०४

चतुर्थोऽध्यायः श्रीभगवानुवाच एवं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥१॥ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनैव महता योगो नष्टः परन्तप ॥२॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्य ह्येतदुत्तमम् ॥३॥ एवमित्यादि उत्तमम् इत्यन्तम् । एतच्च गुरुपरम्परा प्राप्तमपि अद्यत्वे नष्टमित्यनेन भगवान् अस्य ज्ञानस्य दुर्ल भतां गौरवं च प्रदर्शयति । भक्तोऽसि मे सखा चेति । त्वं भक्तः मत्परमः सखा च। चशब्देन अन्वाचय उच्यते । तेन यथा भिक्षाटने भिक्षायां प्राधान्यं गवानयने त्वप्राधान्यम् एवं भक्तिरव गुरुं प्रति प्रधानं न सखित्वमपीति तात्पर्यार्थः ॥ १-३॥ अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेव विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥ अपरमिति । अर्जुनो भगवत्स्वरूपं जानन्नपि लोके स्फुटी कतुं पृच्छति ॥४॥ 1.5-परम्परायातमपि; K -परम्परया प्राप्तमपि 2.S,N अद्यत्वे तन्नष्ट श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ ५॥ अजोऽपि सन्नन्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया ॥६॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मांशं सृजाम्यहम् ॥ ७॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।। धर्मसंस्थापनार्थाय संभवामि युगे युगे। ८॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९॥ बहूनि इत्यादि अर्जुन इत्यन्तम् । श्रीभगवान् किल पूर्णषाड्गुण्यत्वात् शरीरसंपर्कमावरहितोऽपि स्थितिकारित्वात कारुणिकतया आत्मांशं सृजति । आत्मा पूर्णषाड्गुण्यः, अंशः उपकारकत्वेन अप्रधानभूतो यत्र तत् आत्माशं शरीरं गृह्णाति इत्यर्थः । अत एवास्य जन्म दिव्यम्, यत आत्ममायया योग प्रज्ञया स्वस्वातन्त्र्यशक्त्या आरब्धम्, न कर्मभिः । कर्मापि दिव्यम् फलदानासमर्थत्वात् । यश्चैवमेतत्तत्त्वं वेत्ति, आत्म. न्यप्येवमेव मन्यते सोऽवश्यं भगवद्वासुदेवतत्त्वं जानाति ।५९॥ PS वीतरागभयक्रोधा मन्मया मव्यपाश्रयाः । बहवो ज्ञानतपसा पूता मद्भावमागताः॥१०॥30 1. BN omita 2. B, omits स्व 69 चनुर्थोऽध्यायः बीतेति । तथा चैवं विदन्तो मन्मयत्वात् परिपूर्णच्छत्वात् क्रोधादिरहिताः निष्फलं कर्म करणीयं कुर्वाणाः बहवो मत्स्व रूपमवाप्ताः ॥१०॥ यतः ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥ कांक्षन्तः कर्मणां सिद्धि यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ ये यथेति । कांक्षन्त इति । ये यथैव बुद्धया मामाश्रयन्ते तान् प्रति तदेव स्वरूपमहं गृह्णन् ताननुगृह्णामि । एवमेव मदीयं मार्ग मन्मया अमन्मयाश्च सर्व एवानुवर्तन्ते । न हि ज्योति ष्टोमादिरन्यो मार्गः, मदीयैव सा तथेच्छा । वपते हि-चातु वयं मया सृष्टमिति। _अन्यस्तु आह- लिङर्थे लट् ; यथा ‘अतिराने षोडशि गृह्णन्ति’ इत्यत्र2 गृह्णीयु’ इत्यर्थः, एवमिहापि अनुवर्तन्ते अनुवर्तेरन् इति । मानुषे एव लोके भोगापवर्गलक्षणा सिद्धिः नान्यत्रेति ॥ ११-१२॥ चातुर्वण्यं मया सृष्टं गुणकर्मविभागतः । तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ॥ १३ ॥ 1. S,B,K ययैव 2. Somits इत्यत्र 3.Nomits अनुवर्तन्ते10 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता न मां कर्माणि लिम्पन्ति न मे कामः फलेष्वपि । - इति मां योऽभिजनाति कर्मभिर्न स बध्यते ॥ १४ || चातुर्वर्ण्यमिति। न मामिति। मम किल कथमाकाशकल्पस्य कर्मभिः लेपः? आकाशप्रतिमत्वं कामनाभावात् । इति’, ज्ञान प्रकारेण यो भगवन्तमेवाश्रयते सर्वत्र सर्वदा आनन्दघनं परमेश्वरमेव ‘न वासुदेवात्परमस्ति किंचित्’ इति रीत्या विमशति, तस्य किं कर्मभिः बन्धः? ॥ १३-१४ ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥ एवमिति । तस्मादनया बुद्धया पवित्रीकृत त्वमपि कर्माण्यवश्यं कर्तव्यानि कुरु ॥ १५ ॥ अथ उच्यतेऽकरणादेव सिद्धिरिति, तन्न । यतः किं कर्म किमकर्मेति कवयोऽप्यत्व मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥ कमणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥ कि कर्म इति । कर्मणो ह्यपि इति । कर्माकर्मणोविभागः दुष्परिज्ञानः । तथा च विहिते कर्मण्यपि मध्ये दुष्टं कर्मास्ति अग्निष्टोमे इव पशुवधः । विरुद्धेऽपि च कर्मणि शुभमस्ति कर्म ।

  1. S इत्यनेन 2. BN,K नीत्या 3. S,B,N तथा च (BN omit च) कर्मण्यपि (B-गोऽपि) चतुर्थोऽध्यायः तथाहि हिंस्रप्राणिवधे प्रजोपतापाभावः । अकरणेऽपि च शुभा शुभं कर्म अस्ति, वाङ्मनसकृतानां कर्मणामवश्यं भावात्2, तेषा ज्ञानमन्तरेण दुष्परिहरत्वात् । अतः कुशलैरपि गहनत्वात् कर्म व ज्ञायते ‘अनेन शुभकर्मणा शुभमस्माकं भविष्यति, अनेन च कर्मणामनारंभेण मोक्षो न (नो?) भविष्यति’ इति । तस्माद्वक्ष्य माणो विज्ञानवह्निरेव अवश्यं पकल शुभाशुभकर्मेन्धनप्लोषसमर्थः शरणत्वेनान्वेष्य इति भगवतोऽभिप्रायः ।। १६-१७ ॥ तमेव उद्बोधयितुमाह कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स चोक्तः कृत्स्नकर्मकृत् ॥ १८ ॥ कर्मणि इति । आत्मीयेषु कर्मसु यः अकर्तृत्वं पश्यति प्रशान्ततया; अकर्मसु च परकृतेषु आत्मकृतत्वं जानाति परि पूर्णोदितरूपत्वेन ; स एव सर्वस्य मध्ये बुद्धिमान् कात्स्येन साकल्येनासौ कर्म करोति अतोऽस्य केन कर्मणा फलं दीयताम इति उदितदशायाम् । प्रशान्तत्वे तु कृतस्नानि कर्माणि कृन्तति छिनत्ति । अतः सर्वमेव कर्म करोति, न किञ्चिद्वा करोति इत्युपनिषत् ॥१८॥
  2. BN यथा instead of तथा हि 2. S-श्यभावित्वात् ; K (D)-वित्वादिति 3. Sतेन
  3. After this, N adds the following long pass age which is also found in S in the margin only. with slight variations: सर्वस्मिन कर्मणि बेहेन्द्रियक्रियायां अकर्म स्वात्मनि निष्क्रियत्वं श्रोत्रादीनि शब्दादिषु वर्तन्ते वागादीनि वचनादानादौ, मम किमायातम्?’ इत्येवंलक्षणं यः [Contd, în p-72] श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अत एव tos यस्य सर्वे समारंभाः कामसंकल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥ यस्येति । कामेष काम्यमानेषु फलेषु संकल्पं विहाय क्रियमाणानि कथितकथयिष्यमाणस्वरूपे ज्ञानाग्नौ अनुप्रवि(व) श्य दह्यन्ते ॥ १९॥ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किंचित् करोति सः ॥ २०॥ [Contd. from p-71] पश्येत्; अकर्मणि च परैः प्रमातृभिः कृते कर्मणि पूजनादौ [स्वकीयं] कर्म क्रियां ‘एते कर्तारः सर्वेऽहमेव’ इति दृष्टया ‘पूजकरविभेदेन सदा पूजेति पूजनम्’ इति सिद्धभाषाप्रामाण्यात । स एव मनुष्येषु सामान्यजनेषु मध्ये बुद्धिमान, देहेन्द्रियादिष्वपि कर्तृत्वदर्शनात् आत्मनि निष्क्रियत्वदर्शनाच्च । स एव कृत्स्न कर्मकृत् कर्वन्तरेषु स्वरूपदृष्टयध्यवसायात् । ‘पूजनान्नास्ति मे तुष्टिः नास्ति खेदो हपूजनात् । पूजकरविभेदेन सदा पूजेति पूजनम् ॥’ इति सोमानन्दपादाः । मनु परकृते कर्मणि कथं स्वकीयकर्मदर्शनम् ? न ह्यन्यकृतभोजनन स्वकृत भोजनाधपगमः। तस्मात अकर्मणि च कर्म यः पश्येत इति कथमिति चेत? शानिन एवंविधानुसन्धानात् इति ब्रूमः । यतः निष्पन्ननिष्कम्पविज्ञानशालिनः प्रमे यान्तरप्रमावन्तरजाते बहुविधमनुसन्धानमस्ति । यथा ‘य एवं घटावीन्वेनिस एव पटादीन्’। एवं चैत्रमैनादिप्रमानन्तरविषयमनुसन्धानं ज्ञेयम् । अत एव वसिष्ठपादैरपि ‘पूजकरविभेदः’ इत्युपदिष्टम् । तस्मात् सुष्ठूक्तम् अकर्मणि बेति ॥ The whole passage seems to be an elaboration by way of elucidating what Ag. has already stated under IV, 18 73 चतुर्थोऽध्यायः निराशीयतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥ त्यक्त्वेति । निराशीरिति । अभिप्रवृत्तोऽपि आभि मुख्येन प्रवृत्तोऽपि । शरीरोपयोगि इन्द्रियव्यापारात्मकं कर्म शारीरं यत् मनोबुद्धिभ्यां न तथा अनुरञ्जितम् ॥ २०-२१ ॥ यहच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते ॥ २२ ॥ यदृच्छेति । कृत्वापि न निबध्यते। कर्मकर्तरि प्रयोगः । स्वयमेव हि आत्मानं बध्नाति फलवासनाकालुष्यमुपाददानः इत्यर्थ. । अन्यथा जडानां कर्मणां बन्धने स्वातन्त्र्यं न तथा हृदयंगमम् ॥ २२॥ गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायारभतः कर्म समग्रं प्रविलीयते ॥ २३ ॥ गतसंगस्येति । यज्ञायेति जातावेकवचनम् । यज्ञाः १६. माणलक्षणाः ।। २३॥ यज्ञायेत्युक्तम् तत्स्वरूपसामान्यं तावदाह ब्रह्मार्पणं ब्रह्महविब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४॥ ब्रह्मार्पणमिति । ब्रह्मणि अर्पणं, तत एव प्रवृत्तस्य पुन स्तत्रैव अनुप्रवेशनं यस्य तत् । ब्रह्म समग्रं विश्वात्माकं यदेतत्
  4. BN उपाववानः, गृह्णानः 2. Somits इत्यर्थः 74 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता हविः तत् ब्रह्मणि परमबोधे प्रशान्ते अग्नौं; ब्रह्मणा येन केन चित् कर्मणा, हुतं तद्दीप्त्यभिवृद्धये समर्पितम् इति ईदृशं ब्रह्म कर्मैव समाधिः यस्य योगिनः तेन ब्रह्मैव गन्तव्यं ज्ञेय नान्यत्। किञ्चित् ; अन्याभावात् । यदि वा तदर्थेन यदाक्षेपात् एवं संबन्धः- यत् खलु ब्रह्म स्वरूपेण यजमानेन ब्रह्माग्नौ ब्रह्महविर्तुतं ब्रह्मणि(णे१) ब्रह्म स्वभावदेवतोद्देशेन अर्पणं यस्य तत्; एवंभूतं यत् ब्रह्मकर्म तदेव समाधिः आत्मस्वरूप-लाभोपायत्वात् ; तेन ब्रह्मकर्म. समाधिना नान्यत् फलमवाप्यते अपि तु ब्रह्मैव इति । ‘ये यथा मां प्रपद्यन्ते’ इति निर्वाहितम् । मितस्वरूपीकृतमदात्मक यज्ञस्वभावा इति तादृशफलभागिन इत्यन्यत् । अपरिमितपरि पूर्णमदात्मकयज्ञस्वरूपवेदिनस्तु कथं परिमितफललवलोपटय. भागिनो भवेयुरिति तात्पर्यम् इति। अनेन श्लोकेन वक्ष्यमाणैश्च श्लोकैः परमं रहस्यमुप निबद्धम् । तच्चास्माभिर्मितबुद्धिभिरपि यथाबुद्धि यथागुम्निायं च विवृतम् । मुखसंप्रदायक्रममन्तरेण नैतन्नभश्चित्रमिव चित्त मुपारोहति इति व वयमुपालम्भनीयाः । अत्र कैश्चित् हविषः अग्नेः करणानां च स्रुगादीनां क्रिया याश्च ब्रह्म विशेषणत्वमित्युक्तम् ; तदुपेक्ष्यमेव । तेषा रहस्य. सप्रदायक्रमे अक्षुण्णत्वात् ॥ २४ ॥
  5. B नान्यदपि 2. Bomits स्वरूप 3. BK इत्युक्तम् 4. S अक्ष हविषः ………मिति कैश्चिदुक्तम् 5. S संप्रदाये चतुर्थोऽध्यायः देवमेवापरे यज्ञं योगिनः पर्युपासते। ये ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५॥ दैवमेवेति । अपरे दैवानि क्रीडनशीलानि! इन्द्रियाणि आश्रित्य यः स्थितो यज्ञो निजवि यग्रहणलक्षणः, तमेव परितः उपासते, आमूलाद्विमृशन्ते, स्वात्मलाभं लभन्ते । अत एव ते योगिनः सर्वावस्थासु सततमेव योगयुक्तत्वात् । नित्ययोगे ह्यत्रायं मत्वर्थीयः [इनिः] । एनमेव च विषयग्रहणात्मकं यज्ञं यज्ञेनैव तेनैव [उक्त] लक्षणेन अपरे पूरयितुमशक्ये ब्रह्माग्नी जुह्वति इति कैश्चित् व्याख्यातम् । मुनेस्तु पौर्वापर्याविरुद्धत्वात् योऽर्थ [तस्य] हृदि स्थितः तं प्रकाशयामः । केचिद्योगयुक्ताः सन्तो देवं नानारूपेन्द्रादिदेव तोद्देशेनैव बाह्यद्रव्यमयं यज्ञमुपाचरन्ति । तं च क्रियमाणमेव यज्ञं [यज्ञेन] कर्तव्यमिदमित्येव बुद्धया फलानपेक्षया अपरे, दुष्पूरे ब्रह्माग्नौ अर्पयन्तीति द्रव्ययज्ञा अपि परं ब्रह्म यान्ति । यतो वक्ष्यते ‘सर्वेऽप्येते यज्ञविदा’ इति (गीता ४.३०) श्रुतिरपि ‘यज्ञेन यज्ञमयजन्त देवाः’ (ऋ. सं. x, 164, 50) इति ॥ २५ ॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीविषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥
  6. K कीडाशीलानि 2.S -पेक्षितया 3. B omits परम 76 श्रीमद्भगवद्गीता गीतार्थसंग्ग्रहोपेता श्रोत्रादीनीति । अन्ये तु संयमाग्निष्विन्द्रियाणीति । संयमः मनः, तस्य ये अग्नयः प्रतिपन्नभावभावनारूपा अभि 25 साषप्लोषका विस्फुलिङ्गाः तेषु इन्द्रियाणि अर्पयन्ति । अत एव * ते तपोयज्ञाः । इतरे ज्ञानपरिदीपितेषु फलदाहकेषु इन्द्रियाग्निषु विषयानर्पयन्ति; भेदवासनानिरासायैव भोगानभिलषन्ति इत्युपनिषत् । तथाच मयंव लव्यां प्रक्रियायामुक्तम् ‘न भोग्यं व्यतिरिक्तं हि भोक्तुस्त्वत्तो विभाव्यते । एष एव हि भोगो यत् तादात्म्यं भोक्तभोग्ययोः॥ इति स्पन्देऽपि2 ‘भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ।। इति ॥२६॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे। आत्मसंयमयोगानौ जुह्वति ज्ञानदीपिते ॥ २७ ॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥ सर्वाणीति । द्रव्ययज्ञा इति । ते च सर्वानिन्द्रियव्यापा न , मानसान [व्यापारान् ], मुखनासिकानिर्गमनमवाद्यधो. नयनादीन् वायबीयांश्च आत्मनो मनसः संयमहेतौ योगनाम्नि
  7. K भोगवासना
  8. B omits prèsfa and the succeeding bemi stitch.
  9. BN मनसश्च चतुर्थोऽध्यायः ऐकाग्रयवह्नौ सम्यग्ज्ञानपरिदीपिते’ पूरयितव्ये निवेशयन्ति । गृह्यमाणं विषयं संकल्प्यमानं वा तदेकाग्रतयैव परित्यक्तान्य व्यापारया बुद्धया गृह्णन्ति इति तात्पर्यम् । तदुक्तं शिवोप निषदि ‘भावेऽत्यक्ते निरुद्धा चित् नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यति भावना॥‘विज्ञान भैरव, 62) इति । एवं योगयज्ञाः व्याख्याताः ॥ २७-२८॥ एवं द्रव्ययज्ञः तपोयज्ञो योगयज्ञश्चोक्तलक्षणाः । स्वा. ध्यायज्ञानयज्ञाश्च ये ते संप्रति लक्ष्यन्ते अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । प्राणापानगती रुवा प्राणायामपरायणाः ॥ २९ ॥ अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ।। ३०॥ अपाने इति । अपरे इति । प्राणम् उदयमानं नादं प्रणवादिमात्रालयान्तम् अपाने अस्तं याति स्वानन्दान्तःप्रवेशा
  10. Bपरिबोधिते 2. BN तत्परित्यक्तान्य 3. SBN भावे त्यक्ते 4. B,N चेत् 5. K तन्मयभावेन 6. BN उदीयमानम् 7. S,Bomit नादम् श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता स्मनि जुह्वति इति पिण्डस्थैर्यात्मा स्वाध्यायः । शिष्यात्मना च क्यानय ग्रहणाय केचिदस्तं यान्तम् उदी(द)यमाने संवेश्य, तदेकी कारेण अपवर्गदानात् आत्मनि शिष्यात्मनि च शोधनबोधन प्रवेशनयोजनरूपे स्वाध्याययज्ञे स्वपरानन्दमये प्रतिष्ठितमनसः। अत एव पूरकः प्रथम मुक्तः, चरमं रेचकः । प्रथमेन च पादेव’ विषयभोगान्तर्मुखीकरणं द्वितीयेन महाविदेहधारणाक्रमाद्विषय ग्रहणाय निस्सरणं ध्वन्यते । अतश्च स्वाध्याययज्ञेभ्यो [व अन्ये] ज्ञानयज्ञाः । एत एवोक्तव्यापारपरिशीलनावशपरिपूरितस्वात्म शिष्यात्ममनोरथाः द्वे अप्येते गती निरुध्य आहारं विषयभोगा त्मकं नियम्य, प्राणान् सकलचित्तवृत्त्युदयान् प्राणेषु परनिरा नन्दोल्लासेषु, जुह्वति कुंभकप्रशान्त्या अर्पयन्ति । सर्वे चैते द्रव्य यज्ञात् प्रभृति ज्ञानयज्ञान्तं यज्ञस्य तत्त्वज्ञाः, तेनैव च क्षपित कल्मषाः समूलोन्मूलितभेदवासनामयमहामोहाः ॥ २९-३०॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥३१॥ यज्ञेति । यज्ञेन शिष्टम् बाहृतं यज्ञाच्च निजकरणतर्पण रूपादवशिष्टं [वा] स्वात्मविश्वान्तिरूपं परानन्द निरानन्दात्म
  11. S अपवर्गात 2. S,BN स्वाध्यायशाने 3. BN भागेन 4. N विसारणम् Somits अर्पयन्ति 6. B,N यज्ञाश्च 7. BN परानन्दं चतुर्थोऽध्यायः कममृतमुपभुजाना अपि यथेच्छ संसृज्यन्ते ब्रह्मतयेति । तदुपरम्यते अतिरहस्यस्फुटप्रकटनवाचालतायाः । अत्र बहुतरो रहस्यरसः अन्तःसंलीनीकृतोऽपि निबिड तरभक्तिसेवासम्प्रसादितगुरुचरणसंप्राप्तसंप्रदायमहौषधसमीकृ तधातूनी चर्वणादिविषयता भूतार्थास्वादहेतुतां च प्रतिपद्यते । अव व्याख्यान्तराणि टीकाकारैः प्रदर्शितानि । तानि अस्मद्गुरुपादनिरुक्तानि च स्वयमेव सचेतसः संप्रधार्यन्ता मिति किमन्येन हन्त व्याख्यातृवचनदूषणाविनोदनेन । तदुप क्रान्तमेवोपक्रम्यते ॥ ३१॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजान्विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ।। ३२ ॥ एवमिति । सर्वे च एते यज्ञा ब्रह्मणो मुखे द्वारे उपायत्वे कथिताः । तेषु कर्मणामनुगमोऽस्तीत्येवं ज्ञात्वा त्वमपि बन्धना न्मोक्षमेष्यसि ॥ ३२ ॥ मात्र त्वयं विशेषः श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप । सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
  12. BN भुजाना इति यथेच्छम् 2. SBN गुरुवचनसं 3. B प्रतिपाद्यते 4. Bomits किमन्येन 5.5 -पगम्यतेश्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्रेयानिति । द्रव्ययज्ञात् केवलात् ज्ञानदीपितो यज्ञः श्रेष्ठ । केवलता मयटा सूचिता। यतः सर्वं कर्म ज्ञाने निष्ठा मेति । ३३॥ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते तत्वं(?) ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ।। तद्विद्धीति । यज्ज्ञात्वेति। तच्च ज्ञान, प्रणिपातेन भक्त्या, परिप्रश्नेन ऊहापोहतर्कवितर्कादिभिः, सेवया अभ्यासेन जानीहि । यतः एवंभूतस्य तव ज्ञानिनः निजा एव संवित्ति विशेषानुगृहीता इन्द्रियविशेषाः तत्त्वम् उप समीपे देक्ष्यन्ति प्रापयिष्यन्ति । तथाहि ते तत्त्वमेव दर्शयन्तीति तत्त्वशिनः । उक्तं हि ‘योग एव योगस्योपाध्यायः’ इति । ‘ऋतंभरा तत्र प्रज्ञा’ (Y S, I, 48) इति च । ‘अन्ये ज्ञानिनः पुरुषा’ इति व्याख्यायमाने भगवान् स्वयं [यत् ] उपदिष्टवान् तदसत्यमित्युक्तं स्यात् । [अथवा] एव मभिधाने प्रयोजनम् ‘अन्येऽपि लोकाः प्रणिपातादिना ज्ञानि भ्यो ज्ञानं गृह्णीयुः न यथाकथंचित्’ इति समयप्रतिपादनम् । आत्मनि मयि, मत्स्वरूपता याते आत्मनि इति सामा. नाधिकरण्यम् । अथोशब्दः पादपूरणे । आत्मना ईश्वरस्य साम्ये कोऽपि विशेष उक्तः। असाम्ये विकल्पार्थानुपपत्तिः ॥ ३४-३५ ॥
  13. S. अभिधानेन च 2. S. K प्राप्ते चनुर्थोऽध्यायः ‘सर्व कर्माखिलम् (श्लो.४-३३) इति यदुक्तं तस्फुट यितुं प्रथमश्लोकेन ‘अधर्मोऽपि नश्यति’ इति वदन् ‘सर्व कर्म इति द्वितीयेन संस्कारलेशोऽपि नावतिष्ठतीति सूचयत् ‘अखि बम्’ इति व्याचष्टे + अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्व ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । pan …..ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७॥ अपि चेदिति । यथेति । सुसमिद्धोऽभ्यासजातप्रतिपत्ति दाढर्यबन्धेन ज्ञानाग्निर्भवति यथा, तथा प्रयतनीयमिति [भावः] ॥३६-३७ ॥ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८॥ नहीति। पवित्रं हि ज्ञानसमं नास्ति । अन्यस्य संवृद्धया पवित्रत्वं, न वस्तुत इत्यतिप्रसंगभयात् न प्रताय्यते । पवित्रत्वं चास्य स्वयं ज्ञास्यतीति सुबुद्धतायाम् ॥ ३८॥ को श्रद्धावान् लभते ज्ञानं तत्पर संयतेन्द्रियः । ज्ञानं लब्ध्वा परी शान्तिमचिरेणाधिगच्छति ॥३९॥
  14. Komits सु 2. K (D) संवृत्या 3. SK पवित्रताम् 4.S स्वप्रबुद्धतायाम् पीता-6 श्रीमनवद्गीता गीतार्थसंग्रहोपेसा ॐ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४०॥" भवावानिति । अझ इति । अत्र च श्रद्धागमः तत्पर व्यापारत्वं [च] झगित्येव, आस्तिकत्वात् असंशयत्वे सति, उत्प द्यते । तस्मादसंशयवता गुर्वागमादृतेन भाव्यम्, संशयस्य सर्व. नाशकत्वात् ; ससंशयो हि न किञ्चिज्जानाति, अश्रद्दधानत्त्वात् । तस्मात् निःसंशयेन भाव्यम् इति वाक्यार्थः। ३९-४० ॥ सकलाध्यायविस्फारितोऽर्थः श्लोकद्वयेन संक्षिप्य उच्यते योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । o आत्मवन्तं न कर्माणि निषध्नन्ति धनञ्जय ॥४१॥ व योगेति । योगेनैव कर्मणां संन्यास उपपद्यते नान्यथा इति विचारितं विचारयिष्यते च ॥ ४१ ॥ यत एवम् 6 तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । ६ छित्त्वैवं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४२॥ ॥ इति श्रीमद्भगवद्गीतायां चतुर्थोऽध्यायः॥ तस्मादिति । संशयं छित्त्वा योगं कर्मसु कौशलम् उक्त क्रमेण आतिष्ठ। ततश्च उत्तिष्ठ, त्वं स्वव्यापारं कर्तव्यतासा वेण कुर्विति ।। ४२॥ ॥शिवम् ॥
  15. K संक्षिप्यते 2. Somits यत एवम् 83 অনুখাচায়: अत्र संग्रहश्लोकः– विधत्ते कर्म यत्किञ्चित् अक्षेच्छामानपूर्वकम् । तेनैव शुभभाजः स्युः तृप्ताः करणदेवताः ॥ ॥ इति श्रीमहामाहेश्वराचार्यवयंराजानकाभिनवगुप्तपा विरचिते श्रीमद्भगवद्गीतार्थसंग्रहे चतुर्थोऽध्यायः । ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. १६-१७(व्या) उपतापाभावः - उपतापध्वंसः ॥ श्लो. २२(व्या) अन्यथेत्यादि । इदमुपलक्षणम्-कृत्वेति क्त्वाप्रत्ययार्थसमानकर्तृकत्वस्य अन्यथानुपपत्तिरित्यपि बोध्यम् ॥ श्लो. २४ (व्या) ब्रह्मणि अर्पणमिति । अस्मिन् प्रथम व्याख्यापक्षे योगिनः समाधियुक्तस्य परब्रह्मप्राप्तिः प्रकृतगीता श्लोकेन प्रतिपादिता भवति । अत्र च पक्षे ब्रह्महविरित्यत्र ब्रह्मपदं ब्रह्मकार्यजीवपरम् तस्मिंश्च हविष्ट्वारोपः । ब्रह्माग्ना विति प्रशान्तब्रह्मणि अग्तित्वारोपः । ब्रह्मणेत्यत्र प्रकृत्यर्थः कर्म तृतीयार्थः करणत्वम् । इतिशब्दोऽध्याहार्यः स च प्रकृतपद्यपूर्वा र्धार्थमनुवदति; तस्य चार्थस्य ब्रह्मात्मककर्म समाधिर्यस्येति बहुव्रीह्यर्थंकदेशे अभेदेनान्वयः । एतादशव्याख्याने क्लेशं परि चिन्त्य व्याख्यानान्तरमाह-यदि वेत्यादिना । अस्मिंश्च पक्षे ज्ञानिना यजमानेनानुष्ठीयमानकर्मणः ब्रह्मप्राप्तिः फलमिति

B कारण N कुरुत श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता प्रतिपादितं भवति । तथा अग्नेः, हविषः, यजमानस्य च ब्रह्मत्वं प्रतिपाद्यते । यथाह भगवान् कालिदासः या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होती …………इति । ब्रह्मणेति तृतीयायाः कर्तृत्वमर्थः । ब्रह्मकर्मसमाधिनेति कर्म धारयः इति बोध्यम् । आङ्गलभाषानुवादे किंचिदिवार्थभेदो वणितः ॥ श्लो २५ (व्या) कर्तव्यमित्येव बुद्धयेति । तथा च मूले यज्ञेनेत्यस्य यज्ञत्वेनेत्यर्थः; यज्ञत्वबुद्धया, अवश्यकर्तव्यबुद्धयेति यावत् ॥ श्लो २७-२८ (व्या) ते चेति । ‘अपरे च’ इति भाव्यं, मूलानुसारात् । अथवा न परे अपरे इति मूलार्थविवक्षया च अपरे इति मूलस्य व्याख्या ते च इति ते एवेत्यर्थः । भावेऽत्यक्ते इत्यादि। अव प्रकरणे अस्य पद्यस्यायमर्थ आचार्याभिमत इव भाति - अत्यक्ते स्वानन्यत्वेन गृहीते, भावे विषये, निरुद्धा ऐकायं प्रापिता, चित्, भावान्तरं विष यान्तरं, नैव व्रजेत् यदा, तदा सा भावना चित्, तन्मध्यभावेन, तद्विषयान्तासंलीनचिदात्मना (अभेदे तृतीया), अति विकसति नितरां प्रफुल्ला भवति उक्तरीत्या ‘न भोग्यं व्यतिरिक्तं हि भोक्तुः’ इति प्रत्यभिजानाति इति । अधिकमन्यव ॥ श्लो. २९-३० (व्या) प्रकर्षम् अनिति इति प्राणशब्द व्युत्पत्तेराह- उदयमानमिति । उत्पूर्वकात् अयधातोः शावच् । चतुर्थोऽध्यायः अप अधः अनितीत्यपानः तस्मिन् अपाने; तस्य व्याख्या अस्तं यातीति । यातीति याधातोः शवन्तात् सप्तमी । एवमुक्तरीत्या स्वाध्यायः अहंध्यानात्मकः इति तस्य ज्ञान यज्ञादभेद एवेति दर्शयितुं स्याध्यायज्ञानयज्ञाश्चेति मूलं स्वाध्या यात्मकज्ञानसूचकमिति तदभिप्रायमनुवदन्नाह-अतश्चेत्यादि । ___उक्तव्यापार - परिशीलनवश-परिपूरितस्वात्म-शिष्यात्ममनो स्था इति समस्तं पदं प्राणायामपरायणा इति मूलस्यार्थ वर्णनरूपम् । तथाहि-परिशीलनशब्दः सामान्यतो नपुंसकः । प्राणायामपरायणा इत्यस्य प्र, अन, आ, अय, अम, पर, अयन इत्यवयवसप्तकत्वादेवमर्थोऽभिप्रेत इव । प्रकृष्टस्य अनस्य प्राण नस्य यः आ परितः अयः गमनव्यापारः शीलनात्मकः - गत्यः र्थानां ज्ञानार्थकत्वात् - तेन तद्वशेन अमं संभक्तिः संभजनं पूरणं यस्य तत् ; तादृशं परम् उत्कृष्टम् अयनं मनोरथः येषां ते इति ; तादृशं यत् परस्य उत्कृष्टस्य आत्मनः अयनं मनोरथः, तत् येषां ते इति वा विग्रहार्थः । अम्यते इत्यमं संभक्तिः, संभजनं, पूरण मिति यावत् । अम संभक्तौ इत्यतः भावे क्विप् । ईयते प्राप्यते इत्ययनं मनोरथः । इण्धातोः कर्मणि ल्युट् ॥ श्लो. ३२ (व्या) उपायत्वे इति । उपायत्वेन इति उपाये इत्येव वा विवक्षितम् । उपायप्रकरणे इत्यर्थः । ‘मुखमुपाये प्रारम्भे’ इति ‘द्वारं निर्गमेऽभ्युपाये’ इति च हैमकोशात् ॥ श्लो. ३३ (व्या) द्रव्यमयाद्यज्ञादिति मूलस्य तात्पर्यमाह द्रव्ययज्ञात् केवलादिति । केवलद्रव्यमावनिर्वात् यज्ञादित्य, क्षरार्थः॥ 86 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्लो. ३४-३५ (व्या) संवित्तिविशेषानुगृहीता इति । संवित्त्या विशेषेणानुगृहीता इत्यर्थः । तत्वम् उप इति । अनेनेदं सूचितं भवति - तद्विद्धीति गीतापद्ये तृतीयपादम् ‘उपदेक्ष्यन्ति ते तत्त्वम्’ इति पपाठ बाचार्य इति। सार्वत्रिकस्तु पाठः ‘उपदेक्ष्यन्ति ते ज्ञानम्’ इति । साम्ये इति - साम्यप्रदर्शनायेत्यर्थः । निमित्तात् कर्मयोगे सप्तमी। विशेषः विशेषको धर्मः, तदुभयनिष्ठेत्यादिः । असाम्यै पति सति सप्तमी । असाम्ये विवक्षिते सति इत्यर्थः। विक स्पानुपपत्तिः विकल्पाद्यर्थानुपपत्तिः, अथो इत्यस्येत्यादिः ॥ श्लो. ३६-३७ (अ) सर्व कर्म इति द्वितीयेन इति । ‘सर्व फर्माणि’ इत्यादिना द्वितीयश्लोकगतेनेति विवक्षितम् । एवं च ‘सर्वकर्माणि’ इत्यादिना द्वितीयश्लोकगतेन ‘संस्कारलेशोऽपि’ बावतिष्ठते’ इति अखिलम् इत्यस्यार्थं सूचयन व्याचष्टे इत्यन्वयः॥ श्लो. ३८ (व्या) संवृद्धयेति, अथवा संवृत्त्येति । संवित्त्येति विवक्षितमिव । संवित्तिसंबन्धेनेत्यर्थः ॥ श्लो. ३९-४० (व्या) तस्मादित्यादिना अश्रद्दधानत्वादि. त्यन्तेन अर्थतः पुनरुक्तमिव यत् अव्यवहितपूर्ववाक्येनोक्तम् ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या चतुर्थोऽध्यायः ॥