षष्ठोऽध्यायः एवं प्राक्तनेनाध्यायगणेन साधितोऽर्थः श्लोकद्वयेन निगद्यते अनाश्रितः कर्मफलं कार्य कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥१॥ यं संन्यासमिति प्राहुर्योग तं विद्धि पाण्डव । न घसंन्यस्तसंकल्पो योगी भवति कश्चन ॥ २॥ अनाश्रित इति । यं संन्यासमिति । कार्य स्वजात्यादिवि हितम् । संन्यासी योगीति पर्यायावेतौ। अत एवाह- यं संन्यासमिति । तथा च योगमन्तरेण संन्यासो नोपपद्यते । एवं संकल्पसंन्यासं विना योगो न युज्यते । तस्मात्सततसंबद्धौ योग संन्यासौ। न निरग्निरित्यादिना अयमों ध्वन्यते- “निरग्निश्च न भवति निष्क्रियश्च न भवति ; अथ च संन्यासी इत्यद्भुतम्। इति ॥ १-२॥ यद्यपि ‘द्यूतम् असिंहासननं राज्यम्’ इति [रीत्या] युक्तया च केवलस्य निष्क्रियस्य संन्यासित्वं नोपपद्यते इत्युक्तम् । तथापि आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३॥ 9. S संन्यासीति 2. Nहतम् 3. K उपपद्यते षष्ठोऽध्यायः 101 आरुरुक्षोरिति - मुनेः, ज्ञानवतः; कर्म, करणीयम्; कारणं प्रापकम् । शमः प्राप्तभूमावूपरमः । कारणमत लक्षणम् ॥ ३॥ एष एवार्थः प्रकाश्यते यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषन्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥ पदेति । इन्द्रियार्थाः विषयाः; तदर्थानि च कर्माणि वि. षयार्जनादीनि ॥४॥ अस्यां च बुद्धौ अवश्यमेवावधेयमित्याह उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अजितात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६॥ उद्धरेदिति । बन्धुरिति । अव च नान्य उपायः, अपि तु आत्मैव, मन एवेत्यर्थः । जितं हि मनो मित्रं घोरतरसंसारो द्धरणं करोति; अजितं तु तीब्रनिरयपातनात् शत्रुत्वं कुरुते ॥५-६ तव जितमनस इदं रूपम् जितात्मनः प्रशान्तस्य परात्मसु समा मतिः । शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥ ७ ॥ जितेति । प्रशान्तो निरहंकारः। परेषु आत्मनि च शीतोष्णादिषु च अभेदधीः, न रागद्वेषौ ॥७॥ 10. NK - भूमावनुपरमः 102 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकांचनः ॥८॥ ज्ञानेति । ज्ञानम् अभ्रान्ता बुद्धिः । विविधं ज्ञानं यत्र तत् विज्ञानम् प्राग्युक्त्युदितं कर्म ॥ ८॥ सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥ सुहृदिति । सुहृत्, यस्य हृदयम् अकारणमेव शोभनम् । मित्रत्वम् अन्योन्यम् । अरित्वं परस्परम् । उदासीन, एतदु भयरहितः, मध्यस्थः केनचिदंशेन मिनं केनचिच्छत्रुः । द्वेषा) द्वेष्टुमशक्यो? द्वेष्यः । बन्धुः योन्यादिसंबन्धेन। एतेषु सर्वेषु समधीः, एवं साधुषु पापेषु च; स च विशिष्यते क्रमात् क्रम संसारात् तरति ॥ ९॥ ईदशैश्च वन्द्य चरणः इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोष हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥१०॥ इहेति । इहैव, सत्यपि शरीरसंबन्धे सर्गो जितः, साम्या वस्थत्वात् । संसारस्य ह्यबन्धकत्वमेषाम् ;3 साम्ये हि ते प्रति ष्ठिताः । साम्यं च ब्रह्म ॥ १० ॥ 11. S, N, K (0) एतद्रूपरहितः 2. N द्वेष्टुं शक्यः 3. S, B, K (n) orazgledat; N stangferaat . after अबन्धकत्वम् । षष्ठोऽध्यायः 103 नन ‘जितात्मनः’ इत्युक्तम्, तत्कथं तज्जय ? इत्याशङ्कय आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकः चित्तसंयम उप दिश्यते योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ ११ ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चलाजिनकुशोत्तरम् ॥ १२॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युज्यायोगमात्मविशुद्धये ॥ १३ ॥ समं कायशिरोग्रीवं धारयन्न चलं स्थिरः । संपश्यन् नासिकाग्रं स्वं दिशश्वानवलोकयन् ॥१४॥ प्रशान्तात्मा विगतभीब्रह्मचारिवते स्थिरः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥१५॥ युञ्जन्नेवं सदात्मानं मद्भक्तोऽनन्यमानसः । शान्ति निर्वाणपरमो मत्संस्थामधिगच्छति ॥ १६ ॥ योगीत्यादि अधिगच्छतीत्यन्तम् । आत्मानं च, चित्तं च; यजीत, एकाग्रीकुर्यात् । सततमिति - न परिमितं कालम् । एकाकिस्वादिषु सत्सु एतद्युज्यते2 नान्यथा। आसनस्थैर्यात् कालस्थैर्ये चित्तस्थैर्यम् । चित्तक्रियाः संकल्पात्मानः अन्या 12. S,B.N कायसमुद्धारकः 2. B, N युजीत 3, S, B कालस्थर्यम् 104 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्चेन्द्रियक्रिया येन यताः नियमं नीताः। धारयन् यत्नेन । तासिकाग्रस्यावलोकने [सति] दिशामनवलोकनम् । मत्परमतया युक्त आसीत’ इत्यर्थः । एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते, यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तिः ॥११-१६॥ योगोऽस्ति नैवात्यशतो न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य नातिजागरतोऽर्जुन । १७ ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १८ ॥ योगोऽस्तीति । युक्ताहारेति । शाहारेषु आह्रियमाणेषु विषयेषु । विहारः उपभोगाय प्रवृत्तिः । तस्याश्च युक्तत्वं नात्यन्तासक्ति त्यन्तपरिवर्जनम् । एवं सर्वत्र । शिष्टं स्पष्टम् । ‘जागरत’ इत्यादि मुनेः प्रमाणत्वात् वेदवत् । एवमन्यत्रापि ॥ १७-१८॥ यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा। १९ ॥ यदेति । अस्य च योगिनश्चिह्नम् आत्मन्येव नियतमना न किंचिदपि स्पृहयते ॥ १९॥ 13. N आसीत् 2. Somits इत्यर्थः 3. K-प्राप्तिर्योगोऽस्तीति 4. BN योऽपि आहारेषु 5. Bomits विषयेषु 6. SK (0) उपयोगाय प्रवृत्तिः 7. Nजाग्रत इति मनःप्रमाणत्वात् । षष्ठोऽध्यायः 105 यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनि ॥ २० ॥ यथेति । यथा निवातस्थो दीपो न चलति एवं योगी। चलनमस्य विषयादीनामर्जनादयः प्रयासाः ॥ २०॥ इदानीं तस्य स्वस्वभावस्य ब्रह्मणो बहुतरविशेषणद्वारेण स्वरूपं निरूप्यते [यः] तीर्थान्तरकल्पितेभ्यश्च रूपेभ्यो व्यतिरेकः यत्रोपरमते चित्तं निरुद्धं योगसेवनात् । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २१ ॥ सुखमात्यन्तिकं यत् तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवाय स्थितश्चलति तत्त्वतः । २२ ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिस्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २३ ॥ तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगे(?)ऽनिर्विण्णचेतसा ॥ २४ ॥ यवेत्यादि अनिविण्णचेतसा इत्यन्तम् । यत्र मनो निरुद्धम् उपरमते - स्वयमेव । आत्यन्तिकं, विषयकृतकालुष्याभावात्, सुखं यत्र वेत्ति । अपरो लाभो धनदारपुत्रादीनो संनियोग लब्धश्च योगः; अन्यत्र सुखधीनिवर्तते च इनि वस्तुस्वभावोऽय मित्यर्थः । न विचाल्यते, विशेषेण न चाल्यते; अपि तु संस्कारमात्रेणैवास्य प्रथमक्षणमात्रमेव चलनं कारुण्यादिवशात् न तु मूढतया ‘विनष्टो बताहम् । किं मया प्रतिपत्तव्यम्। 14. Somits निवातस्थो 106 भीमद्भगवद्गीता गीतार्थसंग्रहोपैता इत्यादि । दुःखसंयोगस्य वियोगो यतः, स च निश्चयेन आस्ति कताजनितया श्रद्धया सर्वथा योक्तव्यः अभ्यसनीयः । अनि विण्णम् उपेयप्राप्तौ; दृढतरं संसारं दुःखबहुलम् प्रति निविणं वा चेतो यस्य ॥ २१-२४ ॥ कामानां त्यागे उपायः संकल्पत्याग इत्याह संकल्पप्रभवान कामांस्त्यक्तुं (?) सर्वानशेषतः । मनसैवेन्द्रियग्राम विनियम्य समन्ततः ॥ २५ ॥ शनैः शनैरुपरमेद् बुद्धया धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किंश्चिदपि चिन्तयेत् ॥ २६ ॥ संकल्पेति । शनैः शनैरिति । मनसैव, न व्यापारोपर. मेण । धृति गृहीत्वा क्रमात् क्रपमभिलाषदुःखं प्रतनू कृत्य, किं. चिदपि विषयाणां त्यागग्रहणादिकं न चिन्तयेत् । यत्तु अन्याखशतम् ‘नकिञ्चिदपि चिन्तयेत्’ इति, तन्नास्मभ्यं रुचितम् । शून्यवादप्रसंगात् ॥ २५-२६ ॥ न च विषयव्युपरममात्रमेव प्राप्यमित्युच्यते यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २७ ॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २८॥ 1. S,N omit वा 2.S,BN कामानामुपायत्यागे 3. S,Bomita 4S यथात्वन्यर् ; B यथा तु कैश्चिद् षष्ठोऽध्यायः 107 युञ्जन्नेवं सदात्मानं योगी नियतमानसः । सुखेन ब्रह्मसंयोगमत्यन्तमधिगच्छति ॥ २९ ॥ यत इत्यादि अधिगच्छतीत्यन्तम् । यतो यतो मनो नि वर्तते तन्निवर्तनसमनन्तरमेव आत्मनि शमयेत् । अन्यथा अप्र तिष्ठं चित्तं पुनरपि विषयानेवावलम्बते । तत्र आत्मनि शान्त चित्तं योगिनं कर्मभूतं सुख कर्तभूतम् उपैति । अनेनैव क्रमेण योगिनां सुखेन ब्रह्मावाप्तिः, न तु कष्टयोगादिनेति तात्पर्यम् ॥ २७-२९॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईशते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ३० ॥ सर्वेति । सर्वेषु भूतेषु आत्मानं ग्राहकतया। अनुप्रविशन्तं भावयेत् । आत्मनि च न ह्यताज्ञानद्वारेण सर्वाणि भूतानि एकीकुर्यात् । अतश्च समदर्शनत्वं जायते योगश्चेति संक्षेपार्थः । विस्तरस्तु भेदवादविदारणादिप्रकरणे देवीस्तोत्रविवरणे च मयैव निर्णीत इति तत्वावधार्य. ॥ ३० ॥ एष एवार्थः स्पष्टी क्रियते - यो मां पश्यति सर्वत्र सर्व च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३१ ॥ 15. Kग्राहकरूपतया 2. Bज्ञायते 3. SK तत एवाव 4. Komits this sentence. 108 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता यो मामिति । प्रणाशः, अकार्यकारित्वात् । तथाहि परमात्मनः सर्वगतं रूपं यो न पश्यति तस्य परमात्मा पला. यितः स्वरूपप्रकटीकाराभावात् । यच्चेदं2 वस्तुजातं [तत्] तद्भासनात्मनि परमात्मनि निविष्टं भाति; तथाविधं यो न पश्यति स परमात्मस्वरूपात् प्रणष्टः, तद्व्यतिरेके सति अवि भर्भासनात् । यस्तु सर्वगतं मां पश्यति तस्याहं न प्रणष्टः, स्व रूपेण भासनात् । भावांश्च मयि पश्यति तत् तेषां भासनोप पत्तौ द्रष्टतायां परिपूर्णायां, स न प्रणष्टः परमात्मनः ॥ ३१ ॥ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी नैव लिप्यते (१) ॥ ३२ ॥ सर्वेति । यस्त्वेवं ज्ञानाविष्टः सोऽवश्यमेव एकतया भगवन्तं सर्वगतं विदन् सर्वावस्यागतोऽपि न लिप्यते ॥ ३२ ॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन। सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३३ ॥ आत्मौपम्येनेति । सर्वस्य च सुखदुःखे आत्मतुल्यतया पश्यतीति स्वरूपमेतदनूदितम् न पुनरेषोभूर्वो विधिः ॥ ३३ ॥ अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलचात् स्थिति पराम् ॥ ३४ ।। 1.S-कारकत्वात् 2. N यश्चेदम् 3. Bomits परमात्मनि 4. SK विनिविष्ट भाति (K भवति) 5. BN ज्ञानाविष्टोऽसाववश्यमेव S - वश्यमेकतया 100 षष्ठोऽध्यायः चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।। ३५ ॥ योऽयमिति । चञ्चलमिति । या अयम् इति परोक्षप्रत्य क्षवाचकाभ्यामेवं सूच्यते - भगवदभिहितानन्तरोपायपरम्परया स्पुटमपि प्रत्यक्षनिर्दिष्टमपि ब्रह्म मनसः चाञ्चल्यदौरात्म्यात् सुदूरे वर्तते। इति परोक्षायमाणम् । प्रमथ्नाति दृष्टादृष्ट बलवत् शक्तम् । दृढ, दुष्टव्यापारात्- वारयितुम् अशक्यम् ।।३४-३५॥ अव उत्तरम् श्रीभगवानुवाच असंशयं महाबाहो मनो दुनिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३६ ॥ असंशयमिति । वैराग्येण विषयोत्सुकता विनाश्यते । अभ्यासेन मोक्षपक्ष. क्रमात् क्रम विषयीक्रियते इति द्वयोरुपा दानम् । उक्तं च तत्रभवता भाष्यकृता ‘उभयाधीनश्चित्तवृत्तिनिरोध.’ इति ।। ३६ ।। अत एषा प्रतिज्ञा असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३७॥ असंयतेति । असंयतात्मनः अविरक्तस्य न कयंचिद्योगावाप्तिः । वश्यात्मनेति, वैराग्यवता। यतमानेनेति, साभ्यासेन । [उपा यतः] उपायान् अनेकसिद्धान्तादिशास्त्रविहितान् संश्रित्य ॥३७॥ 16. N. सुदूरीक्रियते 2.N द्रष्टव्यापारात्110 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता अर्जुन उवाच अयतः श्रद्धयोपेतः योगाचलितमानमः । लिप्समानः सतां मार्ग प्रमूढो ब्रह्मणः पथि ॥ ३८ ॥ अनेकचित्तो विभ्रान्तो मोहस्यैव वशं गतः । अप्राप्य योगसंसिद्धि को गति कृष्ण गच्छति ॥ ३९ ॥ कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विनाशं वाधिगच्छति ॥ ४० ॥ एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य च्छेत्ता न हयुपपद्यते ॥ ४१ ॥ अयतः इत्यादि नह्युपपद्यते इत्यन्तम् । प्राप्ताद्योगात् यदि चलितेऽपि चित्ते श्रद्धा न हीयते । विनष्टश्रद्धो हि सिद्धयोगोऽपि सर्वं निष्फलं कुरुते । उक्तं हि _यदा प्राप्यापि विज्ञानं दूषितं चित्तविभ्रमात । तदैव ध्वंसते शीघ्र तूलराशिरिवावलात् ।। योगस्य सम्यक सिद्धौ अजातायां किं लोकान्निष्क्रान्तः सम्यक् च ब्रह्मणि न निलीन’ इति नश्येत्? अथवा ब्रह्मणि अप्र तिष्ठितत्वात् विनश्यति परलोकबाधाय? इति प्रश्नः।।३८-४१॥ अत्र निर्णयम् श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत् कश्चिदुर्गति तात गच्छति ॥ ४२ ॥ 17. B, N यस्य instead यदि 2. B तदेवम् 3. K न लीन इति 4. S निर्णयः षष्ठोऽध्यायः 111 पार्थेति । न तस्य योगभ्रष्टस्य इह लोके परलोके वा वाशोऽस्ति, अनष्टश्रद्धत्वात् इति भावः । स हि कल्याणं भगवन्मार्गलक्षणम् कृतवान् । न च तत् अग्निष्टोमादिवत् क्षयि ॥ ४२ ॥ प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४३ ॥ प्राप्येति । शाश्वतस्य विष्णोः, समाः, वैष्णवानि वीणि बर्षाणि । शुचीनापिति, येषां भगवदंशस्पशि चित्तम् ।। ४३ ।। अथ वा योगिनामेव जायते धीमता कुले। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४४ ॥ अथ वे ति । यदि तु तारतम्येन अस्य अपवर्गेण भवि. तव्यं तदा योगिकुले एव जायते । अत एवाह ‘एतद्धि दुर्लभ तरम्’ इति । श्रीमतां गेहे कि लावश्यमेव विघ्नाः सन्ति ।।४४।। तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । ततो भूयोऽपि यतते संसिद्धौ कुरुनन्दन ॥ ४५ ॥ पूर्वाभ्यासेन तेनैव हियते यवशोऽपि सन् । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४६॥ प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४७॥ 18. S परत्र 2. Kadds तस्य लोकद्वयाविनाशिनः after भावः 112 श्रीमद्भगवद्गीता गौतार्थसङ्ग्रहोपैता
- तनेत्यादि परां गतिमित्यन्तम् । संसिद्धौ मोक्षात्मिका याम् । अवशः, परतन्त्र एव किल तेन पूर्वाभ्यासेन बलादेव योगाभ्यासं प्रति नीयते । न चैतत् सामान्यम् । योगजिज्ञासा मात्रेणैव हि शब्दब्रह्मातिवृत्तिः, मन्त्रस्वाध्यायादिरूपं च शब्द ब्रह्म अतिवर्तते, न स्वीकुरुते।। ततः जिज्ञासानन्तरम् यत्नवान् अभ्यासक्रमेण देहान्ते वासूदेवत्वं प्राप्नोति । न चासौ तेनैव देहेन सिद्ध इति मन्त व्यम् । अपि तु बहूनि जन्मानि तेन तदभ्यस्तमिति मन्तव्यम् । अत एव यस्य अनन्यव्यापारतया भगद्व्यापारानुरागित्वं स योगभ्रष्ट इति निश्चेयम् ।। ४५ - ४७ ॥ योगस्य प्राधान्यमाह तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४८॥ तपस्विभ्य इति । तपस्विभ्यः अधिकत्वं पूर्वमेव सूचि तम् । ज्ञानिभ्यः अधिकत्वं, ज्ञानस्य योगफलत्वात् । कमिभ्य उत्कर्षः स एव कर्माणि कर्तुं वेत्ति ।। ४८॥ न च निरीश्वरं कष्टयोगमावं संसिद्धिदं इति उच्यते - योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् मजते यो मां स मे युक्ततमो मतः ॥ ४९ ॥ ॥ इति श्रीमद्भगवद्गीतायां षष्ठोऽध्यायः ॥
- BN निश्चयः षष्ठोऽध्यायः 113 योगिनासपीति । सर्वयोगिमध्ये य एव मामन्तःकरणे निवेश्य भक्तिश्रद्धातत्परो गुरुचरणसेवालब्धसंप्रदायक्रमेण मामेव नान्यत्। भजते विमृति’, स [मे] युक्ततमः परमेश्वरसमा विष्ट । इति सेश्वरस्य ज्ञानस्य सर्वप्राधान्य मुक्तम् इति ॥४९॥ 19 ॥शिवम् ।। अत्र संग्रहश्लोकः भगवन्नामसंप्राप्तिमात्रात्सर्वमवाप्यते । फलिताः शालय. सम्यग्वृष्टिमात्रेऽवलोकिते ॥ ।। इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे षष्ठोऽध्यायः ॥ ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी॥ ia श्लो. ३ (व्या) कारणमत्र इति । योग पारुरुक्षोः योगा रूढस्य च नित्यतया तस्य कारणमिति वचनमसङ्गतप्रायमिति मत्वा मूले पूर्वार्धगतं कारणपदम् ‘आरुरुक्षोः प्रापणीयप्राप्ति कारणम्’ इति व्याख्याय अव प्रकृते उत्तरार्धे कारणपदं योगा रूढविशेष्य केतरव्यावृत्तिप्रकारकज्ञावकारणपरमित्यभिप्रायेण व्याचष्टे -लक्षणमिति । । श्लो. ७ (अ) तत्र, जिताजितमनसोर्मध्ये ।
- N नान्यम् 2. SN omit faqafa; K substitutes fansa 3.S omits परमेश्वरसमाविष्टः
- गीता-8 भीमद्भगवद्गीता गीतार्थसंग्रहोपैता श्लो. ८ (मू) कूटस्थ इति । कूटः गिरिशृङ्ग, तद्वत् रागद्वेषादिमेघेभ्यः औन्नत्येन अचांचल्येन च तिष्ठतीति कूटस्थः । (व्या) प्राग्युक्त्युदितमिति । प्राक् पूर्वतनग्रन्थे युक्त्या मुक्तिपूर्वकम् उदितम्, उक्तमित्यर्थः ।। श्लो. ९ (व्या) संसारात्तरतीति। संसारादुत्तरतीत्यर्थः । श्लो. ११-१६ (अ) चित्तसंयम इति । चित्तं संयमयति इति चित्तसंयमः। उपायविशेषणमेतत् । अथवा चित्तसंयमे इति च्छेदः । निमित्तात् कर्मयोगे सप्तमी। चित्तसंयमार्थमित्यर्थः । (व्या) कालस्य इति । कालविधायकस्य नाडीकोशस्य अष्टाङ्गयोगशास्त्रप्रसिद्धस्य स्थैर्ये सतीत्यर्थः। अथवा अपि ‘कायस्थैर्ये’ इति विवक्षितम् ? श्लो. १९ (व्या) न किंचिदपि स्पृहयते इति । किशब्दा र्थस्य ईप्सिततमत्वविवक्षया कर्मसंज्ञा परा सती पूर्वी ‘स्पृहेरी प्सितः’ (PA, I, iv, 36) इति प्राप्तां संप्रदानसंज्ञां बाधते इति बोध्यम् । न कमपि विषयमतिथयेन इच्छति आत्मार्थमिति व्यज्यते, आत्मनेपदस्वारस्यात् । तथा च लोकसंग्रहार्थं कस्मै चित् स्पृहाम् ईषत् करोति इति तात्पर्यम् ॥ श्लो. २१-२४ (अ) व्यतिरेक इति । ‘अस्य स्वरूपस्य’ इत्यादिः। (ब्या) उपेयप्राप्ताविति योगपदार्थविवरणमिव । अपि ना मेदं सूचयति-यत् चतुर्विशे पद्ये चतुर्थपादम् ‘योगेऽनिविण्ण
षष्ठोऽध्यायः its चेतसा’ इत्याचार्यः प्रायशः पपाठ इति ? कुतः? एतच्छ्लोका वतरणिकायामाचार्यः ‘एषु श्लोकेषु बहुतरविशेषणैः ब्रह्मस्वरूपं निरूप्यते’ इत्युक्ततया तदनुसारेण ‘तं विद्यात्’ ‘स योक्तव्य. इत्यनयोः क्रमशः ‘तमात्मानं विद्यात्’ ‘स आत्मा अभ्यसनीयः’ इत्यर्थस्य वर्णनीयत्वात्, तत्र च ‘योगः’ इति प्रथमान्तपाठस्य सार्वत्रिकस्य न सम्यगाञ्जस्यं भवतीति भाति । योगे इत्यस्य योगे संबन्धे, अर्थात् प्रकरणाच्च चिदात्मनः संबन्धे प्राप्तौ सत्यामित्यर्थः । अथ वा यदि प्रथमान्तपाठे आग्रहः तदा परचिदा स्मनो योगगम्यत्वात् योगत्वोपचार इत्यादिरीत्या नेयम् । योगेनिर्विण्णचेतसा इति मूले अनिविण्णचेतसा इति पदविभागमाश्रित्य तदर्थम् ‘अनिविण्णम् उपेयप्राप्ती’ इत्यादि. ग्रन्थेन वर्णयित्वा, निविण्णचेतसा’ इति पदविभागमाश्रित्यापि तत्तात्पर्यमाह-दृढ रमित्यादिना ॥ 2 श्लो. २५-२६ (अ) कामानां त्यागे उपाय इति । आचा यस्य वचनमिदमेवं संसू वयतीव, यत् गीतायां पंचविंशे पद्ये द्वितीयपादे ‘कामांस्त्यक्तुम्’ इति आचार्यः पपाठ इति । परन्तु सार्वत्रिकः रामकण्ठीयश्च पाठः ‘कामांस्त्यक्त्वा ’ इत्येव । (व्या) त्यागग्रहणादिकं न चिन्तयेत् इति । एतदादिक संकल्पे न कुर्यादित्यर्थः । तथा च संकल्पप्रभवाः कामा नोप स्यन्ते इति तात्पर्यम् ॥ एक श्लो. २७-२९ (अ) न चेति । न चैवेत्यन्वयः । प्राप्य.. मिति । प्राप्तव्यमित्यर्थः । 116 श्रीमद्भगवद्गीता गौतार्थसंग्रहीपैता (व्या) अवलम्बते इति । अवलम्बेतेति यावत् । कष्टयोगादिनेति । कष्टसाध्येन निरीश्वरेण योगादिनेत्यर्थः। वाति च (श्लो ४९,अवतारिकायाम् ) ‘नच निरीश्वरं कष्ट योगमावं संसिद्धिदम्’ इति । श्लो. ३० (व्या) आत्मनीति सप्तम्यर्थाधिकरणत्वस्य ग्राह्यतायां धात्वर्थे एकीकरणे चान्वयः । ग्राह्यतेति । तद्ग्राहते. त्यर्थः । तत्पदवाच्य आत्मा ॥ श्लो. ३१ (व्या) भावांश्च मयि पश्यति इति । य इति पूर्ववाक्यादनुषज्यते। तत् तेषामिति । तस्मात् कारणात् तेषां भावानामित्यर्थः । श्लो. ३२ (व्या) न लिप्यते इति । एतेन इदं ज्ञायते यत् प्रकृतगीताश्लोके चतुर्थपादं स योगी नैव लिप्यते इति पपाठेव, न तु ‘स योगी मयि वर्तते’ इति यश्च पाठः सार्वत्रिकः रामकण्ठीयश्च । अथवा मयि वर्तते इत्यस्याहंविमर्शात्मवि निर्लेपे चिदात्ममात्रे प्रतिष्ठितो भवति इत्यर्थं मनसि कृत्वा तादशप्रतिष्ठायाः फलं दर्शयति - नैव लिप्यते इति ॥ _श्लो. ३४ (मू) साम्येनेति । साम्यं च समदर्शनमेव । तृती यार्थ. अभेदः योगेऽन्वेति। (व्या) योऽयमित्यादि, परोक्षायमाणमित्यादि। यद्यपि यो ऽयमिति मूलेन साम्याभिन्नो योगो दशितः । तथापि ‘साम्यं च ब्रह्मैव’ इति तब ब्रह्मात्म साम्ययोगस्यैव निर्देशः, अर्थात् षष्ठोऽध्यायः 117 ब्रह्मण एव निर्देश इति पश्यतः आचार्यस्यैवं विलिखनसंगति रिति भाति ।। श्लो. ३७ (व्या) उपायान् … संश्रित्येति । तथा च मूले उपायतः इति पञ्चम्यास्ततिः; पञ्चमी च ल्यब्लोपे कर्मणि च बोध्या इत्यभिप्रायः॥ श्लो. ३८-४१ (व्या) यदि इति । अस्य च व हीयते इत्यनेनान्वयः। परलोकबाधाय इति । -बाधायाम् इति विवक्षितमिव । सति सप्तमी। अप्रतिष्ठितस्य कृते परलोकस्यापि बाधितत्वा दिति अभिप्रायः ॥ श्लो. ५-४७ (व्या) जिज्ञासुरपि इति मूले अपिः एवकार्थे । तथा च ‘बलवानेव जयति’ इत्यादौ बलमात्रस्य जयहेतुत्वमि वात्रापि जिज्ञासामात्रस्य शब्दब्रह्मातिवर्तन हेतुत्वमिति दर्शयति ख्याख्यायो योगजिज्ञासामात्रेणैवेति । (व्या) शब्दब्रह्मेति मूलस्य बृंहति वर्धयति - बृहि वृद्धी इति धातुः भ्वादिः अत्र अन्तर्भावितण्यर्थः - इति ब्रह्म; शब्द स्य मन्त्रात्मकस्य वर्धक इति व्युत्पत्त्या मन्त्र शब्दवर्धको व्यापा रविशेषो मन्त्रस्वाध्यायरूप इत्यर्थः । तदाह व्याख्याया- मन्त्र स्वाध्यायादिरूपमिति । आदिना कर्मानुष्ठानसंग्रहः; स्वाध्याय स्यास्वीकारे तत्प्रयुक्तधर्मानुष्ठावस्याप्यसंग्रहात् ॥ 18 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्लो. ४९ युक्ततम इति मलम् । युक्तानां मध्ये उत्तम इति तदर्थः । तस्योत्तमत्वं च तदीययोगस्योतमत्वाधीनम् । उत्तमोतमो योगश्च परमेश्वरसमावेशरूपः। तथा च फलितार्थ माह व्याख्यायां - परमेश्वरसमाविष्ट इति । सेश्वरस्य ज्ञानस्य, सेश्वरस्य ज्ञानयोगस्येत्यर्थः । तथा च अवतरणिकया एक वाक्यता॥
- संग्रहश्लोके . भगवन्नामेति । एवमेव पठन्ति सर्वा मातृकाः । महाभारतमातृकास्वपि कासुचित् इदं पद्यम् एत दध्यायान्ते संग्रहश्लोकत्वेन समुद्धतमिति शोधितप्रकाशितमहा भारतपुस्तके पश्यामः । तत्रापि भगवन्नामेत्येव पाठः । परन्तु प्रकृतं त भगवन्नामप्रकरणम् ; अपि तु परमेश्वरसमावेशयोग प्रकरणम् । एवं च कच्चिदाचार्येण भगवन्मानसंपत्तिमात्रादि त्येव लिलेखिषितम् ? भगवति मानः चित्तसमन्नतिः, या च ‘यत्रोपरमते चित्तम्’ इत्यादिना ‘आत्मन्येव वशं नयेत्’ इत्यन्तेन भागेन प्रकृताध्यायहृदयभूतेनोपदिष्टा, तस्याः संपत्तिमात्रात् सर्वं सुख मुत्तममवाप्यते योगिना इति संग्रहश्लोकार्थः । अथ वा भगवन्नामेत्येव पाठः । भगवान् इति नाम आख्या यस्य तस्य प्राप्तिः, भगवन्नाम्नी या प्राप्तिः इति वार्थः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां षष्ठोऽध्यायः ।।