०९

नवमोऽध्यायः श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥ इमिति । अनसूयत्वं ज्ञान संक्रान्तौ कारणं मुख्यम् । ज्ञानविज्ञाने प्राग्बत् ॥१॥ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धम्यं सुमुखं कर्तुमव्ययम् ॥ २ ॥ राजेति । राजते सर्वविद्यामध्ये दीप्यते या। इहैव ह्यच्यते – ‘अध्यात्मविद्या विद्यानाम्’ इति । राज्ञां जनकादी नाम् अव अधिकारः, तेषां रहस्यम् अतिगुप्तत्वात् । क्षत्रिय सुलभेन वी(धी)रभावेनाविकम्पनात्2 कर्तुमनुष्ठातुं सुसुखम् । [अव्ययम्], न चास्य ब्रह्मोपासनात्मनः कर्मणः अन्यकर्मवदुप भोगादिना व्ययोऽस्ति ॥ २॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवमनि ॥३॥ अश्रद्दधाना इति । निवर्तन्ते, पुनः पुनर्जायन्ते नियन्ते च ॥३॥ 1.S,B,N प्रति गुप्तत्वात् 2.S,B,N -कम्पत्वात् 3. N अनुष्ठानम् 10. B adds न च मत्स्था यथाकाशमे(ए)वं हि सर्वभूतानि - before faadiza i Obviously this is to go the next verse. 154 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता मया ततमिदं कुत्स्नं जगदव्यक्तमतिना । मत्स्थानि सर्वभूतानि न चाहं तेष्वव स्थितः ॥ ४ ॥ मयेति । मत्स्थानि सर्वभूतानीति । सुचिरमपि गत्वा अन्यस्य प्रतिष्ठाधाम्नः अविद्यमानत्वात् । भूतरूपबोध्यात्मक प्रसिद्धतदीयजडरूपपुरःसरीकारेण तदवभासे तद्विपरीतबोध स्वभावतिरोधानम् इत्येतदाह-‘न चाहं तेष्यवस्थितः’ इति ॥४॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥ न चेति । न च मत्स्थानि- अविद्यान्धानी तत्त्वादष्टेः । न हि मूढा अविच्छिन्न संवित्स्वभावं परमेश्वरं समस्तवस्तुपरि च्छेदप्रतिष्ठास्थानं मन्यन्ते । अपि तु ‘कृशो देवदत्तोऽहम् इदं वेद्मि भूतले इदं स्थितम्’ इति मितमेवस्वभावं प्रतिष्ठास्थान तया पश्यन्ति । बनु कथमेतद्विरुद्धम् [उच्यते ]? इत्या [शङ्क्या ] ह ‘पश्य योगमैश्वरम् । इति । योगः शक्तिः, युज्यमानत्वात् । एतदेव ममै श्वर्यम्, यदेवं निरतिशयाद्भुतवृत्ति स्वातन्त्र्यमित्यर्थः ॥ ५ ॥ यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६॥ 11. N तत्तद्विपरीत 2. S omits भूतले. 3. N प्रतिष्ठानस्थानतया नवमोऽध्यायः CIS एवं हि सर्वभावेषु चराम्यनभिलक्षितः। भूतप्रकृतिमास्थाय सहैव च विनैव च । ७ ॥ यथेति । एवमिति । यद्वदाकाशवाय्वोरविनाभाविन्यपि संबन्धे न जातु नभःस्पृश्यता श्रूयते, एवं सकलसंसारविसार्यपि भगवत्तत्त्वं न सर्वजनविषयम् ॥ ६-७ ॥ सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ८॥ सर्वेति । प्रकृति, अव्यक्तरूपाम् ॥ ८॥ प्रकृति स्वामवष्टम्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥९॥ प्रकृतिमिति । ‘स्वा प्रकृतिमवष्टभ्य’ इत्येतावता जडोऽ पि स्वतोऽयं भाव (भूत) ग्रामः परप्रकृत्यन्वयात् प्रकाशतां प्राप्तः [इति प्रतिपादितम्] ॥९॥ न च मा तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ १० ॥ मयाध्यक्षेण प्रकतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ११ ॥ न चेति । मयेति । न च मेऽस्ति कर्मबन्धः, औदासी न्येन वर्तमानोऽहं यतः । अत एवाहं जगन्निर्माणे अनाश्रितव्या पारत्वात् हेतुः ॥ १०.११ ।। 12. S जातुचित् 156 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अवजानन्ति मां मूढा मानुषी तनुमास्थितम् । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ १२ ॥ अवजानन्तीति । सोऽहं सर्वजनान्तःशायी, सर्वस्यात्म रूपतया अवज्ञास्पदम् ; यत् मानुषादिचतुर्दशविध सर्गव्यति रिक्त ईश्वरो नोपलभ्यते, स कथमस्ति इति ॥ १२ ॥ मोघाशा मोधकर्माणो मोघज्ञाना विचेतसः। आसुरीं राक्षसीं चैव प्रकृति मोहिनीं श्रिताः ॥१३॥ मोघेति । तेषां च कर्म ज्ञानम् आकांक्षाश्च सर्व निष्फ लम्, अवस्तुविषयत्त्वात् । आसुरी राक्षसी चेति- उद्रिक्तरज स्तमोधर्माण इति ॥ १३ ॥ महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१४॥ सततं कीर्तयन्तश्च यतन्तश्च यतव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते । १५॥ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथकत्वेन बहुधा विश्वतोमुखम् ॥ १६ ॥ महात्मान इत्यादि विश्वतोमुखमित्यन्तम् । दैवीं, सात्वि कीम् । यजन्तः, बाह्यद्रव्यादियागैः। अन्ये तु मां ज्ञानयज्ञे नैवोपासते । अतः केचित् एकतया ज्ञानतः, केचित् बहुधा, कर्मयोगात् । मत्परा एव सर्वे ।। १४-१६ ॥ 13. Somits सर्व-; BN omit-जन 2. S.K-त्मपररू 3. Bomits-विध - सप्तमोऽध्यायः 151 ननु कर्म तावत् कारककलापव्याप्तभेदोद्रेकि कथवभिन्नं भगवत्पदं प्रापयतीति ? उच्यते अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ।। १७ ॥ पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च ॥ १८॥ गतिमा प्रभु साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १९॥ तपाम्यहमहं वर्ष निगृहाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ २०॥ अहं ऋतुरिति अर्जुनेत्यनन्तम् । एकस्यैव निर्भागस्य ब्रह्मतत्त्वस्य परिकल्पित भेदवत् पाधनाधीनं कर्म पुनरेकत्वं निवर्तयति; क्रियायाः सर्वकारकात्मसाक्षात्कारेणावस्थाने भगवत्पदप्राप्ति प्रत्यविदूरत्वात् । उक्तं च सेयं क्रियात्मिका शक्तिः शिवस्य पशुवतिनी। बन्धयित्री स्वमार्गस्था ज्ञाता सिद्धयुपपादिका ॥ (Sple, III, 16) इति मयाप्युक्तम् उपक्रमे यैव बुद्धिर्भावाभावानुयायिनी । उपसंहृतिकाले सा भावाभावानुयायिनी ।। इति । तत्र तत्र वितत्य विचारितच रमेतत् इतीहोपरम्यते । तपाम्यह मित्यादि अद्वैतकथाप्रसङ्गेनोक्तम् ॥ १७-२०॥ 14. Somits इति 158 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता नन्वेवं यदि बाह्ययागादिनाऽपि ब्रह्मप्राप्तिः, तहि अग्नि ष्टोमादिष्वपि किम् अन्यो याज्यः? अभ्युपगमे भेदवादः; वासु देव एव इति चेत्, कथं नापवर्गस्तैः [प्राप्यते]? तदर्थमुच्यते विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान दिवि देवभोगान् ॥ २१ ॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २२ ॥ वैविद्या इत्यादि । ते तमित्यादि । यद्यपि ते मामेव यजन्ते । तथापि स्वर्गमावप्रार्थनया मितं कर्म निजसत्त्वदुर्बल तया स्वर्गादिमात्रेणैव फलेनावच्छिन्दन्ति । अत एवैषां पुनरा वर्तको धर्मः । एवं ते गतागतं लभन्ते, न तु यागस्य पुनरावृत्ति प्रसवधर्मा स्वभावः ॥ २१-२२ ॥ तथा हि अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २३ ॥ 15. S ब्रह्माप्तिः 2. Somits एम नवमोऽध्यायः 159 अनन्या इति । तेभ्योऽन्ये मा चिन्तयन्तः । कथम्? अनन्या अविद्यमानं अन्यत् मद्व्यतिरिक्त कामनीयं फलं येषामिति । योगः, अप्रतिलब्धमत्स्वरूपलाभः । क्षेमम्, प्राप्तभगवत्स्वरूप प्रतिष्ठालाभपरिरक्षणम्, येन योगभ्रष्टत्वशंकाऽपि न भवेत् इत्यर्थः॥ २३ ॥ येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।। २४ । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्वेनातश्चलन्ति ते ॥ २५ ॥ यान्ति देवव्रता देवान् पितृन्यान्ति पित् व्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २६ ॥ पत्रं पुष्पं फलं तोऽयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।। २७॥ येऽपीत्यादि प्रयतात्मनः इत्यन्तम् । येऽपि नामधेयान्तरै रुपासते तेऽपि मामेवोपासते । न हि ब्रह्मव्यतिरेकि किञ्चिदुपा स्यमस्ति । किन्तु अविधिना इति विशेषः। अविधिः अन्यो विधिः । नानाप्रकारैविधिभिरहमेव परब्रह्मसत्तास्वभावो याज्य इति। न तु यथा अन्यैर्दर्थनान्तरदूषणसमुपाजितमहापातकम2. लीमसैयाख्यातम् ‘विधिना, दुष्टविधिना’ इति । एवं हि 16. B कमनीयं 2. S,Bomit पातक160 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता सति ‘मामेव यजन्ते, सर्वयज्ञानाचाहमेव भोक्ता’ इति दृश्य मानमेतदसमञ्जसीभवेत् इत्यलं कल्मषकलि जैस्साकं संलापेन । अस्मद्गुरवस्तु निरूपयन्ति-अन्या स्वात्मव्यतिरिक्ता भेदवादनयेन ब्रह्मस्वभावहीनैव काचिद्देवता इति गृहीत्वा तामेव [ये] यजन्ते तेऽपि वस्तुतो मामेव स्वातमरूपं यजन्ते, किं तु अविधिना दुष्टेन विधिना भेदग्रहणरूपेण इति । अत एवाह - न तु मां स्वात्मानं तत्त्वेन देवतारूपतया भोक्तृत्वेन जानन्ति, अतश्चलन्ति ते मद्रूपात् । किम्? देवव्रतत्वेन देवान् यान्ति इत्यादि । एतदेव चलनमिति यावत् । ये तु मत्स्वरूपमभेदेन विदुः, ते देवभूतपितृयागादिनाऽपि मामेव यजन्ते । ते च मद्याजिनो मामेव गच्छन्ति इत्युपसंहरिष्यति । ननु द्रव्यत्यागार्थमुद्दिष्टा देवता इत्युच्यते । तत् कथमनु द्दिश्यस्वात्मतत्त्वस्य याज्यत्वम्? आदित्यः प्रायणीयश्चरुः इति विधिशेषभूतदेवता उद्देशात्मकविध्यन्तरभावितो ह्यसौ उद्देशः (श्यः)। न च स्वात्मविषयो’ विधिरस्ति इत्यभिप्रायेणाह अविधिपूर्वकं मामिति । स्वात्मव्यतिरिक्तायां देवत यामस्ति 17. S,B मेदग्रहरूपेण 2. S,B,N sqara 3. SBN च्यवन 4. BN-स्वरूपभेदे )न 5. N यजन्ति 6. BIN प्रभावितो 7. S,B, N omit facut नवमोऽध्यायः 161 अपेक्ष्यो विधिः, अप्राप्तप्रापणरूपत्वात् । स्वात्मा तु परमेश्वरो न विधिपूर्वकः, विधिपरिप्रापितत्त्वाभावात। न हि तदनद्देशेव किञ्चित्प्रवर्तते । तेन विधिपरिप्रापितेन्द्रादिदेवतोद्देशेषु सर्वेषु सर स्वात्मा विश्वावभासनस्वभावः तदुद्देश्यदेवतावभासभित्ति स्था नीयतयैव अहमहमिकया सततावभासमावः स्रक्सूवकल्पः सततोद्दिष्टः इति युक्तिसिद्धमेतत्, ‘मामेव यजन्ति अविधि पूर्वकत्वात्’ [इति । मुख्यभूतमत्प्राप्तिफलस्य तान्प्रति कर्व भिप्रायत्वं नास्ति, अपि तु परिमितदक्षिणास्थानीयेन्द्रादिपद+ मानप्राप्ते व याजकवच्चरितार्थत्वमेषाम् इति प्रयितुं परस्मै पदम् । यदुक्तं मयैव वेदान् वेद र वेद शाम्भवपदं दूयेत निवेदवान् स्वर्गार्थी यजमावतां प्रतिजहज्जातो यजन् याजकः । सर्वाः कर्मरसप्रवाहविसराः संवित्स्रवन्त्योऽखिलाः स्त्वामा (स्वात्मा)नन्दमहाम्बुधिं विदधते नाप्राप्य पूर्णा स्थितिम् ॥ इति एवं य उक्तक्रमेण वेत्ति तस्येन्द्रादिदेवतायागोऽपि परमेश्वरयाग इति ॥ २४-२७॥ यदपि अन्यत कर्म, तदपि महेश्वरस्वात्मार्चनरूपं, तस्यैव पर्वतोद्देशात् इत्याह 18. S,B,N-परिप्राप्यत्वाभावात् 2. Somits सः 3. BN substitutes - भित्ति with-मिति—- 4. B-येन्द्रपदातिमान, Nयेन्द्रपवादि- K (0)-इन्द्रादिपवमान S. BK (n) प्राप्तय एव; N प्राप्त एव 6. K प्रसराः पीता-11 162 भीमद्भगवद्गीता गीतार्थसंग्रहोपता यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ।। २८ . शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २९ ॥ यत् करोषोति । शुभाशुभेति । देवतान्तरयाजिनो यतो मितमनोरथाः फलं लघयन्ति, अतस्त्वं सर्व प्रागुक्तोपदेशक्रमेण मदर्पणं मन्मयत्वेन भावना कुरु । एष एव च संन्यासयोग इति विस्तीर्णं विस्पष्टप्रायं पुरस्तादेव ॥ २८-२९ ॥ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।। ३० । अपि चेत् सुदुराचारो भजते मामनन्यभान । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३१ ॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति । कौन्तेय प्रतिजानेऽहं न मद्भक्तः प्रणश्यति ॥ ३२ ॥ सम इत्यादि प्रणश्यतीत्यन्तम् । प्रतिजाने इति । युक्ति युक्तोऽयमर्थो भगवत्प्रतिज्ञातत्वात् सुष्ठतमां दृढो भवति ॥ ३०-३२॥ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३३॥ किं पुनर्नामणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३४ ॥ 1. Somits मन्मयत्वेन भावनम्. 163 লীমা मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैत्रमात्मानं मत्परायणः ॥ ३५ ॥ ॥ इति श्रीमद्भगवद्गीतायां नवमोऽध्यायः॥ पां हि इत्यादि मत्परायण इत्यन्तम् । पापयोवयः पशु पक्षिसरीसृपादयः । स्त्रिय इति अज्ञाः। वैश्या इति कृष्यादि कर्मान्तररताः। शूद्रा इति कात्स्न्येन वैदिकक्रियानधिकृताः परतन्त्रवृत्तयश्च ।
तेऽपि मदाश्रिता मामेव यजन्ते।
गजेन्द्रमोक्षणादीनि चरितानि हि
परम-कारुणिकस्य भगवतः सहस्रशः श्रूयन्ते ।
किम् अङ्ग पुनर् एतद्-विपरीत-वृत्तयः ।

॥शिवम् ॥ अव संग्रहश्लोकः । अद्वैते ब्रह्मणि परा सर्वानुग्रहशालिनी। शक्तिर्विजम्भते तेव यतनीयं तदाप्तये ॥ ॥ इति श्रीमहामाहेश्वराचार्यवयंराजानकाभिनवगुप्तपादविर चिते श्रीमद्भगवद्गीतार्थसंग्रहे बवमोऽध्यायः॥ ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ३ (मू) निवर्तन्ते । नितरां वर्तन्त इत्यर्थः । तदेवाह व्याख्याने पुनःपुनरित्यादिना ॥ श्लो. ४ (व्या) गत्वेति । स्थितस्य कृते इति शेषः। भूतरूपेत्यादि । भूतस्वरूपाणां पृथिव्यादीना बोध्यात्मकाना बोध्यताविशिष्टानां यत् ‘विगुणमविवेकि विषयः सामान्ययचे. तनं प्रसवर्मि’ (सांख्यकारिका ११) इति प्रसिद्ध बोध्यता समनियतं तदीयं भूतग्रामीयं जडत्वस्वरूपं तदेव पुरस्कृत्येत्यर्थः । इत्येतदाहेति । न चाहं तेष्वेवस्थित इति मूलस्य न चाहं तेष्ववस्थितत्वेन प्राकृतैः दृष्ट इत्यभिप्रायः इति भावः ॥ 21. Somits-विषध 165 नबमोऽध्याय एलो. ५ (मू) ममात्मेति । शैषिकी षष्ठी संबन्धसामान्ये । ‘निर्विशेषं न सामान्यम्’ इति न्यायेन सामान्यस्य विशेषनिष्ठ तया, प्रकरणात्, औचित्यात्, सम्बन्धान्तरासम्भवाच्च प्रकृते सायान्यः संबन्धः ‘तादात्म्यम्, अभेद.’ इति शब्दाभ्यो निदिष्टे संबन्धविशेषे पर्यवस्यति । तथा च अहंविमर्शरूप आत्मेत्यर्थः । भूतभावन इति । ‘मदात्मना घटो वेत्तिा इत्युक्तरीत्या भतानि सर्वाणि भावयन्ते । तव हेतुः ममात्मा इति । भूत. भावनः । णिजन्तात् णिच् ॥ श्लो. ७ (मू) एवं हीति । आचार्येणाव्याख्यातस्यास्य पद्यस्य शिवाद्वैतवादजीवातुसमस्य काश्मीरीयमूलकोशेषूपलभ्य पानस्य काश्मीरीय रामकण्ठादिभिर्व्याख्यातस्यायमर्थः- सर्वे. ध्वपि भूतभावेषु अचेतनतया चेतनतया च प्रसिद्धेषु चैतन्यं ‘भूमिरापोऽनल’ इति, ‘अपरेयमितः’ इति च (गीता VII, ४-५) पूर्वोपर्शितरीत्या सर्वभूतप्रकृतिभूतं सत् वर्तत एव इति । चरामि तथापि अनभिलक्षित इति सहैव च विनैव च इलि न विप्रतिषिद्धम् । लौकिकपारमार्थिकदृष्ट्या तदुपपत्तेः । तथाहि परमार्थशिनं प्रति उक्तभूनप्रकृतित्वेन सह चैतन्यं सर्वत्र चरति उपलभते । लौकिकम् उक्ततत्त्वाशिनं प्रति तु विनैव तेन चरति इत्यनभिलक्षितः इति तात्पर्यार्थः । श्लो. १०-११ (व्या) न च मेऽस्ति कर्मबन्धः औदासीन्येन वर्तमानोऽहं यत इति । यथाहुः ‘गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः’। (सांख्यकारिका-२०) 166 श्रीमद्भगवद्गीता गौतार्थसंग्रहोपैता अनाश्रितव्याणरत्वात् हेतुरिति । तदुक्तं ‘हेतो’ इति सूत्रे (PA, III, iii, 23) कैयटे ‘योग्यतायात प्रयुक्तोऽनाश्रितव्यापारोऽर्थो . . . . हैतु’ -इति । अत्र योग्यता भ्रमप्रमासाधरणी बोध्या। इत्थं च प्रकृते गीता श्लोके मयाध्यक्षेणेति हेतो तृतीया, हेतुनानेनेत्यस्य अनेन मदी याध्यक्षत्वेन हेतुनेत्यर्थ इत्याचार्याभिप्रायः ।। श्लो. १३ (सू) चैवेति । वा अपि इत्यर्थः॥ श्लो. १६ (मू) ज्ञानेत्यादि । ज्ञानयज्ञेनेत्यस्य नित्य युक्ता उपासते इति पूर्वतनेनान्वयः । तथा चात्रायमर्थः - महा त्मानः ज्ञानयज्ञेन साधनेन सामेकत्वेन बद्वैतभावनया उपासते। अन्ये चापि लौकिकी श्रौतदृष्टिमाश्रिताः बहुधा बहुप्रकारेण कर्मयोगात् कर्मसंबन्धात् बाह्यद्रव्यसाध्यैः यजन्तः विश्वतोमुखं विश्वरूपं मामेव पृथक्त्वेन अनेकतया भेदभावनया उपासते इति ॥ श्लो. १७-२० (अ) कारकेत्यादि । कारकाणी कलापेषु व्याप्तो यो भेदः परस्पराभावः तद्भूयिष्ठमित्यर्थः॥ पलो. १७ (मू) अहमेवाज्यमिति । अहमाज्यमपीत्यर्थः ॥ श्लो. १७-२० (व्या) एकस्यैवेत्यादि । स्वत एवैकस्य अद्वैतस्य ब्रह्मतत्त्वस्य निर्भागस्य निरंशस्य अखण्डस्य पुनरपि एकत्वमेव कम निवर्तयति, साधयति, तत्त्वविदः कृते निश्चाययति इत्यर्थः । एवं निर्वर्तने हेतुः परिकल्लितभेदवत्साधनाधीनतैव कर्मणः इति । उक्तं पूर्वमपि ‘ब्रह्मार्पणं ब्रह्म हविः’ इत्यादि। अषयोऽध्यायः 167 सर्वकारकेन्यादि । सर्वेष्वपि कारकै षु आत्मनः, चैतन्यस्य साक्षात्कारेण, सर्वकारकाणी संविद्रूपेणात्मना अभेदसाक्षात्कारेण सह कर्तुरवस्थाने सति, तस्य भगवत्प्राप्ति प्रति उद्दिश्य अविदूर स्थत्वात् समीपस्थत्वात् इत्यर्थः । उपक्रमे इत्यादि । अस्मिंश्च पद्ये पूर्वार्धे भावाभावानु. यायिनी इत्यस्य इमे भावाः सच्छन्दवाच्याः, इमे अभावा. अस. छब्दवाच्याः इति भेदमनुसृत्य यायिनी इत्यर्थः । अथवा अब चैतन्यस्य भावः, अन तु तस्याभाव इति चैतन्यभावाभावावनुसृत्य दायिनी इत्यर्थः । अथवा भाव इति पूर्वोपर्दा यतदिशा (2147) चैतन्यं वक्ति । तथा च दृश्येषु भावस्य चैतन्यस्य अभावमनु याति जानातीति भावाभावानुयायिनी इत्यर्थः । एवं च उपक्रमे सृष्टयुपक्रमे, संसारदशायामिति यावत्, या बुद्धिः अध्यवसाय लक्षणा भावाभावाध्यवसायिनी इति पूर्वार्धार्थः । उत्तरार्ध सा अभावाभावानुयायिनी इति च्छेदः । तथाच उपसंहृतिकाले संसार व्यपरमदशाया सैव बुद्धिः भावाभावनुयायिनी - अस्य च पूर्व वदेवार्थः - न भवति इति अभावाभावानुयायिनी, अर्थात् सर्वत चैतन्यमात्मानं प्रत्यभिजानातीत्यर्थः । अथ वा भावाभावानुया. यिनी इत्येव पदच्छेदः । भावेषु सत्पदवाच्येषु अभावेषु बस’ त्पदवाच्येषु अं वासुदेवं परमात्मानम् अनुगति प्रत्यभिजाना. तीति भावाभावानुयायिनी इत्यर्थः। ‘अ-शब्दः स्यादभावेऽपि स्व. लार्थप्रतिषेधयोः । अनुकम्पायां च तथा वासुदेवे त्वनव्ययः॥ इति मेदिनी। भावाभाव++ अनुयायिनी इति सवर्णदीर्घः । अस्य पद्यस्याङ्लभाषानुवादस्तु अर्थान्तरमनुसरति । 168 -_बीमद्भगवद्गीता गीतार्थसंग्रहोपेता 13 अवेदं तत्त्वम् - यः परमेश्वरो जगत्पतिः, तस्य परो मुख्यत्यागेन स्वात्मविश्रान्तिरूपत्वेन या स्फुरत्ता महासत्ता सैव आनन्द इति, भगवतश्चिदात्मतयैव सत्तादिरूपता । पशोस्तु सत्ता तदभावश्च, आवन्दन तदभावश्च; तस्य संकुचितरूपत्वात् । अतः अयं द्वयात्मा इति । अधिकं तु तत्त्वसंग्रहाधिकारे ‘सत्ता. ‘नन्दः क्रिया पत्युस्तदभावोऽपि सा पशोः’ इति प्रत्यभिज्ञाका रिकाविशिन्या द्रष्टव्यमिति । महा प्रकृते च ‘उपक्रमे इत्यादिपचे अभिन्नसमपादो नाम (पादाभ्यासात्मकः शब्दालङ्कारः। उक्तं च तल्लक्षणं काव्य -‘प्रकाशे ‘अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः’ इति (IX. 117) । विस्तरस्तु तद्वयाख्यानेषु द्रष्टव्यः ।। श्लो. २१-२२ (व्या) मितं कर्मेति । अत्र कर्म इति द्विती यान्तं पदम् । द्वितीयार्थश्च कर्मत्वम् अवपूर्वकच्छिदधात्वर्थे अव च्छेदे अन्वेति । मितं प्रमितं, प्रमाणतो विदितं स्वर्गमावप्रार्थनया। तादशप्रार्थनया प्रमितत्वमेव कर्मणोऽवच्छेदने हैतुरिति भावः । अथवा मितं परिमितमित्यर्थः । अथवा अमितमिति च्छेदः । इत्थं च स्वतः अमितमपि अनवच्छिन्नमपि निरवच्छिन्नानन्ता नन्दब्रह्मप्रापकर्माप कर्म यज्ञादिकं स्वर्गमात्र प्रार्थनया अवच्छि ‘न्दन्ति, परिच्छिन्नफलदायकं काम कामाः कुर्वन्तीति वाक्या न्वयः। स्वर्गतिं प्रार्थयन्ते इति मूलस्याभिप्राय प्रदर्शक स्वर्गमाव प्रार्थनयेति । तस्योपव्याख्यानम् अमितं कर्म स्वर्गादिमात्रेणैव फलेनेति । अपरिमितस्य परिमितीकरणे हेतुः निजसत्त्व. दुर्बलता ॥ नवमोऽध्यायः 0.169 श्लो. २३ (व्या) अप्रतिलब्धमत्स्वरूपलाभ इति । संसारा वस्थायामविद्याप्रतिबन्धात् अक्षब्धमिव स्थितं यत् आत्मस्वरूपं तस्य लाभ इत्यर्थः । अथवा अप्रतिबद्धेति विवक्षितम् । अप्रति बद्ध आत्मस्वरूपलाभ इत्यर्थः॥ श्लो. २४-२७ (व्या) ननु अन्यदेवताभक्ताः इति व्या घातवचनम्, वासुदेवतत्त्वादन्यदेवताया अभावात् इत्यतः अभि प्रायमाह - नामधेयान्तररुपासते इति । एवं च इन्द्रादीनां नाम धेयान्तरत्वमेव, अर्थात् वासुदेवोपासने करणान्तरत्वमेव, न तु देवतान्तरत्वमिति भावः। तदाह मामेवोपासते इति । तथा च मूले अन्यशब्दो नामधेयान्तरयुक्तपर इति आचार्याभिप्राय इव । अविधिः अन्यो विधिरिति । विधिरिति जातावेकवचनम् । अत एव विधिमिरित्याह । अव अन्यो विधिरित्यर्थवर्णनमावं, न तु विग्रहप्रदर्शनम् ; विध्यन्तरमित्यापत्तेः । विग्रहस्तु न वि. धिरित्येव । नअर्थो भेदो भेदवान् वा; अन्यो विधिरित्यर्थ प्रदर्शनस्वारस्यात् । अत्र विधिभिन्नार्थकत्वे अविधिशब्दस्य, उत्तरपदार्थप्रधानस्तत्पुष इति महाभाष्यवचनविरोधः । तसर्थस्य भेदस्य अनुयोगितया प्रतियोगितया वा, भेदवतो वा अभेदेव विधिपदार्थेऽन्वये प्रयोजनाभावः; व्यवहारदशायो भेदप्रतियो गित्वानयोगित्वयोः, भेदस्य च केवलान्वयित्वात् । ‘यावद्विकार विभागः’ इति न्यायाच्च । तथा च नः यत्किञ्चिद्वस्तुप्रतियो गिकभेदे, तादृशभेदवति वा लक्षणाया वक्तव्यतया, तादृशवस्तु - विशेषाकांक्षायां समभिव्याहृतविधिशब्दार्थ एव औचित्यात सामीप्याच्च हेतोरुपस्थित इति विधिप्रतियोगिकभेदवन्तो170 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता विधय इत्यर्थे अविधिशब्दः पर्यवस्यति । न चैतादृशान्वयबो धोऽव्युत्पन्नः । ‘भिन्नरुचिहि लोकः’ इत्यादी उक्तरीत्यवान्वय बोधस्य सर्वानुभवसिद्धत्वात् । भिन्न शब्दार्थो भेदवान, स अर्थ एवेत्यत्र न विवादः । एवं च नानाविध्यर्थकत्वबोधः अविधि. शब्दाल्लभ्यते । अथवा न विधिः (परः, अन्यः) येभ्यस्तै अविधयः’ इति पञ्चमीबहुव्री ह्याश्रयणेन अविधिशब्दात् ‘सर्वे विधयः’ इत्यर्थलाभसंभवः इति मनसि कृत्वेवार्थं वर्णयति - नानाप्रकारे विधिभिरिति । अविधिना दुष्टविधिनेति। अत्र प्रकरणपरिशीलनेन, तथा मितमृदुभाषिण आचार्यस्य तीक्ष्णखण्डनेन चेदं प्रतिभाति - अवाचार्येण परामृश्यमानानां व्याख्यातॄणां दृष्टघा तदीयशास्त्रे. तरशास्त्रेषु दृश्यन्ते ये विधयः ते दुष्टविधयः; निष्पक्षपातिनो भगवतो वाक्यस्य अविधिपूर्वकम् इत्यस्य तादृशारोपितदुष्टत्व. वद्विधिपुरस्सरमित्यर्थ इति । तेऽपि वस्तुतो मामेव स्वात्मरूप यजन्ते इति । अव यज न्तीति परस्मैपदेत भाव्यम्, भूलस्वारस्यात् । स्पष्टीभविष्य तीदमनुपदमेव । अतश्चलन्ति ते इत्युक्तेरभिप्रायं ज्ञातुं पृच्छति-किमिति । कथमित्यर्थः । उपसंहरिष्यतीति । एतावता प्रबन्धेन आचार्यः ‘अविधि पूर्वकम्’ इत्यस्य ‘नानाविधिपूर्वकम्’ इत्यर्थः स्वाभिप्रायेणोप वर्णितः; परकृतव्याख्यायाम् असामञ्जस्यं प्रदर्शितम् ; स्व गुरु नवयोध्याया 171 कृतव्याख्यानमनूदितम्, तत्र च व्याख्याने औचित्यम् ‘मत एवाह’ इत्यादिना आविष्कृतम् । अत्रेदं चिन्त्यते - ‘भिन्नरुचिः’ इत्यत्र भिन्नशब्दो नाम पदम् ; नञ् तु निपातः । एवं स्थिते कथं तयोः समानयोग क्षेमता अन्वयबोधे ? अन्यथा ‘भिन्न रुचिहि लोकः’ इत्यस्मिन्ने वार्थे ‘अरुचिहि लोकः’ इति प्रयोगस्यापि प्रामाणिकत्वापत्तेः । एवम् अविधिः इत्यत्र उक्तबहुव्रीह्याश्रयणं तथा निरुक्तार्थवर्णनं चन व्युत्पन्नम् । न हि भवति अघटपदात् सर्वघटबोधः प्रामा णिकः । इत्येवं विचिन्त्येव ‘अविधि-पूर्वकम्’ इत्यस्य विधि पूर्वकं न भवतीति अर्थ वर्णयितुं भूमिकामारचयन्नाक्षिपति ननु द्रव्यत्यागार्थमित्यादिना। वस्तुतस्तु ‘न विधिः अविधिः’ इत्यनुक्त्वा अन्यो विधिः अविधिः, नानाप्रकारैविधिभिः इति रीत्या विलिखत आचार्य स्याभिप्रेतमिदमिव - ‘नात नञ्तत्पुरुषः, उक्तदोषात्, अपि तु अ इत्यव्ययेन समासः । अन्येत्यस्यायम् अकारः, न तु वः । यथोक्तं व्याख्यासुधायाम् (AK, III,iv.10), ‘अ विप्र इव भाषसे, इत्यादी ‘विप्रवन्न ब्रूषे’ इति वक्तृबुबोधयिषितार्थप्रत्ययानुपपत्तेः । किं च अन्यदिति भिन्नमिति चानर्थान्तरं प्रसिद्धम् । ‘भिन्न रुचि हि लोक’ इत्यादिषु भिन्न शब्दस्य नाना इत्यर्थे वृत्तिर्दृष्टचरा । इत्थं च तदभिन्नाभिन्नस्य तदभिन्नत्वम् इति रीत्या अइति नावा इति च समानार्थकशब्दौ भवितुमर्हत इति । परन्तु एतादृशार्थ कत्वम् अ-शब्दस्य प्रयत्वतः साधनीयं भवति, प्रसिद्धेषु विघण्टुषु 172 धीमद्भगवद्गीता गीतार्थसंग्रहोपेता तन तस्य शक्यप्रदर्शनात् । किं च पूर्वोक्तरीत्या ‘भिन्नरुचि ह खोकः’ इत्यर्थे ‘अरुचिहि लोकः’ इति प्रामाणिकप्रयोगापत्तिश्च । अत एवास्वरसात् ‘अ शब्दः स्यादभावेऽपि’ इति हैमकोशात् -अभावार्थ केन अ इत्यव्ययेन नजा वा समासमङ्गीकृत्य व्याख्या नान्तरमारचयितुं तद्भुमिकास्वेन आक्षेपम् उत्थापयति नन्विति, इत्यत्व सुधियः प्रमाणम् । कथमनुद्दिश्येत्यादिना असत्येन ग्रन्थेन एवं विवक्षितमिव -कथमनुद्देश्यस्य स्वात्मतत्त्वस्य याज्यत्वम्? ‘आदित्यः प्राय णीयः पयसि चरुः’ इति विधिशेषभूता हि देवता उद्देश्यात्मवा विध्यन्त विता ह्यसौ उद्देश्यभूता अदितिरिति । ‘आदित्यः प्रायणीयश्वरुः’ इति । संपूर्णविधिस्वरूपं तु’ . दित्यः प्रायणीयः पयसि चरुः’ इति मीमांसाग्रन्थेषुपलभ्यते । ज्योतिष्टोमे प्रायणीयेष्टिसंबद्धः पयसि संस्कृतश्चरुः होमद्रव्य विशेषः अदितिदेवताका इति तदर्थः । तान् प्रति कभिप्रायत्वं नास्तीति । प्रतिरत्र कर्मप्रवचनीया इत्थंभूताख्याने विषयत्ववति वर्तते। तथा च पूर्वोक्तानाम् अल्पेच्छावत्कर्तृगो विषये ईश्वरप्राप्तिरूपस्य महाफलस्य नास्ति कर्तृगामित्वेनाभिप्रेतत्वम् यच्चात्मनेपदप्रयोजकम् इत्यर्थः। अत्रेदं स्वारस्यम् - येऽप्यन्येति गीताश्लोके यजन्ते श्रद्ध यान्विताः इत्यवात्मनेपदं विवक्षितम्, अन्यदेवताकयागजन्यस्य स्वर्गादेरल्पफलस्य कर्तृगामित्वेनाभिप्रेतत्वात् । तथा तवैव नवमोऽध्यायः 173 श्लोके यजन्त्यविधिपूर्वकम् इत्यत्र परस्मैपदेनैव भाव्यम् ; वासु देवतत्त्वोद्देश्यकयागजन्यमहाफलस्य स्वात्मभूतेश्वरप्राप्तेः कर्तृ. गामित्वेनानभिप्रेतत्वात् इति ॥ श्लो. ३३-३५ (व्या) यत्पूर्वैव व्याख्येति । यत् यस्मात् कारणात् पूर्वमस्माभिः प्रदशितैव व्याख्या इति तदर्थः ।। ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या नवमोऽध्यायः ।।