परिचयः
अधस् सूचितं युष्मासु केषाञ्चित् स्याद् रुचय इति, गुणदोषसूचना आयान्त्व् इति च प्रसारयामि -
पूर्वं वेदान्ते तटस्थोऽपि, पारिवारिकक्षोभैर् विचालित आत्मानम् पुनर् अवाप्तुं भगवद्गीताम् अपाठिषम् । साध्वाश्रितो ऽयम् उपायो यतो ऽनेनेष्टं समाधानम् इव लब्धम्। तत्र भविष्यपठनादौ स्वप्रयोजनाय स्वीयो बोधसारः कश्चन लिखितो ऽत्र । अत्र पुरुषोत्तमो “देवग्राम”-शब्देन निर्दिष्टः, स्वानुमतं प्लैटव-यावन-देवादि-तत्त्व-दर्शनम् आश्रितम्।
प्रत्येकस्य श्लोकस्य स्वप्रतिपत्ति-स्मारक-प्रस्तुतिर् अपि रक्षिता, यथा ऽत्र।
०२ साङ्ख्य-योगः
- आत्मा ऽविनाशी। देह-नाशो ध्रुवः। स्व-धर्मानुसरणे कीर्तिः स्वर्गश्च।
- +++(त्रैगुण्यात्मक-)+++प्रकृति-+++(आत्माख्य-)+++पुरुष-विवेकं साधय। क्षुद्र-फलेषु सक्तिं त्यक्त्वा ऽऽत्म-तत्त्वे स्थिरो भव - कर्मसु विभ्रम-नैयून्यं तेन सेत्स्यति।
- (आत्म-)योग-स्थस् तु कर्माणि कुरु। आत्मनः प्रकृति-भिन्नस्य कर्म-फल-सङ्गाभावात् संसारान् मुक्तिः। शुभाशुभयोर् नाभिनन्दति न द्वेष्टि।
- विषयेभ्यो रागद्वेषवन्ति +इन्द्रियाणि संहरेद् आत्म-निष्ठः। अन्यथा - विषय-ध्यानम् → सङ्गः → कामः → क्रोधः → सम्मोहः → स्मृतिविभ्रमः → बुद्धिनाशः। राग-द्वेष-वियुक्तैस् त्व् इन्द्रियैर् विषयाञ् चरन् प्रसादम् आप्नोति।
०३ कर्म-योगः
- कर्मानिवार्यम् - गुणैः कार्यन्ते, ब्रह्मचेतसा वा। लोकयात्रायाय् अनिवार्यम्। लोकप्रेरणार्थं च।
- इन्द्रिय-नियमनेन कर्त्रन्तरप्रज्ञया च यज्ञार्थं हि कर्मारम्भः। यज्ञे लोकसङ्ग्रहो ऽन्तर्भवति।
- राग-द्वेषौ, काम-क्रोधौ च प्रकृत्या व्यवस्थितौ। तद्वशं परिहार्य स्वधर्मे वर्तेत। इन्द्रियाणि → मनो → बुद्धिर् → आत्मा +इति परत्वशृङ्ग्खला प्रयोज्या।
- अकृत्स्नवित्सु भ्रमं न जनेयेत्।
०४ ज्ञान-योगः
- नानारूपधृग् भगवान् काले काले ज्ञानम् एतद् आविर्-भावयति भक्तेभ्यः। तत्त्वदर्शिनोऽपि परिप्रश्नेन सेवया च बोधयन्ति। योगिनश् च स्वयं विन्दन्ति। अश्रद्दधानस् तु नास्मिन् लोके न च परे जयतितमाम्।
- कर्म-फल-स्वामित्वं त्यजेत्। कर्म-वैफल्य-सम्भावना-प्रज्ञया वर्तेत। सर्वं ब्रह्ममयम् इति विदित्वा कुर्यात्।
- नानाविधयज्ञाः - द्रव्ययज्ञः, प्राणयज्ञः, इन्द्रिययज्ञः, स्वाध्याय-यज्ञः … - ब्रह्ममयास् सन्तो मोक्षदाः। तेऽपि कर्मजाः, किञ्च ज्ञानयुक्तास् स्युः।
०५ कर्म-संन्यास-योगः
- साङ्ख्यं योगश् च न पृथक्।
- कर्तृत्वं, फल-सङ्गं च त्यजेत् - तेन कर्माणि न करोमीति भावयेत्। एवं सर्वत्र लोकं गुण-व्यवस्था-मयं समं पश्येत्।
- इन्द्रिय-निग्रह–प्राणायामादिभिर् ध्यानम्, देव-ज्ञानं च मोक्षदम्।
०६ आत्मसंयम-योगः
- प्रारम्भे प्रयासपूर्वकं फलत्यागादि कार्यम्। पश्चात् स्वाभाविकम्। योगासक्त-प्रकृत्यंशः फलासक्त-प्रकृत्यंशं जयेत्।
- कर्म-फल-सङ्ग-त्यागेन योगे बद्धः, ब्रह्म-व्याप्ति-प्रज्ञः, सर्वत्र लोकम् आत्मसमेतं समं पश्येत्।
- ध्यानादि-यज्ञैः सततम् एकान्ते शुचौ देशे स्थिर-मृद्व्-आसने योगं सम्पादयेत्। युक्ताहार-विहारस् स्यात्, युक्त-चेष्टश् च। काम-सङ्कल्पेभ्यो मनः सेन्द्रियं नियम्य +आत्मन्य् अवदध्यात्। तत्रापि देवभक्तिर् उत्तमोपायः।
- एवम् अभ्यासेन वैराग्येण +उपायतः च मनो-योग-ग्रहणम्।
- अयोगसिद्धाव् अपि न नश्यति - प्रेत्य सद्गतिं लभते, योगम् अनुवर्तयति।
०७ ज्ञान-विज्ञान-योगः
- प्रकृति-भेदाः
- ५ भूताः (पृथिव्य्-अप्-तेजो-वाय्व्-आकाशाः) + मनो बुद्धिः अहङ्कारः
- जीवः (चैतन्यम्)
- अव्यक्तो (न देव-व्यक्तिः), देवग्रामः सर्वस्मिन् व्याप्तः। देवमाया-च्छान्नो ऽपि तेजो-बल-बुद्ध्याद्य्-उत्कृष्ट-भाव-रूपैर् विशिष्य भाति। सौहार्दपूर्णो ऽयं देवग्रामो भक्तिम् अनुसृत्य फलं प्रददाति।
- प्राकृतः त्रिगुणात्मको लोको देव-मायायाश् चमत्कारः। इच्छा-द्वेषात्मको मोह आवृणोति लोकम्। अध्यात्मकर्म, अधिभूतम्, चेतसि+++(=अधिदैवम्)+++, +अधियज्ञं च देवग्रामम् प्रपद्य तां तरितुं शक्यम्।
०८ अक्षर-पर-ब्रह्म-योगः
- ब्रह्म नामाव्ययं सर्वं प्रकृति-पुरुषात्मकम्।
- भूतसङ्घातानि शरीराणि वर्तन्ते। अधिभूतम् क्षरो भावः - सूक्ष्मशरीरम् + कारणशरीरम्।
- अधिदैवम् साक्षि-चेतो अव्यक्तः पुरुषो देवग्रामेण व्याप्तः।
- अक्षरस्, सनातनः, परः पुरुषश् च देवग्रामः। स ह्य् अधियज्ञः।
- मृत्युकाले यं स्मरति, तम् एवैति भावम्। तेन तदा भ्रुवोर् मध्ये प्राणम् आवेश्य, ओंकारं व्याहरन्, देवग्रामं यो ऽनुस्मरेत्, स सर्वस्मिल्ँ लयमाप्नोति, न पुनर् जायते। मृत्यव उत्तरायणे शुक्लपक्षे दिनं प्रशस्तम् - योगस् तु सदाचरणीयः।
- सततं यो देवग्रामं स्मरति, तस्य स सुलभः।
०९ राज-विद्या
- जगद् देवग्रामेण ततम्, तस्यांशे वर्तते। तत एव जायन्ते, तत्रैव लीयन्ते कल्पान्ते।
- कर्म-बन्ध-मोक्षार्थं देवग्राम-प्रतीकानि पूज्यानि, फलपुष्पादिभिः। ज्ञान-यज्ञेयन +एकत्वेन बहुत्वेन चापि देवग्रामः पूज्यः। देवग्रामसमावेशं लभन्ते, धर्मात्मानश् च भवन्ति।
- देवग्रामो हि मन्त्रेषु भूतेषु क्रियासु च व्याप्तः।
- सत्कृतिभ्यः स्वर्गे पुण्यक्षयं यावद् अवकाशः। किञ्च ये देवव्यक्तिम् एव सेवमाना अपि, न तत्त्वतो देवग्रामं न विदुः, त एवं च्यवन्ति।
१० विभूति-विस्तार-योगः
- अनादिर् देवग्रामः, लोकमहेश्वरश् च। भगवद्ग्रामात् सर्वं प्रवर्तते। एवं सभावं ध्यायेत्, तेन बुद्धि-योगः, देवग्राम-समावेशः।
- सर्वास्व् अपि जातिषु +उत्कृट-व्यक्तौ देवग्राम-विभूतिः प्रतिभातितमाम्।
११ विश्वरूपदर्शनम्
- देवग्रामस्यैश्वरो ऽव्ययो भावः शत-सहस्रशो रूपैर् दर्श्यते।
१२ भक्तियोगः
- देवग्रामे मन आवेश्य योग उत्तमः। अव्यक्तोपासनामार्गेणापि शक्यं - किञ्च क्लेशो ऽधिकतरः।
- मनो बुद्धिं च देवग्रामे समावेशयेत्। तद्-अशक्ताव् अभ्यासेन लभेत। तद्-अशक्तौ देव-कर्म-परमो धानादिभिर् भवेत्। तद्-अशक्तौ सर्व-कर्म-फल-त्यागम् अभ्यस्येत्। तदर्थं चाद्वेषादिलक्षणं शान्तिम् अभ्यस्येत्। एवं सोपानक्रमेण +आनन्दाधिक्यम् प्राप्नुवन् देवग्रामसमावेशं लभेत।
१३ क्षेत्र-क्षेत्रज्ञ-योगः
-
क्षेत्रम् = शरीरम् = अव्यक्त्यम् (प्रकृतिः), ५ भूतानि, अहङ्कारः, मनः, बुद्धिः, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, ५ ज्ञानेन्द्रियविषयाः
-
क्षेत्र-विकाराः = इच्छा, द्वेषः, सुखम्, दुःखम्, स्थूल-देहस्थितिः, चेतना, धृतिः।
-
क्षेत्रज्ञः (अग्रे वक्ष्यमाणः) पुरुष इव।
-
ज्ञानम् =
- अमानित्वम्, अदम्भित्वम्, क्षान्तिः, आर्जवम्, पुत्रदारादिषु जनसंसदि च अनभिष्वङ्गः, शौचम्, स्थैर्यम्
- तत्त्व-ज्ञानार्थ-दर्शनम्, आचार्योपासनम्,
- इन्द्रियार्थेषु वैराग्यम्, देवग्रामे भक्तिः, इष्टानिष्टयोः समचित्तत्वम्
-
ज्ञेयम् = देवग्रामः परं ब्रह्म विश्वरूपं सर्वव्यापि। तन् न सत्, न चासत् +++(यथा यावनाः - hyperessential, beyond being.)+++, अविभक्तम् अपि विभक्तम् इव। गुणभोक्तृ।
-
प्रकृति-पुरुषाव् अनादी।
-
प्रकृतिः - कार्य-कारण-कर्तृत्वे हेतुः, गुणमयः।
-
पुरुषः - सुख-दुःख-भोक्ता, गुण-भोक्ता। गुण-सङ्गाद् एव तस्य पुनर्जन्म। स उपद्रष्टा।
-
क्षेत्रं ज्ञानं ज्ञेयं च विज्ञाय देवग्राम-भावम् आप्नोति। प्रकृति-पुरुषयोः साधु ज्ञानं प्रकृति-मोक्षदम्।
-
ध्यानेन, साङ्ख्येन, कर्मयोगेन चैतत् साध्यम्। तदर्थम् तत्त्व-दर्शिनाम् उपदेश उपकुर्यात्।
- सर्वत्र वर्तमानं देवग्रामम् पश्येत्। प्रकृतिं कर्त्रीं विजानीयात्, आत्मानं चाकर्तारम्, अनुपलिप्तम्, प्रकाशकम्।
१४ गुण-त्रय-विभाग-योगः
- ब्रह्म योनिः, देवग्रामो बीजप्रदः, ततः सृष्टिः।
- देहे गुणाः पुरुषं निबध्नन्ति
- सत्त्वं प्रकाशकं सुख-ज्ञान-सङ्गेन
- रजो रागात्मकं तृष्णा-समुद्भवं कर्म-सङ्गेन
- तमो ऽज्ञानजं प्रमादालस्य-निद्राभिः
- क्वचित् कश्चन गुणो ऽन्ये ऽभिभवति।
- सत्त्वम् - यत्र सर्वेन्द्रियेषु ज्ञानप्रकाशः।
- रजः- यत्र कर्मसु प्रवृत्तिर्, लोभः, स्पृहा।
- तमः - यत्र प्रमादो मोहः।
- मृत्युकाले विवृद्ध-गुणानुसारेणाग्रिमं जन्म लभते।
- सात्त्विक-कर्मणो निर्मलम् फलम्, राजसिकस्य +++(सुखमिश्रं)+++ दुःखम्, अज्ञानं तमसः।
- गुणग्रामं कर्तारं विजानीयात् - तेन देवग्राम-भावः, गुणातीतः सः। गुण-प्रेरितानि फलानि न द्विषेत्, न च काङ्क्षेत् - साक्षिभावेन पश्येत्। दुःख-सुखादि-द्वन्द्वेषु समः स्यात्।
- एतद् भक्तियोगेन सिध्यति।
१५ पुरुषोत्तम-योगगः
- कर्मानुबन्ध-वृक्षमूलान्य् असङ्ग-शस्त्रेण, तन्-मूलस्थं देवग्रामं परिमार्ग्य च्छेत्तुं शक्यः।
- देवग्रामस्यैवांशो +++(विभु साक्षि चेतः)+++ जीव-भूत इन्द्रियाणि मनश् च कर्षति विषयान् प्रति। स्थूलशरीरात् स्थूलशरीरम् प्रति सूक्ष्मशरीरम् अप्य् एवं कर्षति। प्राज्ञैर् योगिभिश् चायं जीवो दृश्य एवम्।
- अयं हि जीवः कूटस्थो ऽक्षरः पुरुषः, साक्षि-चेत इति।
- सूक्ष्म-शरीरं + कारण-शरीरम् +++(कर्म-संस्कार + अ-ज्ञानम्)+++ तु क्षर इति।
- देवग्रामस्य तेजः सोमसूर्याग्निसङ्काशः। स सर्वम् जगद् भरति चालयति च - वैश्वानररूपेण शरीराण्य् अपि। स वेदवेद्यः, वेदान्तकृच्च। स परमात्मा, उत्तमः पुरुषः, पुरुषोत्तम इत्य् अपि। स जीवचेतसो ऽपि भिन्नः (ननु यवना henads beyond being इत्य् आहुः)।
- एवं ज्ञात्वा देवग्रामं साधु भजति।
१६ दैवासुर-सम्पद्-विभाग-योगः
- मोक्षानुकूलां दैवीं सम्पदम् अभिजातस्य गुणाः
- स्वाध्यायः योग-व्यवस्थितिः तेजः
- सत्यं सत्त्व-संशुद्धिर्
- यज्ञो
- दया नातिमानितेत्यादयः।
- बन्धानुकूलाम् आसुरीं सम्पदम् अभिजातस्य
- विद्यमाना गुणाः - दम्भः, क्रोधः, अज्ञानम्, काम-प्राधान्यम्, असद्-अर्थ-सञ्चयः, जगत्य् अहितता, स्वैश्वर्य-प्रतीतिः।
- अविद्यमाना गुणाः - आचारः सत्यम् धर्मज्ञानम्
- जगद्-दर्शनम् - अनीश्वरम्, काम-हैतुकम्
- गतिः - आसुरि-योनिषु जन्म।
- +++(अधर्म्यम् अज्ञानपूर्वकं)+++ कामं क्रोधं लोभं+++(=कामप्राप्ताव् अप्य् असन्तुष्टिम्)+++ च त्यजेत्। शास्त्रम् अनुसरेत्।
१७ श्रद्धा-त्रय-विभाग-योगः
- सत्त्व-रजस्-तमोऽनुसारेण त्रैविध्यानि
- श्रद्धायाम्
- सात्त्विकम् - यथाविहितं देव-यजनम्
- राजसम् - यक्ष-रक्षो यजनम्
- तामसम् - भूतपिशाच-पूजा।
- आहारे
- सात्त्विकम् - आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः
- राजसम् - दुःख-शोकामय-प्रदाः
- तामसम् - अमेध्यम् पूत्यादिकम्।
- यज्ञे
- सात्त्विकम् - अपहलाकाङ्क्षो विधिदृष्टः
- राजसम् - सफलकाङ्क्षो दाम्भिकः
- तामसम् - मन्त्रहीनो ऽदक्षिणः विधिहीनम् अश्रद्धः
- तपसि
- सात्त्विकम् - युक्तैर् अफलाकाङ्क्षम्
- राजसम् - सत्कार-मान-पूजार्थं चलम्
- स्वपीडनं परस्योत्सादनार्थम्
- दाने
- सात्त्विकम् - अनुपकारिणे देशे काले पात्रे च दत्तम्
- राजसम् - प्रत्युपकारार्थं परिक्लिष्टं सफलकाङ्क्षम्
- तामसम् - अदेशकाले ऽपात्रविवेकम् असत्-कृतम्
- श्रद्धायाम्
- तपः
- शारीरं - देवद्विजादिपूजा शौचम् अहिंसा ब्रह्मचर्यम्
- वाङ्मयम् - स्वाध्यायः, सत्यम्, अनुद्वेगकरं प्रियहितं वाक्यम्
- मानसम् - मनःप्रसादः, मौनम्, भाव-संशुद्धिः
- “ॐ तत् सत्” इति ब्रह्मनिर्देशः। ओम् इति कर्मारम्भ उच्यते। तद् इत्य् उदाहृत्य फलाभिसंधिं विना कर्माणि क्रियन्ते। सद् इति सद्भाव-सत्कर्म-द्योतकः प्रयुज्यते च।
- अश्रद्धया कृतं यज्ञादिकर्म निष्फलम्।
१८ मोक्ष-संन्यास-योगः
-
कर्म-फलम् अनिष्टम् इष्टं मिश्रं चात्यागिनाम् भवति।
-
कर्म-सिद्धि-कारणानि - अधिष्ठानम्, कर्ता, करणम्, चेष्टाः, दैवम्
- अत्र कर्ता न स्वयं जनः। अनहङ्कृतो लोकान् हत्वाऽपि न स्वयं हन्ति।
-
सत्त्व-रजस्-तमोऽनुसारेण त्रैविध्यानि
- ज्ञानम्
- सात्त्विकम् - सर्वभूतेष्व् अव्ययस्येक्षणम्
- राजसम् - पृथक्त्वेनेक्षणम्
- तामसम् - क्षुद्रकार्ये सक्तम् अल्पम्
- कर्म
- सात्त्विकम् - नियतं निर्ममं स-फल-त्यागम्
- राजसम् - स-फल-काङ्क्षं बहुलायासं साहङ्कारं
- तामसम् - मोहात् क्षय-बन्धादिकम् अनपेक्ष्यारब्धम्
- कर्ता
- सात्त्विकः - सोत्साहोऽपि मुक्तसङ्गः सिसिद्ध्य्-असिद्ध्योर् निर्विकारः
- राजसः - कर्म-फल-प्रेप्सुर् हर्ष-शोकान्वितः
- तामसः - विषादी दीर्घसूत्री स्तब्धः शठः
- बुद्धिः
- सात्त्विकी - बन्धमोक्षौ, कार्याकर्ये वेत्ति
- राजसी - धर्माधर्मौ, कार्याकर्ये ऽयथावद् वेत्ति
- तामसी - धर्माधर्मौ, सर्वार्थान् विपरीतं वेत्ति
- धृतिः
- सात्त्विकी - यया मनः-प्राणेन्द्रिय-क्रियाः योगेन धारयते
- राजसी - यया फलाकाङ्क्षी धारयते
- तामसी - यया विषादं मदं स्वप्नं न मुञ्चति
- सुखम्
- सात्त्विकम् - आत्म-बुद्धि-प्रसादजम्, अग्रे विषम् परिणामे ऽमृतोपमम्
- राजसम् - विषयेन्द्रिय-संयोगाद् अग्र एवामृतोपमम्
- तामसम् - निद्रालस्य-प्रमादोत्थम्
- ज्ञानम्
-
स्वभावजानि कर्माणि वर्णेषु
- ब्राह्मणस्य - तपः शौचं ज्ञानम्
- क्षत्रियस्य - शौर्यं दानम् ईश्वरभावः
- वैश्यस्य - कृषि-गौरक्ष्य-वाणिज्यम्
- शूद्रस्य - परिचर्या
-
स्वभाव-नियतं विगुणम् अपि कर्म देवग्राम-प्रसादकः। स्वाभाविक-कर्म-त्यागे यत्नो विफलो भवति - प्रकृतिर् हृदयस्थ ईश्वरो वा नियोक्ष्यति जनम् अवशम्। तस्य शरणं गच्छेत्।
-
सात्त्विक-त्यागो नाम सर्व-कर्म-फलानां कर्तृत्व-ममतादेः कौशलाकौशल-प्रेरित-राग-द्वेषस्य च त्यागः। किञ्च नियत-कर्माणि यज्ञ-दान-तपस्-आदीन्य् अपि न त्याज्यानि।
- काय-क्लेश-भयात् त्यागो राजसः।
-
सन्न्यासो नाम काम्य-कर्मणाम् अथवा ऽनियत-कर्मणां त्यागः, अनारम्भः। अथ बुद्धियोगेन सर्वेषां कर्मणां देवग्रामे सन्न्यासः।
-
एवं सन्न्यासेन निष्कर्म्यसिद्धिः। ततो ब्रह्मप्राप्त्या मार्गः - आत्मानं नियम्य, विषयांस् त्यक्त्वा, विविक्तसेवी युक्तः स्यात्। ततो देवभक्तिं लभते, तं ज्ञात्वा, तस्मिन् समाविशति - सर्वाणि कर्माणि कुर्वाणोऽपि ।
-
देवग्रामं शरणं गत्वा सत्-समावेशे यतेत।
-
नैतत् त्व् अभक्ताय वाच्यम्। मद्भक्तेभ्यस् तु वाच्यम्। अस्य गीतोपदेशस्याध्ययनं ज्ञान-यज्ञेन देवग्राम-पूजायै कल्पते। श्रवणेनापि महत् फलम्।
समावेश-प्रशंसा
समावेशे
मनः संयम्य मच्-चित्तो
युक्त आसीत मत्परः॥
…
मच्-चित्ता मद्-गत-प्राणा
बोधयन्तः परस्परम्।
कथयन्तश् च मां नित्यं
तुष्यन्ति च रमन्ति च॥10.9॥
…
भक्त्या माम् अभिजानाति
यावान् यश् चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा
विशते तद्-अनन्तरम्॥18.55॥
…
मच्-चित्तः सर्व-दुर्गाणि
मत्-प्रसादात् तरिष्यसि।