अष्टादशोऽध्यायः अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।। त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥१॥ संन्यासस्येति । पूर्वमुक्तं ‘स त्यागी स च बुद्धिमान्’ (II, 50) इति । तथा ‘स संन्यासी च योगी च न निरग्निः (VI, 1) इत्यादि । अतस्त्यागिसंन्यासिनोईयोः श्रवणात विशेषजिज्ञासोरयं प्रश्नः ॥ १॥ अत्रोत्तरम्– श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २॥ काम्यानामिति । काम्यानि–अग्निष्टोमादीनि । सर्वकर्मेति - सर्वेषां नित्यनैमित्तिककर्मणां2 क्रियमाणत्वेऽपि फलत्यागः त्यागः । अत्र चाध्याये यदवशिष्ट वक्तव्यमस्ति, तत् प्राक्तनैरेव तत्रभवद्भट्टभास्करादिभिः वितत्य विमृष्ट मिति किमस्माकं तद्गूढार्थप्रकाशनमात्र प्रतिज्ञानिर्वाहणसारा णां पुनरुक्तप्रदर्शनप्रयासेन ॥ २ ॥
- B अनिष्टोमसत्रादीनि 2. नैमित्तिककाम्यकर्मणाम S,BN यदवशिष्टमवलग्नं वक्तव्यम 4.S.प्रत्यभिज्ञानिर्वाहण । अष्टादशोऽध्यायः 263 तदत्रैव विशेषनिर्णयाय मतान्युपन्यस्यति त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥३॥ त्याज्यमिति । दोषवत् हिंसादिमत्त्वात् पापयुक्तम् । ‘तत् कर्म त्याज्यम्, न सर्वं शुभफलम् इति केचित् त्यागे विशेषं मन्यन्ते सांख्यगृह्या इव । अन्ये तु मीमांसककञ्चुका नुप्रविष्टाः- TRA ‘क्रत्वर्थोऽहि शास्त्रादवगम्यते’ (SB. IV, i, 2) इति । तथा ‘तस्माद्या वैदिकी हिंसा—’ (SV. I, i, 2, verse 23) इत्यादिनयेन इतिकर्तव्यतांशभागिनी हिंसा हिंसैव न भवति । ‘न हिंस्यात्’ इति सामान्यशास्त्रस्य तत्र बाधनात् श्येनाद्येव तु हिंसा। ‘फलांशे भावनायाश्च प्रत्ययोऽनुविधायकः’ (SV, I, i, 2, verse 222) इति ।
Sहिसादित्त्वात; B,N हिसाविसत्वात S,B,N. substitutes फलं for कर्म 3. K मीमांपाकंचुक 4. S,B,N omit हिंसा 5. Bश्पेन घेवनतु 264 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अ[तोऽ] न्यान् हिंसादियोगिनोऽपि न त्यजेत् । शास्त्रैकशरण कार्याकार्यविभागाः पण्डिता इति मन्यन्ते ॥ ३ ॥ निश्चयं शृणु मे तत्व त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ ४॥ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५॥ एतान्यपि च कर्माणि संगं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥६॥ नियतस्य च संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥ दुःखमित्येव यः कर्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥८॥ कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन । संगं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥९॥ न द्वेष्ट यकुशलं कर्म कुशले नानुषज्जति । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१०॥ न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्त कर्मफलत्यागी स त्यागीत्यभिधीयते ॥११॥ निश्चयमित्यादि अभिधीयते इत्यन्तम् । तत्र त्वयं निश्चयः- प्राग्लक्षितगुणस्वरूपवैचित्र्यात् त्यागस्यैव सत्त्वरज स्तमोमय्या चित्तवृत्त्या क्रियमाणस्य तद्विशिष्टस्वभावाव अष्टादशोऽध्यायः 265 भासित [त्वात्] वस्तुस्थित्या त्यागो नाम परब्रह्मविदां सिद्धयसिहयादिषु समतया रागद्वेषपरिहारेण फलप्रेप्साविर हेण कर्मणां निर्वर्त्तनम् । अत एव आह - ‘राजसं तामसं च त्यागं कृत्वा न कश्चित् [त्याग] फलसंबन्धः,’ इति । सात्त्वि कस्य तु त्यागात् (त्यागस्य) शास्त्रार्थपालनात्मकं फलम् । त्यक्तगुणग्रामग्रहस्य पुनर्मुनेः सत्यतः त्यागवाचो युक्तिरुपपत्ति मती ।। ४-११॥ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१२॥ अनिष्टमिति । अत्यागिनाम्-फलमयानाम् ॥ १२ ॥ अधुना व्यवहारदशायामपि पञ्चस्वपि कर्महेतुषु स्थितेषु बलादेवामी अविद्यान्धाः पुमांसः स्वात्मन्येव सकलकर्तृभाव भारमारोपयन्ति । अतो निजयैव धिया आत्मानं बध्नन्ति, न तु वस्तुस्थित्या अस्य बन्धः इत्युपदिश्यते पञ्चेमानि महाबाहो कारणानि निबोध मे। सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टा दैवमेवान पंचमम् ॥ १४ ॥
- BN परमब्रह्म 2. B फलप्रेक्षा 3. Bन किचित् 4. SBN तन्मयानाम् . 5. B बलादमी 6. B आरोपयन्त्येते 266 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता Jio शरीरवाङमनोभिहि यत्कर्मारभतेऽर्जुन । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥ + तत्रैवं सति कर्तारमात्मानं केवलं तु यः। न - पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमन्लोकान हन्ति न निबद्ध यते ॥ १७ ॥ पञ्चेत्यादि न निबद्धयते इत्यन्तम् । कृतः अन्तः, निश्चयः यत्रेति कृतान्तः, सिद्धान्तः । अधिष्ठानं, विषयः । दैवम्, प्राजितं शुभाशुभम् । पञ्चैते अधिष्ठानादयः सामग्री रूपतां प्राप्ताः सर्वकर्मसु हेतवः । । अन्ये तु, अधिष्ठीयते अनेन सर्वं कर्म इति बुद्धिगतं रजोलब्धवृत्तिकं धृतिश्रद्धासुखविविदिषाविविदिषारूपपञ्चक परिणामिकर्मयोगशब्दवाच्यमधिष्ठानं क्वचित् प्रयत्नशब्देन उक्तम् । कर्ता, अनुसन्धाता बुद्धिलक्षणः । करणं मनश्चक्षु रादि, बाह्यमपि च खड्गादि । चेष्टा प्राणापानादिका । दैव शब्देन धर्माधमौं; ताभ्यां च बुद्धिगताः सर्वेऽपि भावा उप लक्षिताः [इति] । अन्ये तु अधिष्ठानम् ईश्वरं मन्यन्ते । tel अकृतबुद्धित्वात्, अनिश्चितप्रज्ञतया । यः पुनरहंकार वियोगदाढर्येन प्रागुक्तयुक्तिशतशोधितेन कर्माणि करोति न स बन्धभाक्’, कृतबुद्धित्वात् इत्याशयः ।। १३-१७ ॥
- B, N न संबन्धमाक् अष्टादशोऽध्यायः 267 ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८॥ ज्ञानमिति । कर्मणि चोदना प्रवृत्तीच्छा । तत्समये ये षाम् अबोधमात्रनिष्ठत्वात् ज्ञानज्ञेयज्ञातृश्रुतिवाच्यता’, तेषा मेव सम्यग्ग्रहणरूपं यत् फलाभिसंधानेन आत्मीयबुद्धया स्वीकरणम्, अहमेतत् भोक्ष्ये, यतो मया कृतम्’ इत्येवं रूपम्; तत्समये तथा निर्वर्तनावसरे करणकर्मकर्तृशब्दाभिधेयत्वम्, आविष्टत्वात् । अतो योगिनाम् आवेशो नास्तीति तान् प्रति करणादिगिरां प्रसङ्गो नास्ति, अपि तु ज्ञानादिमात्रे एव [इति] तात्पर्यम् ॥ १८ ।। अथैषां षण्णामपि संक्षेपेण गुणभेदात् भेदं दर्शयितुमाह ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ १९ ॥ ज्ञानमिति । गुणानां संख्यानं निश्चयो यत्र, तत्र सांख्यीयकृतान्ते ज्ञानादित्रिविधमुच्यते यत्, तच्छृणु इति संगतिः । ‘ज्ञानम्’ इत्यनेन ज्ञाने क्रियायां च यत् करणं तत् द्विविधमुक्तम् । एवं ‘कर्म’ इति ज्ञेयं कार्यं च; ‘कर्ता’ इति ज्ञाता कर्ता चेति ।। १९ ।।
- B -बाच्यतया 2. Kज्ञ नमात्र एव 3. B omits गुण 4. B, N, Komit कर्तेति 268 धीमद्भगवद्गीता गीतार्थसंग्रहोपेता तत्र’ ‘सर्वभूतेषु’ इत्यादिना श्लोकत्रयेण (श्लो.२०-२२) ज्ञानकरणस्य त्रैरूप्यमुक्तम् । अत एव ‘येन’ इति तृतीया । इयता च ज्ञानकरणसामान्यस्य स्वरूपमुक्तम् । ‘नियतम्’ इत्यादिना श्लोकत्रयेण (श्लो. २३-२५) कर्मणो ज्ञेयकार्यरूपस्य द्वैविध्यम्; ‘मुक्तसंगः’ इत्यादिना श्लोकत्रयेण (श्लो. २६-२८) तु कर्तुद्विरूपस्य संक्षेपेण स्वरूपम्; करणविशेषस्य स्वरूपभेद प्रतिपादनार्थं [ ‘प्रवृत्तिम्’ इत्यादिना श्लोकत्रयेण (३०-३२)] बुद्धेस्वैविध्यं निरूपितम् । तद्द्वारेण करणान्तराणामपि वैविध्यमुपलक्षितम् । करणस्य तु इतिकर्तव्यतापेक्षित्वात् इति कर्तव्यतायाश्च धृत्यादिपञ्चकरूपत्वेऽपि, श्रद्धायाः पूर्वमुक्तत्वात्, विविदिषाविविदिषयोश्च धृतिसुखाभ्यामाक्षेपात् तयोस्त्र विध्यम् ‘धृत्या यया’ इत्यनेन [श्लोकत्रयेण (३३-३५)] ‘सुखं त्विदानीम्’ इत्यनेन [श्लोकत्रयेण (३६-३९)] चोक्तम् । तदाह सर्वभूतेषु येनैकं भावमव्ययमीक्षते। का अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥२०॥ की पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् ।। वेत्ति सर्वेषु भूतेषु तद्राजसमिति स्मृतम् ॥ २१ ॥ यत्वकृत्स्नविदेकस्मिन् कार्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥
- Sadds शरीरे after तत्र 2. B, N record an alternative reading सामर्थ्यस्य for सामान्यस्य by saying सामर्थ्यस्येत्यन्यादर्श 3.S-विध्यमुपलक्षितम् अष्टादशोऽध्यायः 269 सर्वभूतेषु इत्यादि समुदाहृतमित्यन्तम् । विभक्तषु, देव मनुष्यादितया । पृथक्त्वेन, इह मे प्रीतिः इह मे द्वेषः इत्यादि बुद्धया। अहेतुकम्, कारणमविचार्यैव अभिनिवेशावेशवशात् क्रोधरागादिग्रहणं यत् तत्तामससंज्ञम् ।। २०-२२ ।। नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते । २३ ॥ यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते क्लेशबहुलं तद्वाजसमिति स्मृतम् ॥ २४ ॥ अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत् तत् तामसमुच्यते ॥ २५ ॥ नियतमित्यादि तामसमुच्यते इत्यन्तम् । नियतम् - कर्तव्यमिति । क्लेशैः अविद्याद्यैः बहुलं व्याप्तम् । मोहात् अभिनिवेशमयात् ।। २३-२५ ॥ मुक्तसंगोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध यसिद्ध योनिविकारः कर्ता सात्त्विक उच्यते ॥२६॥ रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्त्यते ॥ २७ ॥ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः। विषादी दीर्घसूत्रश्च कर्ता तामस उच्यते ॥ २८ ॥
- S बहुलैः270 श्रीमद्भगवद्गीता गीतार्यसंग्रहोपेता , मुक्तसङ्ग इत्यादि तामस उच्यते इत्यन्तम् । अहं कर्ता इति न वदन्, तच्छीलः, तद्धर्मा’, तत्साधुकारी वा यो न भवति इति अनहंवादी इति । अनेन णिनिना व्यवहारमात्र संवृत्तिवशेन योगिनोऽपि ‘अहं करोमि’ इति वचो न निषिद्धम् । हर्षशोकान्वितः,सिद्धयसिद्धयोः । निकृतिः नैर्घण्यम् ।।२६-२८॥ बुद्धर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥ बुद्धेरिति । बुद्धिः निश्चयः । धृतिः सन्तोषः । सर्वो हि सुकृतं दुष्कृतं वा कृत्वा अन्ते ‘अवश्यं कृतं करणीयं, किम न्येन'3 इति धियं गृह्णाति । अन्यथा क्रियाभ्यो व्युपरमे को हेतुः स्यात् ? अतः सर्वस्यैव धृतिरस्तीति तात्पर्यार्थः । पदार्थस्त्व प्रसिद्धो व्याख्याय (स्य)त एव ।। २९ ।। प्रवृत्ति च निवृत्ति च कार्याकार्ये भयाभये । बन्धं मोक्षं च या बुद्धिर्वेद सा सात्त्विको मता ॥३०॥ यया धर्ममधर्म च कार्य चाकार्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१॥ अधर्म धर्ममिति या बुद्ध यते तमसान्विता । सर्वार्थान् विपरीतांश्च बुद्धिः सा तामसी मता ॥ ३२॥ प्रवृत्तिमित्त्यादि तामसी मतेत्यन्तम् । अयथावत् - अस म्यक् ।। ३०-३२ ।।
- N तद्धर्मः 2. S न यो भवति; B,N,K omit न 3. SN किमनेन piya अष्टादशोऽध्यायः 1271 धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः। ना योगेनाव्यभिचारिण्या धृतिः सा सात्त्विको मता ॥३३॥ । यया तु धर्मकामार्थान धृत्या धारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४॥ यया स्वप्नं भयं शोक विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा तामसी मता ॥ ३५ ॥ Hधृत्येत्यादि तामसी मतेत्यन्तम् । मनःप्राणेन्द्रियक्रियाः -योगेन धारयति; यथा ‘किं ममोपभोगादिभिः? सर्वथैवात्मा - रामो भूयासम्’ इति मन्वानः । प्रसङ्गेनेति-न तथा अभि निवेशेन । निद्राकलहादिष्वेव यया सन्तोषं बध्नाति तत्परतया, । सा तामसी धृतिः ।। ३३-३५ ।। pी सुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च नियच्छति ॥ ३६॥ यत्तदात्वे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं विद्यादात्मबुद्धिप्रसादजम् ॥ ३७ ॥ विषयेन्द्रियसंयोगाद्यत्तदात्वेऽमृतोपमम् । परिणामे विषमिव तद्राजसमिति स्मृतम् ॥ ३८ ॥ यदग्ने चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥ सुखमित्यादि तामसमुदाहृतमित्यन्तम् । तदात्वे, अभ्या सकाले । विषमिव, जन्मशताभ्यस्तविषयसङ्गस्य दुष्परिहार त्वात् । उक्तं च श्रुतौ 272 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ‘क्षुरस्य धारा विषमा दुरत्यया’ इत्यादि । आत्मप्रसादात् बुद्धिप्रसादो जायते, अन्यस्यापेक्ष्यमाणस्या भावात् । विषयेन्द्रियाणां परस्परसंयोगजं सुखम्, चक्षुष इव रूपसंबन्धात् । निद्रातः आलस्येन प्रमादेन पूर्वं व्याख्यातेन यत् सुखं तत्तामसम् ॥ ३६-३९ ।। mr न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यारित्रभिर्गुणैः ॥ ४०॥ नाला न तदस्तीति । एवं कर्तृकर्मकरणानां बुद्धिधृत्योः सुखस्य च सत्त्वादिभेदभिन्नानां परस्पराङ्गाङ्गिभावबाध्यबाधकत्व समच्चयात् वृत्तिक्रमयोगपद्यादियोगात् अपरिसंख्येयभेदत्त्वात विविधफलप्रसवसमर्थत्वम् इति । अनेन कर्मणां प्राक् सूत्रितं गहनत्वं वितत्य सहेतुकं निर्णीतम् । सर्वे चैते देवादिस्थावरान्ताः गुणत्रयसंबन्धं नातिकामन्ति । उक्तं हि आ ब्रह्मणश्च कीटान्तं न कश्चित्तत्त्वतः सुखी। करोति विकृतीस्तास्ताः । सर्व एव जिजीविषुः ॥ इति तत्त्वतो हि सुखं गुणातिक्रान्तमनसः, नेतरस्येत्याशयः ॥४०॥ .
- S, B–संप्रयोगजम् 2. S, B, N आलस्येन शठलया प्रमादेन 3. N -कारणानाम् 4.S-पद्यादिभेदात् 5.S,N कोटाच्च 6. S,B,N omit this second half of the verse 273 न्याय अष्टादशोऽध्यायः एवमियता षण्णां प्रत्येकं त्रिस्वरूपत्वं धृत्यादीनां च प्रतिपादितम् । ‘तन्मध्यात् सात्त्विके राशौ वर्तमानो दैवीं संपदं प्राप्त इह ज्ञाने योग्यः, त्वं च तथाविधः’ इत्यर्जुनः प्रोत्साहितः । अधुना तु इदमुच्यते- यदि तावदनया ज्ञानबुद्धया कर्मणि भवान् प्रवर्तते तदा स्वधर्मप्रवृत्त्या विज्ञानपूततया च न कर्मसंबन्धस्तव । अर्थतन्नानुमन्यसे, तदवश्यं तव प्रवृत्त्या तावत् भाव्यम्; जाते रेव तथाभावे स्थितत्वात् । यतः सर्वः स्वभावनियतः कुतश्चिद्दोषात् तिरोहिततत्स्वभावः कंचित्कालं भूत्वापि, तत्तिरोधायकविगमे स्वभावं व्यक्त्यापन्नं लभत एव । तथाहि एवंविधो वर्णनां स्वभावः । एवमवश्यंभाविन्यां प्रवृत्तौ ततः फलविभागिता भवेत् । तदाह ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥ शमो दमस्तथा शौचं क्षान्तिरार्जवमेव च।। ज्ञानं विज्ञानमास्तिक्यं ब्राह्म कर्म स्वभावजम् ॥४२॥ शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥ कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । पर्युत्थानात्मकं कर्म शूद्रस्यापि स्वभावजम ॥ ४४ ॥
- S,B,N स्वस्वभावनियतः 2. S,B,N –हिततत्तत्स्वभावः गीता-18 274 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता - स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः । स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु ॥ ४५ ॥ यतः प्रवृत्तिर्भूतानां येन विश्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥ ४६ ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥ सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥ असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः। नैष्कर्म्यसिद्धि परमां संन्यासेनाधिगच्छति ।। ४९ ।। सिद्धि प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे। समासेन तु कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥ बुद्धचा विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ।। ५२ ॥ अहंकारं बलं दर्प कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥ ब्रह्मभूतः प्रसन्नात्मा न शोचति न हृष्यति । समः सर्वेषु भूतेषु मक्ति लभते पराम् ॥ ५४ ॥ भक्त्या मामभिजानाति योऽहं यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ।। ५५ ॥ अष्टादशोऽध्यायः 275 सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥ चेतसा सर्वकर्माणि मयि संन्यस्य भारत। बुद्धियोगं समाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत् त्वमहंकारं न मोक्ष्यसि विनंक्ष्यसि ॥ ५८ ॥ यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैव व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥६॥ ब्राह्मणेत्यादि अवशोऽपि तत् इत्यन्तम् । ब्राह्मणादीनां कर्मप्रविभागनिरूपणस्य स्वभावोऽवश्यं नातिकामति’ इति क्षत्रियस्वभावस्य भवतोऽनिच्छतोऽपि प्रकृतिः स्वभावाख्या नियोक्तृताम् अव्यभिचारेण भजते । केवलं तया नियुक्तस्य पुण्यपापसंबन्धः । अतः मदभिहितविज्ञानप्रमाणपुरःसरीकारेण कर्माण्यनुतिष्ठ । तथा सति बन्धो निवर्त्यति । इत्यस्यार्थस्य परिकरघटनतात्पर्य महावाक्यार्थस्य । अवान्तरवाक्यानां स्पष्टा (ष्टोऽर्थः । समासेन (श्लो. ५०) संक्षेपेण । ज्ञानस्य, प्रागुक्तस्य । “निष्ठां (ष्ठा)’ वाग्जालपरिहारेण निश्चितामाह । बुद्धया
- S, B, N omit 7 and read arfa atafa 2. S, B, N करबन्धनघटन 3. Somits समासेन 276 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता विशुद्धया इत्यादि सर्वमेतत् व्याख्यातप्रायमिति न पुनरायस्यते। ।। ४१-६० ।। ईश्वरः सर्वभूतानां हृद्येष वसतेऽर्जुन । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥ तमेव शरणं गच्छ सर्वभावेन भारत । मत्प्रसादात् परां सिद्धि स्थान प्राप्स्यसि शाश्वतम्॥६२॥ ईश्वर इति । तमेवेति । एष ईश्वरः परमात्मा अवश्यं शरणत्वेन ग्राह्यः । तत्र हि अधिष्ठातरि कर्तरि2 बोद्धरि स्वात्ममये विमृष्टे, न कर्माणि स्थितिभाजि भवन्ति । न हि निशिततरनखरकोटिविदारितसमदकरिकरटगलितमुक्ता फलनिकरपरिकरप्रकाशितप्रतापमहसि सिंहकिशोरके गुहा मधितिष्ठति चपलमनसो विद्रवणमावबलशालिनो हरिण पोतकाः स्वैरं स्वव्यापारपरिशीलनापटुभावमवलंबन्ते इति । ‘तमेव शरणं गच्च्छ’ इत्युपक्रम्य ‘मत्प्रसादात्’ इति निर्वाहवाक्यमभिदधत् भगवान् परमात्मानम् ईश्वरं वासुदेवं च एकतया योजयति इति ।। ६१-६२ ।। इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
- N-रारभ्यते 2. B omits कर्तरि 3. BN विस्पष्टे 4. B omits – परिकर – 5. Kहिरण - अष्टादशोऽध्यायः 277 इति त इति । तदेवेदं (तवेदं?) ज्ञानम् उक्तं गुह्यात्, वेदान्तादपि, गुह्यं, परमाद्वैतप्रकाशनात् । एतच्चाशेषेण विमृश्येति2 - तात्पर्यमत्र विचार्येत्यर्थः ।। ६३ ।। तच्च तात्पर्य यथावसरम् अस्माभिः शृङ्गग्राहिकयैव प्रकाशितं यद्यपि; तथापि स्फुटम् अशेषविमर्शनं प्रदर्श्यते । उपादेयतमं ह्यदः । नास्मिन् निरूप्यमाणे श्रूयमाणे वा मतिस्तृ प्यति । ‘गुह्यतमं यदत्र निश्चितं तज्ज्ञानमिदानीं शृणु’ इत्याह सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।। इष्टोऽसि मे दृढमतिस्ततो वक्ष्यामि ते हितम् ॥ ६४ ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥ सर्वेति । मन्मना इति । मन्मना भव इत्यादिना शास्त्रे ब्रह्मार्पणे एव सर्वथा प्राधान्यम् इति निश्चितम्; ब्रह्मार्पण कारिणः शास्त्रमिदमर्थवत् इत्युक्तम् ।। ६४-६५ ।। आह च सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६६ ॥ सर्वधर्मानिति । यदिदं युद्धकरणे प्रासङ्गिकबन्धुवधादि, तस्य सर्वस्य ‘अहं कर्ता’ इत्यात्मधर्मतां परित्यज्य; तथा
- S एतच्चाविशेषण 2. BN omit विमृश्येति and read संग्रहतात्पर्यम् 278 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ‘आचार्यादिहननक्रियानिषेधे मम धर्मो भविष्यति’ इति मनसा विहाय; मामेवैकं सर्वकर्तारं स्वतन्त्रं शरणं सर्वस्वभावाधि ष्ठायकतया व्रज । अत एवाहं सर्वज्ञः सर्वेभ्यः पापेभ्यस्त्वां मोक्ष यिष्यामि इति । मा शुचः, किंकर्तव्यतामोहं मा गाः ।। ६६ ।। इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥ इदमिति । अस्य ज्ञानस्य गोप्यमानत्वं सिद्धिदम्, सर्व जनाविषयत्वात् । तपसा तावत् पापग्रन्थौ विशीर्णे कुशलपरि पाकोन्मुखता भवति, इति पूर्वं तपः; तपसः श्रद्धा, सैव भक्तिः । श्रद्धापि उपजाता कदाचित् न प्ररोहति, सौदामिनीव क्षण दृष्टनष्टत्वात् । ततः तत्प्ररोहे श्रोतुमिच्छा भवति । इयदपि च कस्यचिदनीश्वरेऽवस्तुनि शुष्कसांख्यादिज्ञाने भवति । सेश्व रेऽपि वा कस्यचित् फलाथितया फलमेव प्रधानीकृत्य भगवन्तं च स्वात्मानं तदुपकरणपात्रीकरणेन न्यक्कृत्य भवेत् । यदुक्तम् ‘पुरुषश्च कर्मार्थत्वात्’ (JS, III, i, 6 ) ‘कर्माण्यपि फलार्थत्वात्’ (JS, III, i, 4 ) इति । एवमुभयथापि भगवति असूयैव अनादर इत्यर्थः ।। ६७ ।।
- B, N ममाधर्मो 2.S omits एकं– स्वतन्त्रम् 3. S,B मा गमः 4. Sadds जायते after श्रद्धा 5. Nक्षणदृष्टत्वात अष्टादशोऽध्यायः 279 य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्ति मयि परां कृत्वा स मामेष्यत्यसंशयः ॥ ६८ ॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ।। ६९ ॥ अध्येष्यते च य इमं धर्म्य संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥ श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभाल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्॥७१ कच्चिदेतच्छ्रतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रणष्टस्ते धनञ्जय ॥ ७२ ॥ य इदमित्यादि धनञ्जयेत्यन्तम् । भक्तिमिति-एतदेव मयि भक्तिकरणं यत् भक्तेष्वेतन्निरूपणम् । अभिधास्यतिर, आभिमुख्येन शास्त्रोक्तप्रक्रियया, धास्यति वितरिष्यति [यः] स मन्मयतामेति इति विधिरेवैष नार्थवादः । एवंमन्यत्र ।। ६८-७२ ।। अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसम्मोहः करिष्ये वचनं तव ॥ ७३ ॥ नष्ट इति । नष्टो मोह इत्यादिना ‘युद्धप्रवृत्तिस्तावद र्जुनस्योत्पन्ना, न तु सम्यग्ब्रह्मवित्त्वं जातम्’ इति सूचयन् अनीता भाविनोऽनुगीतार्थस्यावकाशं ददाति ।। ७३ ॥ rant, y
- B,N मद्भक्तेषु 2. SBN मद्भक्तेष्वभि280 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता संजय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ।। व्यासप्रसादाच्छ्तवान् एतद्गुह्यतरं महत् । योगं योगीश्वरात् कृष्णात् साक्षात्कथयतः स्वयम् ॥७॥ राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च पुनः पुनः ॥ ७६ ॥ तच्च संस्मृत्य परमं रूपमत्यद्भुतं हरेः । विस्मयो मे महाराज प्रहृष्ये च पुनः पुनः ॥ ७७ ॥ यत्न योगीश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीविजयो भूतिधुवा नीतिर्मतिर्मम ॥ ७८ ॥ ॥ इति श्रीमद्भगवद्गीतायां अष्टादशोऽध्यायः ॥ इत्यहमित्यादि मतिर्ममेत्यन्तम् । संजयवचनेन संवाद मुपसंहरन् एतदर्थस्य गाढप्रबन्धक्रमेण निरन्तरचिन्तासन्तानोप कृतनैरन्तर्यादेव चान्ते सुपरिस्फुटनिर्विकल्पानुभवरूपतामापा द्यमानं स्मरणमात्रमेव परब्रह्मप्रदायकम् इत्युच्यते । एवं भग वदर्जुनसंवादमात्रस्मरणादेव तत्त्वावाप्त्या श्रीविजयविभूतय इति ।। ७४-७८ ॥ ॥ शिवम् ।।
- S, B तत्त्वव्याप्त्या अष्टादशोऽध्यायः 281 अत्र संग्रह श्लोकः भक्त्वाऽज्ञानविमोहमन्थरमयीं सत्त्वादिभिन्नां धियं प्राप्य स्वात्मविबोधसुन्दरतया विष्णुं विकल्पातिगम् । यत्किञ्चित् स्वरसोद्यदिन्द्रियनिजव्यापारमात्रस्थिते (तो?) हेलातः कुरुते तदस्य सकलं संपद्यते शंकरम् ।। ॥ इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपाद विरचिते श्रीमद्भगवद्गीतार्थसंग्रहे अष्टादशोऽध्यायः ।। o आचार्यप्रशस्तिः 2श्रीमान् कात्यायनोऽभूद्वररुचिसदृशः प्रस्फुरद्वोधतृप्त ___स्तद्वंशालंकृतो यः स्थिरमतिरभवत् सौशुकाख्योऽतिविद्वान् । विप्रः श्रीभूतिराजस्तदनु समभवत् तस्य सूनुर्महात्मा येनामी सर्वलोकास्तमसि निपतिताः प्रोद्धृता भानुनेव ।।१।। तच्चरणकमलमधुपो भगवद्गीतार्थसङ्ग्रहं व्यदधात् । अभिनवगुप्तः सद्विज लोटककृतचोदनावशतः ।। २॥ ersite अत इदमयथार्थं वा । P यथार्थमपि सर्वथा नैव ।
- K स्वात्मविभूत-गणी idiya 2. S श्रीमत्कात्यायनो 3. S लोठककृत- BN लोककृत - 282 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता विदुषामसूयनीयं कृत्यमिदं बान्धवार्थं हि ।। ३ ।। अभिनवरूपा शक्ति स्तद्गुप्तो यो महेश्वरो देवः । तदुभयथामलरूपम् अभिनवगुप्तं शिवं वन्दे ।। ४ ।। परिपूर्णोऽयं श्रीमद् भगवद्गीतार्थसंग्रहः [सु] कृतिः । त्रिणयनचरण [वि] चिन्तन लब्धप्रसिद्धेरभिनवगुप्तस्य ।। ५ ।। ॥ इति शिवम् ।।
-
B, K, S तदुभययामल This verse is given differently in different Mss. S परिपूर्णोऽयं गीतार्थसंग्रहः। कृतिस्त्रिानयनचरणचिन्तनलब्ध प्रसि द्वेश्श्रीमदभिनवगुप्तस्य । B, N, K अत इत्ययमर्थसंग्रहः । [N substitutes this sentence with परिपूर्णोऽयं श्रीमद्भगवद्गीतार्थसंग्रहः।] कृतिश्चेयं परमेश्वरचरण [K adds सरोरुह चिन्तन लब्धचिदात्मसाक्षात्काराचार्याभिनवगुप्तपादानाम् । 283 अष्टादशोऽध्यायः ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ३ (व्या) सांख्यगृह्याः - सांख्यानां पक्षमाश्रिताः, तद्गृहासक्ताः पशवः पशुतुल्या इति वा । ग्रह उपादाने इति धातोः ‘पदास्वैरिबाह्यापक्ष्येषु च’ (PA, III, i, 119) इति पक्ष्येऽर्थे क्यप् । ‘गृह्यं गुदे ग्रन्थभेदे- - - गृहासक्तमृगादौ ना –.’ इति मेदिनी। मीमांसककञ्चुकानुप्रविष्टा इत्यस्य पण्डिता इत्युपरि तनेन व्यवहितेन संबन्धः । श्येनाद्येव तु हिंसा इत्यादि । अत एव ‘तस्मादनङ्गभूतायां हिंसायामेतदुच्यते । उद्देशाच्च फलत्वेन श्येनादौ न विधीयते ।। भावनाविधिरप्येष फलांशाद्विनिवर्तते ।’ इत्यादि श्लोकवार्तिकम् (I,i,2,verses 235-36)। पार्थसारथि मिश्रोऽपि ‘श्येनादौ हि विधीयमाने फलत्वेनोद्दिश्यते परं हिंसा - - -न चैतावता तस्या विधेयत्वम् । न हि “यत् विधिप्रमेयं तत् विधेयम्’ इति विधेयलक्षणम्; कि तहि? “यत्राप्रवृत्तः पुरुषो विधिवशात् प्रवर्तते तत् विधेयम्’ । न च फलस्य तदस्ति; विधितः प्रागेव तत्र रागतः प्रवृत्तेरविधेयत्वम् - - - तथा च - - - साध नेतिकर्तव्यतयोरेव विधेयत्वं, न फलस्य’ । 284 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता इत्याह। फलांशे इत्यादि । श्लोकवार्तिके दृश्यमानपाठस्तु __ ‘फलांशे भावनायाश्च प्रत्ययो न विधायकः । इति । ‘प्रत्ययोऽनुविधायक’ इति पाठस्य यदि साधुत्वमिष्टम्, तदा लिङादिः प्रत्ययः रागतः प्राप्तस्यैव फलस्य अनु पश्चात् विधायकः अनुवादक इति यावत्, इति कथंचिन्नेयम् । पण्डिता इति मन्यन्ते इति । विद्वांस इति एवम्, अर्थात् ‘न त्यजेत्’ इत्येवं मन्यन्ते इत्यर्थः ।। श्लो. ४-११ (व्या) वैचित्र्यादिति पञ्चम्यर्थस्य प्रयो ज्यत्वस्य षष्ठयन्तत्यागपदार्थे, चित्तवृत्त्येति तृतीयार्थहेतुत्वस्य क्रियमाणस्येति धात्वर्थक्रियायाम्, क्रियमाणस्येत्यस्यापि सामा नाधिकरण्येन षष्ठयन्तत्यागपदार्थे च अन्वयः । का बस्तुगत्या - अन्यप्रभावारूषितयथावस्थितपदार्थस्व रूपेण । तृतीयार्थः अभेदः अव्यवहितोत्तरश्रयमाणत्यागपदा बैंकदेशे त्यागत्वेऽन्वेति । समतया - समत्वबुद्धया; सहार्थयोगे तृतीया। परिहारेणेति तृतीयार्थः प्रयोज्यत्वं फलप्रेप्साविरहेड न्वेति । विरहेणेति तृतीयापि सहार्थयोगे। सात्त्विकस्येति । सात्त्विकपुरुषस्येत्यर्थः । षष्ठ्यर्थः कर्तृत्वं त्यागेऽन्वेति । त्यागादिति पञ्चम्यर्थप्रयोज्यत्वस्य फल पदार्थेऽन्वयः । अष्टादशोऽध्यायः 285 सत्यत इति । सत्यत्वमत्र अबाधितार्थज्ञानजनकत्वम् । तसिः षष्ठ्यर्थे । अबाधितज्ञानजनिकायाः त्यागवाच इति सामानाधिकरण्येनान्वयः । युक्तिः - योगः, प्रयोगः ।। श्लो. १२ (म) प्रेत्येति । प्रेत्य स्थितानामत्यागिना मित्यन्वयः ।। श्लो. १३-१७ (व्या) विविदिषा, अविविदिषा इति च्छेदः । बुद्धिगतम्, रजोलब्धवृत्तिकम्, -पंचकपरिणामि इति त्रितयं कर्मशब्दार्थविशेषणम् । बुद्धिलक्षणः - बुद्धिः अन्तःकरणं लक्षणम्, चिह्नम् अवच्छेदकं वा यस्य सः कर्ता बुद्धयवच्छिन्नः ।। श्लो. १८ (मू ) ज्ञानम् इत्यत्र ज्ञायते अनेनेति करण व्युत्पत्तिरभिमता । व्यक्तीभविष्यतीदमनुपदमेव । (व्या)कर्मणि चोदनेति । सप्तम्यर्थो विषयत्वम् । त्रिविधा कर्मचोदनैव विविधः कर्मसंग्रहः इति मूलगत पूर्वोत्तरार्धार्थयोरभेदान्वयम् ‘येषां तेषाम्’ इत्यध्याहारेण दर्श यिष्यन् व्याख्यातुमारभते - तत्समये येषाम् –… तेषामिति । अबोधमाननिष्ठत्वात् इति । न बोधः अबोधः असम्य ग्ज्ञानं द्वैत ज्ञानम्, तन्मात्रनिष्ठत्वात् इत्यर्थः । अथवा बोध 286 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता मात्रनिष्ठत्वादित्येव विवक्षितमाचार्येण (अकारो लेखकप्रमा दादागतः?) । एवं च बोधमात्रस्य जानातीच्छति करोतीति रीत्या कर्मणि प्रथमप्रवर्तकतया कर्मचोदनेति मूलेन संगतिः । तेषामेवेत्यस्य स्वीकरणम्, अभिधेयत्वम्, तथा आविष्ट त्वात् इत्येतैर्व्यवहितैः संबन्धः । सम्यग्ग्रहणरूपमिति, कर्मणी त्यादिः । तथाच कर्मसंग्रहः इति मूलस्य कर्मणि संग्रह इति सप्तमीसमास इति बोध्यम् ।। श्लो. १९ (व्या) यत् करणमित्यादि । यत् द्विविधं करणं तदुक्तमिति संबन्धः ।। श्लो. २०- २२ (अ) ज्ञानकरणसामान्यस्येति - ज्ञप्ति करणानां क्रियाकरणानां च यत् सामान्यं तस्येत्यर्थः । कर्मणो ज्ञेयकार्यरूपस्येत्यादि । अत्रेदं विवक्षितमिव - ‘कर्मणो ज्ञेयकार्यरूपेण द्विविधस्य त्रैविध्यम् - - - - कर्तुः ज्ञातृ कर्तृरूपेण द्विरूपस्य संक्षेपेण त्रिविधं स्वरूपम्; करणविशेषस्य द्विविधस्य त्रिविधस्वरूपभेदप्रतिपादनार्थम्’ इत्यादि । अतो न काप्यनुपपत्तिः । अस्मिश्च वाक्ये कर्मण इति - धात्वर्थ फलशालिन इत्यर्थः । ज्ञेयकार्यरूपेण - ज्ञानविषयत्वक्रियानिर्व य॑त्वाभ्याम् । ज्ञातृकर्तृरूपेण - ज्ञातृत्वरूपेण क्रियानिवर्तने स्वातन्त्र्यरूपेण च । त्रिविधेति स्थलद्वयेऽपि प्रत्येकमित्यादिः ।। 287 भष्टादशोऽध्यायः के श्लो. २० (म) ज्ञानमिति । पूर्वोक्तरीत्या ज्ञानकरण मित्यर्थः ।। की श्लो. २१ (म) यज्ज्ञानमिति । येन ज्ञानेनेत्यर्थः । अत्र करणे कर्तृत्वोपचारः ‘एधांसि पचन्ति’ इत्यादाविवेति श्रीमधु सूदनसरस्वत्यः ।। श्लो. २२ (मू) यत्त्वकृत्स्नविदिति काश्मीरपाठः ॥ - श्लो. २६-२८ (व्या) तच्छोलस्तद्धर्मा तत्साधुकारी वा यो न भवति इत्यनहंवादी इत्यनेन णिनिनेति । एवं विलिखत आचार्यस्यापाततोऽयमभिप्राय इव - णिनिप्रत्यय एतेष्वर्थेष भवति इति । अत्रेदं चिन्त्यते - णिनेरिमेऽस्तिदा भवितु - मर्हन्ति यदि तद्विधायकस्य ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (PA, III, ii, 78) इति सूत्रस्य ‘आ क्वेस्तच्छीलतद्धर्मतत्सा धुकारिषु’ (PA, III, ii, 134 ) इत्यधिकारविषयत्वं (१३४ १७७) स्यात्; नान्यथा। परन्तु पूर्वोपदर्शितणिनिविधायक शास्त्रस्यैतदधिकारबहिर्भूततया आचार्यादृतः पन्था नातीव क्षोदक्षम इव । परन्तु ‘सुप्यजातौ’ इति सूत्रस्य तदधस्तनेन ‘साधुकारिण्युपसंख्यानम्’ इति वात्तिकेन सहैकवाक्यतया अर्थ वर्णनस्यावश्यकत्वेन तच्छीले तत्साधुकारिणि च णिनेः प्राप्तौ तदर्थद्वयमध्यगतत्वेन उक्ताधिकारसूत्रादवगम्यमाने तद्धर्मार्थेऽपि णिनिः सन्दंशन्यायेन भवति इति वा; काशिकायाम् पूर्वोक्त वार्तिकस्य ‘साधुकारिणि च’ इति पाठदर्शनात् तत्रत्यचकारः अनुक्तं तद्धर्मार्थमपि समुच्चिनोति इति वा आचार्यस्याशय इति प्रतिभाति । 288 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ना अन्यच्च – तन्त्रवार्तिके प्रथमाध्यायतृतीयपादे सप्तम सूत्रव्याख्यानावसरे ब्रह्मवादिशब्दस्यार्थ विचारप्रस्तावे णिनि मधिकृत्य भट्टपादैः ‘तच्छीलतद्धर्मतत्साधुकारित्वनिमित्तत्वात्’ इति दशितम् । तदनुसारेणाभिनवगुप्तपादैरपि विलिखितमि त्यपि पश्यामः । भट्टपादस्यायमाशयः- ‘सुप्यजातौ’ इति सूत्रेण ताच्छील्ये तदधस्तनेन वार्तिकेन साधुकारिणि चार्थे णिनिः । ‘आवश्यकाधमयॆयोणिनिः’ (PA, III, iii, 170) इति आवश्य कार्थकणिनिस्तु तद्धर्मार्थे पर्यवस्य ति । न त्विह ‘आ क्वेः’ इति सूत्रस्य व्यापारोऽस्ति इति । विस्तरस्तु शब्दकौस्तुभे प्रौढ मनोरमायां च ‘ब्रह्मणि वद उपसंख्यान’मिति वार्तिकस्य सप्य जातावितिसूत्राधस्तनस्यार्थविचारसंदर्भे ।। श्लो. २९ (व्या) पदार्थस्त्वप्रसिद्ध इत्यादि । अत ऊर्ध्वं तु अप्रसिद्धः पदार्थ एव व्याख्यास्यते इत्यर्थः ।। _श्लो. ३५ (मू ) मदमेव चेति रामकण्ठीयः पाठः ॥ " श्लो. ३३-३५ (व्या) योगेन धारयतीति विवक्षित योगस्वरूपमाह - किं ममेत्यादिना । तथा च एतादृशयोग स्वरूपया धृत्या अव्यभिचारिण्या, सात्त्विकं पुरुषं कदाप्यवि मुञ्चन्या धारयति इति मूलार्थोऽभिप्रेत आचार्येणेति भाति ।। श्लो. ३६-३९ (व्या) आत्मप्रसादात् बुद्धिप्रसादो जायत इति । अयं च कार्यकारणभावरूपोऽर्थः आत्मबुद्धि अष्टादशोऽध्यायः 289 प्रसादजमित्यस्य मूलस्याथिकार्थ एव; स च आत्मबुद्धिपदयोः पूर्वापरीभावसूचितः । विग्रहस्तु आत्मा च बुद्धिश्च आत्मबुद्धी; प्रसादाज्जायत इति प्रसादजम्, आत्मबुद्धयोः प्रसादजमिति ।। श्लो. ४० (व्या) परस्परेत्यादि । परस्परम् अङ्गाङ्गि भावस्य बाध्यबाधकभावस्य समुच्चयस्य च समाहारः, तस्मा दित्यर्थः । वृत्तीत्यादि - वृत्तीनां क्रमस्य यौगपद्यादेश्च योगात् संबन्धात् इत्यर्थः । समुच्चयात् योगात् इति पञ्चमीद्वयस्या प्यर्थः प्रयोज्यत्वम् अपरिसंख्येयभेदे अन्वेति । अपरिसंख्येय भेदत्वात् इति - न परिसंख्येया भेदा येषां कादीनां तेषां भावस्तस्मादिति विग्रहः । इयं च पञ्चमी विविधफलप्रसव सामर्थ्यान्वयि हेतुत्वमाह। अत्र च प्रकरणे त्रिगुणमविवेकि - - - - -प्रसवमि । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ।। इति सांख्यकारिका (११-१२) अप्यनुसन्धेया। कर्मणां प्राकसूत्रितं गहनत्वमिति - चतुर्थाध्याये ‘गहना कर्मणो गतिः’ (श्लो. १७) इति सामान्यतः अतिसंग्रहेणोक्तं दुर्जेयत्वम् । वितत्येति - विस्तृत्येत्यर्थः । अत्र प्रकरणे इत्यादिः । श्लो. ४१-६० (अ) ज्ञानबुद्ध या - ज्ञानम् उक्तदैव संपन्निमित्तकं दैवं ज्ञानम्, तद्वासितया बुद्धया अन्तःकरणेन मनसा । तृतीया करणत्वे सहार्थयोगे वा। गीता-19290 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता व्यक्तयापनम् - व्यक्तिमापन्नमिति द्वितीयासमासः । फलविभागितेति । विशेषेण भागिता विभागिता फलस्य विभागिता फलविभागितेति विग्रहार्थः । विशेषेण फलभागितेति यावत् । यद्वा फलभागितेत्येव विवक्षितम् ।। श्लो. ४४ (मू) पर्युत्थानमिति अस्वातन्त्र्यस्य विन यस्य च द्योतकम् आसनपरित्यागं शक्त्या बोधयति, तत्पूविकां शुश्रूषां च लक्षणया ॥ श्लो. ५५ (मू ) योऽहं यश्चास्मि तत्त्वत इति रामकण्ठीयः पाठः । अयमभिप्रायः - भक्तः भक्त्या साधनेन मां वासु देवं परमात्मानम् अभिजानाति । अथवा भक्त्येति तृतीयार्थोऽ भेदः अभिजानातीति धात्वर्थे ज्ञानेऽन्वेति । एवं च भक्त्या त्मकं यत् मद्विषयकमभिज्ञानं तदाश्रय इत्यर्थः । केन प्रकारेण स जानाति ? ‘यः वासुदेव एव अहम् (भक्तवाची अस्म च्छब्दः) मत्स्वरूपः’ इति सोऽभिजानाति । अपि नामेदमस्य ज्ञानं तत्त्वज्ञानम्? ओमित्याह - यश्चास्मि तत्त्वतः इति । यः भक्तश्च एवास्मि अहम् तत्त्वतः परमार्थदृष्टया। तथा च ‘वासुदेवोऽहम्’ इति भक्तस्य यज्ज्ञानं तत् तत्त्वज्ञानमेवेति भावः । अभिजानातीत्यनेनायमेव अभिज्ञः, विज्ञः कृतीति सूचयति । अस्य च तत्त्वज्ञानस्य फलं दर्शयति - ततो मामिति ॥ श्लो. ४१-६० (व्या) ब्राह्मणादीनामिति । इदं च कर्मणि स्वभावे चान्वेति । निरूपणस्येति शेषषष्ठ्यर्थकर्मत्वं धात्वर्थातिकमान्वयि ॥ अष्टादशोऽध्यायः 291 श्लो, ६१-६२ (व्या) निर्वाहवाक्यम् - गीताशास्त्रा र्थस्य निर्वहणात्मकं वाक्यम् । वासुदेवम् - वसुदेवस्य सूनुं गीताचार्यम् ।। श्लो. ६३ (व्या) वेदान्तादपि गुह्यमित्यादि । यद्यपि वेदान्तो जीवब्रह्मणोरैक्यरूपमद्वैतं रहस्यं तत्त्वं बोधयतीति गुह्य एव । तथापि सर्वस्यापि जगतो ब्रह्मप्रकृतिकत्वात् चेत नावत्त्वं ब्रह्माभिन्नत्वमिति रहस्यतरपरमाद्वैततत्त्वप्रकाशकतया अस्य गीताशास्त्रस्य वेदान्तापेक्षयापि गुह्यतरत्वमिति भावः ।। श्लो. ६६ (व्या) नष्टो मोह इतयर्जुनवाक्यानुसारेण मा शुच इति भगवद्वाक्यार्थमाह-किंकर्तव्यतामोहंमा गा इति ।। श्लो. ६७ (व्या) अस्य ज्ञानस्येत्यादि । इदं ज्ञानं गोप्यमानं सत् सिद्धिदमिति पर्यवसितार्थः । अवस्तुनि - अयथार्थे, निष्प्रयोजने वा ।। श्लो. ६८-७१ (व्या) विधिरेवैषः नार्थवाद इति । अत्र च शाङ्करं भाष्यम् ‘– गीताशास्त्राध्ययनं स्तूयते । फलविधिरेव वा —’ (XVIII, 70 ) इत्यादि । श्लो. ७५ (मू) एतद्गुह्यतमं महत् । अत्र ‘एतदित्यादि पदानां सामान्योपक्रमविवक्षया नपुंसकत्वम्; वाक्यस्य विशे षाभिधायित्वात् योगशब्दः पुंस्येव बोद्धव्य’ इति रामकण्ठः ।। श्लो. ७४-७८ (व्या) इत्युच्यत इत्यत्र इति वक्ति इति विवक्षितमिव । धात्वर्थकर्तुः उपसंहरन् इति कर्मकर्तृत्वाद्यनव 292 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता रुद्धत्वे सति प्रथमान्तपदोपस्थापितत्वात् । कर्ता चात्र भगवान् वेदव्यासः । अथवा उच्यते इति कर्मणि लकारानु रोधेन उपसंहरन् इत्यस्य स्थाने उपसंहरता इति कर्तरि तृती यान्तं पदं पठनीयमिति ।। संग्रहश्लोके व्यापारमात्रस्थिते इति मातृकासूपलभ्य मानः पाठः कुरुते इति धात्वर्थोत्थापितकर्ताकाङ्क्षोपशम नाय व्यापारमानस्थितः इति विपरिणामितोऽस्माभिः । एवं च सत्त्वादिभिन्नां धियं भक्त्वा, विष्णु प्राप्य, स्वरसोद्यदि न्द्रियनिजमात्रस्थितः, अर्थात् तत्त्वदर्शी, यत्किंचित् करोती त्यन्वयः । अथवा अस्य इति चतुर्थपादस्थपदानुरोधेन य इति कर्तृवाचकपदमध्याहृत्य इन्द्रियनिजव्यापारमात्रे स्थिते इति विपरिणम्य विष्णुं प्राप्य निरुक्तव्यापारमात्रे स्थिते सति यो यत्किंचित् कुरुते तत् अस्येति अन्वयो वर्णनीयः ।। आचार्यप्रशस्तौ चतुर्थश्लोके तद्गुप्तो यो महेश्वर इति । आदिशक्तिम् अम्बां रुद्रमहेश्वरगोप्त्रीमाह भगवती श्रुतिरपि ‘अवाम्ब! रुद्रमदिमाव देवं त्यम्बकम् ।’ (तै. सं. I, viii, 6) इति । ॥ शिवम् ।। क्वाहं मन्दमतिः क्वेयं प्रक्रिया स्पन्दतन्त्रगा। तत्राप्यगाधो गूढार्थः श्रीमद्गीतार्थसंग्रहः ॥१॥ अष्टादशोऽध्यायः मिल 1293 आचार्याभिनवगुप्तस्यातिसंक्षिप्तलेखिनः । तथापि तत्कृपावेशायत्किचिल्लिखितं मया ॥ २ ॥ श्रीमच्छङ्करनारायणाख्येन गुरुभक्तितः । तेन संप्रीयतां कृष्णो वासुदेवः शिवायः ॥ ३ ॥ कृष्णेन वासुदेवेन पुरा गीता रणांगणे । पार्थायानुगृहीता तां महामाहेश्वराग्रणीः ॥ ४ ॥ आचार्योऽभिनवो गुप्तो व्याचख्यावतिगूढवाक् । तत्प्रसादाच्च तां व्याख्यां गीतार्थसंग्रहभिधाम् ॥५॥ गुप्ताभिनवां प्रत्नां शिवामतिशुभोदयाम् । अविस्तृतामगाधां च प्रकटीकृत्य यत्नतः॥ ६ ॥ टिप्पण्याङ्गलभाषायामनुवादादिना सह । श्रीमच्छङ्करनारायणाख्योऽर्पयति सन्मुदे । सच्चिदानन्दमूल्ख्यसूरिणा चोदितः स्वयम् ॥ ७ ॥ योऽध्येता यजुषां महागुरुवरश्रीश्रीनिवासात् पितुः सच्छास्त्रे शिवरामकृष्णकृतिना यः शिक्षितः सादरम् । सोऽयं शङ्करपूर्वको रचितवान्नारायणष्टिप्पणी सुब्रह्मण्यबुधेन्द्रबोधितनयः श्रीकृष्णसन्तुष्टये ॥८॥ चन्द्राभ्रशक्तिभूसंख्ये (१९०१) शाके सिद्धार्थवत्सरे । चैत्रे कृष्णाष्टमीयुक्ते शुक्रे भे वैश्वदेविके ॥ ९ ॥ मेषलग्ने गता पूर्ति टीकादिः सुमिताक्षरा। जीयात् सद्विविदुषां तुष्ट चै यावच्चन्द्रदिवाकरम् ॥१०॥ 294 श्रीमद्भगवद्गीता गीतर्थसंग्रहोपेता प्रीयतामनया श्रीनिवासः शक्तियुत्तः शिवः । यन्मूतिः सच्चिदानन्दरूपा मे हृदि राजते। नाम्ना श्रीचन्द्रपूर्वः शेखरः संयमीश्वरः ॥ ११॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यामष्टादशोऽध्यायः ।। a इति श्रीशङ्करनारायणीया श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी समाप्ता