॥ पञ्चदशोऽध्यायः ॥ श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१॥ अधश्चोर्ध्व प्रसृता यस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २॥ ऊर्ध्वमूलमिति । अधश्चेति । अनेन शास्त्रान्तरेषु यदु च्यते ‘अश्वत्थः सर्वं, स एवोपासनीयः’ इत्यादि, तस्य भगवद् ब्रह्मोपासा तात्पर्यमित्युच्यते । मूलं प्रशान्तरूपम् । तत् ऊर्ध्वं, सर्वतो हि निवृत्तस्य तदाप्तिः । छन्दांसि पर्णानि इति- यथा वृक्षस्य मानत्वफलवत्त्वसरसतादयः- पर्णैः सूच्यन्ते, एवं ब्रह्म तत्त्वस्य वेदोपलक्षितशास्त्रद्वारिका प्रतीतिरित्याख्यायते । गुणैः, सत्त्वादिभिः प्रवृद्धाः, देवादिस्थावरान्ततया । तस्य च शुभाशुभात्मकानि कर्माणि अधस्तनमूलानि ।। १-२ ।। न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलम् । असंगशस्त्रेण शितेन छित्त्वा ॥ ३ ॥ 1. K प्रशान्तं रूपम् 2. S,B फलत्व 3. BN -मूलानि यस्य 227 पञ्चदशोऽध्यायः ततः पदं तत् परिमागितव्यं हम यस्मिन् गतो न निवर्तेत भूयः । तमेव चाद्यं पुरुषं प्रपद्येद् का यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥ निर्मानमोहा जितसंगदोषा __ अध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैविमुक्ताः सुखदुःखसंज गच्छन्त्यमूढाः पदमव्ययं तत् ।। ५ ।। न रूपमित्यादि अव्ययं तदित्यन्तम् । तं छित्त्वेति । विशेष्ये क्रियाऽभिधीयमाना सामर्थ्यादत्र विशेषणपदमुपादत्ते ‘दण्डी प्रैष्याननुब्रूयात्’ इति विधिवत् । तेन अधोरूढानि मूलानि अस्य छिन्द्यादिति । तत् पदं प्रशान्तम्; अव्ययं पदं तदेव ।। ३-५ ॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥ न तदिति । सूर्यादीनां तत्रानवकाशः । तेषां काला द्यवच्छेदात्, वेद्यत्वात्, करणोपकारकत्वात् । तस्य तु दिक्का लाद्यनवच्छेदात्, वेदकत्त्वात्, करणप्रवर्तकत्वात्, तदती तत्त्वात् ।। ६॥ ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ 928 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ममेति । ब्रह्मण एवायमंश इति । अज्ञानधर्मतया परिपूर्णस्य असंवेदनात् चेतनताऽनिवृत्तेश्च अंशत्वमुपचरितम्; 1न पुनर्वस्तुतः अंशवत्तोपपद्यते । ‘प्रदेशोऽपि ब्रह्मणः सार्व रूप्यमनतिक्रान्तः’ इति हि श्रुतिः । एषैव च औपचारिकता यथावसरं योजनीया इति न विप्रतिपत्तव्यम् ।। ७ ।। शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥ शरीरमिति । अवाप्नोति, गृह्णाति । उत्क्रामति त्यजति एतैः सह । यथा वायुः सर्वगतो विश्रान्तिधाम पार्थिवं प्राप्य ततो गन्धमानीय स्थानान्तरे तत्सहित एव संक्रामति, एवं जीवः पुर्यष्टकेन सह ।। ८ ।। एवं सृष्टौ संहारे च एतैः साहित्यमस्योक्त्वा स्थिता वपि स्थानासनमननादिरूपायां विषयग्रहणात्मिकायां तत्स हितस्यैवास्य व्यापार इति निश्चीयते श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥ तिष्ठन्तमुत्क्रामन्तं वा भुजानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१०॥ 58. BN omit न 2. N श्रुतेः 3. N ममतादि 4. Bomits स्थितावपि . - - त्मिकायाम् पञ्चदशोऽध्यायः 229 यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११॥ श्रोत्रमित्यादि अचेतस इत्यन्तम् । मनः इत्यनेनान्तः करणमुपलक्ष्यते । अत एव शरीरस्थितियोगात्तिष्ठन्तम्; शरीरान्तरग्रहणाय उत्क्रामन्तम्; विषयान्वा भुञ्जानं मूढा न पश्यन्ति, अप्रबुद्धत्त्वात् । प्रबुद्धास्तु सर्वत्रैव बोधरूपमेव अनुसंदधाना जानन्त्येव, इत्यलुप्तसमाधयः, तेषां यत्नपर त्त्वात् । अकृतात्मनां तु यत्नोऽपि न फलाय, अपरिपक्वकषाय त्त्वात् । न हि शरदि सलिलादिसामग्रीसंमर्देऽपि धान्यबीजानि उप्यमानानि फलसंपदे अलम् । अत एव सामग्री एव सा अस्य न भवति । अन्यदेव किल’ मधुमाससंभृतजलधरपटली प्रेरितमम्भः; काचिदेव च सा भूः, यस्यां शिशिरविवशीकृतायां रविकरस्पर्शेनैव कान्तिः । एवम् अकृतात्मनां यत्नो न सकलाङ्गपरिपूर्णत्वमायाति । अत एव प्राप्याप्युपायं पारमे श्वरदीक्षादि ये तथाविधक्रोधमोहादिग्रन्थिसन्दर्भगर्भीकृतान्त देशः, तेषु उपाय एव साकल्यं न भजतीति मन्तव्यम् । यदुक्तम्’ 59. S,B,N - रूपमनुसंदधानाः 2. Somits किल 3. S,B,N शिशिरवशविवशी 4. B,N परिपूर्णः कर्तुमायाति 5. B परमेश्वर. 6. B सन्दर्भीकृतान्तर्दृशः 7. S,B,N तदुक्तम्230 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ‘क्रोधादौ दृश्यमाने हि दीक्षितोऽपि न मुक्तिभाक् ।’ इति ॥ ९-११ ॥ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२॥ गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।। १४ ।। यदादित्येत्यादि चतविधमित्यन्तम् । अर्कादितेजस्त्रय रूपतया दशमाध्यायसूचितसृष्टि स्थितिसंहार [ कर्तृत्व?] प्रकटी करणे श्रीगुरवः प्राहुः1-भूतपञ्चकस्य समस्तव्यस्ततया यल्लोक धारकत्वं तद्भगवत एव माहेश्वर्यमित्येतदनेन [उक्तमिति ]। तथाहि-रवितेजसः प्रकाशकत्वं धारकत्वं च तेजोधराद्वयता दात्म्यात् । तदेतदुक्तम् ‘यदादित्यगतम्’ इति ‘गामाविश्य च’ इति चार्धद्वयेन । चान्द्रं तेजः प्रकाशकं पोषकं च, धराजलतेजो योगात् । तदुक्तम् ‘यच्चन्द्रमसि’ इत्यनेन भागेन ‘पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः4’ इति चार्धश्लोकेन । वाह्न तु तेजः प्रकाशनशोषणदहनस्वेदनपचनात्मकं पृथिव्य प्तेजोवायुयोगात् । तदेतदिहोक्तम् ‘यच्चाग्नौ’ इत्यनेन, 60. BN श्रीगुरवस्त्त्वाहुः 2. B लोकद्वयाधारकत्वं च 3. K. omits धरा 4. BN omit चौषधीः . . -त्मकः 5. N त देवेहोक्तम् पञ्चदशोऽध्याय। 231 ‘अहं वैश्वानरः’ इत्यनेन च । नभस्तु बोधावकाशरूपतया सर्वगतमेव ।। १२-१४ ।।। अत एव बोध्यरूपतामुक्त्वा तद्वोध्यस्वरूपपृष्ठपतित स्वातन्त्र्यबोधस्वभावमात्मानं परस्वभावं परमेश्वररूपं सर्व ज्ञानस्वतन्त्रं सर्वकर्तारं दर्शयितुमाह सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदक(?)देव चाहम् ॥ १५ ॥ सर्वस्येति । सर्वस्य वेद्यस्य यत् हृत् समस्ताहरणस्वत न्त्रबोधस्वभावं, तत्र अहमिति यो विमर्शः; तत एव अपूर्वा भासनामयं ज्ञानं विश्वमहासृष्टिरूपम् ; ‘अयं घट एव’ इति सर्वात्मकभावखण्डनासारं विकल्पज्ञानात्मकमपोहनं पाशव सृष्टिरूपमायामयप्रमात्रुचितम्; स्मरणं च संस्कारशेषतां नी तस्य संहृतस्य पुनरवभासनात्मकमिति। इयता समस्तज्ञानानि संहृतानि इति सर्वज्ञतापूर्वकं स्वातन्त्र्यरूपं कर्तृत्वमुक्तम् । सर्वैरिति-संभूय किल सर्वशास्त्राणां परमेशतत्त्वमेव निरू प्यम् । वेदवेदान्तकर्तृत्वेन कर्मफलतत्संबन्धादिद्वारतया अशेष विशेष निर्माणे, तदुन्मूलनेन पुनः स्वरूपप्रतिष्ठापने भगवत 1.S,BN इति श्लोकेन च 2. BIN परमेश्वरस्वरूपं 3. B अपूर्वावभासना 4. BN विकल्पनाज्ञाना 5. B - - प्रतिष्ठा भगवत एव 232 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता एव स्वातन्त्र्यमिति विश्वकर्तृत्वमुक्तम् । अन्ये तु अपोहनम् ‘अनेन अकृतेन इदं भवति’ इति व्यतिरेकबुद्धिः । ‘वेदान्तं करोति’ इत्यात्मसाद्भाबेन । एवं 3 ‘वेदम्’ ।। १५ ।। द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥ यस्मात् क्षरमतीतोऽहमतीतोऽक्षरमेव च (?)। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥ द्वावित्यादि पुरुषोत्तम इत्यन्तम् । ‘द्वाविमौ पुरुषौ’ इति ग्रन्थेनेदमुच्यते -लोके तावदप्रबुद्धस्वभावोऽपि सर्वः पृथिव्यादि भूतारब्धशरीरम् आत्मानं चेतनं क्षररूपं जानाति इति लोकस्य मूढत्वात् द्वैतधीन निवर्तते । अहं तु सकलानुग्राही द्वैतग्रन्थि विभिद्य सकललोकव्यापकतया वेद्य इति । क्षरमतीतः, भूता नां जडत्वात् । अक्षरमतीतः, आत्मनोऽप्रबुद्धत्वे सर्वव्यापकत्व खण्डनात् । पुरुषोत्तमो लोके वेदेऽपि ‘सः उत्तमः पुरुषः’ इत्या दिभिर्वाक्यैः स एव परमात्मा अद्वयः एवमुच्यते ।। १६-१८ ।। यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९॥ 61. SBN अन्येनाकृतेनेदं 2. BN सद्भावेन 3. N एतं पश्चदशोऽध्यायः 233 यो मामिति । एवं जानानः सर्वमयं मामेव ब्रह्मतत्त्व मुपासीनः सर्वं मन्मयत्वेन विदन् सर्वेण भावेन मूर्तिक्रियाज्ञाना त्मकेन मामेव भजते; यत् पश्यति तत् भगवन्मूर्तितयेत्यादि । तथा च मयैव शिवशक्त्यविनाभावस्तोत्रे तव च काचन न स्तुतिरम्बिके सकल शब्दमयी किल ते तनुः । निखिलमूर्तिषु मे भवदन्वयो । मनसिजासु बहिष्प्ररासु च ।। इति विचिन्त्य शिवे शमिताशिवे जगति जातमयत्नवशादिदम् । स्तुतिजपार्चन चिन्तनवजिता न खलु काचन कालकलापि मे ।। इति ।।१९।। इति गुह्य तमं शास्त्रमिदमुक्तं मयानघ । एतद् द्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥ २०॥ ॥ इति श्रीमद्भगवद्गीतायां पञ्चदशोऽध्यायः ॥ इतीति । गुह्यतमं, सर्वाद्वयप्रतिपादकत्वात् । एतदेव बुद्ध्वा बुद्धिमत्त्वं, न तु व्यवहारबुद्धया। एतेन च ज्ञातेनैव कृतकृत्यता, न तु कृतेनापि ‘शत्रुविजयार्थाहरणस्व्युपभोगा दिना। चकारः अद्भुत द्योतकः । कृतेन हि कृतकृत्यता दृष्टा, 62. N का किल 2. B,N बहि प्रसरासु 3. BN कालकलास्ति 4. B omits शव 5. N एतेन 234 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपता एतेन तु ज्ञातेनैवेति’ चित्रम् । इतिशब्देन शास्त्रस्य समाप्तिः सूचिता, वक्तव्यस्य परिपूर्णतया समाप्तत्वात् । तथा हि षोडशाध्यायेन शिष्यस्य अर्जुनस्य केवलं योग्यता प्रतिपाद्यते । न तु उपदिश्यते किञ्चित् । ‘दैवी ह्येवंविधा संपत्, आसुरी चाविद्यामयी एतादृशी संपत्; त्वं च विद्यामयीं दैवीं संपद मभिप्राप्तः’ इत्येतावति हि तात्पर्यम् । यद्वक्ष्यति ‘मा शुचः संपदं दैवीम्’ इति । अत एव पूर्वं विद्याविद्यासंघट्टनिरूपणा वसरे3 ‘देवासुरसंग्रामच्छलेन विद्याविद्ययोः संघर्षः’ इति सूचि तम् । एवं च शिष्यस्वरूपे प्राधान्येन निरूप्यमाणे प्रसंगतः अन्यदप्युक्तम्, इत्यध्यायद्वयं भविष्यति । उपदेशस्त्वित एव परिसमाप्तः । सर्वभावेन हि परमेश्वरभजनम् आवेशरूपं प्राप्यम् । तदर्थं चान्यत् सर्वमित्युक्तं प्राक् । सर्वमाहेश्वर स्वरूपावेश एव हि परमं शिवम् इति ।। २० ।। - ॥ शिवम् ।। अत्र संग्रहश्लोकः हत्वा द्वैतमहामोहं कृत्वा ब्रह्ममयीं चितिम् । लौकिके व्यवहारेऽपि मुनिनित्यं समाविशेत् ।। ॥ इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविर चिते श्रीमद्भगवद्गीतार्थसंग्रहे पञ्चदशोऽध्यायः ।। 63. BN ज्ञानेनैवेति 2. S,B arent 3. B संबद्ध निरूपण -; N संघध्व(र्ष) 4. B प्राप्तम् 5. K हृत्वा पञ्चदशोऽध्यायः 235 ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. १-२ (व्या) यथा वृक्षस्येत्यादि । एतेनेदं सूचित मिव - ‘यस्तं वेद स वेदवित्’ इत्यत्र यत्तदोर्व्यत्ययेन ‘यो वेद वित् स तं वेद’ इत्यन्वयः, तथा वेदेन वेत्तीति वेदवित् इति विग्रहार्थश्चाभिप्रेत आचार्येणेति ।। श्लो. ४ (म) प्रपद्येत् इति रामकण्ठीयः पाठः ।। श्लो. ३-५ (व्या) दण्डी प्रैषानुयात् इति । प्रसिद्ध विधिस्वरूपं तु ‘दण्डी प्रैषानन्वाह’ इति ॥ श्लो. ६ (व्या) करणोपकारकत्वादिति । करणानाम् इन्द्रियाणां स्वस्वकार्यकरणे शक्त्यालोकादिप्रदानेन उपकार कत्वात् इति; करणानि इन्द्रियादीनि उपकारकाणि येषाम् अर्थात् स्वसंवेदने, तेषां भावः तस्मादिति विग्रहाश्रयणेन इन्द्रिय जन्यज्ञानविषयत्वादिति वा अर्थः ।। श्लो. १२-१४ (व्या) यच्चाग्नौ – यत् तेजः वर्तते अग्नौ आश्रयाशे पार्थिवं काष्ठादिकमाश्रित्य प्रकाशमाने । इत्यनेन - इत्यनेन श्लोकेन प्राणापानसमायुक्त इति वाक्य घटितेन । बोधावकाशरूपतया - बोधात्मको योऽवकाशः तत् स्वरूपतया । दीप्त्यर्थकात् काशृधातोरवपूर्वकान्निष्पन्नस्य अव काशपदस्यार्थः अवबोध इति; नभोवाचकाकाशपदस्यापि आ समन्तात् काशयति प्रकाशयति सर्वान् पदार्थान् इति व्युत्पत्ते श्चेति बोध्यम् ।। श्लो. १५ (व्या) मत्त इति मूलस्याभिप्रायमाह तत एवेति - प्रत्यगात्मनः अहंविमर्शत इत्यर्थः । 236 श्रीमदभगवद्गीता गौतार्थसंग्रहोपेता तत्राहमित्यादि । अत्रेदं तत्त्वम् - मूलस्थैः ज्ञानापोह नस्मृतिशब्दैः क्रमशः (१) ‘तदक्षत बहु स्यां प्रजायेय’ (छा. उ. VI, ii, 3 ), ‘सोऽकामयत । बहुस्यां प्रजायेयेति । स तपोऽ तप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत ।’ ‘विज्ञानं चा विज्ञानं च । सत्यं चानृतं च सत्यमभवत्’ (तै. उ. II, 6) इत्यादिश्रुत्युक्तरीत्या अहंविमर्शस्याखण्डितस्वातन्त्र्यस्य सर्वात्म भवनज्ञानरूपा अपरिमिता सृष्टिः; (२) तथा बद्धात्मनां पशू नां खण्डितस्वातन्त्र्याणाम् ‘अहमेव चेतनः, अयं घटस्त्वचेतन एव’ इति शब्दज्ञानमात्रानुपातिवस्तुशून्यप्राया खण्डिता सृष्टिः; (३) एवमेतेषामेव बद्धानां गुर्वागमाद्यनुग्रहेण उद्बुद्धपूर्व वासनानाम् ‘आत्मैवेदं सर्वम्’ इति प्रत्यभिज्ञा च परामृश्यन्ते इत्याचार्यहृदयमिव । वेदवेदान्तकर्तृत्वेन तथा उत्तरत्र एवं वेदम् इति च । आभ्यामेवं सचितमिव भवति–प्रकृतगीताश्लोकतृतीयपादं ‘वेदान्तकृद्वेदकृदेव चाहम्’ इत्यार्चः पपाठेति । वेदवेदान्तशब्दा भ्यां कर्मज्ञानकाण्डयोः परामर्शः । अत्रोच्यते – ‘जन्माद्यस्य यतः’ (ब्र. सू. I, i, 2) इति सूत्रेणैव बादरायणेनाचार्येण ब्रह्मणि जगज्जन्मादिकारणत्वस्य निर्धारितत्वात्, जगदन्तर्गतानाम् ऋग्वेदादीनां शास्त्राणां कारणत्वस्य पुनरपि ब्रह्मणि प्रतिपादनपरं ‘शास्त्रयोनित्वात् इति समनन्तरं सूत्रं पुनरुक्तप्रायमेवेति ये मन्यन्ते तान् उक्त सूत्रद्वयसमानयोगक्षेमे प्रकृते गीतापद्ये उपस्थितान् कृत्वा कटा क्षयतीवाचार्यः वेदवेदान्तकर्तृत्वेनेत्यादिविलेखनेनेति भाति । पञ्चदशोऽध्यायः 237 अयमाशयः- यद्यपि शास्त्रं जगदन्तर्गतम् । तथापि तादृश जगतोऽपि प्रवृत्तेनिवृत्तेश्च निदानभूते प्रवृत्तिधर्मतत्त्वज्ञाने इति तदुपदेष्टुवेदवेदान्तकर्तृत्वमपि लोकानुग्रहाय पृथक्त्वेन ईश्वरे अवश्यं प्रदर्शनीयमिति । तदुन्मूलनेनेति । तदुन्मूलनपूर्वक मित्यर्थः । यदि तदु न्मूलने इति पाठः स्यात् स साधीयान् ।। श्लो. १६-१८ (व्या) अप्रबुद्धेत्यादि । अप्रबुद्धस्वभावः सर्वोऽपीत्यन्वयः । भूतानां जडत्वादिति । भुतानां पृथिव्यादीनामविभा वितचैतन्यत्वादित्यर्थः । अक्षरमतीत इति । इदमाचार्यवचनमेवं सूचयतीव यस्मात् क्षरमतोत इति पद्ये द्वितीयपादम् ‘अतीतोऽक्षरमेव च’ इति, तत्समानमन्यद्वा किचित् पपाठ आचार्य इति । अत्र प्रकृतं गीतापद्यत्रयम् अप्रबुद्धतादशायां यथा ईश्वर तत्त्वं लोकवेदप्रसिद्धं तथा अनुवदतीत्याचार्याभिप्राय इति भाति ।। श्लो. १९ (व्या) खण्डितात्मभावस्य संमोहरूपत्वात् असंमूढ इति मूलस्याभिप्रायमाह - सर्वमयं मामेव इत्यादिना। सर्वविदित्यस्य व्याख्या सर्व मन्मयत्वेन विदन् इति । यः सर्व मयत्वेनात्मानं जानाति, उपास्ते, स तुल्यवित्तिवेद्यतया सर्व मात्मत्वेन वेत्ति इति तात्पर्यम् । 238 श्रीमद्भगवद्गीता गोताथसंग्रहोपेता सर्वभावेनेति मूलेन कायिकैन्द्रियिकमानसव्यापारा अभिप्रेता इति दर्शयति - मूतिक्रियाज्ञानात्मकेनेति । ___तव चेत्यादि । हे अम्बिके ! नः अस्मदीया तव विष यिणी स्तुतिः काचन, अपूर्वा असाधारणी इत्यर्थः । यद्वा, नः अस्मदीया का च, का वा क्रिया तव विषयिणी स्तुतिः न ? इति प्रश्नो वा । अस्मदीयाः सर्वेऽपि व्यापाराः तव स्तुतिरूपा एवेति निश्चयः । तदेवोपपादयति - सकलशब्दमयी इत्यादिना। इति विचिन्त्येति । अत्र विचिन्तनस्तुत्यादिकर्मभ्या मुन्नीतो यः कर्ता अस्मच्छब्दार्थः स समान इति उपपन्नं विचि न्त्येति । तथा च विचिन्त्य स्थितस्य मे मम स्तुत्यादिवजिता कालस्य कलापि काचन न खलु नैवेत्यन्वयार्थः ।। ।। इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां पञ्चदशोऽध्यायः ।। षोडशोऽध्यायः ‘एतद्बुद्ध्वा ’ इत्युक्तम् । बोधश्च नाम श्रुतिमय ज्ञानानन्तरम् ‘इदमित्थम्’ इत्येवंभूतयुक्तिचिन्ताभावनामय ज्ञानोद॑येन- विचारविमर्शपरमर्शादिरूपेण विजातीयन्यक्कार विरहिततद्भावनामयस्वभ्यस्ताकारविज्ञानलाभे सति भवति । यद्वक्ष्यते - ‘विमृश्यैतदशेषेण यथेच्छसि तथा कुरु’ (XVIII, 63) इति । तत्र श्रुतिमये ज्ञाने गुरुशास्त्रे एव प्राधान्येन प्रभवतः । युक्तिचिन्ताभावनामये तु विमर्शक्षमता असा धारणा शिष्यगुणसंपत् प्रधानभूता। अतः ‘अर्जुनस्यास्त्ये वासौ’ इत्यभिप्रायेण वक्ष्यमाणं ‘विमृश्यैतत्’ इति वाक्यं सविषयं कर्तुं परिकरबन्धयोजनाभिप्रायेण आह भगवान् गुरुः ‘अभयम्’ इत्यादि । आसुरभागसन्निविष्टा तामसी किल अविद्या । सा प्रवृद्धया दिव्यांशग्राहिण्या विद्यया बाध्यते इति वस्तुस्वभाव एषः । त्वं च विद्यात्मानं दिव्यमंशं सात्त्विकमभिप्रपन्नः; तस्मादान्तरी मोहलक्षणामविद्यां विहाय ‘बाह्याविद्यात्मशत्रु हननलक्षणं शास्त्रीयव्यापारम् अनुतिष्ठ इत्यध्यायारम्भः । 64. S श्रुत 2.S,B,N चिन्तामयज्ञानोदयेन S तद्वक्ष्यते; N तद्वक्ष्यति 4. B- रणशिष्य 5. B प्रवृद्धाया - - - विद्याया बध्यते 6. S बाह्य विद्या240 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेतः तथाहि श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १॥ अहिंसा सत्यमक्रोधस्त्यागोऽसक्तिरपैशुनम् । दया भूतेष्वलौल्यं च मार्दवं होरचापलम् ॥२॥ तेजः क्षमा धृतिस्तुष्टिरद्रोहो नातिमानिता । भवन्ति संपदं देवीमभिजातस्य भारत ॥ ३ ॥ दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरोम् ॥ ४ ॥ दैवी संपद्विमोक्षाय निबन्धायासुरी मता। मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥ अभयमित्यादि पाण्डवेत्यन्तम् । दिव्यांशस्य इमानि चिह्नानि तानि स्फुटमेवाभिलक्ष्यन्ते । दमः’ इन्द्रियजयः । चा पलं पूर्वापरमविमृश्य यत् करणम्, तदभावः अचापलम् । तेजः आत्मनि उत्साहग्रहणेन मितत्वापाकरणम् । दैवी संपदेषा । सा च तव विमोक्षाय, कामनापरिहारात् । अतस्त्वं शोक मा प्रापः- यथा ‘भ्रात्रादीन् हत्वा सुखं कथमश्नुवीय’ इति । शिष्टं स्पष्टम् ।। १-५ ।। 65. S,B स्फटमेवोपलक्ष्यन्ते 2. Somits दमः षोडशोऽध्यायः 241 द्वौ भूतसगौं लोकेऽस्मिन् दैव आसुर एव च । वैवो विस्तरतः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥ द्वाविति । एषा दैवी संपदुक्ता ‘अभयम्’ इत्यादिना ।।६।। आसुरीमाह प्रवृत्ति च निवृत्ति च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥ प्रवृत्तिमिति । प्रवृत्तिः- कुत इदमुत्पन्नमिति । निवृत्तिः क्व प्रलीयते इति ।। ७ ।। असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतमकिंचित्कमहेतुकम् ॥ ८ ॥ असत्यमिति । न किञ्चित् दृष्टादन्यत् कार्य विद्यते यत्रेति अकिञ्चित्कम् ।। ८ ।। एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽशुभाः ॥ ९ ॥ काममाश्रित्य दुष्पूरं दम्भलोभमदान्विताः। असद्ग्रहाश्रिताः क्रूराः प्रचरन्त्यशुचिवताः ॥१०॥ चिन्तामरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थानन्यायेनार्थसंचयान् ॥ १२ ॥ गोता.16 242 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता एतामित्यादि अर्थसंचयानित्यन्तम् । चिन्ता तेषां प्रलयान्ता अविरतं (ता) संसृतिप्रलयाव्युपरमात् । एतावदिति कामोपभोग एव परं (परमं) कृत्यम् एषाम्] ; तन्नाशाच्च परं क्रोधः । अत एवाह ‘कामक्रोधपरायणाः’ इति ।। ९-१२।। इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् । इदमस्तोदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ असौ मया हतः शवहनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।। १४ ।। आढयोऽभिजनवानस्मि कोऽन्योऽस्ति सदशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥ १५ ॥ अनेकचित्ता विभ्रान्ता मोहस्यैव वशं गताः। प्रसक्ताः कामभोगेषु पतन्ति निरयेऽशुचौ ॥ १६ ॥ इहमद्येत्यादि अशुचौ इत्यन्तम् । अनेकचित्ता’ इति निश्चयाभावात् । अशुचौ निरये, अवीच्यादौ, जन्ममरण सन्ताने च ।। १३-१६ ।। आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥ अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजत्रमशुभास्वासुरीध्वेव योनिषु ॥ १९ ॥ 1. A अनेकचिन्ताः, N. अनेकचित्तविनान्ताFREE षोडशोऽध्यायः 243 आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥ आत्मसंभाविता इत्यादि गतिमित्यन्तम् । यज्ञैर्यजन्ते नाम, निष्फलमित्यर्थः । क्रोधेन हि सर्व नश्यतीत्यर्थः । यहा नामयज्ञैः, संज्ञामात्रेणैव! ये यज्ञाः तैः । अथवा - नामार्थं प्रसिद्धयर्थं ये यज्ञाः3-येन’ “यज्ञयाजी अयम्’ इति व्यपदेशो जायते - ते दम्भपूर्वका एव, न तु फलन्ति । क्रोधादिरूषि तत्वादेव लोकान् द्विषन्तो मामेव द्विषन्ति । अहं वासुदेवो हि सर्वावासः । आत्मनि च द्वेषवन्तः आत्मनो ह्यहितं निरय पातहेतुम् आचरन्ति । तांश्चाहम् आसुरीष्वेव योनिषु क्षिपामि ।। १७-२० ।।। त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥२१॥ एतैवियुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥ त्रिविधमिति । एतैरिति । यतः कामादिकं त्रयं नर कस्य द्वारं, तस्मात् एतत् त्यजेत् ।। २१-२२ ।। -1. S,B omit एच. 2. S,B omit 4: B omits ये यज्ञाः 4.Somits येन 5. B आत्मने 6. उपाचरन्ति 7. N नितयम् 244 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता _न चैतत् पुरुषवचनमित्यनादरणीयम्, अपि त् अनादि शास्त्रमत्र प्रमाणम् इत्युच्यते यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ २४ ॥ ॥ इति श्रीमद्भगवद्गीतायां षोडशोऽध्यायः ॥ यः शास्त्रविधिमिति । तस्मादिति । शास्त्रविधिं त्यजत स्वमनीषयैव कार्याकार्यविचारं कुर्वतः प्रत्युत नरकपातः । तस्मात् आत्मबुद्ध या कार्याकार्यव्यवस्थां मा कार्षीः इति तात्पर्यम् [इति] ।। २३-२४ ।। ॥ शिवम् ।। अत्र संग्रहश्लोकः अबोधे स्वात्मबद्धचैव कार्यं नैव विचारयेत् । किन्तु शास्त्रोक्तविधिना, शास्त्रं बोधविवर्धनम् ।। ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपाद विरचिते श्रीमद्भगवद्गीतार्थसंग्रहे षोडशोऽध्यायः ।। 66. S,B,N add शास्त्र मननुसृत्य after आत्मबुद्धया षोडशोऽध्यायः 1245 ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ।। श्लो. १-५ (अ) इत्येवंभूतेत्यादि । इत्येवंभूताः युक्तिश्च, चिन्ता च भावना च याः, तन्मयज्ञानानामुदयेन इति विग्रहः । युक्तयादयस्तिस्रश्च यथाक्रमं विचारविमर्शपरामर्श रूपा इति बोध्यम् । तथा च युक्तिचिन्ताभावनानां विचार विमर्शपरामर्शरूपाणाम् उदयेनेति प्रघट्टार्थः । अथ वा रूपे णेति तृतीयाया अभेदोऽर्थः । स च पूर्वतनसमस्तपदघटकचि न्तादिपदार्थेष्वन्वेति । एवं च विचारादित्रयरूपा या युक्तया दयस्तिस्रः तासामुदयेनेत्यर्थः । यद्वा उदयः उन्नतिः । ‘उदयः पर्वतोन्नत्योः’ इति हैमात् । एवं च विचारविमर्शपरामर्शरूप युक्तिचिन्ताभावनामयज्ञानानामुदयेन उन्नत्या इत्यर्थः । तृतीया र्थहेतुत्वस्य विजातीयन्यक्कारविरहितेति व्यवहितेन संबन्धः । विजातीयेत्यादि । विजातीया या द्वैतभावना तत्कृतेन न्यक्कारेण तिरस्कारेण विरहिता शून्या, तथा च द्वैतज्ञानाना स्कन्दिता, या तस्य श्रुत्यर्थभूतस्य अद्वैततत्त्वस्य भावना तन्म यस्य तत्प्राचुर्यस्य यत् सु सम्यक् अभ्यस्तम् आमेडनं पौनः पुन्यं तदाकारस्य तत्स्वरूपस्य विज्ञानस्य विमर्शस्य लाभे सतीत्यर्थः । विमर्शक्षमता - विचारकरणे शक्तिमत्ता । वस्तुस्वभाव इति । पूर्वतनाप्यविद्या पश्चात्तन्या वि द्यया बाध्यते। कुतः? विद्यायाः वस्तुस्वभावत्वात् वस्तु तन्त्रत्वात् वस्तुविषयत्वेन तदनुगृहीतत्वात् । अविद्यायाश्च अवस्तु विषयत्वात् इति भावः ।। 6246 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता (व्या) अश्नुवीयेति । अशू व्याप्तौ इति स्वादेर्धातो विधिलिङि उत्तमपुरुषैकवचने रूपम् ॥ श्लो. ९-१२ (व्या) संसृतिप्रलयाव्युपरमात् इति । अत्र ‘यदि प्रलयः कश्चिदभविष्यत् संसृल्या अननुयातः, तदा खल्व भविष्यत् चिन्ताया अन्तः आत्यन्तिकोच्छेदः; तादृशप्रलयो नास्त्येवेत्यविरतैवैषां चिन्ता’ इति ध्वनिः ।। श्लो. १३-१६ (व्या) निरये अवीच्यादौ जन्ममरणसं ताने चेति । एति सुखमनेनेति अयः शुभावहो विधिः । निर्गतः अयादिति निरयः अवीच्यादिनरकवाचकः । एति सुखं दुःखं च अनेनेति अयः शुभाशुभात्मकं कर्म; निर्वृत्तः तस्मात् इति निरयः जन्ममरणसंतानवाचकोऽपि इति बोध्यम् । अथवा निरये इत्यस्यार्थः अवीच्यादावित्यनेन, अशुचावित्यस्यार्थी जन्ममरणसंताने इत्यनेन च दर्शित आचार्येणेति मन्तव्यम् । अन्यथा अशुचावित्यस्य व्यर्थविशेषणत्वापत्तेः, शुचि निर यस्याप्रसिद्धेः ॥ श्लो. १७-२० (व्या) यज्ञैरित्यादि जायते इत्यन्तम् । प्रथमव्याख्याने नामेति भिन्नं पदमव्ययं कुत्सनार्थकम् । द्वि तीयपक्षे नाम्ना नाममात्रेण ये यज्ञास्तैरिति विग्रहः । तृतीये व नामफलका यज्ञाः नामयज्ञाः तैरिति शाखपार्थिवादित्वात् समासः ।। संग्रहश्लोके – अबोधे इति सतिसप्तमी। बोधस्य तत्त्वज्ञानस्यानुदयावस्थायामित्यर्थः । यद्वा अबोधे बोधस्या विषये पुरुषबुद्धिपथमतिक्रम्य स्थिते धर्मादौ विषये इति ।। ।। इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्यण्यां षोडशोऽध्यायः ।।