विस्तारः (द्रष्टुं नोद्यम्)
तात्पर्य-चन्द्रिकायाम् 18.66 इत्यत्रान्ते प्रस्तुतम्। Source: TW
अपि चात्रादितः प्रभृति सम्मृशामः –
०१
प्रथमे तावद् अध्याये ऽर्जुनस्यास्थान-स्नेह-कारुण्यादिभिः
शास्त्रोल्लङ्घन-प्रसङ्गेप्सुनोपक्षिप्त-पूर्व-पक्ष-बुद्धि-प्रशमनाय
द्वितीयेनाध्यात्म-शास्त्रम् अवतारितम् इत्येतावति सर्वेषाम् अविवादः।
०२
द्वितीयाध्यायोक्तस्य योगादेर् अपि
भगवान् एवाराध्य इत्य्-अत्रापि न विप्रतिपत्तिः।
व्रीह्यादि-विषयैः प्रोक्षणावघातादि-शास्त्रार्थैर् अपि हि स एवाराध्यते।
स तु तत्र न साक्षाद् विषय इति
प्रकरणादि-बलात्;
साक्षाद् भगवद्-योगिनश् च योगिनाम् अपि सर्वेषां
“मद्-गतेनान्तरात्मना” [6।47] इत्यादि प्रस्तुत्य
प्रतिपादयिष्यमाणत्वाच् च समर्थितम्।
०३-०४
तृतीये योगाख्योपायांश-भूतयोः क्रिया-योग–बुद्धि-योगयोः विमर्श इत्य् एतद् अपि
ज्ञान-योगेन साङ्ख्यानां
कर्म-योगेन योगिनाम् [3।3]
इत्य् अधिकारि-भेद-वर्णनेन निरस्तम्।
न च “दूरेण ह्यवरं कर्म” [2।49] इति प्रतिपादनात्
तुल्य-कक्ष्यत्वानुपपत्तिर् इति वाच्यं;
तस्य तत्-प्रकरण-निन्द्य-काम्य-कर्म-विषयत्व-स्थापनात्।
यस् त्व् आत्म-रतिर् एव स्यात् [3।17]
इत्य्-आदि-श्लोक-द्वये
दृष्टानुश्रविक-विषय-वितृष्णस्य परमात्मैक-रतेः
पुरुषस्य कृत्यानुष्ठाने प्रयोजनाभावो
ऽकृत्य-करणे प्रत्यवायाभावश् च
प्रतिपाद्यत इति यद् उच्यते;
तद् अप्य् अयुक्तं;
“नाविरतो दुश्चरितात्” [कठो.2।23]
इत्यादि-विरोधोपपादनात्;
तत एव “हत्वाऽपि स इमाल्ँ लोकान्” [18।17] इत्यादेर् अपि
वक्ष्यमाणस्यात्रोदाहृतस्यान्यविषयत्व-स्थापनात्।
अथ चेत् समाधि-दशायां कर्तव्यान्तराभावो
ऽस्मिन् श्लोकद्वये विवक्षित इत्य् अभिप्रायः;
तदा तु मुक्त-दशायाम् इव विरोधाभावाद् अभ्यनुजानीमः।+++(5)+++
उक्तं च समाधि-दशाविषयत्वं षष्ठे तैर् एव।
तथा हि –
यं सन्न्यास इति प्राहुर्
योगं तं विद्धि पाण्डव [6।2]
इति श्लोके
समाधि-वेलायाम् एव
कर्म-सन्न्यासः कार्यः; नान्यथेति यावत्
इत्य् उक्तम्।
आरुरुक्षोर् मुनेर् योगम् [6।3]
इत्यत्र चैवं व्यञ्जितं –
यस्य वशिनो योगेन
सकल-कर्म-कालो व्याप्तः;
तस्य कर्म-परित्यागो युक्तः;
नान्यस्य
इति।
एतद् एव तृतीय-चतुर्थ-पञ्चमेष्व् अपि
भगवता प्रतिपादितम् इत्यनुसन्धातव्यम्।
तृतीये तावत् “यस् त्व् आत्मरतिर् एव स्यात्” इत्यत्र;
चतुर्थे ऽपि “योग-सन्न्यस्त-कर्माणम्” [4।41] इत्यत्र;
पञ्चमे च “सर्व-कर्माणि मनसा सन्न्यस्यास्ते” [5।13] इत्यत्र;
तेनात्म-रतीनां वशिनां योगारूढानाम् एव कर्म-सन्न्यासो युक्तः।
तेषाम् अपि
लोक-विख्यातानां सर्व-लोकादर्श-भूतानां विदुषाम्
आत्मानुग्रहाभावेऽपि लोकानुग्रहार्थं
कर्म-योग एव युक्तइति भगवद्-अभिप्रायो ग्राह्य
इति निगमितम्।
यत् पुनर् निषिद्धानुष्ठाने प्रत्यवायाभावात्
तद्-अकरणे प्रयोजनं नास्तीति;
एतत् तु तस्याम् अवस्थायाम् अ-प्रसक्तोपन्यासः।
यत् तु
कर्मणैव हि संसिद्धिम्
आस्थिता जनकादयः [3।20]
इत्य् अत्र राज्ञाम् उपन्यासस्
तद्-वृत्तान्तानाम् एव लोके प्रसिद्धत्वाद् इति;
अत्रायम् एव भाव उचितः।
यत् त्व् अनन्तरं पक्षान्तरम् उक्तम्
एवं परम्-परा-प्राप्तम्
इमं राजर्षयो विदुः [4।2]इति लिङ्गाद्
राज्ञाम् एवायं योगिनां कर्मापरित्यागोपदेशः;
नान्येषाम्
इति; तन् मन्दम् -
अन्येषाम् अपि कर्म-स्वरूपापरित्यागस्य
सर्वत्र सुस्पष्टत्वात्।
अत एव हि चतुर्थे स्वयम् एवोक्तम्।
इह “केचिद् राजर्षयो विदुः” इत्य् अभिधानात्,
पूर्वस्मिन्न् अध्याये निदर्शनार्थं जनकोपन्यासात्; नवमेऽध्याये “राज-विद्या राज-गुह्यम्” [9।2] इति वक्ष्यमाणत्वाच् च
राज्ञाम् एवास्मिन् भगवद्-उपदिष्टे योगेऽधिकारः;
नान्येषाम्
इति मन्यन्ते।
तद् अयुक्तं;
नवमेऽध्याये
स्त्रियो वैश्यास् तथा शूद्रास्
तेऽपि यान्ति परां गतिम् [9।32]
इति सर्वाधिकारस्य वक्ष्यमाणत्वात्।
तस्मात् प्रदर्शनार्थं राज्ञां प्रवृत्ति-विशेषाद्य्-उपन्यासः;
नान्यथेत्य् अभ्युपगन्तव्यम् इति।
०५
यत् तु पञ्चमे
सन्न्यासः कर्मयोगश् च
निश्श्रेयस-कराव् उभौ [5।2]
इत्य्-उक्त-सन्न्यास-कर्मयोगाभ्याम्
अनन्तरं साङ्ख्य-योगौ पृथग् बालाः [5।4]
इत्य्-आद्य्-उक्त-साङ्ख्य-योगयोर् अर्थान्तरत्वोपपादनं;
तद् अपि मन्दं;
ज्ञानयोगेन साङ्ख्यानां
कर्मयोगेन योगिनाम् [3।3]
इति प्राग्-उक्त-प्रत्यभिज्ञानात्।
न च प्रसिद्धि-विरोधः; अस्मिन् शास्त्रे तयोर् एवम् एव प्रसिद्धेः।
न च निश्श्रेयस-कराव् उभौ इत्युक्तेन पुनर्-उक्तिः;
सङ्ग्रह-विस्तर-रूपत्वादिना तत्-परिहारात्;
सर्वत्र चैवं सर्वैर् अभ्युपगमात्।
यद् अपि “पण्डिताः समदर्शिनः” [5।18] इत्य्-अत्र
सर्वत्राहिंस्यता-बुद्धिर् अनुग्राह्यता-बुद्धिः
सर्वेषां भूतानाम् ईश्वरानुग्राह्यता-बुद्धिर्
ईश्वर-विभूतित्व-बुद्धिश् च
समदर्शनम् अभिप्रेतम् इति;
तावति न विवादः।
यत् तु तत्रानन्तरम् उक्तं
न पुनर् हिंसानुग्रहेषु फलसाम्य-बुद्धिः ब्राह्मण्यादि-विशेष-तिरस्कारो वा।
कुत एतत्? शास्त्रान्तरानुसारात् प्रमाणान्तरानुसाराच् च
इति;
अयम् अप्य् आत्म-व्यतिरिक्त-मिथ्यात्वादि-वादिनां मतस्योपालम्भः;
न पुनः स्वतः परस्पर-समानानाम् आत्मनाम्
औपाधिक-सत्य-वैषम्य-वादि-मतस्य;
विषम-देहानाम् अपि स्वरूप-साम्य-दर्शने
शास्त्रान्तर-प्रमाणान्तर-विरोधाभावात्;
प्रत्युत तत्-संवादाच् चेति।
०६
षष्ठोक्त-योगस्य विषय-विशेषादिकं
तत्रैव सुस्पष्टम् उपपादितम्।
दुरपह्नवं च तैर् अपि योगिनां वैविध्यम्।
अत एव हि “योगिनाम् अपि सर्वेषाम्” [6।47] इति श्लोके व्याचख्युः
योगिनश् चित्तालम्बन-वैचित्र्याद् बहुविधाः।
तेषु मय्य् अर्पितचित्तो माम् एव श्रद्धया भजते;
स मे युक्ततमो मत इति ह्याह
इति,
योऽस्माभिर् इह सङ्क्षेप-विस्तराभ्याम् उपन्यस्तो योगः;
स सर्वेभ्यो योगेभ्यः श्रेष्ठतमो मत
इति च। “शब्दब्रह्मातिवर्तते” [6।44] इत्येतदपि
त्रिवर्गातिलङ्घन-विषयम् एवाभ्युपगन्तव्यम्।
अत्र वेद-द्वारा तत्-फल-विवक्षायां
लक्षित-लक्षणासङ्कोचादिर् महान् क्लेशः।
भाष्योक्तप्रक्रिया तु श्रृङ्ग-ग्राहिकया विवक्षितं वक्तीति विशेषः।
तपस्विभ्योऽधिको योगी [6।46]
इति श्लोके यदुक्तम् –
अत्र तपश्-शब्देन वानप्रस्थ-धर्माणां परिग्रहः
ज्ञान-शब्देन ब्रह्मचारि-धर्माणां;
कर्म-शब्देन गृहस्थ-धर्माणाम्
इति;
अयं विभागो निर्मूलः
सर्वेष्वाश्रमेषु स्वाश्रमाविरोधिनां तपो-ज्ञान-कर्मणां सम्भवाद्
यथाश्रुत-विरोधाभावाद्
वानप्रस्थादिलक्षणायाः प्रयोजनाभावाच् च।
०७
सप्तमोक्त-चेतनाचेतन-रूप-प्रकृति-द्वयस्यापि
ब्रह्म-स्वरूपाद् अत्यन्त-भेदो ऽस्माभिस् तत्र तत्र समर्थितः।
अपर-प्रकृतेर् अष्टधा विभागश् च
यथाश्रुत एवोपपन्न
इति स्थापितम्।
यच् च रसोऽहम् अप्सु [7।8]
इत्यादि सामानाधिकरण्य-निर्वाहायोक्तं
समस्त-कल्याण-गुण-समष्टि-विग्रहो ऽहम्;
अतो मद्-अंशाः सर्वे सर्वत्र कल्याण-गुणाइत्यभिप्रायेणाऽऽह
इति। तत्र तावद्
रसादि-कल्याण-गुण-समष्टिर् न भगवत्-स्वरूपं;
न चाप्राकृतस्य विग्रहस्य
प्राकृत-रसादिमयत्वम्।
अतः परिशेषाद् रसादीनाम् एव विग्रहत्वम् उक्तं स्यात्।
तत्र समष्टि-व्यष्टि-भावेनांशत्वोक्तिर् निष्फला।
तस्मात् तद्-उत्पत्ति-तादधीन्यादिभिर् एव
सामानाधिकरण्य-गमनिका समीचीना।
भेदाभेद-नयेन कल्याण-गुण-तादात्म्य-विवक्षायाम्
अकल्याणैर् अपि
सर्वात्मनस् तस्य तादात्म्यात्
समस्त-हेयास्पदत्वादि-दोषप्रसङ्गः।+++(4)+++
एवम् उत्तरेष्व् अपि सामानाधिकरण्येषु भाव्यम्।
०८
अष्टमे च “किं तद् ब्रह्म” [8।1]
इत्यादि-प्रश्नानाम् एकाधिकारि-वेद्यविषयत्वं
तत्रैवास्माभिर् निराकृतम्।
ब्रह्मायुर्-दिवस-कल्पना
पौरुषाहोरात्र-कल्पना-मूल-महा-कल्प-प्रक्रियोपन्यासश् च
स्मृत्य्-अन्तरानुसारेणास्माभिर् अप्य् अभ्युपगमाद्,
+धिरण्यगर्भ-दिवसावसाने महाप्रलय-वादिनाम् अयम् उपालम्भः।
यद्-गत्वा (यं प्राप्य) न निवर्तन्ते
तद्धाम परमं मम [15।6]
इत्य्-अस्य परम-व्योम-विषयतायां
सिद्धान्त-विरोधाभावे ऽप्य् अत्र परिशुद्धात्म-विषयत्वे युक्तयस्
तत्रैवावस्थापिताः।
यत् पुनः
“अग्निर्ज्योतिः” [8।24], “धूमो रात्रिः” [8।25]
इत्य्-अत्राग्नि-धूम-शब्दाभ्याम्
अहो-रात्रैकदेश-भूतः काल-विशेषो लक्ष्यत
इति, तद् असत्;
तत् तच्-छब्दैर् अत्र
देवयान-पितृयानाख्य-गति-द्वय-प्रत्यभिज्ञानात्;
“नैते सृती” [8।27] इति निगमनात्;
“यत्र काले” [8।23] इत्य् उपक्रम-स्थ-काल-शब्दस्य
कालाभिमानि-देवतातिवाहिक-भूयस्त्व-विवक्षया स्थापितत्वाच् च।
अतः उदग्-अयन-पूर्व-पक्षाहः-पूर्वाह्ण-सन्निपाते
ब्रह्म-विद्भिर् योगिभिर् अपुनरावृत्तये प्रयातव्यम्
इति नियमनम् अशक्यम्। +++(5)+++
दक्षिणायनापर-पक्षापराह्ण-रात्रिषु प्रयातानां योगिनां
चान्द्रमस-ज्योतिः प्राप्य
पुनर्-आवृत्ति-प्रतिपादनम्
उत्तरेण श्लोकेन कृतम्
इत्यप्य् असत् -
निशि नेति चेन् न सम्बन्धस्य यावद् देह-भावित्वाद् दर्शयति च [ब्र.सू.4।2।19]
अतश्चायनेऽपि दक्षिणे [ब्र.सू.4।2।20]
इत्य्-अधिकरणाभ्यां
दक्षिणायन-रात्रि-मृतस्यापि योगिनस्
तैत्तिरीयोक्त-प्रक्रियया चन्द्र-सायुज्य-पूर्वकं
पर-ब्रह्म-प्राप्त्य्-अपुनरावृत्त्योः समर्थितत्वेनास्य श्लोकस्य साक्षात्
योगि-व्यतिरिक्त-धूमादि-मार्गोचिताधिकारि-विषयत्व-व्यवस्थापनात्।
यच् च
कथं पुनर् अग्नि-ज्योतिर्-धूम-शब्दयोर्
यथोक्त-काल-विशेष-परत्वम् अवगम्यते
इति परिचोदनापूर्वकम् उक्तं;
श्रुतिषु च स्मृतिषु च
समस्तासूदगयन-पूर्वपक्षाहः-पूर्वाह्णानां
सामान्यतो दैव-कर्माङ्गत्वोपदेशात्
प्रयाण-कालानुस्मरणस्यापि दैवत्वाविशेषात्
शास्त्रान्तरेष्व् अनयोर् दैव-कर्मत्वेन
दक्षिणायनादिषु वर्जन-प्रसङ्गात् इति।
०९
यत् पुनः
असमाहित-चित्तानाम् अपि
सुकरं सुखावगमं क्षिप्रं फलं प्रति भगवत्-प्रपत्ति-प्रकारं वक्तुं
“भगवान् उवाच”
इति नवमारम्भे व्याख्यातम्;
तद् अपि पूर्वोक्त-ज्ञानि-साध्यानन्य-भजनस्यैव
प्रपञ्चन-परत्व-प्रतीतेर् अपाकृतम्।
यच् च
“ज्ञान-यज्ञेन चाप्य् अन्ये” [9।15] इति श्लोके प्रकल्पितं
साङ्ख्य-योगाभ्यां समुच्चिताभ्याम् उपासनम् एकत्वेन उपासनं;
विकल्पिताभ्याम् उपासनं पृथक्त्वेनोपासनं;
बुद्धि-योगो वाऽत्र ज्ञान-शब्देन विवक्षितः
तत्राप्य् अयम् अर्थः -
केचित् कर्म-योग–बुद्धि-योगाभ्यां समुच्चिताभ्याम् उपासते
केचित् केवलेन कर्म-योगेन
अपरे केवलेन बुद्धियोगेनेत्य्
एवं बहुधोपासते इति।
अत्र साङ्ख्य-योगादि-प्रसञ्जकं
न किञ्चिद् दृश्यते।
“अहं क्रतुः” [9।16] इत्य्-आद्य्-अनन्तर-विवरण-ग्रन्थानुसारेण
एकत्व-पृथक्त्वयोर् उपास्य-विषयत्वं सुस्पष्टम्।
“अनन्याश् चिन्तयन्तो माम्” [9।22] इत्यादौ तु
न चावश्यम्-भाविने योग-क्षेमायापि
मद्-भक्तैर् एकान्तिभिर्
देवतान्तराणि धर्मान्तराणि वापेक्षणीयानीत्य्-आदिकं
सर्वम् अङ्गीकृतम् अस्माभिः।
१०-११
दशमे च विस्तरेणात्मनो “योगं विभूतिं च” [18] इत्यत्र योगशब्दस्य
भगवत्-कर्म-योग-विषयतया व्याख्यानम् अयुक्तम्;
“पश्य मे योगम् ऐश्वरम्” [11।8]
“एतां विभूतिं योगं च” [10।7]
इत्य्-आदि-प्रत्यभिज्ञा-विरोधात्;
अनन्तरम् अस्मिन्न् अध्याये तद्-विस्तरादर्शनाच् च।
“मत्-कर्म-कृत्” [55] इत्य्-आद्य्-एकादशाध्यायान्तिम-श्लोकस्
तद्-उत्तरम् इत्य् अपि दूर-व्यवधानात्
तत्रापि विस्तराद् अर्शनाच् च निरस्तम्।
विभूति-विशेषाणां
कृत्स्नस्य च जगतः
स्वरूपैक-देशत्वेनांशतया
सामानाधिकरण्य-वर्णनम् अपि
प्राग्-उक्त-सदोषत्वादि-प्रसङ्ग-प्रक्रियया परास्तम्।
१२
एवं श्री-विश्व-रूप-विग्रहस्यावयवत्वेन
विश्वस्य वर्णनम् अपि प्राकृताप्राकृत-विभागाद् अवधूतम्।
द्वादशोक्तस्याक्षरोपासनस्य
भगवद्-उपासनाद् भेदः
स्व-वाक्य-स्वारस्य-पुरुषोत्तमत्वादि-प्रकरणान्तरैकरस्यादिभिः साधितः।
यत् पुनः –
भेद-व्यपदेशास् तु
कथञ्चिद् अवस्था-भेदम् आश्रित्य नेतव्याः।
अवस्थाभेदश् चात्र
निर्विशेष-निखिल-वस्तु-मात्र-रूपता,
आविर्भूत-समस्त-कल्याण-गुण-समष्टि-रूपता च विवक्षिता
इति तद् एतद् अनेक-विषय-व्याघात-विसंस्थूलम् आकुमारम् अपहास्यम्।
अन्यत्र च दूषण-प्रपञ्चनाद् इहोपरम्यते।
१३
त्रयोदशे क्षेत्रज्ञविषये वक्तव्यं सर्वं पूर्वम् एवोक्तम्।
“यतश्च तत्” [13।4] इति पाठोऽप्रसिद्धः।
तथा पाठेऽपि ज्ञान-परामर्शो ऽस्वरसः।
क्षेत्रस्य नित्यत्वेनाहेतुकत्वाद्
+धेतुर् न निर्दिष्टइत्य् उक्तम्
इति चेत्; सत्यम् उक्तं;
दुरुक्तं तु तत्;
“महाभूतान्य् अहङ्कारः” [13।6] इत्यादिना
वक्ष्यमाणस्य क्षेत्रस्याव्यक्त-व्यतिरिक्तस्य
समस्तस्यानित्यत्व-सम्प्रतिपत्तेः;
तस्माद्
अव्यक्तम् उत्पन्नं
त्रिगुणं द्विजसत्तम।
अव्यक्तं पुरुषे ब्रह्मन्
निष्कले सम्प्रलीयते [वि.पु.]
इत्य्-आदिभिर् नित्यस्याप्य् अव्यक्तस्थ-पर-ब्रह्मण्य्
एकी-भाव–पृथग्-भाव-वचनाच् च।
यच् च “ब्रह्म-सूत्र-पदैश् चैव” [13।5] इत्यत्रोक्तं –
क्षेत्रादि-तत्त्व-व्यवस्थापन-पराणि पञ्च-शिखादि-प्रणीतानि सूत्र-पदानि
इति;
तदप्य् अनादेशिकं +++(→स्वकल्पितम्)+++;
पञ्च-शिखादि-ग्रन्थे ब्रह्म-सूत्र-प्रसिद्ध्य्-अभावात्।
यत् तु
मद्-भक्त एतद् विज्ञाय
मद्भावायोपपद्यते [13।19]इति निगमनाद्,
भगवान् एवज्ञेयं यत्तत् प्रवक्ष्यामि [13।13]
इत्यत्र ज्ञेयत्वेनोक्त
इति, तन् न;
इति क्षेत्रं तथा ज्ञानं
ज्ञेयं चोक्तं समासतः [13।19]
इति निगमितानां त्रयाणाम् एतच्-छब्देनानुवादात्;
तत्र क्षेत्र-ज्ञ–ज्ञान-वत् कर्म-वश्य–क्षेत्र-ज्ञ–ज्ञानस्यापि मोक्षोपयोगित्वोपपत्तेः;
क्षेत्रादि-ज्ञान-रूपस्यापि शास्त्रार्थस्य
सर्व-प्रशासितुर् भगवतः
समाराधन-रूपत्वेन “मद्भक्त एतद्विज्ञाय” [13।19] इत्यनेन विरोधाभावाच् च।
१४
यद् अपि चतुर्दशे
मम योनिर् महद् ब्रह्म
तस्मिन् गर्भं दधाम्यहम् [14।3]
इत्यत्र परावर-प्रकृत्योर् जीवाव्यक्त-संज्ञयोर्
अंशो मिलितो गर्भ इत्य् उक्तं;
तत्र ब्रह्म-शब्देनाव्यक्तस्य निर्दिष्टत्वात्
तत्र तद्-अंशाधान-वचनस्य प्रयोजनाभावात्;
“क्षेत्रक्षेत्रज्ञसंयोगात्” [13।27] इत्युक्तस्य चात्र प्रत्य्-अभिज्ञानात्;
गर्भ-शब्देन चेतन-विवक्षैव युक्ता।
सर्व-द्वारेषु देहेऽस्मिन्
प्रकाश उपजायते।
ज्ञानं यदा तदा विद्याद्
विवृद्धं सत्त्वम् इत्य् उत
[14।11]
इति श्लोके प्रकाश-ज्ञान-शब्दयोः
बाह्यान्तरेन्द्रिय-वृत्ति-विषयतया व्यवस्थापनम् अशक्यं;
विपरिवर्तेऽपि विरोध-भावाद्
वक्ष्यमाण-राजस-तामस-ज्ञान-व्यवच्छेदार्थं प्रकाश-शब्द-प्रयोगोपपत्तेश् च।
रजः-कार्य-श्लोके लोभ-प्रवृत्तिर् लोभोद्भव इति
समस्ततया व्याख्यानम् अयुक्तं;
तथा ऽनध्ययनात्;
“अप्रकाशो ऽप्रवृत्तिश्च” [14।13] इति तमःकार्य-श्लोके
सत्त्व-कार्य-प्रकाश-निषेधवद्
रजः-कार्य-प्रवृत्ति-निषेधस्यापि
पृथगुपन्यासात्तत्प्रतियोगितया प्रवृत्तेरिह पृथङ्निर्देशोपपत्तेः;
“आरम्भः कर्मणाम्” [14।12] इत्यस्य तु गोबलीवर्द-न्यायेन निर्वाहात्।
१५
पञ्चदशे ऽपि
“… प्रपद्येयतः+++(=प्रपद्य +इयतः)+++ प्रवृत्तिः …” [15।4] इति पाठोऽप्रसिद्धः।
यद् अपि
ममैवांशो जीवलोके
जीवभूतः सनातनः
[15।7]
इत्य्-अत्र संसारि-व्यतिरिक्तः,
सर्वेश्वरस्यैव कश्चिद्-अंशो
जीव-शब्दार्थतया प्रथमं व्याख्यायि।
तत्र यद्य् अपि अर्थविरोधो नास्ति;
तथापि विभूति-प्रकरण-मध्य-पाठाद्
अन्तर्यामिणस् तु “सर्वस्य चाहं हृदि सन्निविष्टः” [15।15] इत्यनन्तरमेव वक्ष्यमाणत्वात्;
परमात्मांश-विशेषे च जीव-शब्दस्य प्रसिद्धि-प्रकर्षाभावात्
मानवादि-शास्त्रान्तर-प्रसिद्धेर् अपि
“जीवभूतां महाबाहो” [7।5] इति
स्व-शास्त्र-प्रसिद्धेर् बलवत्त्वेन
स्वीकर्तुम् उचितत्वात्
“विषयान् उपसेवते” [15।9] इत्यत्र च
प्रतिकूलोदासीनभोगेभ्यः सङ्कोचस्य क्लिष्टत्वाद्
उत्क्रमणाद्युक्तेः;
हृदयव्याप्तेर् अन्तर्यामिणः स्वारस्याद्
इन्द्रियाधिष्ठानेश्वरशब्दादेश् च तत्-तन्-नियन्तरि संसारिण्य् अप्य् उपपत्तेः;
“आत्मन्य् अवस्थितम्” [15।11] इत्यत्र
चात्मशब्दस्य नानार्थस्य प्रकरणोचितार्थ-परिग्रहोपपत्तेः;
भवद्-उक्ता द्वितीयैव योजना
भाष्यकृद्-अभिमता समीचीनेति मन्यामहे।
“वेदैश्च सर्वैरहमेव वेद्यः” [15।15]
इत्यादौ वेद-वेदान्त-शब्दयोर् वक्तव्यं प्राग् एवोक्तम्।
“कूटस्थोऽक्षरः” [15।16] इत्यस्य
जीव-भूत-पर-प्रकृति-व्यतिरिक्ते मुक्ते वृत्तिश् च साधुतरा।
१६
यत्तु षोडशे प्रोक्तं –
प्रकारान्तरेणार्जुनस्य शोकम् अपनेतुं
देव-प्रकृतीनां रूपं,
तेषां परम-कल्याण-प्रत्यासक्तेर्
अर्जुनस्य दैव-प्रकृतित्वम्,
आसुर-प्रकृतीनां रूपं;
तन्-निमित्तता च सकलस्यानर्थ-जातस्योक्तम् –
इति, तद् अयुक्तं;
शास्त्रारम्भे ऽर्जुनस्य स्वप्रकृत्य्-अनिर्धारण-मूल-शोक-प्रसङ्गाभावात्;
अत्र तत्-प्रसङ्गे तद्-अपनोदनस्यापि प्रासङ्गिकस्य युक्तत्वात्
अतः
तस्माच् छास्त्रं प्रमाणं ते
कार्याकार्यव्यवस्थितौ [16।24]
इति निगमनानुसारेण भगवद्-यामुनेयोक्त-प्रक्रियया शास्त्र-वश्यतैवाध्याय-प्रधानार्थः।
१७
सप्तदशे श्रद्धा-त्रैविध्यं
शास्त्रीयेतर-विषयम् इत्य् अयुक्तम्
अनन्तरम् “अशास्त्रविहितम्” [17।5] इति पृथग् अभिधानात्।
न च तत्र श्रद्धा-त्रैविध्यम् अपि समुच्चेतुं शक्यं;
तदनुक्तेस् तत्-क्लृप्त्य्-अनुपपत्तेश् च।
“तत् सद्” इति निर्देशः [17।23]
इत्यत्र मुमुक्षूणां
यज्ञादिषु किञ्चिद् अङ्गं
तेषां वीर्यातिशयार्थम् उपदिश्यत
इत्य् अयुक्तम्;
अमुमुक्षूणाम् अपि तद्-अविरोधाद् विशेषकाभावाच् च।
अतो “लक्षणं शास्त्रसिद्धस्य त्रिधा” [गी.सं.21]
इत्ययम् एवार्थ उचितः।
१८
अष्टादशे त्याग-स्वरूपादि-विवेके नातीव विरोधः; चरम-श्लोके वक्तव्यं तु सर्वं सक्तम् अस्माभिः।
एवम् अन्येष्व् अपि भूतेषु भविष्यत्सु च श्रीमद्-गीता-भाष्येषु
भगवद्-यामुनाचार्य-भाष्यकार-मतानुसारेण
दिङ्मोहः प्रशमयितव्यः।
संहारः
क्षुद्र-स्खलितेष्व् अदूर-विप्रकृष्ट-योजनाभेदेषु चोदासितव्यम् इत्य् अलम् अति-प्रसङ्गेन।
पिशाच-रन्तिदेव-गुप्त-शङ्कर-यादवप्रकाश-भास्कर-नारायणार्य-यज्ञस्वामि-प्रभृतिभिः
स्वं स्वं मतम् आस्थितैः परश्-शतैर् भाष्यकृद्भिः
अस्मत्सिद्धान्त-तीर्थकरैश् च भगवद्-यामुनाचार्य-भाष्यकारादिभिर्
अविगीत-परिगृहीतोऽयम् अत्र सारार्थः –
भगवान् एव परं तत्त्वम्;
अनन्य-शरणैर् यथाधिकारं तद्-एकाश्रयणं परम-धर्मः
इति।