पञ्चमोऽध्यायः अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । Pii यः श्रेयानेतयोरेकस्तं मे ब्रूहि विनिश्चितम् ॥ १॥ संन्यासमिति । ‘संन्यासः प्रधानम्, पुनः योगः ?’ इति ससंशयस्य प्रवनः ॥१॥ भीमगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥२॥ संन्यास इति । संन्यासः कर्म [योगः] च, नात्र एकोऽभि हितः, अपि तु उभौ । संमिलितौ [तौ] निश्श्रेयसं दत्तः । योगेन विना संन्यासो न संभवतीति योगस्य विशेषः ॥ २॥ शेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धाद्विमुच्यते ॥ ३॥ ज्ञेय इति । अतश्च स एव सार्वकालिकः संन्यासी येन मनसो अभिलाषप्रद्वेषौ संन्यस्तौ। यतोऽस्य द्वन्द्वेभ्यः क्रोधमो. हादिभ्यो निष्क्रान्ता धीः, स सुखं प्रमुच्यत एव ॥ ३ ॥ सांख्ययोगी पृथग्वाला प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ ४॥
- BK omit : श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यत्सांख्यैः प्राप्यते स्थानं तद्योगैरनुगम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५॥ सांख्ययोगाविति । यत्साख्यैरिति । इदं सांख्य, अयं च योगः इति न भेदः । एतौ हि नित्यसंबद्धौ। ज्ञानं न योगेन विना, योगोऽपि न तेन विनेति । अत एकत्वमनयोः ॥ ४-५ ॥ संन्यासस्त महाबाहो दुःखमाप्तुमयोगतः। योगयुक्तो मुनिब्रह्म न चिरेणाधिगच्छति ॥ ६॥ संन्यासस्त्विति । तु शब्दः अवधारणे भिन्नक्रमः । योग रहितस्य संन्यासमाप्तुं दुःखमेव ; प्राङ्नीत्या कर्मणां दुःखसंन्या सत्वात् । योगिभिस्तु सुलभमेवैतत् इत्युक्तं प्राक् ॥ ६॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥ नैव किंचित्करोमीति युक्तो मन्येत तच्चवित् । पश्यञ्छृण्वन् स्पृशअिघ्रन अश्नन् गच्छन् स्वपञ्छ्वसन् ॥८॥ प्रलपन् विसृजन् गृह्णन्नुन्मिपन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९॥ ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः। * लिप्यते स न पापेन पद्मपत्रमिवांमसा ॥ १० ॥ कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति संगं त्यक्त्वात्मसिद्धये ॥ ११ ॥
- S सांख्यज्ञानम् 2, S,B,N दुःसंन्यासत्वात् पञ्चमोऽध्यायः 89 योगयुक्त इत्यादि आत्मसिद्धये इत्यन्तम् । सर्वभूता नामात्मभूतः आत्मा यस्य, स सर्वमपि कुर्वाणो न लिप्यते, अकरणप्रतिषेधारूढत्वात्। अत एव दर्शवादीनि कुर्वन्नपि असौ एवं धारयति, प्रतिपत्तिदाढर्येन निश्चिनुते ‘चक्षुरादीनामिन्द्रि याणां यदि स्वविषयेषु प्रवृत्तिः, मप किमायातम् ? न हि अन्यस्य कृतेनापरस्य लेपः’ इति । तदेव ब्रह्मणि कर्मणी समर्पणम् । अव चिह्नम् अस्य गतसङ्गता। अतो न लिप्यते। योगिनश्च केवलैः सङ्गरहितैः परस्परानपेक्षिभिश्च कायादिभिः कुर्वन्ति कर्माणि, सङ्गाभावात् ॥ ७-११ ॥ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥ युक्त इति । नैष्ठिकीम् अपुनरावर्तिनीम् ॥ १२ ॥ सर्वकर्माणि मनसा सन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ १३ ॥ सर्वेति । यथा वेश्मान्तर्गतस्य पुंसो न गृहगतैर्जीर्णत्वा दिभिः योगः, एवं मम चक्षुरादिच्छिद्रगवाक्षनवकालंकृतदेहगेह गतस्य न तद्धर्मयोगः ॥ १३॥ यतः– न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोग स्वभावस्तु प्रवर्तते ॥ १४॥ 1.5 अन्यस्य कृतेनान्यस्य; B अन्यकृतेन परस्य90 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपैता त कर्तृत्वमिति । एष आत्मा न किंचित् कस्यचित् करोति ; प्रवृत्तिस्तु अस्य स्वभावमानं, न फलेप्सया। तथाहि संवेदनात्मनो भगवतः प्रकाशानन्दस्वातन्त्र्यपरमार्थस्वभावस्य स्वभावमात्राक्षिप्तसमस्तसृष्टिस्थितिसंहृतिप्रबन्धस्य स्वस्वभा बान्न मनागप्यपायो जातुचित् इति न कर्ववस्था, अतिरिक्त कर्तृत्वं किंचित् । तदभावात् कानि कर्माणि? तदसत्वे कस्य खम्? को वा कर्मफलसंबन्धः? कर्म अन क्रिया, कर्मफलमपि! च क्रियाफलमेव । तथाहि- दण्डचक्रपरिवर्तनादिक्रिया बान्या। न च सा घटनिष्पादिता, संविदन्तत्तित्त्वात् । अस्मा अचेतनः स्वतन्त्रः परमेश्वर एव तथा तथा भाति इति न तद्वय तिरिक्त क्रिया तत्फलादिकमिति सिद्धान्तः ॥ १४ ॥ अत एव क्रियातत्फलयोरभावे विधिफलस्यापि नादष्ट कृतता काचित् इत्यर्धेन अभिधाय, अर्धान्तरेण संसारिणः प्रति वत्समर्थनं कर्तुमाह नादत्ते कस्य चित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥ नादत्ते इति । पापादीनि नैतत्कृतानि किं तु निजेन अज्ञानेन कृतानि, शङ्कयेव अमृते विषम् ॥ १५॥ 1.S क्रियाफलमपि च कर्म 2. K तस्मात्; Bomits अस्मात् - - सिद्धान्तः 3. B omits पापादीनि - - विषम् पञ्चमोऽध्यायः १५ अत एव ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत् स्वयम् (१) ॥ १६ ॥ ज्ञानेन विति । ज्ञानेन तु अज्ञाने नाशिते ज्ञानस्य स्व परप्रकाशकत्वं स्वतःसिद्धम् -यथा आदित्यस्य तमसि नष्टे, विनिवतितायो2 हि शङ्कायाम् अमृतं अमृतकार्य स्वयमेव करोति ॥१६॥ एतच्च तद्गतबुद्धि मनसा त्यक्तान्यव्यापाराणां घटत इत्याशयं प्रकटयितुमाह - तिबुद्धयस्तदात्मानः तनिष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्ति ज्ञाननिधूतकल्मषाः ॥ १७ ॥ यत एवं स्वभावस्तु प्रवर्तते इत्यतो ध्वस्ताज्ञानानामित्थं स्थितिरित्याह
- K. स्वप्रकाशत्वं 2. Bनिवतितायो 3. K तच्च 4. SB -तुमुक्तम्
- Under this verse Nadds. तबुद्धय इति । अनैतद-" धिकम् । ‘स्मरन्तोऽपि मुहुस्त्वेतत् स्पृशन्तोऽपि न कर्मणि । सक्ता अपि न सज्जन्ति पते रविकरा इव ॥ इति This verse is also found in some of the Sārada MSS and in the Kashmir version of the Mahābhā rata. See Belvalkar’s Critical Ed. श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८॥ विद्येति । तथा च तेषां योगिनी ब्राह्मणे न ईदृशी बुद्धिः ‘अस्य शुश्रूषादिना अहं पुण्यवान् भविष्यामि’ इत्यादि; गवि न ‘पावनी इयम्’ इत्यादि ; हस्तिनि न अर्थादिधीः; शुनि अपवित्रपापकारितादिनिश्चयः; श्वपाके च न पापापवित्रादि धिषणा। अत एव ‘समं पश्यन्ति’ इति, न तु ‘व्यवहरन्ति’ इति । तदुक्तम् चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् । अतश्च तन्मयं सर्व भावयन् भवजिज्जनः ॥ इति । (VB, 100) अत्रापि भावयन्निति ज्ञानस्यैवेयं धारा उक्ता ॥१८॥ तस्य च इत्थं संभावना इत्याह न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ १९ ॥ न प्रहृष्येदिति। एतस्य समशिनः शत्रुमित्रादिविभा गोऽपि व्यवहारमात्र एव, नान्तः, ब्रह्मनिष्ठत्वात् ॥ १९ ॥ बाह्यस्पर्शष्वसत्तात्मा विन्दत्यात्मनि यः सुखम्। स ब्रह्म योगयुक्तात्मा सुखमव्ययमश्नुते ॥ २० ॥
- N अनीदृशी 2. K ययुक्तम् 3. BN भवभिज्जनः पञ्चमोऽध्यायः बाह्यस्पर्श विषयात्मनि सक्तिर्यस्य नास्ति स ह्येवं मन्यते इत्याह ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २१ ॥ ये हीति । स ह्येवं भावयति- ‘बाह्यविषयजा भोगाः। सर्वे दुःख कारणरूपाः; तथाविधा अपि अनित्याः ॥ २१॥ शक्नोतीहैव या सोढुं प्राक् शरीरविमोचनात् । कामक्रोधोद्भवं वेगं स योगी स सुखी मतः ॥ २२ ॥ शक्नोतीति । न चैतदुःशकम् ; शरीरान्तकालं यावत् क्रोधकामजो वेगः, क्षणमावं, यदि सह्यते तदा आत्यन्तिकी सुखप्राप्तिः ॥ २२ ॥ योऽन्तःसुखोऽन्तरारामस्तथान्तज्योतिरेव यः । स पार्थ परमं योगं ब्रह्मभूतोऽधिगच्छति ॥ २३ ॥ योऽन्तरिति। अन्तः तस्यान्तरेव बाह्यानपेक्षि सुखं, तवैव रमते, तत्र चास्य प्रकाशः; व्यवहारे तु मूढत्वमिव । उक्तं च ‘जुड इव विचरेदवादमतिः’ इति । (PS, 71) ॥ २३ ॥ लभन्ते ब्रह्म निर्वाणमृषयः क्षीणकल्मषाः। छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥ २४ ॥
- BN बाह्यविषयभोगाः । 2. B omits बाह्यानपेक्षि to व्यवहारे तु। 94 श्रीमगवद्गीता गीतार्थसंग्रहोपेता लभन्ते इति । एतच्च तैः प्राप्यं, येषा भेदसंशयरूपौ ग्रन्थी विनष्टौ ॥ २४ ॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । सर्वतो ब्रह्म निर्वाणं वर्तते विदितात्मनाम् ॥ २५ ॥ कामेति । तेषां सर्वतः सर्वास्ववस्थासु ब्रह्मसत्ता पारमा थिकी, न निरोधकालमपेक्षते ॥ २५ ॥ स्पर्शान् कृत्वा बहियांश्चक्षुश्चैवान्तरे ध्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २६ ॥ यतेन्द्रियमनोबुद्धिमुनिर्मोक्षपरायणः। कि विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २७॥ स्पर्शानिति । यतेन्द्रियेति । बाह्यस्पर्शान् बहिः कृत्वा, अनङ्गीकृत्य, ध्रुवोः वामदक्षिणदृष्ट्योः क्रोधरागात्मकयोः अन्तरे तद्रहिते स्थानविशेषे चक्षुरुपलक्षितानि सर्वेन्द्रियाणि [कृत्वा] विधाय, प्राणापानौ धर्माधमौं चित्तवृत्त्यभ्यन्त से साम्येनावस्थाप्य आसीत । नसते कौटिल्येन असाम्येन क्रोधादिवशात् व्यव हरति इति नासा चित्तवृत्तिः। एतदेव बाह्ये। एवंविधो योगी सर्वव्यवहारान् वर्तयन्नपि मुक्त एव ॥ २६-२७ ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२८॥ ॥ इति श्रीमद्भगवद्गीतायां पञ्चमोऽध्यायः ॥ 1. K omits atteita ‘पञ्चमोऽध्यायः भोक्तारमिति । यज्ञफलेषु भोक्ता त्यक्तफलत्वात् । एवं तपस्सु । ईदृशं भगवत्तत्त्वं विदन् यथातथावस्थितोऽपि मुच्यते इति ॥ २८॥ ॥ शिवम् ॥ अत्रायं संग्रहश्लोकः सर्वाण्येवाव भूतानि समत्वेनानुपश्यतः । जडवद्व्यवहारोऽपि मोक्षायैवावकल्पते ॥ ॥इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे पञ्चमोऽध्यायः ॥ ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ६ (व्या) संन्यासमाप्तुं दुःखमेवेति । अत्रेदं विचा र्यते- संन्यासस्त्विति प्रथमान्तसंन्यासपदक एव सार्वत्रिको मूल पाठः । परन्तु संन्यासमाप्तुमिति विलिखता आचार्येण अपि नाम द्वितीयार्थे प्रथमा छान्दसी इति सूचितम् ? अथ स्याद्वा आचार्यसमादृतो मूलपाठः ‘संन्यासं तु महाबाहो’ इत्येव? स्याद्वा संन्यास आप्तुं दुःखमेवेत्येव लिलेखिषितमाचार्येण, यश्च मार्गों व्याख्यावन्तराणामपि बहूनाम् ? सर्ववापि पक्षे श्रीभास्करा चार्योपर्दाशतः संन्यासपदस्य यथाश्रुतार्थकत्वे प्रथमान्तत्वस्य
- B.N.K(D) भोक्तात्यन्तफलत्वात् 2. S यथा तथा विमुच्यते 3. K(D) जनवत् 96 श्रीमद्भगवघ्गीता गीतार्थसंग्रहोपेता साधुत्वानुपपत्तेः तद्भिया तत्सदस्य अर्श आद्य जन्तत्वं परिकल्प्य संन्यास्यर्थकत्वमङ्गीकार्यमिति मार्गो व तथा हृदयङ्गम इति सूच्यत इवाचार्येण । प्राङ्नीत्या, प्रागुक्तयुक्तथा ॥ श्लो. ७-११ (व्या) अकरणप्रतिषेधारूढत्वात् इति । क्रियते अधिक्रियते अनेन इति करणं विधिः; प्रतिषिध्यते अनेनेति प्रतिषेधः; तावारूढा, तयोरधिकृतः अज्ञानी; स न भवतीति अकरणप्रतिषेधारूढः; तस्य भावस्तस्मादित्यर्थोऽभिमत इव भाति । मातृकासु सर्वासु न लिप्यते करणप्रतिषेधारूढत्वादिति वर्तते । तत्र करणेत्यतः पूर्वम् अकारः प्रश्लिष्ट इव । अथ वा व प्रश्लिष्टः । करणे प्रतिषेधे च अरूढत्वात् अस्थिरत्वात् अनाग्रहात् इत्यर्थः ॥ श्लो. १४ (व्या) नान्येति । घटादिरूपकार्यादिति शेषः । न च सा घटनिष्पादितेति । न चासौ घटनिष्पादयिता इति विव क्षितमिव । ‘अन्यो घटादिरूपकार्यात्’ इत्यनुषज्यते ॥ श्लो. १६ (व्या) स्वयमेव करोति इति । एतेनेदं सूचि तमिव यत् प्रायश आचार्यः प्रकृतगीताश्लोकचतुर्थपादं ‘प्रकाश यति तत् स्वयम्। इति पपाठ इति । परन्तु ‘प्रकाशयति तत् परम्’ इत्येव सार्वत्रिकः पाठः। अथ वा परमित्यस्यैव स्वय मित्यर्थवर्णनमिति वक्तव्यम् । स्वयमेव करोतीत्यस्य स्वपरप्रकाश कत्वमित्यनेन पूर्वतनेवाप्यन्वयः ॥ पञ्चमोऽध्यायः 99 श्लो. १८ (व्या) समं पश्यन्ति इति न तु व्यवहरन्ति इति । अनेन मूले समदर्शिन इत्यत्र सममिति दर्शनक्रियाविशेषणमिति सूचितम् ॥ श्लो. २१ (व्या) एवं भावयतीति । तथा च मूले आद्य पादत्रयं बुधस्य ज्ञानाकाराभिलापकमिति भावः । तथाविधा अपीति । ‘अतथाविधा अपि’ इत्येव विवक्षितमिव । अदु.ख. कारणरूपा अपीति तदर्थः । अथ वा यदि स्थितस्य गतिः कल्पनीया तदा - ‘तथाविधत्वं च संस्पर्शजन्यत्वम् ; तदेव दुःख कारणत्वेन निर्दिष्टम् । अपि, अपि चेत्यर्थः’ इत्येवं रीत्या कथंचित् नेयम् ॥ श्लो. २२ (व्या) न चैतदुःशकमित्यादि । अत्र पङ्क्तय स्त्रुटिता इव । न हि क्षणमातसाध्योऽतिसुशकः पन्था उपदिश्यते भगवता । अतोऽत्रेदं विवक्षितमिव - ‘न चेतत् सुशकम् ; दुःश कोऽयं कामक्रोधादिजो वेगः शरीरान्तकालं यावत्- न क्षण मात्रम् - सह्यते यदि, तदा आत्यन्तिकी सुखप्राप्तिः।’ इति । अवच संदर्भ ‘च क्षणमात्रम्, किन्तु प्राक् शरीरविमोचनात्, आ देहपातात्’ इति श्रीभास्कराचार्यव्याख्यानम् ; तथा ‘अयं च … कष्टतमो दोषः - - - दुनिवारश्चेति तत्प रिहारे यत्नाधिक्यं कर्तव्यमित्याह … आमरणात् -.. इति श्रीशङ्कराचार्यव्याख्यानं चानुसंधेयम् ।। पीता-7 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता श्लो. २५ (व्या) सर्वास्ववस्थासु ब्रह्मसत्ता पारमार्थिकी इत्यादि । अनेन सर्वतो ब्रह्म निर्वागं वर्तते इति मूलं व्याख्यात मिव । तथा हि- सर्वतः, सर्वदा इत्यर्थः; सार्वविभक्तिकस्त सिः। वर्तते इति धात्वर्थो वर्तनं सत्ता, सा ब्रह्मेति प्रथमान्त पदार्थब्रह्मकर्तृका। सत्तायो ब्रह्मकर्तृकत्वं च ब्रह्मात्मकत्वमेव । निर्वाणमिति क्रियाविशेषणस्यार्थः सत्तायमभेदेनान्वेति ; निर्वाण त्वं च पारमार्थिकत्वम् । कथम्? वा गतिगन्धनयोरित्यदादे र्धातो वे क्तप्रत्यये निष्पन्नस्य वातशब्दस्य गत्यर्थकतया, निर्गतं वातात - ‘निर्वाणोऽवाते (PA, VIII, ii, 50) इति तकारस्य णत्वे- इति व्युत्सत्या निष्पन्नस्य निर्वाणशब्दस्य सर्वगतिशून्या र्थकत्वात् । एवं च सर्वगमनागमनशून्या अनागमापायिनी पार माथिकापरपर्याया ब्रह्मात्मिका सत्ता इत्यर्थलाभः इति ॥ वर्तते इति लट्प्रयोगस्वारस्यं दर्शयति - न निरोधकालमपे क्षते इति । चित्तवृत्तिनिरोधकालं नापेक्षते इत्यर्थः । अष्टांग योगिनो यदा चित्तवृत्तिनिरोधः तदा, तदैव द्रष्टुः स्वरूपे ऽवस्थानम् । यतेस्तु वर्तते सास्ववस्थासु ब्रह्मसत्ता इति विशेषः । अथ वा निरोधो नाशमाह । स च शरीरस्येत्यादिः । तथा च शरीरनाशकालं मरणकालं नापेक्षते इत्यर्थः। ताकि कादिमते ‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तद नन्तरापायादपवर्ग.’ (न्या. सू. II, i, 2) इति रीत्या दुःखात्म कशरीरापायकालमपेक्षतेऽपवर्गः । यतिस्तु अब ब्रह्म समश्नुते इति हृदयम् ॥ 99 पञ्चमोऽधायः श्लो. २६-२७ (व्या) एतदेव बाह्ये इति । एतत् व्युत्प त्तिप्रदर्शनं बाह्यानां भौतिकानां भ्रूपाणापानवायुनासानां विष. येऽपि संभवतीत्यर्थः । अथवा एते एव बाह्ये इत्येव लिलेखिषि. तम्। क्रोधरागौ धौधौ इति द्विकद्वये एते एव बाह्ये, न तु स्पर्शादीनि, यतः तानि भगवत्याः सविद आभासरूपाणि । तेषां क्रोधादिसंबन्धादेव, न वस्तुगत्या, बाह्यत्वमिति तात्पर्यम् ।। श्लो. २८ (व्या) यज्ञफलेषु भोक्ता इति । यज्ञेषु फलभो क्तेति यावत् । यतो वक्ष्यत्यनुपदमेव ‘एवं तपस्सु’ इति । भोक्ता, पालयिता। कथमित्याह - त्यक्तफलत्वात् इति । त्यक्तं, दत्तं, वितीणं फलं, कर्मफलं येन तस्य भावस्तस्मादिति विग्रहः । फलदातृत्वादित्यर्थः । यद्वा भोक्ता, अनुभविता, अनुभवितृत्वेव मतः। कुतः ? त्यक्तफलत्वात्, त्यक्तं समर्पितं फलं यस्मै तस्य भावस्तस्मात् । ‘यत् करोषि … यज्जुहोषि .. यत्तपस्यसि …तत् कुरुष्व मदर्पणम्इति (IX, 29) वक्ष्यमाणोपदेशानु. सारेण संन्यासिना भगवते सर्वसमर्पणात् इति भावः । अथ वा त्यक्तफलत्वात् इत्यस्य विदुष इत्यादिः । तस्यैव प्रकरणात् । उक्तदिशा विदुषा फलस्य त्यक्तत्वात् भोक्ता परमात्मैव मत इति भावः। एवं तपस्सु इति । तपःफलविषयेऽप्येवमेवार्थो बोध्य इत्यर्थः ॥ संग्रहश्लोके - मोक्षायैवावकल्पते इत्यत्र ‘भक्तिज्ञानाय कल्पते’ इत्यादाविव, ‘क्लपि संपद्यमाने च’ (PA, II, iii, 13, vārttika 2) इति चतुर्थी । ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या पञ्चमोऽध्यायः ॥