०८

अष्टमोऽध्यायः ‘ते ब्रह्म तद्विदुः इत्यादिना यत् भगवता उपक्षिप्तं तत् प्रश्ननवकपूर्वक निर्णयति अर्जुन उवाच किं तद् ब्रह्म किमध्यात्म किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥१॥ अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः २॥ किं तद् ब्रह्मेति । अधियज्ञ इति । अधियज्ञः कथम् ? [कश्च] ‘कोऽत्र देहे ? तिष्ठति इति शेषः ॥ १-२ ।। श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३॥ अक्षरमिति । बृहत्त्वात् बंहकत्वाच्च परं ब्रह्म । अत एव अध्यात्मशब्दवाच्यं, यतः स्वः अनिवृत्तिधर्मा चैतन्याख्यो’ भावः । तस्य च चैतन्यस्वभावस्य ब्रह्मणोऽपरिच्छिन्नबाह्य लक्षणतया क्रोडीकृतविश्वशक्तेः ऐश्वर्यलक्षणात् स्वातन्त्र्यात्

  1. S पूर्व 2. B निर्णाययति; N निर्वर्णयति 3. BN निवृत्तिधर्मा; K अनिवृत्तधर्मा 4. B चैतन्यभावः 134 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता बहिर्भावावभासनात्मा! बहिर्भूतभावान्तरावभासनात्मा च यो विसर्गः क्रमेण भूतानो ब्रह्मादिप्रमातृणां भावानां जडानामुद्भव कारी जडाजडवैचित्यनिर्भासकः । तथा भूतभावस्य विगलित सकल वितथप्रपञ्चस्य सत्यत्वस्य उद्भवं करोतीति [स कर्म संज्ञितः] ॥ ३ ॥ अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वरः (१) ॥ ४ ॥ अधिभूतमिति । क्षरति स्रवति परिणामादिधर्मेण इति क्षर. घटादिः पदार्थग्राम उच्यते । पुरुषः आत्मा । स च अधि दैवतम्, तत्र सर्वदैवतानां परिनिष्ठितत्त्वात् । अत एव अशेष यज्ञभोक्तृत्वेन यज्ञान् अवश्यकार्याणि कर्माणि अधिकृत्य यः स्थितः पुरुषोत्तमः सः अहमेव । अहमेव च देहे स्थित इति प्रश्नद्वयमेकेन यत्नेन निर्णीतम् ॥ ४॥ अथ योऽवशिष्टः प्रश्नः ‘कथं प्रयाणकाले ज्ञेयोऽसि इति तं निर्णयति अन्तकालेऽपि मामेव स्मरन् मुक्त्वा कलेवरम् । या प्रयाति स मभावं याति नास्त्यत्र संशयः ॥ ५॥ यं यं वापि स्मरन भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६॥
  2. B.N-भासनात्सः 2.S-भावान्तरभासनात्मा यो विसर्गः 3. Somits क्षरः अष्टमोऽध्यायः 135 तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मदर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ ७॥ अन्तकालेऽपि इत्यादि असंशयम् इत्यन्तम् । न केवलं स्व स्थावस्थायां यावत्, अन्तकालेऽपि । मामेति - व्यवच्छिन्न सकलोपाधिकम् । कथं च अस्वस्थावस्थायां विनिवत्तसकले न्द्रियचेष्टस्य भगवान् स्मृतिपथमुपेयात् इत्युपायमपि उपदिशति तस्मादिति । सर्वावस्थासु व्यावहारिकीष्वपि यस्य भगवत्तत्त्वं न हृदयादपयाति, तस्य भगवत्येव सकलकर्मसंन्यासिनः सततं भगवन्मयस्य अवश्यं स्वयमेव भगवत्तत्त्वं स्मतिविषयता याती ति । सदातद्भावभावितत्त्वं च अत्र हेतुः । अतः एवाह –ये नैव वस्तुना सदा भावितान्तःकरणः, तदेव मरणसमये स्मर्यते तद्भाव एव च प्राप्यते इति । सर्वथा मत्परम एव मत्प्रेप्स। स्यादित्यत्र तात्पर्यम् । न तु यदेवान्ते स्मर्यते तत्तत्त्वमेवावा प्यते इति । एवं हि सति ज्ञानिनोऽपि यावच्छरीरभाविधातु दोषविकलितचित्तवृत्तेर्जडतां प्राप्तस्य तामसस्येव गतिः स्यात् । न च अभ्युपगमोऽव युक्तः, प्रमाणभूतश्रुतिविरोधात् । बस्ति हि तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ इति (PS, 83)
  3. BN कालेऽपीति 2. K(n) अन्तावस्थायाम् 3. BANK (0) अन्तःकरणभावः 4. Nतत्तदेवावाप्यते 136 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता __तस्मादेवं विध्यनुवादौ। सदा येन भावितमन्तःकरणं तदेवान्ते प्रयाणानन्तरं प्राप्यते । तच्च स्मर्यते न वा इति नाव निर्बन्धः । अन्वाचयश्चायम् अपिशब्देन सूचितः । स्मरणस्य असर्वथाभावं वाशब्दः स्फुटयति । ‘सदा च मत्परमो जनः सर्वथा स्यात्’ इति तात्पर्य मुनिरेव प्रकटयति । यदाह - तस्मात् सर्वेषु कालेषु मामनुस्मर इति । तेनेत्थमत्र पदसङ्गतिः-सदा यं यं भावं स्मरन् कलेबरं त्यजति, अन्तेऽपि वा स्मरन् - वाग्रहणात् अस्मरन् वा-तं तमेवैति । यतोऽसौ सदा तद्भावेन भावितः । अन्ये तु – कलेवरं त्यजति सति अन्ते कलेवरत्यागक्षणे बन्धुपुत्रादिप्रमात्रगोचरे श्वासायासहिक्कागद्गदादिचेष्टाचरम भाविनि क्षणे शरीरदाढर्यबन्धप्रतनूभावात् देहकृतसुखदुःखमोह बन्धे2 कालाशे देहत्यजनशब्दवाच्ये यदेव स्परति तदेव प्रथमसं विदनुगृहीतम् अस्य रूपं संपद्यते । तादृशे च काले स्मरणस्य कारणं सदा तद्भावभावितत्त्वमिति । ‘त्यजति’ इति सप्तमी योज्या इति । प्राक्तन एवार्थः । ननु एवमन्तकाले कि प्रयोजनं तत्स्मरणेन? क एवमाह ‘प्रयोजनम्’ इति? किंतु वस्तुवृत्तोपनतमेव तद्भवति तस्मिन्नन्त्ये क्षणे ।
  4. S,K(n)-प्रमानन्तरागोचरे 2. K-वन्ध्ये 3. SBN तादृशि 137
  • अष्टमोऽध्यायः नन पुत्रकलवबन्धुभतेः शिशिरोदकपानादेर्वा अन्त्ये क्षणे दृष्टं स्मरणम् इति तद्भावापत्तिः स्यात्? मैवम् । न हि सोऽन्त्यः क्षणा, स्फुटदेहावस्थानात् । न हि असावन्त्यः क्षणः अस्मद्वि वक्षितो भवादशैर्लक्ष्यते । तत्र त्वन्त्ये क्षणे येनैव रूपेण भवि तव्यं तत्संस्कारस्य दूरवत्तिनोऽपि 1"जातिदेशकालव्यवहितानामपि आनन्तर्यम्, स्मृतिसं स्कारयोरेकरूपत्त्वात्’ (YS, IV, 9.) इति न्यायेन प्रबोधेन भाव्यम् । तद्वशात् तत्स्मरणं तत्स्मृ त्या तदभावप्राप्तिः। कस्य चित्तु देहस्य स्वस्थावस्थायामपि तदेव काकतालीयवशाद्व्यज्यते। यथा मगादेः पुराणे वर्णनं तत्कृतं तु मृगत्वम् । अत एव ‘प्रयाणकालेऽपि च माम् (VII,20) इत्यादौ ‘अपि च’ इति ग्रहणम् । ये हि सदा भगवन्तं भावयन्ति ‘एवंभूता भविष्यामः’ इति, तेषाम्, ‘तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी’ (VS, I, 50) इति न्यायेन तस्यामलक्ष्यायामन्तदशायां संस्कारान्तरापहस्तनेन तत्संस्कारकृते तत्तत्त्वस्मरणे देहसद्भावक्षणकृते च तस्य स्मरणे,2 अनन्तरं देहविनिपातक्षणे एव कालसंस्कारनिवृत्तेः तदिदमित्यादिवेद्य विभागानवभासात् संविन्मावसतत्त्वपरमेश्वर स्वभावतैव भवति’ इत्यलम् ।
  1. S,B,N omit afa also the following com. pound word ufa etc.
  2. Bomits देहसद्भाव… - स्मरणे 3.CA adds इति श्रीमदभिनवगुप्तगुरूणां संमतम् (B संस्मृतम्) after भवति.
  3. B इत्यलं बहुना 138 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता असंशयमिति • नात्र संदेग्धव्यमिति [तात्पर्यम् ] ॥ ५-७ ॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् .. ८॥ अभ्यासेति । अनुचिन्तयन् इति - शरीरभेदानन्तरं नि वृत्तकलेवरकृतव्यथः पश्चाद्भगवन्तं चिन्तयन्निति ॥ ८॥ कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्ण तमसः परस्तात् ॥ ९॥ प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैवम् (१)। ध्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्॥१०॥ कविमिति । प्रयाणेति । एवम् अनुस्मरेदिति । आदित्येति । आदित्यवर्णत्वं वासुदेवतत्त्वस्य [न] परिच्छेदकम् । आकृति कल्पनादि विभ्रान्तिमयमोहतमसः अतीतत्त्वात् रवित्वेनोपमान मित्याशयः । भ्रुवोर्मध्ये इति प्राग्वत् ।। ९-१०॥ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेणाभिधास्ये ॥११॥ यदक्षरमिति । सम्यक् गृह्यते निश्चीयते अनेनेति संग्रहः उपायः । तेन उपायेन तत् पदभिधास्ये, उपायमत्र सतता भ्यासाय वक्ष्ये ॥ ११ ॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । माधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥ 1. N विकल्पनादि 2. S उपायेनैतत् अष्टमोऽध्यायः 139 ओमित्येकाक्षरं ब्रह्म व्याहरन मामनुस्मरन् । यः प्रयाति स्यजन्देहं मद्भावं याति स ध्रुवम् (?) । १३ ॥ अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥ सर्वद्वाराणीत्यादि योगिन इत्यन्तम् । द्वाराणि इन्द्रियाणि । हृदि इति–अनेन विषयसंगाभाव उच्यते, न तु विष्ठास्थानाधि ष्ठानम् । आत्मनः प्राणम् आत्मसारथिम् इच्छाशक्त्यात्मनि मूर्ध्नि सकलतत्त्वातीते धारयन्’ इति कायचियमः । ओमिति जपन् इति वा नियमः । मामनुस्परनिति चेतसोऽनन्यगामिता। यः प्रयाति-दिवाद्दिनम् अपुनरावृत्तये गच्छति । तथा च देहं त्यजन् ‘कथं मे पुनरिदं सकलापत्स्थानं शरीरं मा भूयात्’ इत्येवं यो मामनन्यचेताः स्मरति सततमेव, याति, जानाति, स मद् भावम् मत्स्वरूपम् । न त्वव पुनः परब्रह्माद्वैतपदोपक्षेपविरोधी उत्क्रान्तौ भरः । तथाचोक्तम् व्यापिन्यां शिवसत्तायाम् उत्क्रान्ति म निष्फला । अव्यापिनि शिवे नाम नोत्क्रान्तिः शिवदायिनी ॥ इति
  4. चेतसाऽनन्यगामिता 2.-N दिनंदिन 3. S,B,N omit = 4. S omits Flatfa 5. N नन्वन 6. B तत् कान्तौ; K (1) विरोधीति उत्क्रान्तौ भरः140 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यदि वा सतताभ्यासोऽपि यैर्न कृतः, तथापि कुतश्चित् स्वत न्वेश्वरेच्छादेनिमित्तादन्त्ये एव क्षणे यदा तादृग्भावो जायते, तदा अयमुत्क्रान्तिलक्षण उपायः संस्कारान्तरप्रतिबन्धक उक्तः । अत एव ‘यदक्षरं वेदविदो वदन्ति’ इत्यादिना ‘अभिधास्ये’ इत्य न्तेन प्रतिज्ञा कृता क्षणमावस्यापि भगवदनुचिन्तनस्य सकल संस्कारविध्वंसनलक्षणाम् अद्भुतवृत्तिं प्रतिपादयितुम् । यदाहु राचार्यवर्याः जानिमेषमपि यद्येकं क्षीणदोषे करिष्यसि । को पदं चित्ते तदा शंभो किं न संपादयिष्यसि ॥ hai (स्तवचिन्तामणिः, श्लो ११४) इति । अत एव ‘प्रयाणकाले स्मरणेन विना खण्डना [दृष्टा]’ इति येषां शङ्का तान् वीतशङ्कान् कर्तुमुक्तम् ‘अनन्यचेताः सततम्’ इति अन्यत्र फलादौ साध्ये यस्य न चेत इत्यर्थः । तस्याहं सुलभ इति । तस्य न किंचित् प्रयाणकालौचित्यपर्येषणम्, तीर्थसेवा, उत्त रायणम्, आयतनसंश्रयः, सत्त्वविशुद्धिः, सचिन्तकत्वम्,7 विषुवदादिपुण्य काला, दिनम्, अकृत्रिमपवित्र भूपरिग्रहः, स्नेह मलविहीनदेहता, शुद्धवस्त्रादिपरिग्रहः इत्यादिक्लेशोऽभ्यर्थ 1 Somits Faara 2. S,B चिन्तनमयस्य 3. S omits यदाहु — इति 4. S,B omit तस्य 5. N आवर्तनसंश्रयः 6. SK -विवृद्धिः 7. N सचित्तकत्वम् 8. S,B,Nomit परि অচলীযঃ 141 नीय इत्यर्थः; यत्प्रागुक्तम् – ‘तीर्थे श्वपचगृहे वा’ इत्यादि ॥ १२-१४॥ ननु ‘मद्भावं याति’ इत्युक्तम् । तत्कि प्राप्तेऽपि पुनरा वृत्तिरस्ति इत्याशंक्याह मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ।। मामुपेत्येति । अन्यतस्तु सर्वत एव पुनरावृत्तिरस्ति इति? सपनन्तरश्लोकेन प्रतिपादयिष्यते । मां तु प्राप्य न पुनर्योगिनः जन्मादिवासमाप्नुवन्ति ॥ १५ ॥ आ ब्रह्म भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६॥ आ ब्रह्मेति। ब्रह्मलोकप्राप्तानामपि पुनरावृत्तिरस्ति इति सर्वैयाख्यातम् । एतदभ्युपगमे च ‘तदुपरितनलोकगति मुक्तिः’ इत्यभिहितं स्यात् । तच्च न हृदयङ्गममिति संशयमहा मोहकलुषीकृतान्तर्दशामस्माकं प्रतिभाति । इयमागमाधिगता व्याख्यावतिः5- आब्रह्म यावत् ब्रह्मपदं प्राप्तं तावत् यस्मात् कस्माच्चित् तिर्यगूर्वादधस्ताद् भुवनात् पुनरावर्तन्ते, चक्रवत् स्थावान्तरमविरतं भ्राम्यन्तो विपरिवर्तन्ते इति ॥ १६ ॥
  5. SBN तत्र किम् 2. Bomits अन्यतस्तु… इति 3. BN प्राप्नुवन्ति; B,N,K(n) add न स पुनरावर्तते इति श्रुतेः। यं प्राप्य न निवर्तन्ते इत्यग्रेऽपि । 4.S-काप्तानामपि 5.S व्याख्यावृत्तिः 142 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ननु क एवं जानाति यत् सर्वभुवनेभ्यः पुनरावृत्तिः । ब्रह्मा दय एव हि तावत् चिरतरस्थायिनः श्रूयन्ते । ते एव कथं पुन रावत्तिनः? पुनरावत्तित्वे हि तेऽपि स्युः प्रभवाप्ययधर्माणः इत्या [शङ्कया]ह सहस्रयुगपर्यन्तमहर्य ब्रह्मणो विदुः । रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१७॥ अव्यक्ताद्वयक्तयः सर्वाः प्रभवन्त्यहरागमे । राज्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । राध्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥ सहस्रेत्यादि आगम इत्यन्तम् । ये खलु दीर्घदृश्वावः, ते ब्रह्मणोऽपि रात्रि दिवं [च]पश्यन्ति प्रलयोदयतया । तथा च अहर हस्त एव विबुध्य निजां निजामेव चेष्टामनुरुध्यन्ते प्रतिरात्रि च तेषामेव निवृत्तपरिस्पन्दाना शक्तिमावत्वेनावस्थानम् । एवं सृष्टौ प्रलये च पुनः पुनर्भावः । नान्येऽन्ये उपसृज्यन्ते, अपि तु त एव जीवाः । कालकृतस्तु चिरक्षिप्रप्रत्ययात्मा विशेषः । एष च परिच्छेदः प्रजापतीनामप्यस्ति । ततश्च तेऽपि प्रभवाप्यय धर्माण एवेति स्थितम् ॥ १७-१९ ।।
  6. SBN अत एव तावत् 2. N अदीर्घ B-मवरुध्यन्ते S-परिस्पन्दिनाम 5. N-त्वेनोपस्थानम् 6. K (n)-भवः 143 अष्टमोऽध्यायः सर्वतो लोकेभ्यः पुनरावृत्तिः, न तु मां परमेश्वरं प्राप्य इति स्फुटयति परस्तस्मात्तु भावोऽन्यो व्यक्ताव्यक्तः सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २०॥ अब्यक्तोऽक्षर इत्याहुस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥२१॥ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यं प्राप्य न पुनर्जन्म लभन्ते योगिनोऽर्जुन ॥ यस्यान्तःस्थानि भूतानि यत्र सर्व प्रतिष्ठितम् ॥ २२ ॥ पर इत्यादि प्रतिष्ठितमित्यन्तम् । उक्तप्रकारं काल संकलनाविवजितं तु वासुदेवतत्त्वम् । व्यक्तम्, सर्वानुगतम् ; तत्त्वेऽपि अव्यक्तम्, दुष्प्रापत्वात् । तच्च भक्तिलभ्यमित्यावेदितं प्राक् । तवस्थं च एतद्विश्वं यत्खलु अविनाशिरूपं सदा तथा भूतम् । तत्र कः पुनःशब्दस्य आवृत्तिशब्दस्य चार्थः स हि मध्ये तत्स्वभावविच्छेदापेक्षः । न च सदातनविश्वोत्तीर्णविश्वाव्यति रिक्त - विश्वप्रतिष्ठात्मक परबोधस्वातन्त्र्यस्वभावस्य श्रीपर मेश्वरस्य तद्भावप्राप्तिः4 [संभवति], येन स्वभावविच्छेदः कोऽपि कदाप्यस्ति [इति कल्प्येत] । अतो युक्तमुक्तम् ‘मासु पेत्य तु’ (VIII, 16) इति ॥ २००२२ ॥
  7. SK omit परमेश्वरम् 2. B स्वरूपम् 3. S,B,N.K (n) विश्वनिष्ठात्मक - 4. N–प्राप्तस्य 144 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता एवं च सतताभ्यासेन येषां क्लेशं विनव भगवदाप्तिः तेषां वृत्तमुक्तम् । इदानीम् उत्क्रान्त्या येऽपवर्ग भोगं चेच्छन्ति, तेषां कश्चिद्विशेष उच्यते यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ यत्रेति । अनावृत्तिः मोक्षः । आवृत्तिः भोगाय ॥ २३ ॥ अग्निज्योतिरहः शुक्ल षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।। २४ ॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥ अग्निरिति । धूमेति । उत्तरेण, ऊर्वेन; अयनं पाण्मा सिकम् । तच्च प्रकाशादिधर्मकत्वात् दहनादिकैः शब्दैरुपचयंते । अतो विपरीतं विपर्ययेण । तत्र चन्द्रमसो भोग्यांशानुप्रवेशात् भोगायावृत्तिः ॥ २४-२५ ॥ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । अनयोर्यात्यनावृत्तिमाद्ययाऽऽवर्ततेऽन्यया ॥ २६ ॥ - शुक्लकृष्णे इति । अनयोर्गयोर्मध्यादाद्यया अनावृत्तिः मोक्षः, अन्यया भोगः ॥ २६॥ नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
  8. B,N,K (D) इदानीं पुनः अष्टमोऽध्यायः 145 मैते इति । एते सृती यो वेत्ति आभ्यन्तरेण क्रमेण पो गाभ्यासस्वीकृतेनेत्यर्थः । एतच्च वितत्य प्रकाश्यमानं प्रन्थं विस्तारयतीत्यलम् । तस्मादिति - सर्वे ये काला आभ्यन्तराः। तद्विषयं योगमभ्यस्यः । अस्मद्गुरवस्तु आहुः - सर्वानुग्राहकतया मध्ये आभ्य न्तरकालकृतमुत्क्रान्तिभेदमभिधाय प्रकृतमेव बाह्य कालविषयं मुख्यं प्रमेयमुपसंहृतम् ‘तस्मात्सर्वेषु कालेषु’ इत्यादिना ॥२७॥ वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाधम् ॥२८॥ ॥ इति श्रीमद्भगवद्गीतायां अष्टमोऽध्यायः॥ वेदेष्विति । अत्येति, अभिभवति, सर्वकर्म संस्काराणां भगवत्स्मृत्या विफलीकरणात् । सर्वकर्मपरिक्षये च असौ सुखे नैव विन्दति परं शिवमिति।। २८॥ ॥शिवम् ॥ अत्र संग्रहश्लोकः 6सर्वतत्त्वगतत्त्वेन विज्ञाते परमेश्वरे । अन्तर्बहिर्न साऽवस्था न यस्यां भासते विभुः ॥ ॥ इति श्रीमहामाहेश्वराचार्यवयं राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहेऽष्टमोऽध्यायः ॥ 1. N अभ्यन्सराः 2. K अभ्यसेत् Somits आभ्यन्तर. Somits बाहाकालविषयं 5. Nमुख्यप्रमेयं 6.SB सर्वसर्व(स्वगत पीता-10 146 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ३ (व्या) बृहत्त्वात् इति । महत्त्वात् इत्यर्थः । ‘बृहद्विशालं पृथुलं महत्’ इत्यमरः (III, i, 60 )। बृहकत्वात् इति । वर्धकत्वात् इत्यर्थः । अर्थद्वयेऽपि ब्रह्मशब्दः बृहिवृद्धौ इति धातोनिष्पन्नो बोध्यः । स्वः इत्यादि । तथा च स्वभावशब्दस्य स्वात्मको भावः इत्यर्थः, न तु स्वस्य भावः इति । अत एव शिवसूत्रम् ‘चैतन्यमात्मा’ (I, 1) इति । तथा प्रत्यभिज्ञाकारिकाऽपि ‘आत्माऽत एव चैतन्यम्’ (I,v, 12) इति । यो विसर्ग इति । अस्य च उत्तरत्राध्याहार्येण ‘स कर्म संज्ञितः’ इत्यनेन संबन्धः। स्वभावस्यैव भूतभावोद्भवकरत्वे हेतुत्वं दर्शयति - तस्य चेत्यादिना। भूतभावोद्भवकर इति मूले भूतशब्दः पृथिव्यादिभूत वाचकः; भावशब्दश्च भावयति, जनयति, चित्ते धारयति ज्ञानविषयीकरोति वा इत्यर्थयोगात् प्रमातृपरः; एवं भूतानां भावानां च उद्भवं करोति इति विग्रहार्थमाश्रित्य व्याख्यान माह- बहि वेत्यादिना निर्मासक इत्यन्तेन । अव चेदं विव क्षितमिव - ‘बहिभूतावभासनात्मा बहिर्भूतभावान्तराव भासनात्मा च यो विसर्गः, क्रमेण भूतानां जडाना, भावानां ब्रह्मादिप्रमातॄणां च उद्भवकारी जडाजडवैचित्यनिर्भासकः’ इति; भूतभावोद्भवकरमूलानुरोधात् ; क्रमेणेत्याचार्यवचनस्वार 147 अष्टमोऽध्यायः स्यात् । पूर्व सप्तमाध्यायेऽपि ‘भूमिराप’ इत्यादिना (श्लो. ४) प्रथमतः पृथिव्यादिभूतप्रकृतित्वं भगवत उक्त्वा , तदनन्तरमेव ‘अपरेयम् - - - जीवभूताम्’ इति (श्लो. ५) जीवप्रकृतित्वस्योप वणितत्वात्; भूतशब्दस्य सामान्यतो जडवाचकत्वप्रसिद्धः, ब्रह्मादिप्रमातृत्ववाचकत्वाप्रसिद्धेश्व; भावशब्दस्य तु पूर्वोप दशितव्युत्पत्त्या प्रमातृवाचकत्वसंभवाच्च । बहिर्भूतावभासनात्मा इत्यत्र बहिरिति अवभासनक्रिया विशेषणम् ; अन्तविद्यमानस्य बहिराभासनमेव सृष्टिरिति आभासवादिनां प्रत्यभिज्ञाशास्त्रकाराणी समयात् । बहिर्भूत भावान्तरावभासनात्मा इत्यत्रापि बहिरिति अवभासनविशेषण मेव । अत्र भूतेत्यधिकं प्रविष्टम् । अथवा भावशब्दो भूतभावे भूतानि भावयति इत्येतस्मिन्नर्थे वर्तते इति प्रदर्शयितुमुक्तो वेदितव्यः । स्वात्मनोऽपि संविद्रूपतया भूतभावकत्वात् तद्विवे. कप्रदर्शनाय भावान्तरेति । अथवा - भावयति इति भावः । चैतन्यमित्यर्थः । बहिः भावस्य यत् अवभासनं तदात्मा अर्थात् प्रमातृ रूपः । बहिर्भूता ये भावान्तराः, अर्थात् प्रमातृतो भिन्ना ये बाह्या विषयाः जड त्वेन लोकप्रसिद्धाः, तत्त्वेन अवभासनात्मा अर्थात् जडरूपः इति अर्थो वर्णनीयः । सर्वं खलिदं चेतनं ब्रह्म; लौकिको जडाजड विभागस्तु चेतनस्य अविभावनविभावनाभ्यां संभवति इति हि आचार्योपशितः परमाद्वैतराजमार्गः । इदानीं भूतभावोद्भवकर इत्यस्यैव मूलस्य भूतस्य यो भावः तस्योद्भवकर इति विग्रहमङ्गीकृत्यापि अर्थ वर्णयितुमाह तथेति । अस्मिंश्च पक्षे भूतशब्दः सत्यापरपर्याययथाभूतार्थकः । 148 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता तस्य भावः सत्यत्वमेव । ‘भूतं मादौ……सत्ये देवयोन्यन्त रेऽपि ना’ इति, ‘भावः सत्तास्वभाव..,..जन्मसु’ इति च मेदिनीकोशात् । उक्तार्थमेव दर्शयति-तथा विगलितेत्यादिना । विगलितः सकलवितथप्रपञ्चः यस्मात् तस्येति विग्रहः । अनेन सत्यत्वं पारमार्थिक कीदशमिति दशितम् । सत्यत्वस्येति भूत भावशब्दार्थ वक्ति। यद्वा पूर्वं भूताः अर्थात् पश्चात् मोक्षदथायां विगलिता ये भावाः वितथप्रपञ्चात्मका यस्मात् तस्मात् सत्यस्वरूपात् तत् इति बहुव्रीह्यर्थमेव दर्शयति - विगलितेत्यादिना। उक्तबहुव्रीह्या क्षिप्तमन्यपदार्थ विशेष्यं दर्शयति-सत्यत्वस्येति । उद्भवं करोति इति - यः, स कर्मसंज्ञित इति सम्बन्धः ॥ प्रलो. ४ (व्या) पुरुषोत्तम इति । इदं च देहभृतां वरः इति मूलपाठमाश्रित्योक्तमिव ।। श्लो. ५-७ (व्या) प्रमाणभूतश्रुतिविरोधादिति । ज्ञानि नोऽपि देहत्यजनकालिकधातुदोषेण हेतुना तामसस्येव गति कल्पने सति ब्रह्म वेद ब्रह्मैव भवति (Ma. U. III, ii, 9) तबैतत्पश्यन् वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च (Br, U. I, iv, 10) तस्य तावदेव चिरं यावन्नविमोक्ष्येऽथ संपत्स्य (Ch.U.VI xiv, 2) इत्यादिप्रमाणभूतश्रुतिवाक्यैविरोधादित्यर्थः । अस्ति हि इतिः उक्तार्थे श्रुत्यनुसारी श्लोक इति शेषः । सप्तमोऽध्यायः -149 तीर्थे श्वपचगृहे इत्यादि । आहुश्च जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः । - - - - - - - - - - - - - कुल्यायामथवा नद्यां शिवक्षेत्रेऽपि चत्वरे । पणं पतति चेत्तेन तरोः किं नु शुभशुभम् ॥ (विवेकचूडामणिः, 555, 560) देहकृतसुखदुःखमोहबन्धे इति । तनूकृतसुखदुःखमोहबन्धे इति विवक्षितमिव । सप्तमी योज्येति । त्यजतीति त्यजधातोः शवन्तात् सति सप्तम्या अर्थः बाक्यार्थे संयोज्य इत्यर्थः । यथा मृगादेरित्यादि । यथा पुराणे वणितं मृगादेः स्मरणं जडभरतादीनां, तत्कृतं तु तेषां समनन्तरजन्मनि मृगत्वम् इत्यर्थः । तेषां तज्जः इत्यादि देहविनिपातक्षणे इत्यन्तम् । अन्न पदानि विमिश्रितानीव । अथवा प्रायश एवं विवक्षितमिव ‘तेषां देहसद्भावक्षणकृते च तस्य स्मरणे, अनन्तरं “तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी’ इति न्यायेन - . - तत्तत्त्वस्मरणे अनन्तरं देहविनिपातक्षणे’ इति ॥ श्लो. १२-१४ (व्या) विष्ठास्थानाधिष्ठानमिति । प्रति ष्ठास्थानात्मकमधिष्ठानमिति यावत् । हृदयशब्दस्य प्रतिष्ठा स्थानवाचकत्वमुपदशितमाचार्येणव ईश्वरप्रत्यभिज्ञाविशिन्यां ‘हृदयं नाम प्रतिष्ठानम्’ (I PV, I, v, 14) तथा ‘हृदयस्था’ इति पराविंशिकाद्वितीयपद्यव्याख्याने च ‘हृदयस्था’ इति पद150 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता ‘प्रतिष्ठास्थानं संविदात्म हत, तत्स्था’ इति व्याख्यौ आचार्यः। एवं च प्रकृते जीवस्य प्रतिष्ठास्थानात्मकमधिष्ठानमिति पर्यव सितम् । हृदीति सप्तम्यर्थः अधिष्ठानम् । अथवा निष्ठास्थानाधिष्ठानम् इति विवक्षितम् प्रकृते । निष्ठात्मकं नियतं, निष्ठायाः मनःसमाधेर्वा, यत् स्थानं तदेव अधिष्ठानमित्यर्थः । इदमत्रावधेयम् - भगवद्गीताव्याख्याता आनन्दवर्धनः प्रकृतगीताश्लोकव्याख्याने प्रकृतविवादविषयाणि अभिनवगप्ता चार्यवाक्यानि ‘इन्द्रियाणि’ इत्यारभ्य ‘नोत्क्रान्तिः शिवदायिनी इत्यन्तम् एवमनुवदति : श्रीमदभिनवगुप्तपादा रहस्यार्थान्तरमाहुः- “सर्वद्वा राणि चक्षुरादीनि संयम्य, रूपादिविषयेभ्यो व्यावत्यं -न तु द्वाराणि विष्ठास्थानादीनि-मनः प्राणसारथि चित्तम्, इच्छाशक्त्यात्मनि मूनि सकलतत्त्वातीते धार यन्” इत्यादि। अत्रापि पङ्क्तयस्त्रुटिता इव । तद्ग्रन्थस्थपङ्क्तीना गीतार्थ संङ्ग्रहमातृकागतप्रकृतपङ्क्तीनां च परिशोधने इदमत्र प्रकृते गीतार्थसंग्रहे विवक्षितमिति प्रतिभाति– सर्वद्वाराणि चक्षुरादीनि इन्द्रियाणि, न तु विष्ठास्थाना दीनि । हृदि इत्यनेन मनसः विषयसंगमाभावः न तु अधिष्ठानम्, नित्यतं स्थानम् उच्यते । आत्मनः (मनसः शरीरस्य वा) प्राणं, सारथिम् इच्छाशक्त्यात्मनि’ इत्यादि । अत्र च विष्ठास्थानं पायुः । अष्टमोऽध्यायः 151 यदि विद्यमानपाठस्य साधुत्वं परिरक्षणीयम्, तदा ‘सर्व द्वाराणि संयम्य मनो हृदि निरुध्य च’ इति श्लोकपूर्वार्धस्य समग्रस्य तात्पर्यम् अनेन विषयसंगमाभाव उच्यते, न तु विष्ठा स्थानाधिष्ठानम् इति वाक्येन दर्शयत्याचार्य इत्यादिरीत्याभ्युप गन्तव्यम् । एवं च अनेन सर्वद्वाराणि संयम्य इत्युक्त्वा तदन न्तरमेव मनो हृदि निरुद्धय इत्युपदेशेन विषयेषु मनसः संगमस्य आसक्तेः अभाव उच्यते भगवता, न तु विष्ठास्थानस्य पायोः सर्व शरीरद्वाराणामिन्द्रियाणाम् उपलक्षणभूतस्य अधिष्ठानम्, अधि ष्ठीयते अनेनेति व्युत्पत्त्या अधिष्ठानं व्यापारनिरोधः प्रकृते विवक्षित इति तात्पर्यमिव भाति । याति जानाति इति । या प्रापणे इति धातुपाठात्, प्रापणस्य गतिपर्यायत्वात्, गत्यर्थानां च धातूनां ज्ञानार्थकत्वा च्चेति भावः । एवंरीत्या अर्थवर्णनस्य औचित्यं प्रदर्शयति - नत्वित्यादिना । अव ‘याति जानाति स पद्भावम्’ इति व्या ख्यारीतिरियम् आचार्यस्यैवं संसूचयतीव प्रकृते-गीतापद्ये ओमि त्येकाक्षरमित्यादौ तुरीयपादमाचार्यः प्रायशो ‘मद्भावं याति स ध्रुवम्’-अथवा तत्समानमन्यत्-इति पपाठेति । यद्यपि सार्वत्रिकः पाठः ‘स याति परमी गतिम्’ इत्येव । तथापि ‘यः प्रयाति, स मद्भावं याति नास्त्यत्र संशयः’ इति पाठोऽपि विद्यते इति संदर्शयति बेलवेलकरः । अथवा परमा गतिः वस्तुत ईश्वरभावावाप्तिरेव । तथा च परमी गतिमित्यस्यैवार्थो वर्ण्यते आचार्येण याति इत्यादिनेत्यपि वक्तुं शक्यम् । निमेषमपि इति । प्राणप्रयाणनिमेषमात्रमपीत्यर्थः । तस्य न किंचित् प्रयाणकालौचित्यपर्येषणमित्यादि । आहुश्च 152 श्रीमद्भगवद्गीता गौतार्थसंग्रहोपेता सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयानन्दमयात्मना सदा । न देशकालाधुचितप्रतीक्षा त्वङ्मांसविपिण्डविसर्जनाय ॥ (विवेकचूडामणिः, ५५८) श्लो. १६ (मू) मामुपेत्येति । स्थितस्येति शेषः ॥ श्लो. २३ (अ) अपवर्ग मोगं चेति । प्राप्तुमिति शेषः । प्राप्ती च उत्क्रान्त्येति तृतीयार्थप्रयोज्यत्वस्यान्वयः । इच्छन्तीति । यद्यपि ‘यान्ति’ इत्येव मूलम् ; तथाऽपि पातेः गत्यर्थकत्वात्, गतेरिच्छाजन्यत्वात् जनकेच्छायाम् धातो लक्षणा इत्यभिप्रेत्यावतारितमाचार्येण इति भाति । अथ वा गच्छन्ति इत्येव वा विवक्षितम् ।। श्लो. २४-२५ (व्या) दहनादिकैः शब्दैरिति । दहनादि वाचकैः अग्न्यादिभिः शब्दैरिति यावत् ॥ श्लो. २८ (व्या) अत्ययनस्य अभिभवरूपत्वात् आह अत्येति अभिभवति इति । अभ्येति इति मूलपाठे तु अभि अभि क्रम्य विरोधभावेन पति गच्छति इति तत्पर्येण व्याचष्टे- अभि भवति इति ॥ सङ्ग्रहश्लोके विभुरिति-विशेषेण विविधं च भवति यः ।। ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्याम् अष्टमोऽध्यायः ॥