।

  • ज्ञानम् =

    • अमानित्वम्, अदम्भित्वम्, क्षान्तिः, आर्जवम्, पुत्रदारादिषु जनसंसदि च अनभिष्वङ्गः, शौचम्, स्थैर्यम्
    • तत्त्व-ज्ञानार्थ-दर्शनम्, आचार्योपासनम्,
    • इन्द्रियार्थेषु वैराग्यम्, देवग्रामे भक्तिः, इष्टानिष्टयोः समचित्तत्वम्
  • ज्ञेयम् = देवग्रामः परं ब्रह्म विश्वरूपं सर्वव्यापि। तन् न सत्, न चासत् +++(यथा यावनाः - hyperessential, beyond being.)+++, अविभक्तम् अपि विभक्तम् इव। गुणभोक्तृ।

  • प्रकृति-पुरुषाव् अनादी।

  • प्रकृतिः - कार्य-कारण-कर्तृत्वे हेतुः, गुणमयः।

  • पुरुषः - सुख-दुःख-भोक्ता, गुण-भोक्ता। गुण-सङ्गाद् एव तस्य पुनर्जन्म। स उपद्रष्टा।

  • क्षेत्रं ज्ञानं ज्ञेयं च विज्ञाय देवग्राम-भावम् आप्नोति। प्रकृति-पुरुषयोः साधु ज्ञानं प्रकृति-मोक्षदम्।

  • ध्यानेन, साङ्ख्येन, कर्मयोगेन चैतत् साध्यम्। तदर्थम् तत्त्व-दर्शिनाम् उपदेश उपकुर्यात्।

    • सर्वत्र वर्तमानं देवग्रामम् पश्येत्। प्रकृतिं कर्त्रीं विजानीयात्, आत्मानं चाकर्तारम्, अनुपलिप्तम्, प्रकाशकम्।

१४ गुण-त्रय-विभाग-योगः

  • ब्रह्म योनिः, देवग्रामो बीजप्रदः, ततः सृष्टिः।
  • देहे गुणाः पुरुषं निबध्नन्ति
    • सत्त्वं प्रकाशकं सुख-ज्ञान-सङ्गेन
    • रजो रागात्मकं तृष्णा-समुद्भवं कर्म-सङ्गेन
    • तमो ऽज्ञानजं प्रमादालस्य-निद्राभिः
  • क्वचित् कश्चन गुणो ऽन्ये ऽभिभवति।
    • सत्त्वम् - यत्र सर्वेन्द्रियेषु ज्ञानप्रकाशः।
    • रजः- यत्र कर्मसु प्रवृत्तिर्, लोभः, स्पृहा।
    • तमः - यत्र प्रमादो मोहः।
  • मृत्युकाले विवृद्ध-गुणानुसारेणाग्रिमं जन्म लभते।
  • सात्त्विक-कर्मणो निर्मलम् फलम्, राजसिकस्य +++(सुखमिश्रं)+++ दुःखम्, अज्ञानं तमसः।
  • गुणग्रामं कर्तारं विजानीयात् - तेन देवग्राम-भावः, गुणातीतः सः। गुण-प्रेरितानि फलानि न द्विषेत्, न च काङ्क्षेत् - साक्षिभावेन पश्येत्। दुःख-सुखादि-द्वन्द्वेषु समः स्यात्।
    • एतद् भक्तियोगेन सिध्यति।

१५ पुरुषोत्तम-योगगः

  • कर्मानुबन्ध-वृक्षमूलान्य् असङ्ग-शस्त्रेण, तन्-मूलस्थं देवग्रामं परिमार्ग्य च्छेत्तुं शक्यः।
  • देवग्रामस्यैवांशो +++(विभु साक्षि चेतः)+++ जीव-भूत इन्द्रियाणि मनश् च कर्षति विषयान् प्रति। स्थूलशरीरात् स्थूलशरीरम् प्रति सूक्ष्मशरीरम् अप्य् एवं कर्षति। प्राज्ञैर् योगिभिश् चायं जीवो दृश्य एवम्।
    • अयं हि जीवः कूटस्थो ऽक्षरः पुरुषः, साक्षि-चेत इति।
    • सूक्ष्म-शरीरं + कारण-शरीरम् +++(कर्म-संस्कार + अ-ज्ञानम्)+++ तु क्षर इति।
  • देवग्रामस्य तेजः सोमसूर्याग्निसङ्काशः। स सर्वम् जगद् भरति चालयति च - वैश्वानररूपेण शरीराण्य् अपि। स वेदवेद्यः, वेदान्तकृच्च। स परमात्मा, उत्तमः पुरुषः, पुरुषोत्तम इत्य् अपि। स जीवचेतसो ऽपि भिन्नः (ननु यवना henads beyond being इत्य् आहुः)।
  • एवं ज्ञात्वा देवग्रामं साधु भजति।

१६ दैवासुर-सम्पद्-विभाग-योगः

  • मोक्षानुकूलां दैवीं सम्पदम् अभिजातस्य गुणाः
    • स्वाध्यायः योग-व्यवस्थितिः तेजः
    • सत्यं सत्त्व-संशुद्धिर्
    • यज्ञो
    • दया नातिमानितेत्यादयः।
  • बन्धानुकूलाम् आसुरीं सम्पदम् अभिजातस्य
    • विद्यमाना गुणाः - दम्भः, क्रोधः, अज्ञानम्, काम-प्राधान्यम्, असद्-अर्थ-सञ्चयः, जगत्य् अहितता, स्वैश्वर्य-प्रतीतिः।
    • अविद्यमाना गुणाः - आचारः सत्यम् धर्मज्ञानम्
    • जगद्-दर्शनम् - अनीश्वरम्, काम-हैतुकम्
    • गतिः - आसुरि-योनिषु जन्म।
  • +++(अधर्म्यम् अज्ञानपूर्वकं)+++ कामं क्रोधं लोभं+++(=कामप्राप्ताव् अप्य् असन्तुष्टिम्)+++ च त्यजेत्। शास्त्रम् अनुसरेत्।

१७ श्रद्धा-त्रय-विभाग-योगः

  • सत्त्व-रजस्-तमोऽनुसारेण त्रैविध्यानि
    • श्रद्धायाम्
      • सात्त्विकम् - यथाविहितं देव-यजनम्
      • राजसम् - यक्ष-रक्षो यजनम्
      • तामसम् - भूतपिशाच-पूजा।
    • आहारे
      • सात्त्विकम् - आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः
      • राजसम् - दुःख-शोकामय-प्रदाः
      • तामसम् - अमेध्यम् पूत्यादिकम्।
    • यज्ञे
      • सात्त्विकम् - अपहलाकाङ्क्षो विधिदृष्टः
      • राजसम् - सफलकाङ्क्षो दाम्भिकः
      • तामसम् - मन्त्रहीनो ऽदक्षिणः विधिहीनम् अश्रद्धः
    • तपसि
      • सात्त्विकम् - युक्तैर् अफलाकाङ्क्षम्
      • राजसम् - सत्कार-मान-पूजार्थं चलम्
      • स्वपीडनं परस्योत्सादनार्थम्
    • दाने
      • सात्त्विकम् - अनुपकारिणे देशे काले पात्रे च दत्तम्
      • राजसम् - प्रत्युपकारार्थं परिक्लिष्टं सफलकाङ्क्षम्
      • तामसम् - अदेशकाले ऽपात्रविवेकम् असत्-कृतम्
  • तपः
    • शारीरं - देवद्विजादिपूजा शौचम् अहिंसा ब्रह्मचर्यम्
    • वाङ्मयम् - स्वाध्यायः, सत्यम्, अनुद्वेगकरं प्रियहितं वाक्यम्
    • मानसम् - मनःप्रसादः, मौनम्, भाव-संशुद्धिः
  • ॐ तत् सत्” इति ब्रह्मनिर्देशः। ओम् इति कर्मारम्भ उच्यते। तद् इत्य् उदाहृत्य फलाभिसंधिं विना कर्माणि क्रियन्ते। सद् इति सद्भाव-सत्कर्म-द्योतकः प्रयुज्यते च।
  • अश्रद्धया कृतं यज्ञादिकर्म निष्फलम्।

१८ मोक्ष-संन्यास-योगः

  • कर्म-फलम् अनिष्टम् इष्टं मिश्रं चात्यागिनाम् भवति।

  • कर्म-सिद्धि-कारणानि - अधिष्ठानम्, कर्ता, करणम्, चेष्टाः, दैवम्

    • अत्र कर्ता न स्वयं जनः। अनहङ्कृतो लोकान् हत्वाऽपि न स्वयं हन्ति।
  • सत्त्व-रजस्-तमोऽनुसारेण त्रैविध्यानि

    • ज्ञानम्
      • सात्त्विकम् - सर्वभूतेष्व् अव्ययस्येक्षणम्
      • राजसम् - पृथक्त्वेनेक्षणम्
      • तामसम् - क्षुद्रकार्ये सक्तम् अल्पम्
    • कर्म
      • सात्त्विकम् - नियतं निर्ममं स-फल-त्यागम्
      • राजसम् - स-फल-काङ्क्षं बहुलायासं साहङ्कारं
      • तामसम् - मोहात् क्षय-बन्धादिकम् अनपेक्ष्यारब्धम्
    • कर्ता
      • सात्त्विकः - सोत्साहोऽपि मुक्तसङ्गः सिसिद्ध्य्-असिद्ध्योर् निर्विकारः
      • राजसः - कर्म-फल-प्रेप्सुर् हर्ष-शोकान्वितः
      • तामसः - विषादी दीर्घसूत्री स्तब्धः शठः
    • बुद्धिः
      • सात्त्विकी - बन्धमोक्षौ, कार्याकर्ये वेत्ति
      • राजसी - धर्माधर्मौ, कार्याकर्ये ऽयथावद् वेत्ति
      • तामसी - धर्माधर्मौ, सर्वार्थान् विपरीतं वेत्ति
    • धृतिः
      • सात्त्विकी - यया मनः-प्राणेन्द्रिय-क्रियाः योगेन धारयते
      • राजसी - यया फलाकाङ्क्षी धारयते
      • तामसी - यया विषादं मदं स्वप्नं न मुञ्चति
    • सुखम्
      • सात्त्विकम् - आत्म-बुद्धि-प्रसादजम्, अग्रे विषम् परिणामे ऽमृतोपमम्
      • राजसम् - विषयेन्द्रिय-संयोगाद् अग्र एवामृतोपमम्
      • तामसम् - निद्रालस्य-प्रमादोत्थम्
  • स्वभावजानि कर्माणि वर्णेषु

    • ब्राह्मणस्य - तपः शौचं ज्ञानम्
    • क्षत्रियस्य - शौर्यं दानम् ईश्वरभावः
    • वैश्यस्य - कृषि-गौरक्ष्य-वाणिज्यम्
    • शूद्रस्य - परिचर्या
  • स्वभाव-नियतं विगुणम् अपि कर्म देवग्राम-प्रसादकः। स्वाभाविक-कर्म-त्यागे यत्नो विफलो भवति - प्रकृतिर् हृदयस्थ ईश्वरो वा नियोक्ष्यति जनम् अवशम्। तस्य शरणं गच्छेत्।

  • सात्त्विक-त्यागो नाम सर्व-कर्म-फलानां कर्तृत्व-ममतादेः कौशलाकौशल-प्रेरित-राग-द्वेषस्य च त्यागः। किञ्च नियत-कर्माणि यज्ञ-दान-तपस्-आदीन्य् अपि न त्याज्यानि।

    • काय-क्लेश-भयात् त्यागो राजसः।
  • सन्न्यासो नाम काम्य-कर्मणाम् अथवा ऽनियत-कर्मणां त्यागः, अनारम्भः। अथ बुद्धियोगेन सर्वेषां कर्मणां देवग्रामे सन्न्यासः।

  • एवं सन्न्यासेन निष्कर्म्यसिद्धिः। ततो ब्रह्मप्राप्त्या मार्गः - आत्मानं नियम्य, विषयांस् त्यक्त्वा, विविक्तसेवी युक्तः स्यात्। ततो देवभक्तिं लभते, तं ज्ञात्वा, तस्मिन् समाविशति - सर्वाणि कर्माणि कुर्वाणोऽपि ।

  • देवग्रामं शरणं गत्वा सत्-समावेशे यतेत।

  • नैतत् त्व् अभक्ताय वाच्यम्। मद्भक्तेभ्यस् तु वाच्यम्। अस्य गीतोपदेशस्याध्ययनं ज्ञान-यज्ञेन देवग्राम-पूजायै कल्पते। श्रवणेनापि महत् फलम्।

समावेश-प्रशंसा

समावेशे

मनः संयम्य मच्-चित्तो
युक्त आसीत मत्परः॥

मच्-चित्ता मद्-गत-प्राणा
बोधयन्तः परस्परम्।
कथयन्तश् च मां नित्यं
तुष्यन्ति च रमन्ति च॥10.9॥
… भक्त्या माम् अभिजानाति
यावान् यश् चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा
विशते तद्-अनन्तरम्॥18.55॥
… मच्-चित्तः सर्व-दुर्गाणि
मत्-प्रसादात् तरिष्यसि