०३

तृतीयोऽध्यायः अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तरिक कर्मणि घोरे मां नियोजयसि केशव ॥१॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥ ज्यायसीति । व्यामिश्रेणेति । कर्म उक्तं ज्ञानं च । तव न द्वयोः प्राधान्यं युक्तम् , अपि तु ज्ञानस्य । तबलेन क्षपणीयत्वं यदि कर्मणां ‘बुद्धियुक्तो जहातीमे’ (II, 52) इत्यादिनयेन मूलत एव, तर्हि कर्मणां किं प्रयोजनमिति प्रश्नाभिप्रायः ॥१-२॥ श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा निष्ठा पुरैकोक्ता (१) मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३॥ श्रीभगवास्तूत्तरं ददाति लोकेऽस्मिन् इति । लोके एषा द्वयी गतिः प्रसिद्धा-सांख्यानां ज्ञानं प्रधानम्, योगिनां च कर्मेति । मया तु सा एकैव निष्ठा उक्ता ज्ञानक्रियामयत्वात् संवित्तत्त्वस्येति भावः ॥ ३॥

  1. K तत् 2. SK कर्मणा श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपैता तथा हि न कर्मणामनारंभान्नैष्कम्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥ न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ न कर्मणामिति । न हीति । ज्ञानं कर्मणा रहितं न भवति ; कर्म च कौशलोपेतं ज्ञानरहितं न भवति । इत्येकमेव वस्तु ज्ञानकर्मणी । तथाचोक्तम् ‘न क्रियारहितं ज्ञानं न ज्ञानरहिता क्रिया। ज्ञानक्रियाविनिष्पन्न आचार्यः पशुपाशहा ।।’ इति तस्मात् ज्ञानान्तर्वति कर्म अपरिहार्यम् । यतः परवश एव, कायवाङ्मनसो परिस्पन्दात्मकत्वात् अवश्यं किञ्चित्करोति ॥ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मूढाचारः स उच्यते ॥६॥ कर्मेन्द्रियाणीति । कर्मेन्द्रियैश्चेन्न करोति, अवश्यं तिहि मनसा करोति ; प्रत्युत [सः] मूढाचार.2, मानसानां कर्मणामत्य न्तमपरिहार्यत्वात् ॥ ६ ॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७॥
  2. S omits afg 2. The expressions मूढाचारः and मिथ्याचारः are found hereinafter interchanged in the MSS. तृतीयोऽध्यायः यस्त्विति । कर्मसु क्रियामणेषु न ज्ञानहानिः । पनसोड व्यापारी यन्त्रपुरुषवत् कर्मणः क्रियमाणत्वात् ॥ ७ ॥ अतः नियतं कुरु कर्म त्वं कर्म ज्यायो यकर्मणः । शरीरयात्रापि च ते न प्रसिद्धथेदकर्मणः ॥ ८॥ नियतमिति । नियतं शास्त्रीयं कर्म कुरु। शरीरयात्रा मावस्यापि कर्माधीनत्वात् ॥ ८॥ यतः यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर । ९॥ यज्ञार्थात् इति । यज्ञार्थात् अवश्यकरणीयात् अन्यानि कर्माणि बन्धकानि । अवश्यकर्तव्यं मुक्तफलसंगतया क्रियमाणं न फलदम् ॥९॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥ सहेति । प्रजापतिः परमात्मा प्रजाः सहैव कर्मभिः ससर्ज । उक्तं च तेन ‘प्रजानां कर्मभ्य एवं प्रसवः सन्तानः । एतान्येव च इष्टं संसारं मोक्षं बा दास्यन्ति ; संगात्संसारं, मुक्त संगत्वान्मोक्षम्’ [इति ॥१०॥
  3. Bomits अवश्यकर्तव्यम् 2. N omits उक्तं च । 46 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता य(त)त्र येषी मोक्षप्राधान्यं तैरेव विषयाः सेव्या इत्युच्यते देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११॥ देवानिति । देवाः क्रीडाशीलाः1 इन्द्रियवृत्तयः करणे श्वर्यो देवता रहस्यशास्त्रप्रसिद्धाः, ताः अनेन कर्मणा तर्पयत, ययासंभवं विषयान् भक्षयतेत्यर्थः। तृप्ताश्च सत्यस्ता वो2 युष्मान् आत्मन एव स्वरूपमात्रोचितान् अपवर्गान् भावयन्तु, स्वात्मस्थितियोगत्वात् । एवमनवरतं 4व्युत्थानसमाधिसमय परम्परायाम् इन्द्रियतर्पणतदात्मसाद्भावलक्षणे परस्परभावने सति शीघ्रमेव परमं श्रेयः परस्परभेदविगलनलक्षणं ब्रह्म प्राप्स्यथ ॥११॥ न केवलमित्थमपवर्गे, यावसिद्धिलाभेऽपि अयं मार्गः [अभ्यसनीय] इत्याह इष्टान् भावान्(१) हि वो देवाः दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुक्ते स्तेन एव सः ॥१२॥ इष्टानिति । यज्ञपितानि हि इन्द्रियाणि स्थिति बन न्ति यवक्वापि ध्येयादौ इति । अत एव तद्व्याप रे सति तेषां विषयाणां स्मृतिसंकल्पध्यानादिना भावाः विषयाः इन्द्रियैरेव
  4. Kक्रीडनशीला 2. S सत्यो वो 3. S-चितापवर्गान 4.S-रतव्युत्थान 5. B-सद्भाव तृतीयोऽध्यायः दत्ताः। यदि तेषामेवोपभोगाय विषया व दीयन्ते तर्हि स्तेन त्वं चौर्य स्यात्, छद्मचारित्वात् । उक्तं हि पूर्वमेव भगवता ‘मूढाचारः स उच्यते’ (II, 6) इति । अतोऽयं वाक्यार्थः - यः सुखोपायं सिद्धिम् अपवर्ग वा प्रेप्सति, तेन इन्द्रियकौतुकविवृत्ति मात्रफलतयैव भोगा यथोपनतमासेव्या इति ॥ १२ ॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वधं पापा ये पचन्त्यात्मकारणात् ॥१३॥ यज्ञशिष्टेति । अवश्य कर्तव्यतारूपशासनमहिमायातान् भोगान् येऽश्नन्ति अवान्तरव्यापारमात्रतया अत एव च पृथक् . फलत्वाभावाङ्गतया; अथ च इन्द्रियात्मकदेवगणतर्पणलक्षण यज्ञादवशिष्टम् अन्तःसारस्वात्मस्थित्यानन्दलक्षणविघसं येऽश्न न्ति, तवारूढा2 भवन्ति; तदुपादेयोपायतया तु विषयभोगं वाञ्छन्ति, ते सर्वाकल्बिषैः शुभाशुभैः मुच्यन्ते । ये त्वात्मकारणा दिति- अविद्यावशात् स्थूलमेव विषयभोगं परत्वेन मन्वानाः ‘आत्मार्थमिदं वयं कुर्म’ इति कुर्वते, त एवाघं शुभाशुभात्मकं सभन्ते ॥ १३॥ अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसंभवः । । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥
  5. S.K omit विषयाः 2. B तनामूढाः 3. S तोपादे 4.S-भोगपरत्वेन श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥ अन्नादिति । कर्मेति । अन्नात् अविभागभोग्यस्वभावात् कथंचित् मायाविद्याकालाधनेकापरपर्यायात भूतानि विचि त्राणि भवन्ति । तच्च अन्नं पर्जन्यात् अविच्छिन्नसंवित्स्वभावात् आत्मनः; भोक्तृतन्त्रात्मलाभत्वात् भोग्यतायाः। स च पर्जन्यो भोक्ता यज्ञात् [भोगक्रियात्मनः] ; भोगक्रियायत्तत्वात् भो क्तृत्वस्य । भोगक्रिया च कर्मणः क्रियाशक्तिस्वातन्त्र्य बलात् । तच्च स्वातन्त्र्यम् अविच्छिन्नमपि अनवच्छिन्नानन्तस्वातन्त्र्य पूर्णसमुच्चलन्महेश्वरभावपरमात्मब्रह्मणः संस्पर्शवशात् । तच्च उच्चलदच्छानाच्छादितैश्वर्यं ब्रह्म अक्षरात् प्रशान्ताशेषैश्वर्य तरङ्गात् संविन्मात्रात् । इत्येवं सुव्यवस्थितो यज्ञः षडरं चक्र वाहयन्, तव अरावयसंधानादपवर्गम् अरावयतन्त्रणात् व्य वहारमासूत्रयति इति विद्याविद्योल्लासतरंगसुभगं ब्रह्म यज्ञे एव प्रतिष्ठितम् ।
  6. S,B,N -विद्याप्रकृतिकाला 2. S अवच्छिन्नमपि अवच्छिन्नस्यापि अनवच्छिन्नानन्त 3.SK -ब्रह्मसंस्पर्श 4. Bomits तच्च 5. BN-दच्छादितैश्वर्यम् 6.S - स्थितोऽयम् भोगक्रियायाम् 7. Komits तन, S,B,N substitute तत्तु 8. B-तरङ्गं ब्रह्म तृतीयोऽध्यायः अन्ये तु अन्नं तावद्वीर्यलोहितक्रमेण भूतकारणम् ; अन्नं च वृष्टिद्वारेण पर्जन्यात् सोऽपि ‘अग्नौ प्रास्ताहुतिः सम्यक् । इति आदित्यमेति । ततो वृष्टिर्यज्ञात्; यज्ञः क्रियातः; सा च ज्ञान पूर्विका; ज्ञानमक्षरात् इति । अपरे तु अन्नं अद्यमानं विषयपञ्चकम् [तत्] आश्रित्य भूतानि इन्द्रियाणि; विषयाश्चात्मनः स्फुरितरूपाः। अत आत्मैव विषयोपभोगेन पोष्यते । अतश्च सर्वगतं ब्रह्म कर्मणि प्रतिष्ठितं तन्मयत्वात् तस्य [इति] ॥ १४-१५ ॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ।। १६॥ एवमिति । यस्तु एवं नाङ्गीकरोति स पापमयः । यतः स इन्द्रियेष्वेव रमते, नात्मनि ॥१६॥ यश्चात्मरतिरेव स्यात् आत्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ १७॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥१८॥ 1.S,B omit सम्यक् K omits the entire quotation. 2. S अतः सर्वगम् 3. N अतः गीता-4श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता तस्मादसक्तः सततं कार्य कर्म समाचर । असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ १९॥ यश्चेत्यादि पूरुष इत्यन्तम् । आत्मरतेस्तु कर्म इन्द्रिय व्यापारतयैव कुर्वतः करणाकरणेषु समता। अत एव नासौ भूतेषु किंचिदात्मप्रयोजनमपेक्ष्य निग्रहानुग्रहौ करोति, अपि तु ‘करणीयमिदम्’ इत्येतावता । तस्मादसक्त एव करणीयं कर्म कुर्यात् ॥ १७-१९॥ कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हति ॥ २० ॥ कर्मणैवेति । तदल [कर्म] कुर्वतामपि सिद्धौ जनकादयो दृष्टान्ताः ॥ २० ॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं प्रवर्तेऽथ च कर्मणि ॥ २२ ॥ यद्यदाचरतीति । न मे इति । प्राप्तप्रापणीयस्य परि पूर्णमनसोऽपि कर्मप्रवृत्तौ लोकानुग्रहः प्रयोजनमित्यव श्री भगवान् आत्मानमेव दृष्टान्तीकरोति ॥ २१-२२ ॥
  7. SK give this verse later as verse 24. K gives the corresponding sentence of the commentary तस्मादसक्त एव etc., after आत्मानमेव दृष्टान्तीकरोति, the commen. tary on verses 21-22. तृतीयोऽध्यायः यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वानुवर्तेरन्मनुष्याः पार्थ सर्वशः ॥ २३॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ताहमुपहन्यामिमाः प्रजाः ॥ २४ ॥ सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुलोकसंग्रहम् ॥ २५ ॥ यदीत्यादि लोकसंग्रहमित्यन्तम् । किं च विदितवेद्यः कर्म चेत् त्यजेत्, तत् लोकानां दुर्भेद एव, एकप्रसिद्धपक्षशिथि लितास्थाबन्धत्वेनाप्ररूढिलक्षणो जायेत । यतः कर्मवासना च न मोक्तुं शक्नुवन्ति ज्ञानधारां च नायितुम् ; अथ च शिथि लीभवन्ति ।। २३-२५ ॥ यतस्ते न सम्यग्ज्ञानेन पूताः अतो बुद्धर्भेदनं 4विचालनं तेषां परमोऽयमनर्थ इत्यनुग्रहाय भेदयेन धियमेषाम् ; तदाह न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ न बुद्धीति । स्वयं चैवं बुद्धयमानः कर्माणि कुर्यात् ; न च लोकानां बुद्धि भिन्द्यात् ॥ २६ ॥
  8. S,B,K जायते Somits यतः 3.S-स्ते सम्य 4. B,N विगलनम् 5.5 एतदाह श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अज्ञानामित्युक्तम् । तदज्ञत्वं दर्शयति प्रकृतेः क्रियमाणानि गुणैः कर्माणि भागशः। अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥ २७॥ प्रकृतेरिति । प्रकृतिसंबन्धिभिः गुणैः सत्त्वाद्यैः किल कर्माणि क्रियन्ते । मूढश्च ‘अहं कर्ता’ इत्यध्यवस्था मिथ्यैव आत्मानं बध्नाति ॥२७॥ तत्त्ववित्तु महाबाहो गुणकर्मविभागयो। गुणा गुणार्थे वर्तन्ते इति मत्वा न सजते ॥२८॥ तत्त्ववित्त्विति । गुणकर्मविभागवित्तु ‘प्रकृतिः करोति मम किमायातम्’ इत्यात्मानं मोचयति ॥ २८ ॥ कर्मसंगिनामित्युक्तम् । तत् कर्मसंगित्वं दर्शयति प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान् कृत्स्नविन विचालयेत् ॥ २९ ॥ प्रकृतेरिति । प्रकृतिसंबन्धिभिर्गुणैः सत्त्वाद्यैः कृतेषु कर्मसु मूढाः सज्जन्ति सत्त्वादिगुणमाहात्म्यात् ॥ २९॥ ‘तस्माद्युक्तः सन् जुषेत कर्माणि’ इत्युक्तं, तत्र [तत्] कथपिति स्फुटयति 1.Somits अध्यवस्य 2. BN omit तत् 3.Somits कर्मसंगित्वम् 4. S,B omit ware: 5. B मज्जन्ति तृतीयोऽध्यायः मयि सर्वाणि कर्माणि सन्यस्याध्यात्मचैतसा । निराशीनिर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३०॥ मयीति । मयि सर्वाणि कर्माणि ‘नाहं कर्ता’ इति सन्यस्य ‘सर्वतन्त्रः परमेश्वर एव सर्वकर्ता नाहं कश्चित्’ इति निश्चित्य लोकानुग्रहं चिकीर्षुः लोकाचारं युद्धात्मकम् अनु. तिष्ठ ॥ ३०॥ ये मे मतमिदं नित्यमनुवर्तन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते सर्व कर्मभिः ॥ ३१ ॥ ये त्वेतदभ्यसूयन्तो नानुवर्तन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥३२॥ ये म इति । ये त्वेतदिति । एतच्च मतमाश्रित्य यः कश्चित् यत्किंचित् करोति तत्तस्य न बन्धकम् । एतस्मिस्तु ज्ञाने ये न श्रद्धालवः2 ते विनष्टाः, अविरतं जन्ममरणादि भय भावितत्त्वात् ॥ ३१-३२ ॥ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥ सदृशमिति । योऽपि च ज्ञानी न तस्य व्यवहारी भोज नादौ विपर्यासः कश्चित् । अपि तु सोऽपि सत्त्वाद्युचितमेव चेष्टते एवमेव जानन् । यतः भूतानां पृथिव्यादीनां प्रकृतौ
  9. S मयि स्थित्वा सर्वाणि 2. B श्रद्धालवाः 3. Somits आदि 4. BN अतः 54 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता विलयः आत्मा च अकर्ता नित्यमुक्त इति कस्य जन्मादि निग्रहः? ॥ ३३॥ कथं तर्हि बन्धः? इत्थमित्युच्यते । इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ।। ३४ ॥ श्रेयान्स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मोदयादपि ॥ ३५ ॥ इन्द्रियस्येति । श्रेयानिति । संसारी च प्रतिविषयं रागं द्वेषं च गृह्णाति ; यतः कर्माणि आत्मकर्तृकाण्येव विमूढत्वादभि मन्यते इति सममपि भोजनादिव्यवहारं कुर्वतोः ज्ञानिसंसारिणो रस्त्ययं विशेषः । अयं नः सिद्धान्तः सर्वथा मुक्तसंगस्य स्वधर्मचारिणो नास्ति कश्चित् पुण्यपापात्मको बन्धः । स्वधर्मो हि हृदयादनपायी स्वरसनिरूढ2 एव, न तेन कश्चिदपि रिक्तो जन्तुर्जायते इत्यत्याज्यः ॥ ३४-३५ ।। अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छमानोऽपि बलादाक्रम्येव नियोजितः ॥ ३६॥ अथेति । पापं पापतया विदन्नपि जनः कथं तत्र प्रवर्तते इति प्रश्नः । अस्य प्रश्नस्योत्था[प]ने अयमाशयः । स्वधर्मों 1, Nomits इत्थम् K omits इति 2. B,N,K निगूढः तृतीयोऽध्यायः यदि स्वहृदयादनपायित्वादत्याज्यः कथं तमुधर्माचरणमेषाम्? इति कोऽयं स्वधर्मो नाम येतारिक्तो जन्तुः? इत्युक्तं भवति॥३६ अब उत्तरं ‘सत्यपि धर्मे हृदिस्थे आगन्तुकावरणकृतोऽयं4 विप्लवो न तु तदभावकृतः’ इत्याशयेन श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ॥ ३७॥ काम एष इति । द्वाभ्यामेतच्छब्दाभ्यामनयोरत्यन्ता वैषम्यं सूच्यते । एतौ च कामक्रोधौ मित्यसंबन्धिनौ अन्योन्या विनाभावेन वर्तेते इत्येकरूपतयैव ब्याचष्टे । एष च महस्य सुखस्य अशनः ग्रासकारकः महतः पापस्य हेतुत्त्वाच्च क्रोध एव पापदायी । एनं च वैरिणं प्राज्ञो जानीयात् ॥ ३७॥ ननु अर्थाद्युपधातकं ज्ञातस्वरूपं च वस्तु हातुं सुशकं भवे दित्यभिप्रायेण अर्जुन उवाच भवत्येष कथं कृष्ण कथं चैव विवर्धते । किमात्मकः किमाचारः तन्ममाचक्ष्व पृच्छतः ॥ ३८॥
  10. हृदयानपायि 2. S omits af 3.S,B येन न रिक्तो; Nयेनानतिरिक्तो। 4. N- काचरणक 5. N तदभावप्लुतः 6. S अत्यन्तवैषम्यम् -56 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता भवत्येष इति । अस्य चोत्पत्तौ किं कारणम् ? वर्धने च को हैतुः? स्वरूपं चास्य कीदृक् ? उत्पन्नों रूढीभूतश्च किया चरति? किं करोति ? इति प्रश्नाः ॥ ३८ ॥ अवोत्तरम् श्रीभगवानुवाच एष सूक्ष्मः परः शत्रुः देहिनामिन्द्रयेषु ह (१)। सुखतन्त्र इवासीनो मोहयन् पार्थ तिष्ठति । ३९ ॥ एष इति । एष तावत्सूक्ष्मः उत्पत्तिसमये अलक्ष्यः इन्द्रि येषु । एवं च वर्तमानः सुखं तन्त्रयितुमिवोत्पद्यते । वस्तुतस्तु दुःखमोहमयः तामसत्वात् । अत एव ‘मोहयन्। ॥ ३९ ॥ कामक्रोधमयो घोरः स्तम्भहर्षसमुद्भवः । अहंकारोऽभिमानात्मा दुस्तरः पापकर्मभिः ॥ ४०॥ हर्षमस्य निवत्यैष शोकमस्य ददाति च । भयं चास्य करोत्येष मोहयन्तु मुहुर्मुहुः ॥ ४१ ॥ कामेति । हर्षमिति । स्तंभः कुलाद्यभिमानः; तत्कृतो? यो हर्षः ‘अहमीदृशः’ इति । अत एवाह अहंकार इति । अत एव च गर्वाद्वर्धते, अभिमानस्वभावः, सुखबुद्धिप्रकारेण च जायते । इति वयः प्रश्नाः परिहताः ॥ ४०-४१ ॥ स एष कलुषः क्षुद्रश्छिद्रप्रेक्षी धनञ्जय । रजाप्रवृत्तो मोहात्मा मनुष्याणामुपद्रवः ॥ ४२ ॥ 1. B,N,K (n) दृढीभूतश्च 2. N agat तृतीयोऽध्यायः स एष इति । छिद्राणि प्रेक्षते ‘अमुना छिद्रेणास्य इहलोक परलोकौ नाशयामि’ इति । तथा च मोक्षधर्मेषु यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यते यज्जुहोति । वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य । इति (म. भा. शान्ति., मोक्ष., अध्याय २८८, श्लो. २७) रजसः प्रवृत्तः तमोरूप इत्यर्थः ॥ ४२ ॥ धूमेनात्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनायमावृतः ॥ ४३ ॥ धूमेनेति । दृष्टान्तत्रयेण दुरुपसर्गत्वम्, अकार्यकरत्वं, जुगुप्सास्पदत्वं च उक्तम् । अयमिति आत्मा ॥ ४३ ॥ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्प्रेणानलेन च ॥४४॥ आवृतमिति । कामरूप इच्छायो यतश्चरति । अनलेन च अग्निनेव पूरयितुमशक्येन, दृष्टादृष्टद्वयदाहकत्वात्॥ ४४ ।। इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनाम् ॥४५॥ इन्द्रियाणीति । आदाविन्द्रियेषु व्यापृतेषु] सत्सु तिष्ठति । यथा चक्षुषा शत्रुः दृष्टः इन्द्रियप्रदेशे एवं क्रोधमात्मनो जनयति ।
  11. BN भवति हि क्रोधनस्य 2. K दुरुपसर्पत्वम् 58 श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता ततो मनसि संकल्पे; ततो बुद्धौ निश्चये एतद्वारेण मोहं जन यन् ज्ञानं नाशयति ॥ ४५ ॥ अस्य निवारणोपायमाह तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहियेनं ज्ञानविज्ञाननाशनम् ॥ ४६ ॥ तस्मादिति । तस्मादादौ इन्द्रियाणि निममयेत् । क्रोधा दिकं इन्द्रियेषु प्रथमं न गृह्णीयात् । ज्ञानं ब्रह्म[ज्ञानं] विज्ञानं च भगवन्मयीं क्रिया नाशयति यतः, अतः2 पाप्मानं क्रोधं त्यज । अथवा ज्ञानेन मनसा विज्ञानेन बुद्धचा च नाशनं वारणं कृत्वा इति क्रियाविशेषणम् । इन्द्रियेषु उत्पन्नं संकल्पे न गृह्णी यात् संकल्पितं बा न निश्चिनुयात् इति तात्पर्यम् ॥ ४६ ॥ अन युक्तिं श्लोकद्वयेनाह इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ १७ ॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि य महाबाहो कामरूपं दुरासदम् ॥४८॥ ॥ इति श्रीमद्भगवद्गीतायां तृतीयोऽध्यायः ॥
  12. B,N,K हि, यतः 2. Somits अतः 3. SB पापम् 4.Somits श्लोकद्वयेन तृतीयोऽध्यायः इन्द्रियाणीति । एवमिति । यत ‘इन्द्रियाणि शत्रुलक्ष णात् विषयात् अन्यानि, तेभ्यश्चान्यत् मनः, तस्मादपि बुद्धे व्यतिरेकः, बुद्धेरपि यस्यान्यस्वभावत्वं स आत्मा। एवमिन्द्रि योत्पन्नेन क्रोधेन कथं मनसः बुद्धेरात्मनो वा क्षोभ’ इति पर्या लोचयेत् इत्यर्थः । रहस्यविदां त्वयमाशयः1 —बुद्धेः यः परत्र वर्तते परोऽहं कारः ‘सर्वमहम्’ इत्यभेदात्मा स खलु परमोऽभेदः । अत एव च परिपूर्णस्य खण्डनाभावात् न क्रोधादय उत्पद्यन्ते । अतः परमहंकारं परमोत्साहं संविदात्मकं गृहीत्वा क्रोधमविद्या त्मानं शत्रु जहि इति ॥ ४७-४८ ॥ || शिवम् ॥ अन्न संग्रहश्लोकः धनानि दारान् देहं च योऽन्यत्वेनाधिगच्छति । किं नाम तस्य कुर्वन्ति क्रोधाद्याश्चित्तविभ्रमाः ॥ इति श्रीमहामाहेश्वराचार्यवभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे तृतीयोऽध्यायः ॥
  13. Nयमाशयः 2. S,B,N उदयन्ते 3. K परोत्साहसंवि 4. S नानुगच्छतिश्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ३ (व्या) मया तु सा एकैव निष्ठा उक्ता इति । अनेनेदं सूचितमिव-प्रकृतगीतापद्ये द्वितीयपादं प्रायशः ‘पुरै कोक्ता मयानघ’ इति तत्समानमन्यद्वा आचार्यः पपाठेति । राम कण्ठोऽपि व्याचख्यौ —- मया एकैव निष्ठा उक्ता’ इति । आनन्दवर्धनश्च ‘द्विविधा द्वौ विधौ साधनप्रकारौ यस्याः सा एकैव प्रकारद्वयाख्या मयोक्ता इत्यन्वयः’ इत्याह । परन्तु ‘पुरा प्रोक्ता मयानघ’ इत्येव सर्वत्र पाठो दृश्यते । अत्रेदं बोध्यम् द्विविधा निष्ठा एकैवेति कुत्रोक्तं भगवता पूर्वमिति न स्पष्टी कृतमाचर्येण । अथवा द्वितीयाध्यायस्थचत्वारिंशः श्लोको मनास कृतस्तेन, यत्र च ‘एषा तेऽभिहिला सांख्ये बुद्धिोंगे यथा शृणु’ इति पाठमादृत्य व्याख्यातं तेन ॥ श्लो. १२ (अ) अपवर्गे -लामे इति सप्तमीद्वयं ‘चर्मणि द्वीपी हतः’ इत्यादाविव निमित्तात् कर्मयोगे बोध्यम् । तथा च अपवर्गाय, तथा यावत्यः सिद्धयः तावतीना लाभाय च इत्यर्थः । (व्या) भावा विषया इति । अनेनेदं ज्ञायते यत् प्रकृत गीताश्लोकप्रथमपादे ‘इष्टान् भावान्’ इति पपाठेवाचार्यः इति । रामकण्ठस्तु ‘इष्टान् कामान्’ इति पठतीव। सार्वत्रिकपाठस्तु ‘इष्टान् भोगान्’ इत्येव । सुखोपायमिति । क्रियाविशेषणमिदं प्रेप्स्यति इत्यनेनान्वेति ॥ तृतीयोऽध्यायः श्लो. १३ (व्या) अवश्यकर्तव्यतारूपशासनेत्यादि- मूलस्थ शिष्टशब्दो विधिविहितमाह, अत एवं व्याख्या । यज्ञपदमवश्य कर्तव्यं यथा बोधयति तथोपादितं पूर्वमेव । शिष्टपदमवशि ष्टार्थकमपि संभवति इत्यतो व्याख्यानान्तरमाह - अथ चेत्या दिना । आत्मकारणादिति इति । इति शब्दप्रदानपूर्वकम् अत्र व्याख्यातुराचार्यस्यायमाशयः - ‘आत्मकारणात्’ इति पदं तादृशाकारकज्ञानपरमिति । तादृशज्ञानस्य कारणं विशदयति अविद्यावशात् इत्यादिना। उक्तज्ञानस्वरूप मभिनीय दर्शयति आत्मार्थमिदं कुर्मः इति ॥ श्लो. १४-१५ (व्या) मायाविद्येत्यादि । माया विद्या इति च्छेदः । ६ अनवच्छिन्नेत्यादि । अव अनवच्छिन्नत्वस्य अनन्तत्वस्य च स्वातन्त्यविशेषणत्वे प्रयोजनाभावः; स्वातन्त्र्यम् अविच्छिन्नमपि इत्यनेनैव गतप्रायत्वात्, अविच्छिन्नमपि इति अपिशब्दद्योतित विरोधस्य यम्यक् आञ्जस्यानुपपत्तेश्च । एवं च अवच्छिन्नान न्तेति विवक्षितं स्यात् इति भाति । अवच्छिन्ना देशतः काललो व्यक्तितश्च ये अनन्ताः असंख्याका भावाः; तेषु विषये स्वातन्त्र्येण पूर्णमिति । इदं च सामानाधिकरण्येन ब्रह्मणि अन्वेति । समु च्चबन् महेश्वरभाबो यस्य तस्य परमात्मनो ब्रह्मण इत्यर्थः । अथवा अनवच्छिन्नम् इति च स्वतन्वतया ब्रह्म विशेषणम् । अन वच्छिन्नम् अनन्तेषु स्वातन्त्र्यपूर्ण च यत् ब्रह्म इत्यन्वयः । महेश्वरभाव इति सदाशिवभावस्याप्युपलक्षणम्, उभयोः समान श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता रूपत्वात् प्रायशः समानयोगक्षेमत्वाच्च । समूच्चलत्सदाशिव महेश्वरभावेति वा विवक्षितम् । अधिकमन्यत्र । अग्नी प्रास्ताहुतिः इत्यादि। अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिव॒ष्टरनं ततः प्रजाः ॥ इति मनुस्मृतौ (III, 76) दशितरीत्या आदित्यमेति इत्यर्थः । श्लो. २६ (अ) परमोऽयमनर्थ इत्यनुग्रहाय इति । तदुक्तं मधुसूदनसरस्वतीभिरस्मिन्नेव प्रकरणे अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानिरयजालेषु स तेन विनियोजितः ।। इति (मू) जोषयेदिति । जुष परितर्कणे परितर्पणे वा चुरादिः । परि तर्कणं, हिंसा; परितर्पणं, परितृप्तिक्रिया ॥ श्लो. २८ (व्या) विभागेति । विभज्यते पदार्थः अनेनेति विभागः विभाजकधर्मः ॥ श्लो. ३० (अ) जुषेतेति । जुषधातोः धृषाद्यन्तर्गतत्वात् चुरादिप्रयुक्तणिज्विकल्पः ।। श्लो. ३३ (व्या) एवमेव जानन् इति । विवक्षितज्ञान स्याकारं दर्शयति यत इत्यादिना निग्रह इत्यन्तेन । अयं च ज्ञाना कारः प्रकृतगीताश्लोकोत्तरार्धे दशित इत्यभिप्रायः । तथा चैता दृशज्ञानवानपि ज्ञानी स्वशरीरारंभक-भूतप्रकृतेः सत्त्वादेरनुगुण तृतीयोऽध्यायः मेव भोजनादी लौकिके व्यवहारे प्रवर्तते इति हृदयं प्रकृत श्लोकस्येति रमणीयः पन्था आचार्योपशितः । श्रीशङ्कराचार्य भास्कररामकण्ठादयस्तु अस्य पद्यस्याश विषयत्वम् अर्धप्रबुद्ध विषयत्वं वेत्यभिप्रेत्य व्याचख्यः॥ हा श्लो. ३७ (व्या) महस्य इति । मह इत्यकारान्तो यद्यपि उत्सवार्थकः, ‘मह उद्धव उत्सवः’ इत्यमरात (I, vii, 38) । तथापि उत्सवजन्ये सुखे लक्षणा इत्याशयेन व्याचष्टे महस्य सुखस्य इति । ‘महतः सुखस्याशनः’ इत्यपपाठ इव; ‘महदशन’ इत्यापत्तेः; महच्छब्दस्य सुखार्थकत्वाप्रसिद्धेश्च । महतः पापस्य हेतुत्वात् इति । तथा च महत् पाप्म यस्मात् स महापाप्मा इति विग्रहः ॥ श्लो. ३९ (व्या) इन्द्रियेष्विति । इदं चैवं ज्ञापयितीव प्रकृतगीतापद्ये द्वितीयपादे इन्द्रियेषु इत्येव आचार्यः पपाठेव इति । रामकण्ठाद्यभिमतपाठस्तु इन्द्रियैः सह इति । वर्तमानः प्रवर्त पाचः॥ श्लो. ४१ (मू) मोहयंस्तु इति । तुः एवार्थे । श्लो. ४५ (व्या) यथा चक्षुषा इत्यादि । यथा चक्षुषा शत्रौ दृष्टे इन्द्रियप्रदेशे एव क्रोध आत्मानं जनयति इति तात्पर्यार्थः । मोहं जनयन् ज्ञान नाशयति इति । तथा च मूले आवृत्य इत्यनेन ज्ञानावरणमोहनयोः पूर्वापरकालिकत्वमविवक्षितम् । श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता वस्तुतस्तयोः समानकालिकत्वात् इति दर्शितं भवति । अथवा ज्ञावं नाशयति इति शेषपूरणम् ; ज्ञानमावृत्य मोहं जनयन्नेव ज्ञानं नाशयत्यपि इत्यत्र तात्पर्यम् ॥ श्लो. ४६ (मू) प्रजहिहि इति । प्रपूर्वकात् ओ हाक् त्यागे इति जुहोत्यादेर्धातोः लोटि मध्यमपुरुषैकवचने ‘ईहल्यघोः’ ‘जहातेश्च’ (PA, VI, iv,113, 116) इति वैकल्पिके ईत्वे प्रज हिहि प्रजहीहि इति रूपद्वयम् । प्रजहिहि इत्येकपदपाठ एवा चार्याभिप्रेतः । अत एव त्यज इति न गृह्णीयात् इति चार्थं वर्ण यति । यदि प्रजहि हि इति विभागोऽभिमतः तदा ‘हन्यात्’ इति व्याख्येयं स्यात् । अथवेत्यादि । ज्ञानस्य धीशब्दवाच्यस्य अन्तःकरणात्म कमनोरूपत्वं ‘कामः संकल्पः -.- धीर्मीरित्येतत् सर्वं मन एव’ (Br. U. I, V, 3) इत्युपनिषत्प्रसिद्ध मित्यभिप्रेत्य ज्ञायते अने नेति ज्ञानमिति करणव्युत्पत्ति मनसि कृत्वा च व्याचष्टे ज्ञानेन मनसा इति । एवं विज्ञानपदस्य विशिष्टान्तःकरण परत्वात् आह-विज्ञानेन बुद्धया इति । एवं च पूर्वतनश्लोके नैकवाक्यता। किं च मनसः संकल्पविकल्पात्मकत्वात् बुद्धेश्व निश्चयात्मकत्वाच्च उक्तमर्थं पिण्डीकृत्य दर्शयति –संकल्पे न गृह्णीयात् इति, न निश्चिनुयात् इति च ॥ श्लो. ४७-४८ (व्या) शत्रुलक्षणात् विषयात् इति। पूर्व ‘यथा चक्षुषा शत्रुर्दृष्टः’ इत्यत्रोपदशितरीत्या अवापि दृष्टिपथं गतो यः शत्रुः तदात्मकात् विषयादित्यर्थः ।। तृतीयोऽध्यायः श्लो. ४७-४८ (व्या) क्रोधेन कथं मनसो बुद्धरात्मनो वा क्षोभ इत्यादि । ननु ‘काम एष क्रोध एष’ इति पद्ये (III, 37) कामक्रोधयोरुभयोरपि वैरित्वे स्पष्टतया प्रतिपादितेऽपि किमि त्याचार्यः ‘क्रोध एव पापदायी’ (III, 37) इति, —-मोघः श्रमो भवति क्रोधनस्य’ (42) इति, ‘चक्षुषा शत्रौ दृष्टे क्रोध आत्मानं जनयति - - - - मोहं जनयन् ज्ञानं नाशयति (45) इति, क्रोधादिकमिन्द्रियादिषु प्रथमं व गह्णीयात्’ (46) इति, तथा प्रकृतेऽपि ‘क्रोधेन कथम् -..- क्षोभः’ इति क्रोधस्यैव प्रकृतत्वं शत्रुत्वं च मन्यते; यदा श्रीशङ्करभास्कररामकण्ठादयः काम क्रोधयोरुभयोरपि शत्रुत्वमङ्गीकृत्यैव व्याख्यानमारचयन्ति ? इति कदाचिद्भवेच्छङ्का शिष्यस्य । तामपाकरिष्णुराचार्यो रह स्यमाह - रहस्यविदामित्यादि । अत्रायमभिप्रायः - खण्डितः काम एव क्रोधीभवतीति निश्वप्रचम् । यस्य चानुभवः ‘सर्वमहम्’ इति स कामयते सर्वमिति तदीयकामः आत्मकामः सन् परा हन्तारूपः सर्वदा सर्वच सर्वथा च खण्डनशून्यः न कदापि क्रोधत्वेन परिणमते। वक्ष्यति च - ‘काम इच्छा संवि न्मावरूपा, यस्या घटपटादिभिर्धर्मरूपैर्नास्ति विरोधः। इच्छा हि सर्वत्र भगवच्छक्तितया अनयायिनी न क्वचिदपि विरुध्यते ….. तदुपासकतया शुद्ध संवित्स्वभावत्वं ज्ञानिन’ इत्यादि (VII, 11) । तथा च वस्तुगत्या कामो न वैरीभवति । क्रोधस्तु परिमितस्य कामस्य खण्डनाजायमानो वैरीभवत्येव । वस्तुतस्तु कामस्य परिमितत्वम् अवच्छिन्नत्वं कामितवस्तुभिन्नेषु द्वेषात्मक शत्रुप्रयुक्तमेव । औदासीन्यमपि ‘सर्वमहम्’ इति पराहन्ताप्रति. पीता-5 66 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता द्वन्द्वि इति शत्रुरेवेति तत्प्रयुक्तमपि द्वेषप्रयुक्तादविशिष्टम् । तथा च परिमितः कामो द्वेषपूर्वकत्वात् वस्तुतो द्वेषः क्रोध एव । ‘काम एष क्रोध एष’ इति मूलस्यापि आचार्यमतेन अयमेवाभि प्राय इत्यत्र सुधियः प्रमाणम् । तस्मात् सुष्ठूक्तं ‘क्रोध एव पाप दायी’ इत्यादि। ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या तृतीयोऽध्यायः ।।