११

एकादशोऽध्यायः समनन्त रेणाध्यायेन य एवार्थ उक्तस्तमेव प्रत्यक्षीकर्तु. पर्जुनः पृच्छति । यो हयुपदेशक्रमेणार्थोऽवगतः स एव प्रत्यक्ष विवोपारुह्यमाणः स्फुटीभवति । तदर्थमेवेमे उक्तिप्रत्युक्ती उच्यते अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरतो मया । त्वत्ता कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २॥ एवमेतद्यथात्थ त्वमात्मानं परमेश्वरम् । द्रष्टुमिच्छामि ते2 रूपमैश्वरं पुरुषोत्तम ॥३॥ मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो। योगीश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४॥ श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥ 28. S.N,K (n) add स एव घायमुद्यमः after पृच्छति 2. K-.-:-.– छकाम्यहम 182 श्रीमद्भगवनीमा गीतार्थसंग्रहोपेना पश्यादित्यान वसून रुद्रानचिनौ मरुतस्तथा । पहून्यदृष्टपूर्वाणि पश्याश्चर्याणि पाण्डव ॥ ६॥ इहैकस्थं जगत्कृत्स्नं पश्याच सचराचरम् । मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ॥७॥ न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ८॥ संजय उवाच एवमुक्त्वा ततो राजन् महायोगीश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥ अनेकवक्त्रनयनमनेकामुतदर्शनम् । अनेकदिव्यामरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥ दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥ दिवि सूर्यसहस्रस्य भवेयुगपदुत्थिता। यदि भाः सदृशी सा स्याद् मासस्तस्य महात्मनः ॥ १२ ॥ तत्रैकस्थं जगत्कृत्स्नं प्रविमकमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥१३॥ ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥ अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वानुरगांश्च दीप्तान् ॥ १५ ॥ एकादशोऽध्यायः 183 बनेकपाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादि पश्यामि विश्वेश्वर विश्वरूप ॥ १६॥ किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुनिरीक्षं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥ त्वमक्षरं परमं वेदितव्यं स्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः सात्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥१८॥ स्वमक्षरमिति । सात्वतधर्मगोप्तेति । सत् सत्यं क्रिया ज्ञानयोरुभयोरपि भेदाप्रतिभासात्मक तथा सत्तात्मकं प्रकाश रूपं तत्त्वं विद्यते येषां ते सात्वताः । तेषां धर्मः अनवरतग्रहण संन्यासपरत्वात् सृष्टिसंहारविषयः सकलमार्गोत्तीर्णः, तं गोपा. यो । एतदेवानाध्याये रहस्यं प्रायशो देवीस्तोत्रविवृतौ पया chot प्रकाशितम् । तत् सहयैः सोपदेशः स्वयमेवावगम्यते इति किं पुनः पुनः स्फुटतरप्रकाशनवाचालतया ॥ १८ ॥ 29. S,B,N,K (D) add परमगुरौ महादेवेऽर्पणम् before तथा, See Ag. XII, 11 and our note No. 13 thereon, 30. SK (D) प्रकाशशोलम् 184 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अनादिमध्यान्तमनन्तवीर्य मनन्तबाहुं शशिसूर्यनेत्रम्। पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥ द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाऽद्भुतं रूपमिदं तवेदृग् लोकत्रयं प्रब्यथितं महात्मन् ॥ २० ॥ अमी हि त्वा सुरसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीति चोक्त्वैव महर्षिसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥ रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । - गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥ रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ।। एकादशोऽध्यायः 185 नभःस्पृशं दीप्तमनेकवर्ण ब्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृति न विन्दामि शमं च विष्णो ॥ २४ ॥ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥ अमी सर्वे धृतराष्ट्रस्य पुत्राः सर्वैः सहैवावनिपालसंधैः । भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥ वक्त्राणि ते त्वरमणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गः ॥२७॥ नानारूपैः पुरुषर्षाध्यमाना विशन्ति ते वक्त्रमचिन्त्यरूपम् । यौधिष्ठिरा धार्तराष्ट्राश्च योधाः शस्त्रैः कुत्ता विविधैः सर्व एव ॥ त्वत्तेजसा निहता नूनमेते तथा हीमे स्वच्छरीरे प्रविष्टाः ॥ २८ ॥ 186 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा व्रजन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभितो ज्वलन्ति ॥ २९ ॥ यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा। तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः ॥ ३०॥ लेलिह्यसे ग्रसमानः समन्ता ल्लोकान्समग्रान्वदनैवलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३१ ॥ आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । बिज्ञातुमिच्छामि भवन्तमाचं ___ न हि प्रजानामि तव प्रवृत्तिम् ॥ ३२॥ आख्याहि इति । तव प्रवृत्तिं न वेमि - केनाथयेन ईवृशी इयमुग्रता इति ।। ३२ ॥ श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत् प्रवृद्धान्। लोकान् समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥३३॥ एकादशोऽध्यायः 187 तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शवून् भुक्ष्व राज्यं समृद्धम् । मयैवेते निहताः पूर्वमेव निमित्तमात्नं भव सव्यसाचिन् ॥ ३४॥ द्रोणं च भीष्मं च जयद्रथं च कर्ण तथान्यानपि लोकवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३५॥ तस्मादिति । द्रोणमिति । तदन भगवता उत्तरं जगतो विद्याविद्यात्मनः शुद्धाशुद्धमिश्रसंविबलग्रासीकारात् अभि धीयते इति प्रायशः सूचितमवाध्याये रहस्यम् । उट्टङ्कितमात्र संवित्तिसमर्थेभ्योऽस्तु कियत्पङ्क्तिलेखनायासदौःस्थित्यमाल म्बेमहि । अत्र च यदुक्तं ‘मया हतेषु त्वं निमित्तं यशस्वी भव’ इति भगवता तत् प्रत्युक्तं यदुक्तं प्रागर्जुनेन ‘नैतद्विद्मः कतरन्नो गरीयः’ इत्यादि ॥ ३४-३५ ।। संजय उवाच एतच्छत्वा वचन केशवस्य कृताञ्जलिपमानः किरीटी। 31. S तदनु भवता; BN तदनभवता 2. N-मानं 3. K आलम्भेमहि 4. BN ‘नचंतद्विद्मः 188 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता नमस्कृत्वा भूय एवाह कृष्णम् सगद्गदं भीतभीतः प्रणम्य ॥ ३६ ॥ अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥ ३७॥ स्थाने इति । ‘प्रकीयां, प्रकीर्तनेन ॥ ३७॥ कस्माच्च ते न नमेयुमहात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्ने । अनन्त देवेश जगनिवास स्वमक्षरं सदसत् तत्परं यत् ॥३८॥ कस्मादिति । सत् पदार्थत्वेन । असत् उपलम्भं प्रत्य विषयत्वात् । अथ वा अभावोऽपि धियि निजनिविशिष्ट वाचकसंश्लेषितो2 ज्ञानाकारमश्नुवानो न परब्रह्मसत्ताव्यति रिक्तः । सदसद्रूपाभ्यां च परम्, तदुभयबुद्धितिरोधाने तद्रूपोप लब्धेः ॥ ३८॥ 32. प्रकीतिः प्रकीर्तनम् 2. B,N -.- वाचकवचसंश्लेषितो 3.S,Bomit न एकादशोऽध्यायः 189 त्वमादिदेवः पुरुषः पुराण स्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्य च परं च धाम त्वया ततं विश्वमनन्तरूपम् ॥ ३९ ॥ वायुयमोऽग्निवरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । अनादिमानप्रतिमप्रभावः सर्वेश्वरः सर्वमहाविभूतिः॥४०॥ नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते । नमः पुरस्तादथ पृष्ठतस्ते _ नमोऽस्तु ते सर्वत एव सर्व ॥४१॥ नमो वम इति । नमोनम इत्यनेन पौनःपुन्यं भक्तयतिशया विष्कारकम् । यदेव भगवता अतिक्रान्ताध्यायैरभ्यधायि स्व स्वरूपम्, तदेव अर्जुनः प्रत्यक्षोपलम्भविषयापन्नं स्तोत्रद्वारेण प्रकटयति इति तद्व्याख्यानं केवलं पौनरुक्त्यप्रसङ्गायेति विरम्यते ॥४१॥ न हि त्वदन्यः कश्चिदपीह देव लोकलये दृश्यतेऽचिन्त्यकर्मा । अनन्तवीर्योऽमितविक्रमस्त्वं सर्व समाप्नोषि ततोऽसि सर्वः॥४२॥ 33. K विभूते; विभूतिः इति रामकण्ठीयः पाठः190 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता सखेति मत्वा प्रसभं यदुक्तो हे कृष्ण हे यादव हे सखे च । अजानता महिमानं तवेमं मया प्रमादात् प्रणयेन वापि ॥ ४३ ॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत सत्समक्षं तत्थामये त्वामहमप्रमेयम् ॥ ४४ ॥ पितासि लोकस्य चराचरस्य त्वमस्य विश्वस्य गुरुगरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रमितप्रभावः ॥ ४५ ॥ तस्मात्प्रणम्य प्रणिधाय कार्य प्रसादये त्वामहमीशमीडथम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियस्यार्हसि देव सोढम् ॥ ४६ ॥ दिव्यानि कर्माणि तवाद्भुतानि पूर्वाणि पूर्वेऽप्यषयः स्मरन्ति । नान्योऽस्ति कर्ता जगतस्त्वमेको धाता विधाता च विभुभवश्च ॥ ४७ ॥ एकादशोऽध्यायः 191 तवाद्भुतं किं नु भवेदसा किं वा शक्यं परतः कीर्तयिष्ये। कर्तास्य सर्वस्य यतः स्वयं वै विभो ततः सर्वमिदं त्वमेव ।। ४८॥ अत्यद्भुतं कर्म न दुष्करं ते कर्मोपमानं न हि विद्यते ते। न ते गुणानां परिमाणमस्ति न तेजसो नापि बलस्य नर्द्धः ॥ ४९ ॥ मदृष्टपूर्व हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास । ५०॥ किरीटिनं गदिनं चक्रहस्त मिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्त्रबाहो भव विश्वमूर्ते ।। ५१ ॥ श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमय विश्वमनन्तमाचं यन्मे त्वदन्येन न दृष्टपूर्वम् ।। ५२ ।। 192 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता न वेदयज्ञाधिगमैन दान न च क्रियाभिन तपोभिरुप्रैः । एवंरूपं शक्यमहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ।। ५३॥ मा ते व्यथा मा च विमूढता भूद् दृष्ट्वा रूपं घोरसुग्रं ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ।। ५४ ॥ संजय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५५ ॥ अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५६ ॥ दृष्ट्वेति । सकलोपसंहारान्ते परमप्रशान्तरूपी ब्रह्म तत्त्वस्थिति ददाति इत्युपसंहारो भगवतः सौम्यता ॥ ५६ ॥ श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाक्षिणः ॥ ५७ ॥ 1. सकलः संहारान्ते 193 एकादशोऽध्यायः नाहं वदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५८ ॥ भक्त्या त्वनन्यया शक्यो ह्यहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५९ ॥ मत्कर्मकृन्मत्परमो मद्भक्तः संगजितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ६ ॥ ॥ इति श्रीमद्भगवद्गीतायामेकादशोऽध्यायः ॥ भक्त्येति । मत्कर्मेति । अविद्यमानान्यज्ञेयरमणीया येषां भक्तिः परिस्फुरति तेषां [ ‘ज्ञानवान् ] मां प्रपद्यते । वासुदेवः सर्वम्’ (Gita VII, 19) इत्यादिपूर्वाभिहितोपदेशचमत्कारात विश्वात्मकं वासुदेवतत्त्वम् अयत्नत एव बोधपदवीमवतरति इति ।। ५९-६० ॥ ।। शिवम् ॥ अत्र संग्रहश्लोकः शुद्धाशुद्धविमिश्रार्थसंविदैक्यविमर्शनात् । भूर्भुवस्वस्त्रयं पश्यन् समत्वेन समो मुनिः ।। ॥इतिश्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते । श्रीमद्भगवद्गीतार्थसंग्रहे एकादशोऽध्यायः ।। 34. B,N omit मां प्रपद्यते S-विमिषोर्थ-, K-मिश्रोत्थ 3. S,BN प्रकाशनात् । S also gives an alternative reading विवेचनात् । 4. BN aut गीता-13 194 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. १८ (व्या) मेदाप्रतिभासात्मकमिति । इदं च तत्त्व ज्ञानार्थकतत्त्वपदेवान्वेति । सत् सत्यमित्यादि । तदुक्तम् ‘सत्त्वं (च्च) सत्त्वाश्रयं सत्त्वगुणं सेवेत केशवम् । योऽनन्यत्वेन मनसा सात्वतः समु (उ) दाहृतः ।। विहाय काम्या[न् ] कर्मादीन् भजेदेकाकिनं हरिम् । सत्यं सत्त्वगुणोपेतो भक्त्या तं सात्वतं विदुः ।। -पाद्मोत्तरखण्डे ९९ अध्याये, (शब्दकल्पद्रुमे उद्धृतम्) सात्वता इति । सत्वन्तः, त एवेत्यादिः । अधिकमन्यत्र । गोपायते इति । गुपू रक्षणे भ्वादिः परस्मैपदे पठितः॥ श्लो. ३४-३५ (व्या) शुद्धाशुद्धत्यादि - शुद्धाशुद्धमिश्रात्म कसंविदा बलेन ग्रासीकारादिति विग्रहः । समर्थेभ्योऽस्तु । समर्थेभ्यस्तु इत्येव वा विवक्षितमिव ।। श्लो. ३८ (व्या) न परब्रह्मसत्ताव्यतिरिक्तः इति । न परब्रह्मसत्ताव्यतिरिक्तसत्ताक इत्यर्थः ।। श्लो. ४१ (व्या) इत्यनेन पौनापुन्यमिति । तृतीयार्थी ऽभेदः । इत्येतदात्मक पौनःपुन्यमित्यर्थः ।। एलो. ४४ (म) सत्समक्षमिति रामकण्ठीयः पाठः समा दृतः। सतां संनिधाविति तदर्थः ॥ एकादशोऽध्यायः 195 श्लो. ४७ (मू) विभुः। विविधं विवादिपृथिव्यन्तभेदेन भवतीति विभुः । अत एव भवति सर्वरूपेणेति भवः ॥ श्लो. ५२ (मू) आत्मयोगात् । त्वत्कर्तृकः आत्मविषयकः मदनुग्रहजन्यो यो योगः तस्माद्धेतोरित्यर्थः । पैतृष्वज्ञेयत्वादिः यः अ त्मनो वासुदेवस्य कृष्णस्य कौन्तेये अर्जुने योगः बन्धुत्वं तस्माद्धेतोरिति वा। विभाषा गुणेऽस्त्रियाम्’ (PA, II, iii, 25) इति पञ्चमी I P TEM in श्लो. ५३ (मू) अहमिति नपुंसकम् अहंप्रत्ययवेद्यमभि दधाति । श्लो. ५५ (मू) स्वकं रूपमिति । अल्पार्थे कः ॥ __ श्लो. ५६ (व्या) ददातीति । दधातीति वा विवक्षित मिव ॥ श्लो. ५९-६० (व्या) तेषाम् इत्यस्य बोधपदवीमित्यु त्तरवान्वयः॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्याम् एकादशोऽध्यायः ॥