०७

सप्तमोऽध्यायः श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रितः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा न पुनः किंचिज्ज्ञातव्यमवशिष्यते ॥२॥ मय्यासक्तेति, ज्ञानमिति । ज्ञानविज्ञाने ज्ञानक्रिये एव । ततो न किञ्चिदवशिष्यते, सर्वस्य ज्ञेयजातस्य ज्ञानक्रियानिष्ठ. त्वात्। १-२॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेति तत्त्वतः ॥३॥ मनुष्याणामिति । अस्य च वस्तुनः सर्वो न योग्यः इत्य नेन दुर्लभत्वात् यत्तसेव्यतामाह ॥३॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥ अपरेपमितोऽनन्या (1) प्रकृति विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५॥

  1. N यत्नः सेव्यतामित्याह ।120 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता भूमिरिति । अपरेति । इयमिति प्रत्यक्षेण या संसारा वस्थायां सर्वजनपरिदृश्यमाना सा चैकैव सती प्रकाराष्टकेन भिद्यते इति एकप्रकृत्यारब्धत्वादेकमेव विश्वमिति प्रकृतिवादे ऽपि अद्वैतं प्रदर्शितम् । सैव जीवत्वं पुरुषत्वं प्राप्ता परा ममैव नान्यस्य च। सा उभयरूपा वेद्यवेदकात्मकप्रपञ्चोप रचनविचित्रा, तत एवं स्वात्मविमलमुकुरतलकलितसकलभाव भूमिः स्वस्वभावात्मिका सततमव्यभिचारिणी प्रकृतिः । इदं जगत्, भूम्यादि ॥ ४.५ ॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥ मत्तः परतरं नान्यत् किंचिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७॥ एतद्योनीनि इति। मत्तः इति । उपधारय- अभ्या साहितानुभवक्रमेण आत्मसमीपे कुरु। एवं च त्वमेवोपधारय यत् ‘अहं वासुदेवो भूतः सर्वस्य प्रभवः प्रलयश्च’ । अहम् इत्य नेन प्रकृतिपुरुषपुरुषोतमेभ्यो व्यतिरिक्तोऽपि ईश्वरः सर्वथा सर्वानुगतत्वेन स्थित इति सांख्ययोगयो स्ति भेदवादः इति प्रशितम् । सूत्रे मणिगणा इव-यथा तन्तुरनध्रियमाणरूपो ऽपि अन्तलीनतया स्थितः, एवमहं सर्वत्र ॥ ६-७॥
  2. S omits सा
  3. B अभ्यासानुभव –3-SK-वासुदेवीभूतः–
  4. BN omit the sentence अहं..— मशितम् सप्तमोऽध्यायः 121 रसोऽहमप्सु कौन्तेय प्रकाशः शशिसूर्ययोः । प्रणवः सर्ववेदे यः (१) शब्दः खे पौरुषं नृषु ॥ ८॥ रसोऽहमप्स्विति । सर्ववास्वाद्यमानो योऽनुद्भिन्न मधुरा दिविभागः सामान्यः सोऽहम् । एवं प्रकाशः मृदुत्वचण्डत्वादि रहितः । खे आकाशे। यः शब्द इति सर्वस्यैव शब्दस्य नभोगुण स्वात् अत्रावधारणम् । [अथवा] यः केवलं गगनगुणया ध्वनि संयोगविभागादिसापग्रयन्तररहितः अवहितहृदयः ब्रह्मगुहागग नगामी योगिगणैः संवेद्यः अनाहताख्यः सकलश्रुतिग्रामानुगामी तत् भगवतस्तत्त्वम् । पौरुषम्, येन तेजसा पुरुषोऽह(य)मिति सार्वभौमं प्रतिपद्यते ॥ ८॥ पुण्यः पृथिव्यां गन्धोऽस्मि तेजश्चास्मि विभावसौ। जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९॥ पुण्य इति । यो धरायां केवलधर्मतया गन्धगुणः स स्व. भावपुण्यः । पूत्युत्कटादीनि तु भूतान्तरसंबन्धात् । उक्तं च दृढं भूमिगुणाधिक्याद् दुर्गन्ध्यग्निगुणोदयात् । जडमम्बुगुणौदार्यात् ……… इत्यादि ।॥ ९॥
  5. Nमानयोरनुद्धिन 2. SBN केवलगगन 3. Bधुतिमार्गानुगामो 4. Nप्रतिपाद्यते 5.S,Bधरायाः 6. SBN प्रत्युत्कटत्वादीनि 122 श्रीमद्भगवद्गीता गौतार्थसंग्रहोपैता बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिबुद्धिमतामस्मि ते जस्तेजस्विनामहम् ।। १०॥ पलं बलवतामस्मि कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥ बी जमिति । बलमिति । बीजं सूक्ष्ममादिकारणम् । कामरागविवजितं बलं सकल वस्तुधारणस पर्थम् ऊर्जा पम् । कामः इच्छा संविन्मानरूमा, यस्या घटपटादिभिर्धर्मरूपैर्नास्ति विरोधः । इच्छा हि सर्वत्र भगवच्छक्तितया अनुयायिनी । क्वचिद्विरुध्यते, धमैस्तु आगन्तुकैर्घटपटादिभिभिद्यते इति तदु. पासकतया शुद्ध संवित्स्वभावत्वं ज्ञानिनः । उक्तं च शिवोप निषदि ‘इच्छायामथ वा ज्ञाने जाते वित्तं निवेशयेत्’ (VB, 98)इति जाते एव न तु बाह्य प्रसृते इत्यर्थः । एवं व्याख्यानं त्यक्त्वा ये ‘परस्परानुपघातकं विवर्ग से वेत’ इत्याशयेन व्याचक्षते, ते संप्र. दायक्रममजानानाः भगवद्रहस्यं च व्याचक्षगा नमस्कार्या एव ॥ १०-११॥ ये चैत्र साधिका भावा राजसास्तामसारच ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥
  6. B सूक्ष्मादिकारणम् 2. Bomits रूपम् 3. S omits FT: 4. Sघटादिर्भािम 123 सप्तमोऽध्यायः त्रिभिगुणमयैर्भावरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥ ये चेति । विभिरिति । सत्त्वादीनि मन्मयानि, न त्वहं तन्मयः। अत एव च भगवन्मयः सर्व भगवद्भावेन संवेदयते, न तु नानाविधपदार्थविज्ञाननिष्ठो भगवत्तत्त्वं प्रतिपद्यते इति सकलमानसावर्जक एष क्रमः । अनेनैव चाशयेन वक्ष्यते ‘वासु देवः सर्वम्’ इति ज्ञानेन यो बहुजन्मोपभोगजनितकर्मसमता समनन्तरसमुत्पन्नपरशक्तिपातानुगृहीतान्तःकरणः असौ प्रति पद्यते भगवत्तत्त्वं ‘ननु सर्व वासुदेवः’ इति बुद्धया, स महात्मा स च दुर्लभ इति । एवं ह्यबुद्धयमानं, प्रत्युत सत्त्वादिभिर्गुणैः मोहितमिदं जगत् गुणातीतं वासुदेवतत्त्वं नैवोपलभते ॥१२-१३ कथं खलु सत्त्वादिमानस्थिता भगवतस्तत्त्वं न विदुः इत्याह देवी ह्येशा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामतितरन्ति ते ॥ १४ ॥ दैवीति । देवः क्रीडाकरः, तत्र भवा देवी क्रीडा ममेय. मित्यर्थः । तेन सत्त्वादीनी वस्तुतः संविन्मान परब्रह्मानतिरिक्त तायामपि यत् तदरिक्ततावगमनं तदेव गुणत्वं भोक्तृतत्त्व. पारतन्यं भोग्यत्वम् । तच्च भेदात्मक रूपं संसारिभिरनिर्वा Sia
  7. Kadds another इति 2.S, Bomits भगवत्तत्त्वम् 3. Komits ननु 4. B, Nहि बुद्धयमानम् 5. B.N तदतिरिक्तभावगमनम् 124 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता च्यतया तान् प्रति मायारूपम् । अतो ये परमार्थब्रह्मप्रकाश विदः ते तदनतिरिक्तं विश्वं पश्यन्तो गुणानी सत्त्वादीनां गुण तालक्षणां भेदावभासस्वभावां मायाम् अतितरन्ति इति ‘मामेव’ इत्येवकारस्याशयः । ये तु यथास्थित भेदावभासमात्र विदुः, ते मायां नातिकामन्ति । तद्युक्तमुक्तम् ‘त त्वहं तेषु’ इति॥१४॥ न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आतुरं भावमाश्रिताः ॥ १५ ॥ व मामिति । ये च मां सत्यपि अधिकारिणि काये नाद्रियन्ते ते दुष्कृतिनः नराधमाः मूढाः, आसुराः तामसाः इति मायामहिमैवायम् ॥ १५ ॥ चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा। आर्को जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।। १६ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतः । - आस्थितः स हि युक्तात्मा मामेवानुत्तनां गतिम् ॥ १८ ॥ बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । ____वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥
  8. B यथास्थितभेद– 2. S नातिवर्तन्ते 3. Somits अपि 125 सप्तमोऽध्यायः चतुविधा इत्यादि सुदुर्लभ इत्यन्तम् । ये तु मां भजन्ते, ते सुकृतिनः । ते च चत्वारः । सर्वे चैते उदाराः। यतः अन्ये कृपणबुद्धयः आत्तिनिवारणम् अर्थादि च तुल्यपाणिपादोदर शरीरसत्त्वेभ्योऽधिकतरं वा आत्मन्यूनेभ्यो मार्गयन्ते । ज्ञान्य पेक्षया तु [ते] न्यूनसत्त्वाः, यतः तेषां तावत्यपि भेदोऽस्ति ‘भगवतः इदमहमभिलष्यामि’ इति भेदस्य स्फुटप्रतिभासात् । ज्ञानी तु मामेवाभेदतया अवलम्बते इति ततोऽहममिन्न एव । तस्य च अहमेव प्रियः न तु फलम् । अत एव स ‘वासुदेव एव सर्वम्’ इत्येव दृढप्रतिपत्तिपवितीकृतहृदयः ॥१६-१९ ॥ कामैस्तैस्तैहतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २०॥ यो यो यां या तनुं भक्तः श्रद्धयाचितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तान् ॥ २२ ॥ अन्तवस्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥ कामैरित्यादि मामपीत्यन्तम् । ये पुनः स्वेन स्वेनोत्त पादिकामनास्वभावेन विचित्रेण परिच्छिन्नमवसस्ते कामनाप हृतचेतनाः तत्समुचितामेव ममैवावान्त रतनुं देवताविशेष मुफा
  9. Somits इति 2. वासुदेवः सर्वमेवम् 3. B,N-चेतसः 126 श्रीमद्भगवद्गीता गीतार्थसंग्रहौता सते । अतो मत एव कामफलमुपाददते । किं तु तस्यान्तोऽ स्ति, निजयैव वासनया परिमितीकृतत्त्वात् । अत एवेन्द्रादि भावनातात्पर्येण यागादि कुर्वन्तस्तथाविधमेव फत्रमुपाददते । मत्प्राप्तिपरास्तु मामेव ॥ २०-२३ ॥ ननु सर्वगते भगवतत्त्वे किमिति देवतान्तरोपासकानो मितं फलम् ? उच्यते अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥ अव्यक्तमिति। ते खलु अाबुद्धित्त्वात् मत्स्वरूपं पार. माथिकम् अविद्यमानव्यक्तिकं न प्रत्यभिजानीते । अपि तु निज कामनास मुविताकारविशिष्ट ज्ञानस्वभाव2 व्यक्तिमेवापन्नं वि दन्ति नान्यथा । अत एव न नाम्नि आकारे वा कश्विद्ग्रहः । किंतु सिद्धान्तोऽप्रमत्र-यः कामनापरिहारेण यत्किञ्चिद्देवतारूप मालम्बते तस्य तत् शुद्ध मुक्तभावेन पर्यवस्यति । विपर्ययात्तु विपर्ययः ॥ २४ ॥ नाहं प्रकाशः सर्वस्य योगमायाप्समावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् २५ ।। वेदाह समतीतानि वर्तमानानि चार्जुन । भविष्यन्ति च भूतानि मां तु वेद न कश्चन ॥२६॥
  10. S-पासते 2. BN स्वभाव 3.SB • मुक्तभावे 4. S,B,N add efa सप्तमोऽध्यायः 127 नाहमिति । वेदाहमिति । सर्वेषां नाहं गोचरतां प्राप्नोमि ॥ २५-२६ ॥ ननु च कर्माण्येव क्रियमाणानि प्रलयकाले मोक्षं विदधते । अन्यथा किमिति महाप्रलय उपजायते इत्याशङ्कायामारभते इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन मारत । सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥ २७ ॥ इच्छेति । इच्छाद्वेषक्रोधमोहादिभिस्तावन्मोहात्मक एव स परं स्फोतोभावमुपनीयते, येन प्रकृति जठरान्तर्वति समग्रमेव जगत् निजकार्यकरणमात्राक्षममेव प्रसुप्ततामवलम्बते; आमोहं वासनानुभवात् । प्रतिदिनं रातिसमये सौषुप्तवत् । न तु तावता विमुक्तरूपता; मोहानुभवसमाप्तो पुनविचित्रव्यापार पंसारदर्शनात् ॥ २७ ॥ येषां त्वन्तं गतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८॥ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् ॥ २९ ।। साधिभूताधिदैवं मां साधियज्ञं च ये विदुः। प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३०॥ ॥ इति श्रीमद्भगवद्गीतायां सप्तमोऽध्यायः॥
  11. S विदधति; BN प्रविदधति, 2. B-मारभ्यतेः N -मिदमारभ्यते 128 धीमद्भगवद्गीता गीतार्यसंग्रहोपेता येषामित्यादि युक्तचेतस इत्यन्तम् । ये तु विनष्टतामसाः पुण्यापुण्यपरिक्षयक्षेमीकृतात्मावः, ते विपाटितमहामोहवितानाः सर्वमेव भगवश्मिखचितं जरामरणमयतमिस्रस्रुतं ब्रह्म वि दन्ति; आध्यात्मिकाधिभौतिकाधिदैविकाधियाज्ञिकानि च ममैव रूपान्तराणि । प्रयाणकाले च, नित्यं भगवद् भावितान्तःकरण त्वात्, मां जानन्ति, यतो येषां जन्म पूर्वमेव भगवत्तत्त्वं, ते अन्तकाले परमेश्वरं संस्मरेयुः। कि जन्मासेवनया’ इति ये मन्यन्ते, तेषां तूष्णीभाव एव शोभनः इति ॥ २८-३०॥ ॥शिवम् ॥ अव संग्रहश्लोकः स्फुटं भगवतो भक्तिराहिता कल्पमञ्जरी । साधनेछासमुचितां येनाशां परिपूरयेत् ॥ ॥इति श्रीमहामाहेश्वराचार्यवयंराजनकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे सप्तमोऽध्यायः ॥ ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. २ (मू) ज्ञात्वेति । स्थितस्येति शेषः । श्लो. ४-५ (व्या) सैव जीवत्वं पुरुषत्वं प्राप्ता इति । बजेदं परिचिन्तनीयम् -सा इति तच्छब्दः प्रकाराष्टकभेदेव
  12. This is tbe reading given in tbe Critical Ed. of the MB. But our CA read साधकेच्छा. सप्तमोऽध्यायः 129 भिद्यमानां प्रकृति पूर्ववाक्यार्थ मुख्य विशेष्यभूतां परामृशति इत्यत्र न कोऽपि सन्देहो भवितुमर्हति । तथा च आचार्यस्य ईदशी सैव इत्यादिव्याख्यारीतिः इदं संसूचयतीव – अपरेयमिति पद्ये आचार्याभिमतः पाठः ‘अपरेयमितोऽनन्याम्’ इति, अथ वा तत्समानयोगक्षेमोऽन्यः इति ; न तु ‘अपरेयमितस्त्वन्याम्’ इति सार्वत्रिकः रामकण्ठेनापि समादृतः पाठ आचार्याभिप्रेत इति ॥ 2 श्लो.६-७ (व्या) वासुदेवो भूतः सर्वस्य प्रभवः प्रलयश्चेत्यनेन न केवलं कृत्स्नस्य जगत’ इत्यादिमूलभागो व्याख्यातः, अपि तु वासुदेवशब्दार्थोऽपि । एवं च मूले अहंशब्दवाच्यो वासुदेवः परं ब्रह्मेति सिद्धमिति हृदयम् ॥ श्लो ८ (व्या) यः शब्द इति इति। अनेन प्रतीकधारणेन ज्ञायते ‘प्रणवः सर्ववेदे यः शब्दः’ इत्याचार्याभिमतः पाठ इव इति । सार्वत्रिकस्तु पाठः रामकण्ठीयश्च सर्ववेदेषु शब्दः’ इत्येव । fi अथवेत्यादिद्वितीयव्याख्यानानुसारेण खे यः शब्दः सर्व वेदे च प्रणवः सोऽहमित्यर्थः । प्रकृष्टो नवः प्रणवः अत्यन्तं नूत्नः । स च शब्दविशेषणम् । शब्दस्य सामान्यतः संयोगादि जन्यतया तदजन्यत्वमेव तस्यात्यन्तनूत्नत्वम् । तदाह- संयोग विभागादिसामग्रयन्तररहितः इति तथा अनाहताख्य इति च विशेषणद्वयेन । गगनगुणतया तथा ब्रह्मगुहागगनगामी इति च खे इति मूलस्य व्याख्या। सकलश्रुतिग्रामानुगामी इति सर्ववेदेषु इत्यस्य व्याख्या। श्रुतिग्रामानुगामिनः - शब्दस्य संयोगाद्यजन्यत्वोक्त्या अनाहतत्वोक्त्या च, कण्ठताल्वभिघातजन्यत्वहेतुकवेदपक्षक पौरुषेयत्वानुमानं वस्तुतोऽनुमानाभास इति ध्वनिः ॥ गीता-9130 श्रीमद्भगवद्गीता गीतार्थसंग्रहीपैता श्लो. १०-११ (व्या) इत्याशयेनेति । इति मूलस्याशयं प्रदर्शयितुमित्यर्थः॥ श्लो. १२-१३ (व्या) सत्त्वादीनीति । अपि नामेद माचार्यव्याख्यानं ज्ञापयति यत् मूले सात्त्विकादिशब्दाः स्वा र्थिकप्रत्ययान्ता अभिमता आचार्येण इति ? अपि वा सत्त्वादीना भगवन्मयत्वात् सात्त्विकादिभावानां भगवतः सकाशादुत्पत्ति रुच्यते इति दर्शनपरोऽयं ग्रन्थः । संवेदयते इति । णिजन स्वार्थे । T ‘वासुदेवः सर्वम्’ इति ज्ञानेनेति । अस्य च अग्रिमेण ‘इति बुद्धया’ इत्यनेन सामानाधिकरण्येनान्वयः। अथ वा ‘ज्ञानेन’ इति संपातायातम् । ‘वासुदेवः सर्वम्’ इत्यस्य ‘प्रतिपद्यते’ इत्य नेनान्वयः । वासुदेवः सर्वमित्यस्यार्थवर्णनपरः ‘यो बहु …… सच दुर्लभः’ इति ग्रन्थः । तत्र च योऽसावित्यन्वयः । बहुजन्मोपभोगे त्यादिना प्रतिपद्यते भगवत्तत्त्वमित्यन्तेन बहूनां जन्मनामन्ते ज्ञान वान् मां प्रपद्यते इत्यस्य व्याख्यानम् । एवमित्यादि त्रिभिर्गुणमयैरितिपद्यव्याख्या। रविणा ज्योतिर्मयेन प्रकाशित इत्यत्र यथा ज्योतिष एव वस्तुतः प्रकाश कत्वमुक्तं भवति, तथैव गुणमयैर्भावैर्मोहितमित्यवापि मोहकत्वं गुणानामेवेति पर्यवस्यति इति कृत्वाऽऽह-गुणैर्मोहितमिदपिति ॥ श्लो. १४ (व्या) देवः क्रीडाकर इति । देवशब्दस्य दिवु क्रीडायामिति धातोनिष्पन्नत्वादिति भावः ॥ सप्तमोऽध्यायः 131 श्लो. १६-१९ (व्या) अभिलष्यामीति । अभिपूर्वकात् भ्वादेर्लषः ‘वा भ्राश - - … लषः’ (PA, III, i, 70) इति वैकल्पिकः श्यन् ; अभिलषामीत्यर्थः॥ श्लो. २०-२३ (व्या) मूले ‘कामैस्तैस्तैर्हतज्ञानाः प्रपद्य न्तेऽन्यदेवताः’ (श्लो. २०) इत्युक्त्वा ‘श्रद्धयाचितुमिच्छति’ (२१) इत्युक्तम् । तथा च अव काममयी श्रद्धैव प्रकृता । ‘ता मेव’ इत्यस्य (२१) यां यां तनुम्’ इति पूर्वार्धे निर्दिष्टां तां तनु मित्यर्थः । विदधामि, विशेण अन्यव्यावृत्तविशेषवत्त्वेन दधामि धारयामि । तादृश्यास्तनोः भक्तनिष्ठपूर्वोक्तश्रद्धामयत्वात् श्रद्धाम् इत्यभेदोक्तिः । तथा च पूर्वार्धे श्रद्धयेति तृतीयार्थोऽभेदः, सच तन्वामन्वेति । एतत् सर्व मनसि विधाय तात्पर्यार्थमाह व्या ख्यायाम् - तत्समुचितामेव ममैवावान्तरतनुमिति । इन्द्रादिभावनातात्पर्येणेति । भावना, भावः । तथा च ‘इन्द्रो भविष्यामि’ इति तात्पर्येणेत्यर्थः । अथवा इन्द्रादिभवनतात्पर्येण इत्यर्थः । अथवा इन्द्रादिभवनतात्पर्येण इत्येव वा विवक्षितम् । इन्द्रादीनां यानि भवनानि वैजयन्तादीनि तत्प्राप्त्युद्देशेनेति तदर्थः।। श्लो. २४ (व्या) परिहारेणेति । फले हेतौ तृतीया। परि हारार्थमित्यर्थः । अथ वा सहार्थयोगे तृतीया। परिहारपूर्वक मित्यर्थः । तस्य, साधकस्य, तत् आलम्बनम् । मुक्तभावेन इति पुनरपि फले हेतौ तृतीया; मुक्तभावाय मुक्तये इत्यर्थः । अथवा तृतीयार्थोऽभेदः । स च धात्वर्थे पर्यवसाने फलरूपेऽन्वेति । मुक्त्या स्मकफलं भवतीत्यर्थः॥ 132 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ga श्लो. २७ (ब्या) मोहानुभवसमाप्तौ इति । प्रलयकाली नेत्यादिः । अनेन च ‘सर्गे’ इति मूलं व्याख्यातम् । अथवा मो हानुभवासमाप्ताविति विवक्षितम् । एवं च द्वन्द्वमोहस्य सवा सनस्यासमाप्तौ सत्यां, पुनः सर्गे इत्यर्थः । श्लो. २८-३० (व्या) यतो येषामित्यादि । अत्रेदं विव क्षितमिव-‘यतो येषाम् आजन्म जन्मनः प्रभृति पूर्वमेव प्रया णात् पूर्वकालेऽपि भगवत्तत्त्वस्परणं, ते अन्तकाले परमेश्वरं संस्मरेयुः’ इति । किम् जन्मासेवनयेति । जन्मप्रभृति आसेवचया निरन्तर सेवचया इत्यर्थः । यथाऽऽहुः ‘स तु दीर्घकालनैरन्तर्यसत्काराऽऽसेवितो दृढभूमिः’ (Ys, I, 14) इति॥ संग्रहश्लोके-येनेति । यस्मात् कारणात् इत्यर्थः । यस्मात् कारणात् भक्तिः साधनेच्छासमुचितां मोक्षसाधनविषयकेच्छायाः अर्थात् तत्परिपूर्तेः अनुगुणाम् आशां परिपूरयेत्, तस्मात् कार णात् इयं कल्पमञ्जरी इत्यन्वयः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या सप्तमोऽध्यायः ॥