दशमोऽध्यायः प्राक्तनैनवभिरध्यायैर्य एवार्थो लक्षितः, स एव प्रति पदपाठरस्मिन्नध्याये प्रतायते । तथा चाह-‘भूय एव’ इति । उक्तमेवार्थं स्फुटीकर्तुं पुनः कथ्यमानं शृण्विति । अर्जुनोऽपि एवमेवाभिधास्यति ‘भूयः कथय’ (x, 18) इति । इत्यध्याय तात्पर्यम् । शिष्टं निगदव्याख्यातमिति किं पुनरुक्तेन ? सन्दि ग्धं तु निर्णेष्यते। श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्वेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिहि देवानां महर्षीणां च सर्वशः ॥२॥ यो मामजमनादि च वेत्ति लोकमहेश्वरम् । असंमूढः स मत्र्येषु सर्वपापैः प्रमुच्यते ॥३॥ बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो भावो भयं चाभयमेव च ॥४॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५॥ भूय इत्यादि पृथग्विधा इत्यन्तम् । असंमोहः उत्साहः ॥१-५॥ 23. BN,K विस्पष्टीकर्तु 2. B• • ध्यामानमिति दशमोऽध्यायः 175 महर्षया सप्त पूर्वं चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६॥ एतां विभूति योगं च मम यो वेत्ति तत्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७॥ अयं सर्वस्य प्रभव इतः सर्व प्रवर्तते । इति मत्वा भजन्ते मा बुधा भावसमन्विताः ॥८॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥९॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ।। महर्षय इत्यादि भास्वता इत्यन्तम् । परस्परबोधनया अन्योन्यबोधस्फारसंक्रमणात् ‘सर्व एव हि प्रमातारः एक ईश्वर’ इति विततव्याप्त्या सुखेनैव सर्वशक्तिकसर्वगलस्वात्मरूपताधि गमेन माहेश्वर्य मेषामिति भावः ॥ ६-११॥ 1.S,B,N वितत्य व्याप्त्या 2. S ताधिशयनेन; अधिगमेन 3. After इति भावः BIN add तेषां सततयुक्तानाम्’ इत्यतः प्रमति अध्यायान्ता टोका उट्टङ्किता युगरद्धि वेध।। ‘तेषामेव’ अनु च अर्जुनप्रश्नपद्यानि षट् उल्लिखति । श्रीभगवान् ‘अथवा बहुना’ इति पर्यन्तानि पद्यानि २३ वक्ति ॥ (continued p. 176) 176 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥ आहुस्त्वामृषयः सर्वे देवर्षि रदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि माम् ॥ १३ ॥ सर्वमेवतहनं मन्ये यन्मे वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर्देवा महर्षयः ॥ १४ ॥ स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥ वक्तुमर्हस्यशेषेण विभूतीरात्मनः शुभाः। याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥ कथं विद्या महायोगिन् त्वामहं प्रविचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया ॥ १७ ॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१८॥ श्रीभगवानुवाच हन्त ते कथयिष्यामि विभूतीरात्मनः शुभाः। प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥ *** (Continued from page 175.) * These sentences are obviously of some copyist. It is to be noted however that the Mss. generally contain seven (not six) verses of Arjuna and then 24 (not 23) verses of the Bhagavān. दशमोऽध्यायः 177 अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २०॥ आदित्यानामहं विष्णुज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१॥ वेदान। सामवेदोऽहं देवानामस्मि वासवः। इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥ रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरु शिखरिणामहम् ॥ २३॥ पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनान्यामप्यहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥ महर्षीणां भृगुरहं गिरामप्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥ अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथा सिद्धानां कपिलो मुनिः ॥ २६ ॥ उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७॥ आयुधानामहं वजं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥ अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितृणामयमा चास्मि यमः संयमतामहम् ॥ २९ ॥ प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥ गीता-12 178 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झपाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥ सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन। अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२ ॥ भक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ ३३ ॥ मृत्युः सर्वहरचाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक च नारीणां स्मृतिमेधा धृतिः क्षमा ॥ ३४ ॥ बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥ द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्वं सत्त्ववतामहम् ॥ ३६ ॥ वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७॥ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुद्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥ पच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥ नान्तोऽस्ति मम दिव्यानी विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेविस्तरो मया ॥४॥ यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ॥ ४१ ॥ दशमोऽध्यायः अथवा बहुनतेन किं ज्ञानेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन जगत्स्थितः ॥ ४२ ॥ ॥ इति श्रीमद्भगवद्गीतायां दशमोऽध्यायः॥ हन्त ते कथयिष्यामीत्यादि जगत्स्थित इत्यन्तम् । ‘बह मात्मा’ (श्लो. २०) इत्यनेन व्यवच्छेदं वारयति । अन्यथा ‘स्थावराणां हिमालय’ इत्यादिवाक्येषु ‘हिमालय एव भगवान् नान्य’ इति व्यवच्छेदेन, निविभागत्वाभावात् ब्रह्मदर्शनं खण्डि तम् अभविष्यत् । यतो यस्याखण्डाकारा व्याप्तिस्तथा चेतसि न उपारोहति, तां च [यो] जिज्ञासति तस्यायमुपदेशग्रन्थः । तथाहि उपसंहारे! भेदाभेदवादं ‘यद्यद्विभूतिमत्सत्त्वम्’ (श्लो-४१) इत्यनेनाभिधाय, पश्चादभेदमेवोपसंहरति ‘अथवा बहुनतेन - - - विष्टभ्याहमिदं - - - एकांशेन जगत् स्थितः’ (श्लो-४२) इति । उक्तं हि पादोऽस्य विश्वा भूतानि बिपादस्यामृतं दिवि ॥ इति RV, X, 90,3 प्रजानां सृष्टिहेतुः सर्वमिदं भगवत्तत्त्वमेव तैस्तैर्विचिवै 2रूपैर्भा व्यमानं सकलस्य विषयतां यातीति ॥ १९-४२॥ ॥ शिवम् ॥ 24. B उपसंहारेण - 2.5 तत्त्वमेतैस्तैविचित्रः रूपः, B,N -विचित्ररूपैः 25. S.N सकलमस्य100 श्रीमगवद्गीता गीतार्थसंग्रहोपेता बन संग्रहश्लोकः इच्छायामिन्द्रिये वाऽपि यदेवायाति गोचरम् । हठाद्विलापयंस्तत्तत् प्रशान्तं ब्रह्म भावयेत् ॥ ॥इति श्रीमहामाहेश्वराचार्यवर्य राजाचकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे दशमोऽध्यायः ॥ व ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी॥ श्लो. १-५ (व्या) उत्साह इति । उत्साहयति प्रोत्साह पति इत्युत्साहः संमोहविरोधी असंमोहः। श्लो. ९ (मू) रमन्ति इति परस्मैपदं छान्दसम् ॥ श्लो. २८ (मू) प्रजन इति । प्रपूर्वकात् जनी प्रदुर्भाव इति धातोः अन्तर्भावितण्यर्थात् कर्तरि क्विपि, ङसि रूपं प्रजन इति । जातावैकवचनम् । प्रजनयितृणामित्यर्थः । रामकण्ठोऽप्याह ‘प्रजनः प्रजनन क्रियाकर्ता, तस्य; जातावेकवचनम्’ इति । ‘प्रज नस्यास्मि’ ‘प्रजनेष्वपि’ इत्यपि पाठावुपलभ्यते मातृकासु ॥ पलो. २९ (म) संयमतामिति । ‘छान्दसो यच्छादेशाभावः। केचिनिपुणाः संयच्छतामिति पठन्ति’ इति रामकण्ठः ॥ श्लो. ४२ (मू) ज्ञानेनेति रामकण्ठपाठः समावृतः । ज्ञायते अनेनेति ज्ञानम् उपदेशः, तेनेत्यर्थः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या दथयोऽध्यायः॥ 26. S,B,N ब्रह्महा भवेत् । Probably प्रशान्तब्रह्मभाग्भवेत् is intended.