त्रयोदशोऽध्यायः क्वचित् श्रुतौ क्षेत्रज्ञ उपास्यः’ इति श्रूयते । स च कि मात्मा, उत ईश्वरः अथ तृतीयः कश्चिदन्य एव? इति प्रश्ना शङ्कायाम् श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेद तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥२॥ श्रीभगवानादिशति-इदमिति, क्षेत्रज्ञमिति । संसारिणां शरीरं क्षेत्रम्, यत्र कर्मबीजप्ररोहः । अत एव तेषामात्मा आगन्तुककालुष्यरूषितः क्षेत्रज्ञ उच्यते । प्रबुद्धानां तदेव क्षेत्रम्। अन्वर्थभेदस्तु तद्यथा - क्षिणोति कर्मबन्धमुपभोगेन, त्रायते जन्ममरणभयात् इति । तांश्च प्रति परमात्मा वासदेवः क्षेत्रज्ञः। एतत्क्षेत्रं यो वेद, वेदयति इत्यन्त वितण्यर्थो विदिः । तेन यत्प्रसादादचेतनमिदं चेतनीभावमायाति स एव क्षेत्रज्ञो नान्यः कश्चित् । विशेषस्तु परिमितव्याप्तिकं रूपमालम्ब्य आत्मेति भण्यते; अपरिच्छिन्नसर्वक्षेत्रव्याप्त्या परमात्मा भगवान् वासु देवः। ममेति कर्मणि षष्ठी;अहमनेन ज्ञानेन ज्ञेयः इत्यर्थः॥१-२।। 44. S,B वासुदेवाख्यः 2. S,N यो वेदयति । वेदेत्यन्त - 3. N-ण्य र्थोऽत्र B यो वेदयति अन्तर्भा त्रयोदशोऽध्यायः 205 तत्क्षत्रं यच्च यादृक् च यद्विकारि यतश्च यत् । स च यो यत्स्वभावश्च तत्समासेन मे शृणु ॥ ३ ॥ ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम् ॥ ४॥ तत्क्षेत्रमिति । ऋषिभिरिति । येन विकारं गच्छति यद् विकारि । समासेनेति अविभागेनैव सर्वान्प्रश्नान् साधारणो त्तरेण परिच्छिनत्ति । यद्यपि च ऋषिभिर्बहुधा वेदैश्चोक्त मेतत् । तथापि समासेनाहं व्याचक्षे इति ।। ३-४ ।। महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥६॥ महाभूतानीति । इच्छेति । अव्यक्तम् प्रकृतिः । इन्द्रि याणि मनसा सह एकादश । इन्द्रियगोचराः रूपादयः पंच । चेतना दृक्छक्तिः पुरुषः । धृतिरिति अन्ते किल सर्वस्य आ ब्रह्मणः क्रिमिपर्यन्तस्य प्रारब्धे निष्पन्ने वा कार्ये कामक्रोधा दिषु च ‘इयतैव मम पर्याप्त, किमन्येन ? ईदृशश्चाहं नित्यमेव भूयासम्’ इति प्राणसन्धारिणी’ धृतिः आश्वासनात्मिका पर रहस्यशासनेषु रागशब्दवाच्या जायते ।। ५-६ ॥ एवं क्षेत्रं व्याख्यातम्, क्षेत्रज्ञश्च । इदानीं ज्ञानमुच्यते 1. S,B,K एतान् (S तान्) प्रश्नान् 2 B,N अत्रान्ते किल 1. S,N -संधारणी; B -साधारणी 206 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अमानित्वमदम्मित्वमहिंसा शान्तिरार्जवम् ।। आचार्योपासनं शौच स्थैर्यमात्मविनिग्रहः ॥ ७॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९॥om मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१०॥ ITEM अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥११॥ अमानित्वमित्यादि अन्यथा इत्यन्तम् । अनन्ययोगेनेति ‘परमात्मनो महेश्वरात् अन्यत् अपरं न किंचिदस्ति’ इत्यनन्य रूपो यो निश्चयः, स एव योगः; तेन निश्चयेन मयि भक्तिः । अत एव सा न कदाचित् व्यभिचरति, व्यभिचारहेतुत्वाभि मतानां कामनानामभावात्, तासामपि वा चित्तवृत्त्यन्तर रूपाणी तदेकमयत्त्वात् । एवं सर्ववानुसन्धेयम् । एतद्विपरीतम् अज्ञानम् ; यथा मानित्वादीनि ।। ७-११॥ एतेन ज्ञानेन यत् ज्ञेयं तदुच्यते ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥ 45. SBN - त्वाभिगतानाम् त्रयोदशोऽध्यायः 207 सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृचैव निर्गुणं गुणभोक्त च ॥ १४ ॥ बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥ । अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् । भूतभर्त च तज्ज्ञेयं असिष्णु प्रभविष्णु च ॥ १६ ॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ।। १७ ॥ ज्ञेयमित्यादि विष्ठितमित्यन्तम् । ‘अनादिमत् परं ब्रह्म इत्यादिभिविशेषणैः ब्रह्मस्वरूपाक्षेपानुग्राहकी सर्वप्रवादाभिहि तविज्ञानापृथग्भावं कथयति । एतानि च विशेषणानि पूर्वमेव व्याख्यातानि इति किं निष्फलया पुनरुक्त्या ।। १२-१७ ॥ एतत् क्षेत्र तथा ज्ञान क्षेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१८॥ एतदिति । एतत् क्षेत्रज्ञानज्ञेयात्मकं वयं यो वेत्ति, स एव मद्भक्तः । स च मद्भावमेति ॥ १८ ॥ 46. 5-स्वरूपापेक्षानु 2. S,B.N सर्वप्रवावान्तराभिहितपृथग्भावकमुच्यते 3. BN क्षेत्र 208 श्रीमद्भगवद्गीता गीतार्थ संग्रहोपैता एतल्लक्षणं कृत्वा परीक्षा क्रियते प्रकृति पुरुषं चैव विद्धयनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ १९॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥ पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ।। २१ ॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ २२ ॥ प्रकृतिमित्यादि पर इत्यन्तम् । प्रकृतिरप्यनादिः; कार णान्तराभावात् । विकाराः पटादयः । प्रकृतिरिति कार्यकारण भावे हेतुः । पुरुषस्तु प्रधान्यात् भोक्ता । प्रकृतिपुरुषयोः पङ् ग्वन्धवत् किलान्योन्यापेक्षा वृत्तिः । अत एवास्य [पुरुषस्य] शास्त्रकृद्भिः नानाकारैर्नामभिरभिधीयते रूपम् ‘उपद्रष्टा’ इत्यादिभिः । अयमत्र तात्पर्यार्थः-प्रकृतिः तद्विकारः, चतुर्द शविधः सर्गः, तथा पुरुषः, एतत्सर्वम् अनादिनित्यं च ब्रह्मतत्वा च्छुरितत्वे सति तदनन्यत्वात् ।। १९-२२ ।। तथा चाह य एवं वेत्ति पुरुष प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥ 47. B,N कार्यकारणप्रकृतिरण्यनादिः त्रयोदशोऽध्यायः 209 य एवमिति । एवम् अनेन सर्वाभेदरूपेण ब्रह्मदर्शनेन यो योगी प्रकृतिं पुरुषं गुणांश्च तद्विकारान् जानाति, सर्वेण प्रकारेण यथा तथा वर्तमानोऽपि स! मुक्त एवेत्यर्थः ॥ २३ ॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । - तेऽपि चातितरन्त्येव मृत्यु श्रुतिपरायणाः ॥ २५ ॥ ध्यानेनेति । अन्य इति । ईदृशं च ज्ञानं प्रधानम् । कैश्चित् [आत्मा] आत्मतया उपास्यते; अन्यैः प्रागुक्तेन सां. ख्यनयेन ; अपरैः कर्मणा; इतरैरपि स्वयमीदशं ज्ञानमजान द्भिरपि श्रवणप्रवणैः यथाश्रुतमेवोपास्यते । तेऽपि मृत्यु संसारं तरन्ति । येन केनचिदुपायेव भगवत्तत्त्वमुपास्यमानमुत्तारयति । अत. सर्वथा एवमासीतेत्युक्तम् ।। २४-२५ ॥ यावत्किचित्संभवति सत्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगि (?) तद्विद्धि भरतर्षभ ॥ २६॥ यावदिति । यत्किंचित् चरम् अचरं च तत् सर्व क्षेत्रज्ञा. तिरेकि न संभवतीति ॥ २६ ॥ समें सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ।। २७ ॥ 48. S,B omit a: 2. BN ईदग गीता-14210 श्रीमद्भगवद्गीता गीतार्थसंग्रहीपैता अत एव समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २८ ॥ सममिति । सर्वत्रैव समबुद्धिर्योगी आत्मानं न हिनस्ति दुस्तरे संसारार्णवे न पातयति ।। २८ ।। प्रकृत्यैव हि कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥ प्रकृत्येति । यस्य हि ईदृशी स्थिरतरा बुद्धिर्भवति ‘प्रकृ तिरेवेदं करोति, नाहं किञ्चित्’ इति2 स सर्वं कुर्वाणोऽपि व करोति । एवमकर्तृत्वम् ।। २९॥ यदि वा यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ ३०॥ अनादित्वान्निर्गुणत्वात्परमात्मायमन्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥ यथा सर्वगतं सौक्षम्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥ यदेत्यादि नोपलिप्यत ईत्यन्तम् । विस्तीर्णत्वेन सर्वव्या प्त्या यदा भूतानां पृथक्तां भिन्नताम् आत्मन्येव पश्यति, 49. BN न हिनस्ति, न दुस्तरे संसारार्णवे पातयति । 2. Komits इति । 3. S चित्रताम् त्रयोदशोऽध्यायः 211 आत्मन एव च उदिती तां मन्यते, तदापि सर्वकर्तृत्त्वात् न लेपभाक् ; यतः असौ परमात्मैव शरीरस्थोऽपि न लिप्यते आकाशवत् ॥ ३०-३२॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥ यथेति । ननु एकः परमात्मा कथमनेकानि क्षेत्राणि व्याप्नोति? इत्याशङ्का प्रसिद्धेन रविणा दृष्टान्तेन अपाकृता । कृत्स्नं क्षेत्रम्, चराचराणि क्षेत्राणीत्यर्थः ।। ३३ ॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥ ॥ इति श्रीमद्भगवद्गीतायां त्रयोदशोऽध्यायः ॥ क्षेत्रेति । एवमध्यायेन यदुक्तं ज्ञयं, ज्ञान, क्षेत्रक्षेत्रज्ञयो रन्तरं, भूतप्रकृतेश्च स्वल्पात परिणामधर्मत्वात् मोचनम्, तत् ये ज्ञानलक्षणेन2 सर्वचाप्रतिहतेन अलौकिकेन चक्षुषा पश्यन्ति ते वासुदेवतां प्राप्य लभन्त एव परमं शिवमिति ॥ ३४ ॥ ॥ शिवम् ।। अत्र संग्रहश्लोकः– पुमान् प्रकृतिरित्येष भेदः संमूढचेतसाम् । परिपूर्णास्तु मन्यन्ते निर्मलात्ममयं जगत् ॥ ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे वयोदशोऽध्यायः ।। I. BN क्षेत्रक्षेतजयोरन्तरं भूतप्रकृतेरन्तरं भूतप्रकृतेश्न 2. SBN येन ज्ञानलक्षणेन 3. BN परं 212 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. १-२ (व्या) क्षिणोतीति । क्षेणोतीति बा। क्षिणु हिंसायां तनादिः । उप्रत्ययनिमित्तस्य लघूपधगुणस्य विकल्पः; संज्ञापूर्वकविधेरनित्यत्वात् ॥ श्लो. ३-४ (व्या) यद्विकारि इति मूले विकारस्य गुणस्य यच्छब्दार्थप्रयुक्ततया ‘तृतीया तत्कृतार्थेन गुणवचनैना (PA, II, i, 30) इति तृतीयासमास इत्यभिप्रेत्यार्थमाह - येन विकार गच्छतीति ॥ श्लो. ५-६ (व्या) प्रारब्धे निष्पन्ने वा कार्य इति । वा इति चार्थे । प्रारब्धे कार्ये निष्पन्ने परिनिष्पन्ने समापिते च सति इत्यर्थः । कार्यस्य फले उत्पन्ने च सतीति यावत् ॥ श्लो. ७-११ (व्या) तेन निश्चयेनेति । तृतीयार्थः अभेदः भक्तावन्वेति । उक्तनिश्चयात्मिका मयि भक्तिरित्यर्थः । एवं सर्वत्रानुसंधेयमिति । अमानित्वादिष्वपि ‘अनन्ययोगेन’ इत्यस्य योगोऽनुसंधेय इत्यर्थः ॥ श्लो. १९.२२ (व्या) प्रकृतिपुरुषयोः पङ्ग्वन्धवदित्या दिना पुरुषः प्रकृतिस्थो हि इति मूलं व्याख्यातम् । तद्विकार इति । स च द्वात्रिंशत्संख्याकः। अनादीति । प्रागभावाप्रतियोगीत्यर्थः । नित्यमिति । ध्वंसाप्रतियोगीत्यर्थः । ब्रह्मतत्वेत्यादि । ब्रह्मतत्त्वेन आ समन्तात् अविच्छेदेव छुरितत्वे प्रदीपितत्वे सतीत्यर्थः । योदशोऽध्यायः 213 अन्न एतत्सर्वम् इत्यादिकं नानुमानप्रयोगप्रदर्शनपरम्, केवलान्वयिपक्षकत्वेन अनुपसंहारित्वापत्तेः । ईश्वराभ्युपगन्तॄणां योगानां मतेऽपि हेतुघटकसत्यन्तस्य प्रयोजनादर्शनेन अन्ततो व्याप्यत्वासिद्धिदोषप्रसंगाच्च ।। श्लो. २४-२५ (व्या) आत्मतया उपास्यते इति । अत्र धात्वर्थ उपासना मानसज्ञानविशेषस्याविच्छिन्नप्रवाहरूपा । तद्घटकज्ञाने आत्मतयेति तृतीयार्थावच्छिन्नप्रकारताकत्वस्या न्वयः। प्रागुक्तेन सांख्यनये नेति । ‘सांख्ययोगौ पृथग्बालाः प्रवदन्ति’ इति, ‘एकं सांख्यं च योगं च’ इत्यादिना च पूर्वं पञ्चमाध्याये प्रदर्शितरीत्या सांख्यात्मकयोगेनेत्यर्थः । एवमासीत इति । एव मुपासीतेत्यर्थः ॥ श्लो. २६ (व्या) क्षेत्रज्ञातिरेकि न संभवति इति । इदं चाचार्यवचनं क्षेत्रक्षेत्रज्ञसंयोगात् इति समुपलभ्यमानेन मूलेन रामकण्ठेनाप्यङ्गीकृतेन विगीतमिव । अपि नामेदमाचार्यवचन मेवं ज्ञापयति यत् आचार्याभिमतः पाठः प्रायशः ‘क्षेत्रक्षत्रज्ञ संयोगि’ इत्येवेति ? क्षेत्रक्षेत्रज्ञाभ्यां सम्यक् योगः संबन्धः अस्येति तदर्थः । योगस्य सम्यक्त्वं च तादात्म्यमेव । अत एव अतिरेकि न भवति इत्याह । क्षेत्रज्ञातिरेकि इत्यस्य क्षेत्रं च ज्ञश्च ताभ्यामतिरेकि इति विग्रहः । एवं च मूलेनैकवाक्यता। अथवा क्षेत्रक्षेत्रज्ञातिरेकि इत्येव विवक्षितमाचार्येण । वस्तुतस्तु अस्मि नेवाध्याये पूर्व, तथा अन्यत्र च तत्र तत्र दर्शितदिशा सर्वस्यापि चराचरात्मकस्य प्रपञ्चस्य ब्रह्मानन्यत्वात्, क्षेत्रस्यापि वस्तुतः 214 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता क्षेत्रज्ञानन्यत्वेन क्षेत्रक्षेवज्ञसंयोगीति मूलस्य क्षेत्रात्मकक्षेत्र ज्ञा चन्य इत्यर्थोऽभिप्रेत इति प्रदर्शयितुमाचार्येण क्षेत्रज्ञातिरेकि न इति लिखितमित्यत्र सुधियः प्रमाणम् ॥ श्लो. ३४. अन्न मूले तथा व्याख्याने क्षेत्रक्षेत्रज्ञयोरन्तरमि त्यस्य तयोरन्तरमन्तरात्मानं चैतन्यमित्यर्थः । ‘अन्तरमवका. शावधि - - - - मध्येऽन्तरात्मनि’ इत्यमरात् । न तु ‘तयोः दम्’ इति तदर्थः । तयोर्वास्तवभेदस्य तत्र तत्राचार्येण निरस्त त्वात् । अत एवानुपदमेव वक्ष्यति संग्रहपद्ये ‘भेदः संमूढचेत साम्। इति । उक्तं च पूर्वमपि क्षेत्रज्ञातिरेकि न संभवति’ इति ॥ (व्या) भूतप्रकृतेश्चेत्यादि । भूतप्रकृतेः सकाशात् मोचने इदमेब निमित्तं यत् तदीयपरिणामधर्मस्य अल्पत्व परिमितकाल. मात्रभावित्वमिति तात्पर्यम् ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां त्रयोदशोऽध्यायः ।। चतुर्दशोऽध्यायः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानी ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे पर सिद्धि मितो गताः ॥ १॥ परमिति । यदेव पूर्वोक्तं ज्ञानं, तदेव पुनः प्रकर्षण प्रत्येक गुणस्वरूपनिरूपणाय वैतत्येन वक्ष्यामि । यज्ज्ञात्वा इत्यनेन अस्य ज्ञानस्य दृष्टप्रत्ययतां प्रसिद्धिं चाह ॥ १॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥ इदमिति । ‘व्यथन्ति’ इति छान्दसत्वात् तिप्रत्ययः । एवमन्यत्रापि सुप्तिप्रत्यये वाच्यम् ।। २ ॥ तसादौ संसृतौ क्रममाह । हातव्ये ज्ञाते तत्करणे च, सुकरं हि हानम् मम योनिर्महद् ब्रह्म तस्मिन् गर्भ ददाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥ ममेति । मम तावत् अव्यपदेश्यपरमानन्दरूपस्य बहद् ब्रह्म बंहकात्मीयशक्तिरूपं ब्रह्म। आत्मीयामेव हि विमर्श शक्तिमालम्ब्य अहमनादीन् आत्माणून् अनुग्रहार्थं संसार यामि ॥ ३ ॥ 50. S अवैतत्येन 216 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अत एव सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिरहं बीजप्रदः पिता ॥ ४ ॥ सर्वयोनिष्विति । सर्वासु योनिषु आदिकारणतया बं हिका भगवच्छक्तिः सक संसारजननस्वभावा माता। पिता त्वहं शक्तिमान् अव्यपदेश्यः ॥ ४ ॥ सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५॥ सत्त्वमिति । देही चायं आत्मतया सत्त्वरजस्तमोभिर्धर्मेंः अपवर्गपर्यन्ताय भोगाय निबद्ध यते ॥ ५ ॥ क्रमेणैषां रूपमुच्यते तत्र सचं निर्मलत्वात् प्रकाशकमनामयम् । सुखसंगेन बध्नाति ज्ञानसंगेन चानघ ॥६॥ रजो रागात्मकं विद्धि तृष्णासंगसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसंगेन देहिनम् ॥ ७ ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ।८॥ तत्रेत्यादि भारतेत्यन्तम् । सत्त्वं निर्मलम् । तृष्णा संगस्य समुद्भवो यतः। दुर्लभस्यापि चिरतरसंचितपुण्यशत 51. S,B आद्यकारणतया 2. BK -वमनस्वभावा चतुर्दशोऽध्यायः 217 लब्धस्य अपवर्गप्राप्तावेक कारणस्य मानुष्यकस्य वृथा अति वाहनं प्रमादः । तथायुक्तम् आयुषः क्षण एकोऽपि सर्व रत्नैर्न लभ्यते । स वृथा नीयते येन स प्रमादी नराधमः ॥ इति? बालस्यं शुभकरणीयेषु । निःशेषेण द्राणं कुत्सिता गतिः निद्रा ॥ ६-८॥ 52. BN तथाभ्युक्तम् 53. S in the margin, and BN in the text itself add the following: यथा वा श्रीमद्भागवते - निद्रया ह्रियते नक्तं व्यवायेन च वा वयः । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥१॥ देहापत्यकलनादिष्वात्मसन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥२॥ -The Bhagavata Purana (Gorakhpur Ed.) II, i, verse 3-4 तथा किं प्रमत्तस्य बहुभिः परोक्षयिनैरिह । वरं मुहूत्तं विदितं घटेत श्रेयसे यतः ॥ ३ ॥ -ibid., 12. अयमेव प्रमादः तत्रैवैकादशस्कन्धे आत्महत्याशब्दवाच्यो निर्णीतो भगवता। यथा नदेहमाद्यं सुलभं सुदुर्लभ प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत्स आत्महा ॥४॥ इति -ibid., XI, xx, 17, 218 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता सत्त्वं सुखे संजयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत : ९॥ रजस्तमथाभिभूय सत्त्वं भारत वर्धते। रज सच्चं तमश्चैव तमः सत्वं रजस्तथा ॥ १०॥ सत्त्वमिति । रज इति । संजयति योजयति । रजस्तमसी अभिभूय सत्त्वं वर्धते ; रजस्तु सत्त्वतमसी, तमः सत्त्वरजसी। उक्तं हि ‘अन्योन्याभिभवेन गुणवृद्धिः’ इति ॥ ९.१० ॥ सर्वद्वारेषु देहेऽस्मिन् प्रकाशमुपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥ लोभः प्रवृत्तिरारम्भः कर्मणामशमश्च वृट् । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ।। १२ ॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥ सर्वेत्यादि कुरुनन्दनेत्यन्तम् । सर्वद्वारेषु, सर्वेन्द्रियेषु । लोभादया क्रमेणैव रजस्युद्रिच्यमाने जायन्ते । एवमप्रकाशा दयः क्रमेणैव तमोविवृद्धौ आविर्भवन्ति ॥ ११-१३ ॥ यदा सत्वे विवृद्वे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ १४॥ 54. S लोभादिकाः 2. B तमोवृद्धौ 219 चतुर्दशोऽध्यायः रजसि प्रलयं गत्वा कर्मसंगिषु जायते । तथा प्रलीनस्तमसि मृढयोनिषु जायते ॥ १५॥ यदेति । रजसीति । यदा समग्रेणैव जन्मना अनवरत सात्त्विकव्यापाराभ्यासात् सत्त्वं विवृद्धं भवति, तदा प्राप्तप्रलय स्य शुभलोकावाप्तिः । एवं जन्माभ्यस्त राजसकर्मणः प्रयाणात् विमिश्रोपभोगाय मानुष्यावाप्ति. । तथा, तेनैव क्रमेण यदा समग्रेण जन्यचा तामसमेव कर्म अभ्यस्यते तदा नरकतिर्यग्व क्षादिदेहेषु उत्पद्यते। ये तु व्याचक्षते ‘मरणकाले एव सत्त्वादौ विवृद्धे एतानि फलानि’ इति; ते न सम्यक् शारीरेऽनुभवे प्रविष्टाः । यतः सर्वस्यैव सर्वथा अन्त्ये क्षणे मोह एवोपजायते । अस्मद्व्या ख्यायां च संवादीनि इमानि, श्लोकान्तराणि [च] । १४-१५ ॥ कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ।। १६ ॥ सत्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ जायेते तमसोऽज्ञानमेव च ॥ १७॥ ऊर्ध्वं गच्छन्ति सवस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १८ ॥ 55. B विशिष्टोपभोगाय; S,N (विशिष्टोप) विमियोपभोगाय 2. S,B, N मानुष्याप्तिः 3. S substitutes क्रमेण with प्रकारेण220- श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९॥ गुणानेतानतीत्य नीन देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २०॥ कर्मण इत्यादि अश्नुते इत्यन्तम् । अत्र केचिदसंबद्धाः श्लोकाः कल्पिताः, पुनरुक्तत्वात् ते त्याज्या एव । एतद्गुणा तीतवृत्तिस्तु मोक्षायैव कल्पते ॥ १६-२० ॥ अर्जुन उवाच F कैलिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो। किमाचारः कथं चतांस्त्रीन् गुणानतिवर्तते ॥ २१ ॥ कैरिति । ननु यदि अयं देही, तत् कथं गुणातीतो भव ति ? सर्वथैव हि कयाचित् चित्तवृत्त्या वर्तते, सा च वैगुण्याद न्यतमा अवश्यं भवति । अनेन अभिप्रायेण पृच्छति अर्जुनः॥२१॥ अनोत्तरम् श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काचति ॥ २२ ॥ 1, B पुनरुक्तार्थत्वात् 2. N गुणातीतश्रुतिस्तु 3. S ननु यदि देही; B ननु कथं देही गुणा-; N ननु देही कथं गुणा चतुर्दशोऽध्यायः 221 23 प्रकाशमिति । यद्यपि प्रकाशादिकाः सर्वेषु धर्मेषु वर्तन्ते; तथापि योगिनस्तेषु प्रकाशादिषु न रज्यन्ते ; नापि द्वेषवन्तो भवन्ति । अपि तु ‘केवलपिण्डधर्मतया एते स्थिताः, न मां क्षोभ यितुमलम्’ इति मन्वाना गुणातीता भवन्ति ॥ २२ ॥ अत एवाह her उदासीनवदासीनो गुणैयों न विचाल्यते । गुणा वर्तन्त इत्येव यो(s)ज्ञस्तिष्ठति नेङ्गते ॥ २३॥ समदुःख सुखस्वप्नः समलोष्टाश्मकांचनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥ मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भफलत्यागी गुणातीतः स उच्यते ॥ २५ ॥ उदासीनवदित्यादि उच्यते इत्यन्तम् । यः अज्ञो निर्वि वैकस्तिष्ठति स एव ज्ञः, सम्यग्ज्ञानात् । तथा हि नेङ्गते न स्व रूपात् च्यवते । अव चोपायः ‘शरीरेन्द्रियादिस्वभाव एषः, यत् प्रवर्तनम्, न तु फलं किंचिदहमभिसन्दधे’ इति स्थिरा बुद्धिः ।। २३-२५ ॥ मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ।। २६ ।। 1.S,BN सर्वधर्मेषु। 2. S,B,N चोपायः सर्वेषामारंभाणां शरीरारंभकेन्द्रियादि 3. N प्रवर्तते 4. N स्थिरबुद्धिः 222 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता मां चेति । अनेन मूलभूतमुपायमुपदिशति । च शब्दोऽ वधारणे-यो मामेव सेवते । अनेन फलादिसाकाङ्क्षो मामङ्ग त्वेनाश्रयति, फलं प्रधानतया इति निरस्तः । अत एव न अस्या गभिचारिणी भक्ति ; फलं प्रति ह्यसौ आस्थावान् इति । यस्तु फलं किंचिदपि अनभिलष्यन् किमेतदलीकमनु तिष्ठसि इति पर्यनयुज्यमानोऽपि, निरन्तरभगवद्भक्तिवेधविद्तान्तःकरण तया कण्टकितरोमवान्, वेपमानतनु. विस्फारितनयनयुगलपरि वर्तमानसलिलसंपातः तूष्णींभावेनैवोत्तरं प्रयच्छति, स एवाव्य भिचारिण्या भगवतो महेश्वरस्य अग्र शक्त्या भक्त्या पवित्री कृतो नान्य इति ज्ञेयम् ।। २६ ।। ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य त्त धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥ ॥ इति श्रीमद्भगवद्गीतायां चतुर्दशोऽध्यायः ॥ ब्रह्मण इति । अहमेव हि ब्रह्मणः प्रतिष्ठा । मयि सेव्य माने ब्रह्म भवति; अन्यथा जडरूपतया ब्रह्म उपास्यमानं मो क्षमपि सौषुप्तादविशिष्टमेव प्रापयेत् इति ॥ २७ ॥ ॥ शिवम् ॥ 56. BN किमिति तदलीक - 2. S उत्कण्ट कित 3. BIN विस्फारतरनयन 4. Nउग्नशक्तया 223 चतुर्दशोऽध्यायः अत्र संग्रहश्लोकः लसद्भक्तिरसावेशहीनाहंकारविभ्रमः । स्थितोऽपि गुणसंपर्दे गुणातीतः समो यतिः2 ॥ ॥ इति श्रीमहामाहेश्वराचार्यवर्यराजाचकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे चतुर्दशोऽध्यायः ।। ।। श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ।। श्लो. २ (मू) मम साधर्म्यम् – मत्स्वरूपम् । (व्या) तिप्रत्यय इति । झिप्रत्यय इत्यर्थः ।।। श्लो. ३ (मू) योनिः - जगदुत्पत्तौ निमित्तम् । गर्भम् चैतन्यम् । (व्या) बृह्मकेत्यादिना शक्तौ ब्रह्मपदयौगिकार्थसंबन्धो दशितः । बृहत्त्वमहत्त्वयोरनर्थान्तरत्वात् शक्तिरूपब्रह्मैव महत् ॥ श्लो. ४ (मू ) अत्र पूर्वार्धन लोकदृष्टयनुवादः, उत्त रार्धेन तु तत्त्वप्रदर्शनम् । श्लो. ५ (मू ) प्रकृतिसंभवाः- भगवच्छक्तिः योनिः प्रकृतिः ब्रह्मपदनिर्दिष्टा पूर्वतनपद्ययोः, तत्संभवाः । देहिनमित्यनेन अव्ययस्याप्यात्मनो बन्धप्राप्तौ हेतुर्दशितः । 57. N स्थितेऽपि 2. SBN यतः 224 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता (व्या) आत्मतयेति । आत्मा तयेति विवक्षितम् । अयमात्मा तया प्रकृत्या का सत्वादिभिः करणः निबध्यते इत्यन्वयः । अथवा निबद्धयते इति कर्मकर्तरि लकारः । तथा चाव्ययः परमात्मा देही सन् स्वयमेव बध्यते इति । तत्र हेतु आत्मतयेति । अप्रतिहतस्वातन्त्र्येण स्वयमेवेत्यर्थः ।। श्लो. ६-८ (ब्या) मानुष्य कस्येति । स्वार्थे कन् । ‘नैव जागरतः’ इति परिमितनिद्रायाः योगसिद्धयुपयो गिताया दशितत्वात् प्रकृते निद्राशब्दो यौगिक एवेति तमर्थं दर्शयति-कुत्सिता गतिनिद्रा इति । द्रा कुत्सायां गतौ इत्यदादेर्धातोः प्रायशो निपूर्वकात् ‘आतश्चोपसर्गे’ (PA. III, i, 106) इत्याडि निष्पन्नो निद्राशब्दः कुत्सितगतिवाचकः ।। श्लो. ९ (मू) उतेति । उतापीत्यर्थः । श्लो. ११ (मू) प्रकाशमिति क्रियाविशेषणम् । स्फुट मित्यर्थः ॥ श्लो. २१ (मू) कैलिङ्गैरिति ‘इत्थंभूतलक्षणे’ (PA, II, iii, 21) तृतीया । अथ वा ‘धूमेन लिङ्गन वह्निमान् पर्वत’ इत्यादाविव प्रकृतेऽपि लिङ्गशब्दः अनुमानप्रयोगद्वितीयावयवा स्मकहेतुपरः । हेतुत्वं च ज्ञानज्ञाप्यत्वम् भवत्यर्थे अस्तिताया मन्वेति । तथा च किविषयकज्ञानज्ञाप्यास्तितावान् गुणातीतः ? इति पर्यवसितार्थः । गुणातीतत्वं केन हेतुना ज्ञाप्यमिति यावत् । अव कैः, किम्, कमिति वयमप्याक्षेपे । तदेव दर्शयति व्या ख्याने नन्वित्यादिना। चतुर्दशोऽध्यायः 225 चित्तवृत्त्येति । सहार्थयोगे तृतीया । वैगुण्यादन्यतमेति । त्रिगुणात्मकत्वाद्धेतोः वैगुण्येष्वन्य तमेत्यर्थः ।। श्लो २२. (व्या) धर्मेष्विति । धर्मतयेति विवक्षितमिव । अत एवाह अनुपदमेव ‘केवलपिण्डधर्मतया’ इति ।। श्लो. २३ (मू) एवेत्यप्यर्थे । श्लो. २३-२५ (व्या) यः अज्ञः - - - स एव ज्ञः इति । तथा च ‘योज्ञ’ इति मूलस्य ‘यः अज्ञः’ इति, तथा ‘यः ज्ञः’ इति चोभयथा छेदो विवक्षित इति भावः ।। श्लो. २६ (व्या) अत एव, फलप्रधानत्वादेव ।। श्लो. २७ (व्या) जडरूपतयेति । न हि जड रूपं ब्रह्म; न वा जडत्वेनोपास्यमानं ब्रह्म मोक्षप्रदम्, तादृशोपासनाया वि परीतज्ञानत्वेन बन्धकत्वात् । तस्मात् अत्रायमर्थो विवक्षितः जडस्य रूपमिव रूपं यस्य तत्, तस्य भावः जड रूपता, तयेति । सन्मात्ररूपतयेति पर्यवसितार्थः । स्पष्टमग्रे ।। ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां चतुर्दशाऽध्यायः ।। गीता 15