१२

द्वादशोऽध्यायः अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१॥ एवमिति । एवम् उक्तेन नयेन ये सेश्वरब्रह्मोपासका ये च! केवलं आत्ममात्रमुपासते, तेषां विशेषाख्यानाय प्रश्नः॥१॥ श्रीभगवानुवाच मय्यावश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥ मयीति । माहेश्वर्यविषयो येषां समावेशः अकृत्रिमस्त न्मयीभावः ते युक्ततमा मम मताः इत्यनेन प्रतिज्ञा क्रियते॥२॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥ संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुखं देहभृद्भिरवाप्यते ॥५॥ 36. Somits ये च 2. B, N तन्मयो भावः 3. S omits मम द्वादशोऽध्यायः 197 येत्वित्यादि अवाप्यते इत्यन्तम् । ये पुनरक्षरं ब्रह्म उपासते आत्मानं तैरपि सर्वत्रगम् इत्यादिभिर्विशेषणैः आत्मनः सर्वे ईश्वरधर्मा आरोप्यन्ते । अतो ब्रह्मोपासका अपि मामेव यद्यपि यान्ति; तथापि अधिकतरस्तेषां क्लेशः । आत्मनि किल अपहतपाप्मत्वादिगुणाष्टकारोपं विधाय पश्चात्तमेव उपासते इति स्वतःसिद्धगुणग्रामगरिमणि ईश्वरे अपत्नसाध्ये स्थितेऽपि द्विगुणमायासं विन्दन्ति ।। ३-५ ।। ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥६॥ तेषामहं समुद्धा मृत्युसंसारसागरात् । भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥ मय्येव मन आधत्स्व मयि बुद्धि निवेशय । निवत्स्यसि त्वं मय्येव योगमुत्तममास्थितः ॥ ८ ॥ येत्वित्यादि आस्थित इत्यन्तम् । प्रागुक्तोपदेशेन तु ये सर्वं मयि संन्यस्यन्ति, तेषामहं समुद्धर्ता सकल विघ्नादिक्ले शेभ्यः । चेतस आवेशनं व्याख्यातम् । तथा च एष एवोत्तमो योगः, अकृत्रिमत्त्वात् । तथा च मम स्तोत्रे विशिष्टकरणासनस्थितिसमाधिसंभावना विभाविततया यदा कमपि बोधमुल्लासयेत् । न सा तव सदोदिता स्वरसवाहिनी या चिति र्यतस्त्रितयसन्निधौ स्फुटमिहापि संवेद्यते ।। 1. ये त्वक्षरम् 2. Bईश्वरेऽपि 3. प्रागुपदेशेन 2198 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता कायदा तु विगतेन्धनः स्ववशत्तितो संश्रय __नकृत्रिमसमूल्लसत्पुलककम्पबाष्पानुगः । शरीरनिरपेक्षता स्फुटम्पाददानश्चितः स्वयं झगिति बुध्यते युगपदेव बोधानलः । तदैव तव देवि तद्वपुरुपाश्रयैर्वजितं महेशमवबुध्यते विवशपाशसंक्षोभकम् ॥” इत्यादि । ६-८॥ अथावेशयितुं चित्तं न शक्नोषि मयि स्थिरम् ।। अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥९॥ अथेति । तीव्रतरभगवच्छक्तिपातं चिरतरप्रसादितगुरु चरणानुग्रहं च विना दुर्लभ आवेश इत्यभ्यासः ॥ ९॥ अभ्यासेप्यसमर्थः सन् मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥ १० ॥ अभ्यासेऽपीति । अभ्यासोऽपि न शक्यते विघ्नाद्य भिभवात, अतस्तन्नाशाय कर्म पूजाजपस्वाध्यायहोमादीत् कुरु ॥ १०॥ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः। सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ।। ११॥ 37. B-वपुरुषाशयैर्वजितं; N-वपुरुषाशयैर्वजितं (श्रितैर्वजितं) 38. Nadds समाधातुं आवेशयितुं obviously accepting the reading अथ चित्तं समाधातुं as found in the Vulgate 39. B शक्तिपातचिरतर 199 द्वादशोऽध्यायः अथेति । यदि च भगवत्कर्म कर्तुं न शक्तोऽसि, अज्ञ त्वात् शास्त्रोक्तक्रमावेदनात् ; तत् सर्वं मयि संन्यसेः2 आत्मनि वेदनद्वारेणेत्याशयः । अमुमेवाशयमाश्रित्य बघुप्रक्रियायां मयै वोक्तम् ऊनाधिकमविज्ञातं पौर्वापर्यविवर्जितम् । यच्चावधानरहितं बुद्धेविस्खलितं च यत् ॥ तत्सर्वं मम सर्वेश भक्तस्यार्तस्य दुर्मतेः । क्षन्तव्यं कृपया शम्भो यतस्त्वं करुणापरः ॥ अनेन स्तोत्रयोगेन तवात्मानं निवेदये । पुननिष्कारणमहं दुःखानां नैमि पात्रताम् ॥ इति पारमेश्वरेषु हि सिद्धान्तशास्त्रेषु आत्मनिवेदने अयमेवाभिप्रायः ॥ ११॥ तदिदं तात्पर्य मुपसंह्रियते श्रेयो हि ज्ञानमभ्यासात ज्ञानाद्धयानं विशिष्यते । ध्यानाकर्मफलत्यागस्त्यागाच्छान्तिरनन्तरा ॥ १२ ॥ श्रेय इति । ज्ञानम् आवेशात्म अभ्यासाच्छ्रेयः, अभ्यास स्य तत्फलत्वात् । तस्मादेवावेशात् ध्यानं भगवन्मयत्वं विशि ष्यते विशेषत्वं याति, अभिमतप्राप्त्या। सति ध्याने भगवन्म 40. N न शक्नोषि 2. N संन्यस्यः 3. S निवेदयेत् 4. SBN आवेशात्मा.. - श्रेयान 5. Sसति ध्यानेन; BN प्राप्त्यासत्तिध्यानेनS 200 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यत्वे कर्मफलानि संन्यसितुं युज्यन्ते । अन्यथा अज्ञातरूपे क्व संन्यासः? कर्मफलत्यागे च आत्यन्तिकी शान्तिः । अतः सर्वमूलत्वात् आवेशात्मकं ज्ञानमेव प्रधानम् ॥ १२ ॥ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ १३ ॥ संतुष्टः सततं योगी यतात्मा दृढनिश्चयः। मर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४॥ अद्वेष्टेति । सन्तुष्ट इति । मैत्री अमत्सरता यस्य अस्ती ति । एवं करुणः । ‘ममामी’ इत्यादिः5 ममकारः; ‘अह मुदारः’ ‘अहं तेजस्वी’ ‘अहं सहनः’ इत्यादिः अहंकारः; एतौ यस्य न स्तः । क्षमा अपकारिणं शत्रु प्रत्य[प्य] द्वेषबुद्धिः । सततं योगी, व्यवहारावस्थायामपि प्रशान्तान्तःकरणत्वात् ।। १३-१४ ॥ यस्मान्नोद्विजते लोको लोकानोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥ 41. B,N रूपत्वे 2. N यस्मात् for यस्य 3. B omits gfa 4. S,N करुणा 5. B समापीत्यादि 6. S,BN तेजस्वी असहनः द्वादशोऽध्यायः 201 यो न हृष्यति न द्वेष्टि न शोचति म कांक्षति । शुभाशुभफलत्यागी भक्तिमान् यः स मे प्रियः ॥१७॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवजितः ॥१८॥ तुल्यनिन्दास्ततिमौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥ १९ ॥ ये तु धर्मामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥ ॥ इति श्रीमद्भगवद्गीतायां द्वादशोऽध्यायः॥ यस्मादित्यादि मे प्रिया इत्यन्तम् । अनिकेतः-‘इदमेव मया कर्तव्यम्’ इति यस्य नास्ति प्रतिज्ञा । यथाप्राप्तहेवाकि तया सुखदुःखादिकमुपभुञ्जानः परमेश्वरविषयसमावेशितहृदयः सुखेनैव प्राप्नोति परमकैवल्यम् इति ।। १५-२० ॥ ॥ शिवम् ।। अत्र संग्रहश्लोकः परमानन्दवैवश्यसंजातावेशसंपदः । स्वयं सर्वास्ववस्थासु ब्रह्मसत्ता ह्ययत्नतः ।। इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे द्वादशोऽध्यायः ।। 42. S सेयम् 202 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी॥ TOPI श्लो.१. (व्या) सेश्वरब्रह्मोपासक इति । ऐश्वर्यविशिष्ट ब्रह्मो पासका इत्यर्थः । वक्ष्यति चानुपदमेव माहेश्वर्यविषयो येषां समा वेश इति । ऐश्वयं चान जगत्कर्तृत्वादि । अक्षरमिति मूलस्य व्याख्यानम् आत्ममानमिति । न क्षरति, न स्पन्दते, सृजति वा विश्वमिति अक्षरम्, निर्गुणम् अनुत्तरम् इत्यर्थः । क्षर संचलने स्रवणे च इति धातुपाठात् ।। _श्लो. ३.५ (व्या) आत्मानं सर्वत्रगम् इत्यादिभिरिति । तैरपीत्यादिः । अक्षरब्रह्मोपासकैरपीत्यर्थः ॥ कि श्लो. ६-८ (व्या) विशिष्टकरणेत्यादि स्तोत्रपद्ये ‘संवै द्यते’ इति कर्मणि लकारः स्वार्थकर्मत्वाश्रयतया प्रथमान्तमेक वचनमेकं पदमपेक्षते । एवं च, अपि नामास्मिन् पद्ये चतुर्थपादे संनिधौ इत्यस्य स्थाने ‘संनिधिः’ इति विवक्षितम् ? यद्येवं, तदा ‘इहापि चित्यां वितयसंनिधिः संवेद्यते यतः’ इत्यन्वयः । अथ वा ‘सा’ इत्यर्थात् सिद्धम् । सा चितिः इह वितयसंनिधौ अपि, तत्संनिधावेव संवेद्यते इत्यन्वयः ।। चो. १२ (व्या) तत्फलत्वादिति । तत्फलकत्वादित्यर्थः ।। श्लो. २० (मू) धर्मामृतमिति रामकण्ठीयः पाठः । (व्या) अनिकेत इति । निपूर्वः केतधातुः चुरादिः वि मन्त्रणे नियोगकरणे नियमकरणे वर्तते इति कृत्वा तात्पर्यार्थ माह इदमेवेत्यादिना इति प्रतिभाति । द्वादशोऽध्यायः 203 स्थिरमतिरिति मूलस्य स्थिरे परमेश्वरे मतिर्यस्य स इति विप्रहमभिप्रेत्य तदर्थमाह - परमेश्वरविषयसमावेशितहृदय इति । सन्तुष्टो येन केनचिदित्यस्य व्याख्या यथाप्राप्तहेवाकितयेति । अपि नाम ‘यथाप्राप्तं हेवाकितया’ इति विवक्षितम् ? अधिक मुत्तरत्र ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या द्वादशोऽध्यायः ।।