१७

सप्तदशोऽध्यायः अर्जुन उवाच-गा की ये शास्त्रविधिमुत्सृज्य वर्तन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१॥ ये शास्त्रेति । शास्त्रविधिमनालंब्य ये व्यवहारमाच रन्ति [श्रद्धया], तेषां का गतिरिति प्रश्नः ।। १॥ तदत्रोत्तरं श्रद्धानुसारेण दीयते श्रीभगवता श्रीभगवानुवाच विविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विको राजसी चैव तामसी चेति ताः शृणु ॥ २ ॥ त्रिविधेति । तत्र चायमाशयः– शास्त्रं नाम किल पक्षपातारूषितबुद्धिपूर्वकत्वविहीनम् तथा परामर्शदाढर्च रूपं बोधस्वातन्त्र्यादेव’ दृढं परामृष्टं तथा फलादिस्वभावं, शुद्धविमर्शनिष्यन्दवाक्तत्त्वपरमार्थपरब्रह्मस्वभावम्, स्वतन्त्र प्रसरतया आन्तरात् बोधस्वभावात् बहिःप्रसरपर्यन्तं, तच्च सुसूक्ष्मप्रणवादिरूपात्’ व्यवहारप्रसिद्धप्रवादपरंपरापर्यन्तम् । यदाह 67. Bomits श्रीशगवता 2. BN पक्षपातादूषित - 3. B,N,K- रूपबोध 4. B, N, K दृढपरामष्ट (B,N श्य) तया 5. B, Nomit परमार्थ-; S omits the succeeding पर S, K, omit ata; B Substitutes at 7 7. BN -प्रधानादिरूपव्यव 8, B, N-प्रवाह– 248 भीमद्भगवद्गीता गीतार्थसंग्रहोपेता ‘तद्विदां च स्मृतिशीले’ इति । (गौतमधर्मसूत्रम् 1, 2) तच्च स्वत एव हिताहितोपदेशाय कार्याकार्यविवेचकम्। यस्य स्वभावत एव सत्त्वातिरेकसुकुमारं हृदयं, तेनाचरितं शास्त्रितमेव । अन्यस्तु रजस्तमःकलुषीकृतः शास्त्रोक्तमप्या चरन् न आचरति, शास्त्रार्थस्य कात्स्न्येन अननुष्ठानात् । शास्त्रं हि सत्त्ववतामेव फलवदिति शास्त्रमेवाह यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च शीलं च स तीर्थफलमश्नुते ।। इति (MB Aranya, Ch. 80, v. 30) नान्यः, असंयतत्वात् । तस्मात् शास्त्रार्थः परित्यक्त कामक्रोधमोहेषु सफल इति तात्पर्यम् अस्य अध्यायस्य । तदेवैतत् प्रताय्यते, स्पष्टार्थत्वाच्च न विवियते । कि तु केवलं पाठविप्रतिपत्तिनिवारणायैव लिख्यते ।। २॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्द्धः स एव सः ॥ ३ ॥ सत्त्वेति । सत्त्वानुरूपा इत्यत्र सत्त्वशब्दः स्वभाव पर्यायः । अयं पुरुषः आत्मा श्रद्धया अन्यव्यापारोपरि वर्ति न्या अवश्यं संबद्धः; स च तन्मय एव बोद्धव्यः ।। ३ ।। यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः। भूतप्रेतपिशाचांश्च यजन्ते तामसा जनाः ॥ ४ ॥ 68. S omits farge सप्तदशोऽध्यायः 6249 अशास्त्रविहितं घोरं तपस्तप्यन्ति ये जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥५॥ कर्शयन्तः शरीरस्थं भूतग्राममचेतनम् । मां चैवान्तःशरीरस्थं तान्बिद्धचासुरनिश्चयान् ॥ ६॥ यजन्त इत्यादि आसुरनिश्चयानित्यन्तम् । अचेतनम् अविवेकित्त्वात् । मां च कर्शयन्तः शास्त्रार्थाननुष्ठानात् । अत एव ते स्वबुद्धिविरचितां तपश्चर्यां कुर्वणाः प्रत्युत तामसाः ।। ४-६ ॥ आहारोऽपि सत्त्वादिभेदात् त्रिधा श्रद्धावत्; तथा यज्ञ तपोदानानि । तदुच्यते आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तषस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥ आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः।। कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥ यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१०॥ आहार इत्यादि तामसप्रियम् इत्यन्तम् । याता यामाः यस्य ।। ७-१० ।।

  1. N स्वबुद्धिविचारिताम् 2. S omits श्रद्धावत्2.250 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता अफलाकांक्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यसित्येव मनः समाधाय स सात्त्विकः ॥ ११ ॥ अभिसंधाय तु फलं दम्भार्थमपि चैव यः । इज्यते विद्धि तं यज्ञं राजसं चलम ध्रुवम् ॥ १२ ॥ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥ अफलेत्यादि परिचक्षते इत्यन्तम् । मनः समाधाय निश्चयेनानुसंधाय । दम्भार्थमपीति- दंभः लोको मामेवं विधं जानीयादिति । विधि हीनमिति- शास्त्रोक्तक्रियाविही नम्; तदेवासृष्टान्नादिभिविशेषणैवतन्यते ।। ११-१३ ।। वेवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत् तपो मानसमुच्यते ॥१६॥ देवेत्यादि मानसमुच्यते इत्यन्तम् । आर्जवम्-ऋजुता । अगोप्यविषया धृष्टता सत्यमिति; अस्यैव स्वरूपनिरूपणं ‘प्रियहितम्’ इत्यनेन क्रियते । प्रियं च तत्काले; हितं च का लान्तरे । ईदृशं च वाक्यं सत्यमित्युच्यते; न तु यथावृत्तकथन

N लोके सप्तदशोऽध्याय। 251 मात्रम् । भावः-आशयः, तस्य सम्यक् शुद्धिः भावसंशुद्धिः।। १४-१६ ॥ श्रद्धया परयोपेतं तपस्तत् त्रिविधं नरैः । अफलाकाक्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८॥ मूढग्रहेणात्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थ वा तत् तामसमुदाहृतम् ॥ १९ ॥ श्रद्धयेत्यादि तामसमुदाहृतम् इत्यन्तम् । त्रिविधेऽपि तपसि श्रद्धा । सात्त्विकस्य हि तन्मयी एव श्रद्धा । राजसस्य तु रजसि दम्भादावेव श्रद्धा । तमोनिष्ठस्य पुनः परोत्सादना दावेव श्रद्धा। इति त्रिविधमपि तपः श्रद्धयोपेतमिति मुनि राह ।। १७-१९ ॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पाने च तहानं सात्त्विकं स्मृतम् ॥ २० ॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्राजसमिति स्मृतम् ॥ २१ ॥ अदेशकाले यदानमपात्नेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ।।

  1. N यथाववृत्त 2. S,B,N omit भावसंशुद्धिः 252 श्रीमगवद्गीता गीतार्थसंग्रहोपेता जी दातव्यमित्यादि उदाहृतमित्यन्तम् । दातव्यमिति - दद्यादिति नियोगमात्रं पालनीयमिति दोषाभिसंधानाय । परिक्लिष्टं मितादिदोषात् । दानस्य चासत्करणं तत्संप्रदाना द्यसत्करणात् । एवं लौकिकानां सात्त्विकादित्रिप्रकाराशयान सारेण क्रिया व्याख्याता ।। २०-२२ ।। इदानीं ये गुणत्रितय संकटोत्तीर्ण धियः ते क्रियां कथमा चरन्ति इति तादृकप्रकार उच्यते ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्रह्मणा तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥ तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिभिः ॥२५॥ सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ गीयते ॥ २६ ॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥ ओमित्यादि अभिधीयते इत्यन्तम् । ओं तत् सत् इत्ये भिस्त्रिभिः शब्दब्रह्मणो निर्देशः, संमुखीकरणम् । तत्र ओम् इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते ।
  2. S येषामभिसन्धाय, B दोषासन्धाय सप्तदशोऽध्यायः 253 तत् इति सर्वनामपदेन सामान्यमानाभिधायिना विशे षपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते; अभिसं धानस्य विशेषपरिग्रहमन्तरेण अभावात् सकलविशेषानुग्राहि त्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायो गात् । सत् इत्यमुया श्रुत्या प्रशंसा अभिधीयते । क्रियमाण मपि इदं यज्ञादिकं ‘दुष्टम्’ इति बुद्धया क्रियमाणं तामसता मेति । विशिष्ट फलाभिसंधानेन च क्रियमाणं न च सत्, बन्धाधायकमेवेति । तस्मात् ‘कर्तव्यमिदम्’ इति मन्वानाः [फल विशेषमनभिसंदधानाः] यज्ञादि कुर्वाणा अपि न बध्यन्ते । अनेनैवाभिप्रायेण आदिपर्वण्युक्तम् तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः । प्रसह्य वित्ताहरणं न कल्क स्तान्येव भावोपहतानि कल्कः ।। (MB, Adi, Ch, 1, verse 210) इति । कल्कः, बन्धकः । स्वाभाविक इति-‘ब्राह्मणेन निष्का रणं षडङ्ग वेदादि अध्येतव्यम्’ इति । प्रसह्य, शास्त्रलोक प्रसिद्धोचितया चेष्टया । भावेन, सत्त्वादिगुणत्रययोगिना चि तेन उपहतान्येतान्येव बन्धकानि, नान्यथा इति तात्पर्यम् ।
  3. B omits षडङ्गम् 2. B,N,K उपहतान्येव 254 धीमदभगवद्गीता गीतार्थसंग्रहोपेला अतो यज्ञादि यावच्छरीरभावितया कार्यमेव । तदर्थे [च] हितं कर्म अर्जनादि। यदि वा ओम् इत्यनेन समुपशान्तसमस्तप्रपञ्चम्; तत् इत्यनेनोद्भिद्यमानविश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वातन्त्र्य - स्वभावम् सत् इत्यनेन इच्छास्वातन्त्र्यभरविजृम्भमाणभेद कम्, पूर्णत्वेऽपि तावच्चित्रस्वभावतया भवन मिति प्रतिपाद्यते । तथाचोक्तम् ‘सद्भावे साधुभावे च’ इति । तेन परमं प्रशान्तं रूपं पुरस्कृत्य दित्सा-यियक्षा-तितप्सात्मके च्छा-तरङ्गसंगतं च मध्येकृत्य दानयज्ञतपःक्रियाकारककलापपरिपूर्ण यच्चरमं वपुः इदमुल्लसितम्, एतत् खलु समं त्रितयमनर्गलस्य स्वाभाविक रूपम् इति कस्य कि कथं कुतः क्व केन फलं स्यादिति ।। २३-२७ ।। इदानीमश्रद्धावतः तामसं कर्म सर्वथा निष्फलं कारक कलापसंयोजनसमुपजनितप्रयासमात्रफलमेव, इति सर्वथैव अश्रद्धावता न भाव्यमित्युच्यते अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥ ॥ इति श्रीमद्भगवद्गीतायां सप्तदशोऽध्यायः ।।
  4. N,K विहितम् 2. परमप्रशान्तरूपं 3. N omits a 4. S सर्वथैव 5. N-संयोजनमुपजनित 6. S सर्वथा सप्तदशोऽध्यायः 255 - अश्रद्धयेति । असदिति - अप्रशस्तम् । तस्मात् प्रशस्ते कर्मणि यतमानानां सुखेनैव भवति शिवम् इति ॥ २८ ॥ ॥शिवम् ।। अत्र संग्रह श्लोकः स एव कारकावेशः क्रिया सैवाविशेषिणी। तथापि विज्ञानवतां मोक्षार्थे पर्यवस्यति ।। ।। इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविर चिते श्रीमद्भगवद्गीतार्थसंग्रहे सप्तदशोऽध्यायः ।। ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ।। श्लो. १ (व्या) वर्तन्ते इति मूलस्य तात्पर्यार्थमाह व्यवहारमाचरन्तीति । रामकण्ठोऽप्याह ‘वर्तन्ते, क्रियासु व्यवहरन्ति’ इति ।। श्लो. २ (व्या) पक्षपातेत्यादि । पक्षपातेन आ ईषदपि अथवा समन्तात् पूर्णतया वा रूषिता या बुद्धिः तत्पूर्वकत्व विहीनमित्यर्थः । तीर्थफलमिति । तीर्थम् आगमः शास्त्रम्, तदुपदशित फलमित्यर्थः । यद्वा तीर्थं पुण्यतीर्थम्, तत्प्रयोज्यफलमित्यर्थः । ‘निपानागमयोस्तीर्थमृषिजुष्टजले’ इत्युभ यत्राप्यमरः (III, iii, 86) ।। श्लो. ४-६ (व्या) अचेतनम् अविवेकित्वादिति । आ चार्यस्यात्रायमाशय इव - मूले षष्ठे पद्ये भूतग्रामविशेषण 256 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यत् अचेतनमिति, तन्न जडापरपर्यायम् । भूतग्रामे जडत्वस्य लोकप्रसिद्धत्वेनोक्तविशेषणस्यानतिप्रयोजनत्वात्, अनुपदेष्ट व्यत्वाच्च । वस्तुतः शिवाद्वैतवादिन आचार्यस्य दृष्टया सर्वस्यापि चराचरात्मकप्रपञ्चस्य चेतनावत्त्वेन वस्तूनां चेत नाचेतनविभागानभ्युपगमात्, विभावितचैतन्यवत्त्वाविभावित चैतन्यवत्त्वाभ्यामेव विभागात् । अतस्तात्पर्यमाह - अचेतनम् अविवेकित्वादिति । भूतग्रामः अचेतन इति लोकप्रसिद्धिः तस्य प्रसिद्धचेतनावत्सु दृश्यमानविवेकज्ञानाभावप्रयुक्ता न तु वस्तुतश्चेतनाभावप्रयुक्तेति भावः । यद्वा भूतग्रामस्याचेतनत्वं लौकिकानां दृष्यैव । कुत? तेषां विवेकज्ञानशून्यत्वादिति । शास्त्रार्थं सम्यगज्ञात्वा तपआद्यनुष्ठाने आत्मनः क्लेश एव फलम्, न तु फलविधिनिर्दिष्टमिति तात्पर्येण भगवता मां कर्शयन्त इत्युक्त मित्याह - मां चेत्यादिना ।। श्लो. १० (मू) पूति इति पूयी दुर्गन्धे इति भ्वादेर्धातोः क्विपि रूपम् ।। श्लो. ११-१३ (व्या) ‘मनः समाधाय तु शीघ्रगामिनम्’ (वाल्मीकि. सुन्दर. vii, 5, MLJ Press) इत्यादौ मनः समा धायेत्यस्य मनोऽभिप्रायानुसारमित्यर्थपरत्वदर्शनात् प्रकृतोप योगं तदर्थमाह - निश्चयेनानुसंधायेति । यष्टव्यपदसाहचर्यात्त मनःपदं निश्चयात्मकबुद्धिपरमिति भावः । निश्चयेनेति तृतीयार्थः अभेदः अनुसंधानेऽन्वेति । तथा च यष्टव्यमिति निश्चयात्मक मनुसंधानं कृत्वेति पर्यवसितार्थः ।। सप्तदशोऽध्यायः 257 5 श्लो. १ः७-१९ (व्या) तन्मयी इति । तपोमयी इति । सत्त्वमयी इति वा अर्थः । HD श्लो. २०-२२ (व्या) दोषाभिसंधानायेति । नियोगा परिपालने यद् दोषाणामभिसन्धानं निश्चयः, अभितः सर्वतः सन्धानं संघट्टनं संबन्धो वा, तं दूरीकर्तुमित्यर्थः । ‘क्रियार्थोप पदस्य कर्मणि स्थानिनः’ (PA, II, ii, 14) इति चतुर्थी । अथवा दोषानभिसंधायेति विवक्षितमिव । नियोगस्या परिपालने दोषान परिचिन्त्य, दातव्यमिति यहीयते इत्य न्वयः । अथवा दोषानभिसन्धायेति उत्तरान्वयि । ‘अदाने जना मयि दोषान् ब्रूयुः’ इति दोषं विचिन्त्य तत्परिहाराय परिक्लिष्टम् अत्यन्तं क्लिष्टमित्यर्थः ।। जमी श्लो. २३ (मू) ब्रह्मणा तेनेति पाठो रामकण्ठीयः समादृतः । तेनेति तच्छब्दार्थः उक्तनिर्देशत्रयम् । तृतीयार्थः करणत्वम् । तस्य ब्रह्मणेति तृतीयार्थकर्तृत्वस्य च विहिता इत्यनेनान्वयः । ओंकारेण वेदादयो विहिता इत्यस्मिन्नर्थे वर्तते श्रुतिः ‘ओमित्येदक्षरम् - - - -तेनेयं त्रयो विद्या वर्तते (छा.उ. I, i, 1 & 8) फत तदुपरि शाङ्करं भाष्यं च–
  • तेनाक्षरेण प्रकृतेन [ओंकारेण] इयमृग्वेदादिलक्षणा त्रयीविद्या, त्रयीविद्याविहितं कर्मेत्यर्थः - - - - वर्तते, प्रवर्तते । गीता.17 258 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता । (व्या) ओमित्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यत इति । ओमित्यस्य ऊरीकरणार्थो लोकप्रसिद्धः । तद्वा [ओमिति] एतदनुज्ञाक्षरं यद्धि किंचनानुजानाति ओमित्येव तदाह (छा. उ. I, i, 8) इति श्रुतेश्च । शास्त्रार्थोऽग्निहोत्रादिः आदेहसंबन्धमनुष्ठेयत्वेन यावज्जीवमग्निहोत्रं जुहोति - इति श्रुतिचोदित ओंकारोच्चारणपूर्वकमूरीक्रियत इति श्रुति रेवाह 1 ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति (तै. उ. I, 8) इति । अधिकन्तु अङ्लभाषानुवाद विचारे । तत् इति सर्वनामपदेन - - - - ब्रह्मणि उच्यत इति । ब्रह्म उच्यते इति यावत् । ‘ओं तत् सदिति निर्देशो ब्रह्मण इति मूलानुरोधात् । यथाहुः तदिति सर्वनाम, सर्वं च ब्रह्म, तस्य नाम तत् इति (गीता II, 16, शाङ्करभाष्यम्) एवं च फलानभिसंधानमिति ब्रह्मविशेषणम् बोध्यम् । फलस्य अनभिसंधानम् अभिसन्धानाभावो यस्मिस्तत् इति बहुव्रीहिः ।
  • सकलफल [भि] सन्धाने सर्वकृतायामपि विशेषफला योगात् इति । अत एव– सप्तदशोऽध्यायः 259 ‘सर्वकर्मा सर्वकामः’ इत्यारभ्य ‘सर्वमिदमभ्यात्तः अवाकी अनादरः’ (छा.उ. III, iv, 2) इति श्रुतिः ब्रह्म प्रतिपादयति । सर्वकर्मकर्तृत्वसर्वकामत्व हेतुना सर्वमिदं जगदभितः सर्वतः आत्तो व्याप्त आत्मा, अवाप्त -समस्तकामत्वात् ईप्साजिहासाप्रयुक्तविधिनिषेधवाग्ररहितः तथा आदरेण संभ्रमेण रहितश्चेति तदर्थात् । अप्राप्तस्य ईप्सितस्य प्राप्तव्ये, प्राप्तस्य कस्यचित् हातव्ये वा संभवति - ईप्साजिहासाप्रयुक्ता वाक् च आदरश्च । आप्तसमस्तकामस्य नित्यतृप्तस्याचलस्येश्वरस्य तौ न कथंचित् संभवत इति भावः । स्वाभाविक इति। स्वभावनियत इत्यर्थः । वक्ष्यति च स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् । (xVIII,
  1. इति । तस्मात कर्तव्यमिदमित्यादि । अनेन तस्मादोमित्या दिसार्धपद्यत्रयस्य तात्पर्य संगृह्यते । तत्र च कर्तव्यमिदमिति मन्वाना इत्यनेन पूर्वोक्त ओमर्थः, फलविशेषमनभिसन्दधाना (इत्यनेन पूर्वोपशितः तदिति निर्देशस्यार्थः, यज्ञादीत्यनेन - सदर्थश्च प्रदर्शितः । ‘यज्ञो हि श्रेष्ठतमं कर्म’ इति श्रुतेः।। तत्र ओमित्यनेनेत्यादिना ग्रन्थेन त्रयाणामपि निर्देशानां प्रकृतानामर्थविशेषयोगो यज्ञदानतपस्सु प्रदर्शितः । परन्तु ओं तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इति ओमित्या दीनां ब्रह्मनिर्देशत्वेनैवोपक्रमः कृतः । एतान् ब्रह्मनिर्देशानु260 श्रीमद्भगवद्गीता गीतार्थ सङ्ग्रहोपेतः दाहृत्यैव यज्ञदानतपःक्रियाः क्रियन्ते ब्रह्मवादिभिर्मोक्षकांक्षि भिरित्यपि प्रदर्शितम् । भगवती श्रुतिरपि ‘तमेवं वेदानुवचनेन ब्राह्म गा विविदिषन्ति यज्ञेन दानेन तपसा’ (बृ. उ. IV, iv, 22) इति यज्ञदानतपसां ब्रह्मतत्त्वज्ञानसाधनभावं दर्शयति । एवं च ओमित्यादीनां मुख्यतया वृत्तिः ब्रह्मणि, तत्प्राप्त्यर्थेषु यज्ञदान तपस्स केनापि गुणयोगेनेति पर्यवसितम्। तस्मात् तेषु प्रथमं साधकानां कृते अर्थयोग दर्शयित्वा इदानीमत्यावश्य कत्वात् ब्रह्मणि ओमित्यादीनामर्थयोगं दर्शयति - यदि वेत्या दिना। ओमित्यनेन समुपशान्तसमस्तप्रपञ्चमिति । ब्रह्मेति शेषः । तथा च श्रुतिः ‘अव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव’ (मा. उ. 12) इति । । तदित्यनेन —- इच्छास्वातन्त्र्यस्वभावमिति। ब्रह्म त्यनुवर्तते । ‘सोऽकामयत । बहुस्यां प्रजायेयेति’ (तै.उ. II, 6) इति श्रुतिषु तच्छब्दवाच्यस्य ब्रह्मणः विश्वसृष्टीच्छास्वातन्त्र्य स्वभावप्रतिपादनात् । सदित्यनेनेत्यादि - ‘सदेव सौम्येदमग्र आसीत्’ (छा. उ. VI, ii, 1 ) इत्यारभ्य सप्तदशोऽध्यायः 261 ‘तदैक्षत बहुस्यां प्रजायेयेति, तत्तेजोऽसृजत, तत्तेज ऐक्षत’ (छा. उ. VI, ii, 3-4) इत्यादिछान्दोग्यश्रुतौ सच्छब्दवाच्ये ब्रह्मणि स्वेच्छया स्वातन्त्र्येण बहुधा विजृम्भणम्, पूर्णे च तस्मिन् ब्रह्मणि उक्तम् । एवम् ‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशात वायुः । वायोरग्निः । अग्नेरापः। अद्भयः पृथिवी। पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुष! (तै.उ. II, 1) इति तैत्तिरीयश्रुतौ च विचित्रस्वभावतया भवनमपि प्रति पाद्यते इति । तदेवं ओम् तत् सत् इति निर्देशानां ब्रह्मणि समन्वयं कृत्वा प्रत्यगात्मनि अनर्गले तदतिदिशति-तेनेत्यादिना अन गलस्य स्वाभाविक रूपमित्यन्तेन ग्रन्थेन । ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां सप्तदशोऽध्यायः ।।