द्वितीयोऽध्यायः
संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । सीदमानमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वयंमकीर्तिकरमर्जुन ॥२॥ कुत इति । आदो लोकव्यवहाराश्रयेणैव भगवान् अर्जुन प्रतिबोधयति । क्रमात्तु ज्ञानं करिष्यति, इत्यतः अनार्यजुष्ट मित्याह ॥ २॥
- क्लैब्यादिभिनिर्भर्त्सनमभिदधत् अधर्म तव धर्माभिमा नोऽयम् इत्यादि दर्शयति मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३॥ अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजाविरिसूदन ॥४॥ गुरूनहत्वा हि महानुभावान् श्रेयश्चर्तुं मैक्षमपीह लोके । नत्वर्थकामस्तु गुरुनिहत्य भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ ५॥
- NK (n) omit अयम् श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता नैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषामस्ते नः स्थिताः प्रमुखे धार्तराष्टाः ॥६॥ कथमित्यादि । ‘कथं भीष्ममहं संख्ये द्रोणं च’ इत्यादिवा ‘भुजीय भोगान्’ इत्यनेन च कर्मविशेषानुसन्धानं फलविशेषा नुसन्धानं च हेयतया पूर्वपक्षे सूचयति । ‘नैतद्विद्मः’ इत्यनेन च कर्मविशेषानुसन्धानमाह । निरनुसन्धान तावत् कर्म नोपपद्यते । न च पराजयमभिसन्धाय युद्धे प्रवर्तते । जयोऽपि निश्चायमनर्थ एव । तदाह- ‘अहत्वा गुरून् भैक्षमपि चर्तुं श्रेयः । एतच्च निश्चेतुमशक्यं किं जयं कांक्षामः, किं वा पराजयम्, जयेऽपि बन्धूनां विनाशात्’ ॥ ४-६॥ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढवेताः । यच्छेयः स्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।। न हि प्रपश्यामि ममानुपद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्ध राज्यं सुराणामपि चाधिपत्यम् ॥ ८॥ संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥ तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये सीदमानमिदं वचः ॥ १० ॥ 1. BN omit पूर्वपले 2. S.BK निरभिसन्धानं 3, SK omit a: द्वितीयोऽध्यायः कार्पण्येत्यादि । ‘सेनयोरुभयोर्मध्ये’ इत्यादिनेदं सूचयति संथयाविष्टोऽर्जुनो निकपक्षेण युद्धान्निवृत्तः, यत एवमाह स्म ‘शाधि मा त्वां प्रपन्नम्’ इति । अतः उभयोरपि ज्ञानाज्ञान योर्मध्यगः श्रीभगवतानुशिष्यते ॥ १० ॥ श्रीभगवानुवाच त्वं मानुष्येणोपहतान्तरात्मा विषादमोहाभिभवाद्विसंज्ञः। कृपागृहीतः समवेक्ष्य बन्धून् अभिप्रपन्नान् मुखमन्तकस्य ॥ ११ ॥ त्वं मानुष्येणेति । मानुष्यं मनुष्यभावः । अन्तकमुखं स्वयमेते प्रविष्टा ईति तव को बाधः ॥ ११ ॥ अशोच्याननुशोचंस्त्वं प्राज्ञवन्नाभिभाषसे । गतासूनगतासंश्च नानुशोचन्ति पण्डिताः ॥ १२ ॥ अशोच्यानिति । शोचितुमशक्यं कलेबरं, सदा नश्वर त्वात् । अशोचनाहं च आत्मानं शोचसि । न कश्चित् गतासुः मृतः, अगतासुः जीवन् वा शोच्योऽस्ति । तथाहि3- आत्मा तावदविनाशी । नानाशरीरेषु संचरतः का अस्य शोच्यता? व च देहान्तरसंचाये एव शोच्यता। एवं हि यौवनादावपि शोच्यता भवेत् ॥ १२॥
- B - - नोऽनेक– 2. Somits sai 3.Somits हि गीता-2-A 18 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता एवमर्थद्वयमाह न ह्येवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमितः परम् ॥ १३ ॥ देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्ति/रस्तत्र न शोचति (?) ॥ १४ ॥ न हीत्यादि । अहं हि नैव नासम् , अपि तु आसम् ; एवं त्वम् , अमी च राजानः । आकारान्तरे च सति यदि शोच्यता, तहि कौमारात् यौवनावाप्तौ किमिति न शोच्यते? यो धीरः सन शोचति । धैर्य च एतच्छरीरेऽपि यस्यास्था नास्ति तेन सुकरम् । अतस्त्वं धैर्यमन्विच्छ॥ १३-१४ ॥ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तां स्तितिक्षस्व भारत ।। १५॥ मात्रेति । अधीरास्तु मात्राशब्दवाच्यैरथैर्ये कृताः स्पर्शा इन्द्रियद्वारेणात्मनः सम्बन्धाः तत्कृता याः शीतोष्णसुखदुःखा द्यवस्था अनित्याः, तास्वपि शोचन्ति न त्वेवं धीरा इत्याह । अथवा मात्राभिरिन्द्रियैरेषां स्पर्शा न तु साक्षात् परमात्मना । आगमः, उत्पत्तिः; अपायः, विनाशः एतद्युक्तास्तितिक्षस्व, सहस्व ॥ १५॥
- N धैर्य च 2. 5-बाच्यैरा ये 3. K-णात्मना 4. BN-परमात्मनः 5. B एतद्युक्तम् द्वितीयोऽध्यायः यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १६ ॥ ननु यत एवागमापायिनः सर्वे दशाविशेषास्तत एव शोच्यन्ते? मैवम् । तथाहि कोऽयमागमो वाम? उत्पत्तिरिति चेत् । सापि का? असत आत्मलाभः सा इति त्वसत् । अस त्स्वभावता हि निःस्वभावता निरात्मता; निरात्मा निःस्व भावः कथं सस्वभावीकर्तुं शक्यः? अनीलं हि न नीलीकर्तुं शक्यम्, स्वभावान्तरापत्तेर्दुष्टत्वात् । तथा च शास्त्रम् ‘न हि स्वभावो भावानां व्यावर्तेतोष्ण्यवद्रवेः’ इति । अथ सत एवात्मलाभ उत्पत्तिः, तदा लब्धात्मनोऽस्य जात्वप्यनभावान्नित्यतैव इति, आगमे का शोच्यता? एवमपा योऽपि सतः असतो वा ? असत्तावदसदेव । सत्स्वभावस्यापि कथमसत्तास्वभावः? द्वितीये क्षणेऽसौ असत्स्वभाव इति चेत् ? आद्येऽपि तथा स्यादिति न कश्चिद्भावः स्यात् । स्वभावस्या त्यागात् । अथ मुद्गरपातादिना अस्य नाशः क्रियते। सं यदि व्यतिरिक्तः, भावस्य किं वृत्तम् ? न दृश्यते इति चेत् । मा नाम दशि भावः, न त्वन्यथाभूतः पटावृत इव । अव्यतिरिक्तस्तु नासौ इत्युक्तम् । तदेतत्संक्षिप्याह नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १७ ॥ 1. S नामेति चेत् 2. BNomit निरात्मता 3. S तदलब्ध–जात्वष्यभावा 4. S, B, K मुद्गरादिना20 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता __नासत इति । अथ च लोकवृत्तेनेदमाह-असतः नित्य विनाशिनः शरीरस्य न भावः, अनवरतमवस्थाभिः परिणामि त्वात् । नित्यसतश्च परमात्मनो नास्ति कदाचिद्विनाशः; अपरिणामधर्मत्वात् । तथा च वेदः, ‘अविनाशी वा अरेऽय मात्मानुच्छित्तिधर्मा’ (बृ. उप. ४.५.१४) इति । अनयोः, सदसतोः अन्तः प्रतिष्ठापदं यत्रानयोविश्रान्तिः ॥ १७ ॥ यस्तत्त्वशिभिर्दृष्टः स खलु नित्योऽनित्यो वा? इत्या शक्याह अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ।। १८ ॥ अविनाशि इति । तुश्चार्थे । आत्मा त्वविनाशी ॥ १८॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । विनाशिनोऽप्रमेयस्य तस्मायुध्यस्व भारत ॥ १९॥ अन्तवन्त इति । [देहाः] निरुपाख्यताकाले स्थूलविनाश योगिनः तदन्यथानुपपत्तेरेव च विनाशिनः, प्रतिक्षणमवस्थान्तर भागिनः । यदुक्तम् ‘अन्ते पुराणतां दृष्ट्वा प्रतिक्षणं नवत्वहानिरनुमीयते’ इति । मुनिनापि ‘कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे । वर्तते सर्वभावेषु सौक्षम्यात्तु न विभाव्यते ॥ (MB, Santi. Moksa., Ch. 308, verse 121) इति। 1. S निरुपाख्यकाले 2. पुराणं दृष्ट्वा द्वितीयोऽध्यायः पृथगानामिति पृथगर्थक्रियाकारित्वादिति यावत् । देहा अन्त वन्तः विनाशिनश्च । आत्मा तु नित्यः यतोऽप्रमेयः । प्रमेयस्य तु जडस्य परिणामित्वम् ; न तु अजडस्य चिदेकरूपस्य, स्वभा बान्तरायोगात् । एवं देहा नित्यमन्तवन्त इति शोचितुमशक्याः । आत्मा नित्यमविनाशी, तेन न शोचनाहः । तन्त्रेण अयमेकः कृत्यप्रत्ययो द्वयोरर्थयोर्मुनिना दशितः ‘अशोच्यान्’ इति ॥ १९॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २०॥ य एनमिति । एनमात्मानं देहं च यो हन्तारं हतं च वेत्ति तस्याज्ञानम् । अत एव स बद्धः ।। २० ॥ एतदेव स्फुटयति न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽय पुराणो न हन्यते हन्यमाने शरीरे ॥ २१ ॥ न जायते इति । नायं भूत्वेति । अयमात्मा न न भूत्वा भविता, अपि तु भूत्वैव । अतो न जायते, न च म्रियते; यतो भूत्वा न न भविता, अपि तु भवितव ॥ २१ ॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ हन्यते हन्ति वा कथम् ॥ २२ ॥
- S सम्बन्धः 2. S omits waar 22 भीमद्भगवद्गीता गौतार्थसंग्रहोपैता वेदेति । य एनमात्मानं प्रबुद्धत्वात् जानाति ‘स न हन्ति न स हन्यते’ इति तस्य कथं बन्धः ॥ २२ ॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥२३॥ वासांसि इति । यथा वस्वाच्छादितः तद्वस्त्रनाशे समुचित वस्त्रान्तरावृतो न विनश्यति, एवमात्मा देहान्तरावृतः। २३ ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २४ ॥ अच्छेद्योऽयमदाह्योऽयमक्लेयोऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २५ ॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २६ ॥ नैनमित्यादि । नास्य नाशकारणं शस्त्रादि किंचित्करम् । चिदेकस्वभावस्य अनाश्रितस्य निरंशस्य स्वतन्त्रस्य स्वभा वान्तरापत्त्याश्रयविनाशावयवविभाग विरोधिप्रादुर्भावादिक्रमेण नाशयितुमशक्यत्वात् । न च देहान्तरगमनमस्य अपूर्वम्, देहा न्वितोऽपि सततं देहान्तरं गच्छति, तेन संबध्यते इत्यर्थः ।
- Nomits इति-बन्धः 2. Nomits यथा–न विनश्यति । 3. B,N,Kadd निरपेक्षस्य after अनाश्रितस्य 4. Nomits निरंशस्य; Sadds निरवयवस्य after निरंशस्य 5. S,B प्रक्रमेण 6. BIN अपूर्वदेहान्नित्योऽपि द्वितीयोऽध्यायः देहस्य क्षणमात्रमप्यनवस्थायित्वात्। एवंभूतं विदित्वा एन पात्मानं शोचितुं नार्हसि ॥ २४-२६ ॥ अथ वैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २७॥ - अथ वैनमिति । अथाप्येनं देहं मन्यसे नित्यजातं, प्रवाह स्याविनाशात् ; तथापि न शोच्यता। क्षणिकप्रक्रियया वा नित्य विनाशिनम् ; तथापि का शोच्यता? एवं यद्यात्मनः तत्तद्देह योगवियोगाभ्यां नित्यजातत्वं नित्यमृतत्वं वा मन्यसे, तथापि सर्वथा शोचनं प्रामाणिकानामयुक्तम् ॥ २७ ॥ - न चैतदन्यथा नित्यानित्यत्वमुपपत्तिमत् । यतः जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २८॥ जातस्येति । जन्मनः अनन्तरं नाशः, नाशादनन्तरं जन्मेति चक्रवदयं जन्ममरणसन्तान इति किंपरिमाणं शोच्य ताम् इति ॥ २८॥ “भपिच अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २९॥
- SK तद्देहयोग (K संयोग) 2. B,N प्राकरणि 3. NK नित्यत्वानित्यत्वम् 5. Sadds कुत इत्याह after यतः 5. N शोच्यतायाम् 24 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता अव्यक्तादीनीति । नित्याः सन्तु अनित्या वा; यस्तावदस्य शोचकस्तं प्रत्येष आदावव्यक्तः अन्ते चाव्यक्तः । मध्ये तस्य व्यक्तता विकारः इति । प्रत्युत विकारे शोचनीयं, न स्व. भावे । किं च यत् तन्मूलकारणं किञ्चिदभिमतं तदेव यथा क्रम विचित्रस्वभावतया स्वात्ममध्ये दशिततत्तदनन्तसृष्टि स्थितिसंहतिवैचित्यं नित्यमेव । तथास्वभावेऽपि कास्य थोच्यता? ॥ २९॥ एवंविधं च आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैनमन्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ आश्चर्यवदिति । ननु यद्येवमयमात्मा अविनाशी, किमिति सर्वेण तथैव नोपलभ्यते ? यतः अद्भुतवत्कश्चिदेव पश्यति ; श्रुत्वापि ‘एनं न कश्चित् वेत्ति न जानाति ॥ ३०॥ देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३१ ॥ देहीति । अतो नित्यमात्मनोऽविनाशित्वम् ॥ ३१॥
- BN omit विकार। 2. N शोचनीयस्वभावे 3. N omits ua 4. S तथाक्रमविचित्र 5.5-सृष्टिप्रतिसंहृति 6. 5-स्वभावमिति कास्य 7. Nomit एनम् 8. SBN न कश्चिदेव जा(BN कश्चिज्जा)नाति न वेत्ति 9. Komits न द्वितीयोऽध्यायः स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धाद्धि युद्धाच्छ्योऽन्यत् क्षत्रियस्य न विद्यते ॥ ३२ ॥ स्वधर्ममिति । स्वधर्मस्य च अनपहार्यत्वात्। युद्धविषयः सम्पो न युक्तः ॥ ३२॥ यच्छया चोपपत्र स्वर्गद्वारमपावृतम् । सुख्योऽन्ये(?) क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३३॥ यदछयेति । अन्येऽपि ये काममयाः क्षत्रियाः तैरपीदृशं युद्धं स्वर्गहेतुत्वात् न त्याज्यम् । किं पुनर्यस्य ईदृशं ज्ञानमुप दिष्टम् इति तात्पर्यम् । न पुनः स्वर्गपर्यवसायी श्लोकः ॥ ३३॥ यद्भयाच्च भवान् युद्धात् निवर्तते तदेव शतशाखमुप विपतिष्यति भवत इत्याह अथ चेवमिमं धम्र्य संग्रामं न करिष्यसि । ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ।।३४ ॥ अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभाषितस्य चाकीर्तिमरणादतिरिच्यते ॥३५ ।। भयाद्रणादुपरतं मस्यन्ते त्वां महारथाः । एषां च स्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३६ ॥ 1.S,BN अपरिहार्यत्वात् 2. Nomits ये 3. B,Nomit न पुनः—- श्लोकः 4. K निवर्तेत 26 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्य ततो दुःख़तरं नु किम् ॥ ३७॥ हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३८॥ अथ चेत्यादि । श्लोकपञ्चकमिदम् अभ्युपगम्यवादरूप मुच्यते ‘यदि लौकिकेन व्यवहारेणास्ते भवान् तथाप्यवश्यान ष्ठेयमेतत् ॥ ३४-३८॥ सुखदुःखे समे कृत्वा लामालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३९ ॥ सुखदुःखे इति । तव तु स्वधर्मतयैव कर्माणि कुर्वतो न कदाचित् पापसंबन्धः ॥ ३९॥ एषा तेऽभिहिता सांख्ये बुद्धियोंगे यथा शृणु (१)। बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ४० ॥ एषा त इति । एषा च तव सांख्ये सम्यग्ज्ञाने बुद्धि निश्चयात्मिका उक्ता। एषैव च यथा योगे कर्मकौशवाय उच्यते तथैव शृणू; यया बुद्धया कर्मणां बन्धकत्वं त्यक्ष्यसि । न हि कर्माणि स्वयं बध्नन्ति, जडत्वात् । अतः स्वयमात्या कर्मभिः वासनात्मकैरात्मानं बध्नाति ॥ ४० ॥ नेहातिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४१॥ 1. BN उपगम्य 2. SK कौशले यो(S य)ज्यते द्वितीयोऽध्यायः 29 नेहेति । इह अस्यां बुद्धौ अतिक्रमेण अपराधेच प्रमादेव वाशो न भवति, प्रमादस्याभावात् । यथा च परिमितेन श्री खण्डकणेन ज्वालायमानोऽपि तैलकटाहः सद्यः शीतीभवति, एवं अनया स्वल्पयापि योगबुद्धया महाभयं संसाररूपं विवश्यति ॥४१॥ व चैषा बुद्धिरपूर्वानीयते । किं तर्हि ? व्यवसायात्मिका बुद्धिरेकैव कुरुनन्दन । बहुशाखा घनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४२ ॥ व्यवसायात्मिकेति । व्यवसायात्मिका सर्वस्यकैव सहजा धीः निश्चेतव्यवशात् तु बहुत्वं गच्छति ॥ ४२ ॥ तथाच यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादपराः पार्थ नान्यदस्तीति वादिनः ॥ ४३ ॥ कामात्मानः स्वर्गपराः जन्मकर्मफलेप्सवः । क्रियाविशेषबहुला भोगैश्वर्यगतीः प्रति ॥ ४४ ॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४५ ॥
- SK omit इह 2. S,N तथा च 3. N शीतो भवति 4. Somits अपि Sसर्वस्यैव 6. Nomits सहजा श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता यामिमामित्यादि । ये कामाभिलाषिणः ते स्वयमेतां वाचं वैदात्मिका पुष्पिता भविष्यत्स्वर्गफलेन व्याप्ती वदन्ति । अत एव जन्मवः कर्मैव फलमिच्छन्ति ते अविपश्चितः । ते च तयव स्वयं कल्पितया वेदवाचा अपहृतचित्ताः व्यवसायबुद्धियुक्ता अपि न समाधियोग्याः, तत्र फलनिश्चयत्वात् । इति श्लोकवयस्य लात्पर्यम् ॥ ४३-४५ ॥ अत एव च प्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसस्वस्थो निर्योगक्षेम आत्मवान् ॥ ४६॥ वैगुण्येति । वेदास्वैगुण्येन करणेन विशेषेण सिन्वन्ति बध्नन्ति न तु [स्वयं] बन्धका ; यस्मात् सुखदुःखमोहबुद्धचा कर्माणि वैदिकानि क्रियमाणानि बन्धकानि, अतः वैगुण्यं काय. रूपं त्याज्यम् । यदि तु वेददूषणपरमेतदभविष्यत् प्रकृतं शुद्ध करणं व्यघटिष्यत, वेदादन्यस्य स्वधर्मनिश्वायकत्वाभावात् । वैषां तु फलाभिलाषो विगलितः तेषां न वेदाः बन्धकाः ॥ ४६॥ यतो वेदाः परं तेषां सम्यग्ज्ञानोपयोगिनः अत एवाह यावानर्थ उदपाने सर्वतः संप्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥४७॥
- B.N omit afacua; S reads afacuar 2. BN कारणेन 3. N बध्नन्तीति BN omit न तु 5. K omits एव द्वितीयोऽध्यायः यावानिति । यस्य स्वधर्ममा ज्ञाने वा प्राधान्यं तस्य] परिमितादपि वेदभाषितात् कार्य [सम्पद्यते] ॥ ४७ ॥ अतश्च कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ॥४८॥ कर्मणीति । कर्ममाने त्वं व्याप्तो भव, न तु कर्मफलेषु। ननु कर्मणि कृते2 नान्तरीयकतयैव फल पापततीति ? मैवम् । तब हि यदि त्वं फलकामनाकालुष्यव्याप्तो भवसि, तदा कर्मणां फलं प्रति हेतुत्वम् । यत् अप्रार्थ्यमानं फलं तत् ज्ञानं नानि च्छोस्तत् इति । कर्धाभावेन यः संगः स एव गाढग्रहरूपो मि थ्याज्ञानस्वरूपः इति त्याज्य एव ॥ ४८॥ कि हि योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्जय । सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥ ४९॥ योगस्थ इति । योगे स्थित्वा कर्माणि कुरु। साम्यंग योगः ॥४९॥ यस्य सर्वे समारंभा निराशीबन्धनास्त्विह । त्यागे यस्य हुतं सर्व स त्यागी स च बुद्धिमान् ॥ ५० ॥
- Nomits स्व 2. Bomits कृते; Nsubstitutes जाते 3. S,B,N omit तत् 4. BIN इत्यत्याज्य एवश्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यस्य सर्व इति । यस्य सर्वे व्यापाराः आशीरूपेण बन्ध नेन न युक्ताः । अभिलाषो हि बन्धकः ॥ ५० ॥ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ पणाः फलहेतवः ॥ ५१ ॥ दूरेण हीति । बुद्धियोगात्किल हेतोः अवरं दुष्टफल युक्त रिक्तं कर्म दूरीभवति । अतस्तादृश्या बुद्धौ शरणम विच्छ प्रार्थयस्व, येन सा बुद्धिः लभ्यते ॥ ५१॥ बुद्धियुक्तो जहातीमे उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५२ ॥ बुद्धियुक्त इति । उभे इति परस्परव्यभिचारं दर्शयति । तस्माद्योगायेति । यथा हि सुकृतदुष्कृते नश्यत.4, तथाकरणमेव परमं कौशलमिति भावः ॥ ५२ ।। कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५३॥ कर्मजमिति । योगबुद्धियुक्ताः कर्मणां फलं त्यक्त्वा जन्म बन्धं त्यजन्ति ब्रह्मसत्तामाप्नुवन्ति ॥ ५३॥
- BN omiti 2. K omits gaat 3. B omits fraai 4. N -दुष्कृते न नश्यतः 5. S,K अवाप्नुवन्ति द्वितीयोऽध्यायः यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५४ ॥ श्रुतिविप्रतिपन्ना ते यथा स्थास्यति निश्चिता। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ।। ५५ ॥ यदा ते इति । श्रुतीति । तत्र च योगबुद्धिप्राप्त्यबसरे तव स्फुटमेवेदमभिज्ञानम् –श्रोतव्यस्य श्रुतस्य अभिलष्यमाण स्य च आगमस्य उभयस्यापि निर्वेदभावत्वम् । अनेन चेद मुक्तम् - अविद्यापद निपतितप्रमावनुग्राहकशास्त्रश्रवणसंस्कार विप्रलम्भमहिमा अयं यत् तवास्थाने कुलक्षयादिदोषदर्शनम् । तत्तु तथाशासनबहुमानविगलने विगलिष्यति इति ।। ५४-५५॥ अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थिरधीः किं प्रभाषेत किमासीत व्रजेच्च किम् ॥ ५६ ॥ स्थितप्रज्ञस्येति । ‘यदा स्थास्यति बुद्धिः’ इत्यनेन बचसा समाधिस्थस्य योगिनो यः स्थितप्रज्ञशब्दः तत्र वाचक उक्त स्तस्य का भाषा, किं प्रवृत्तिनिमित्तम्? भाष्यते येन निमित्तेन शब्दैरर्थ इति कृत्वा । योगिनः स्थितप्रज्ञशब्द.6 किं रूढया
- Somits STETSZIFU 2. Nवा instead of च 3. S,B,K-भाक्त्वम् 4. B,N अविद्यामद 5. feqa and fear are found often interchanged in CA. 6. B.N omittaa: 32 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता वाचकः, अन्वर्थतया वा? इत्येकः प्रश्नः । यद्यपि रूढौ शङ्कव नास्ति; तथापि अन्वर्थती लब्धामपि स्वरूपलक्षणनिमित्तनि रूपणेन स्फुटीकर्तुमेष प्रश्नः । स्थिरधीरिति शब्दपदार्थकः अर्थपदार्थकश्च । तव स्थिरधीशब्दः किं प्रयोगलक्षणमेवार्थ माह, आहो तपस्विनमपि? इति द्वितीयः प्रश्नः । स च स्थिर. धीर्योगी किमासीत किमभ्यसेत्, क्वास्य स्थैर्य स्यात् ? पति तृतीयः । अभ्यस्यंश्च किमाप्नुयात् इति चतुर्थः । एतदेव प्रश्व चतुष्टयं क्रमेण निर्णीयते भगवता ।। ५६ ॥ श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५७ ॥ प्रजहातीति । स्थिता रूढा प्रज्ञा यस्य । रूढिश्च नित्य मात्मरूढित्वे सति विषयविक्षेपकृतस्य कामरूपस्या भ्रमस्य निवृत्तत्वात् योगिनो यः स्थितप्रज्ञशब्दः अन्वर्थः, स च इत्थं युक्तः इत्येकः प्रश्नो निर्णीतः ॥ ५७ ॥
- S omits ar 2. BN तरूपेण 3. S प्रस्फुटी 4. BN omit च, तत्र 5. N अभ्यसंश्च 6. S इति प्रश्नचतुष्टयम् अज्ञा(र्जु? )नेन कृतं क्रमेण निर्णीयते श्रीभगवता 7. Nomits कामरूपस्य 8. Nomits इत्थं द्वितीयोऽध्यायः दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थिरधीमुनिरुच्यते ॥ ५८॥ दुःखेष्विति । सुखदुःखयोर्यस्य रागद्वेषरहिता’ वृत्तिः स मुनिरेव स्थितप्रज्ञः नान्यः ॥ ५८ ॥ युक्तं चैतत् यतः या सर्वनानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५९॥ यः सर्वत्रेति । शुभाशुभप्राप्तौ तस्याह्लादतापौ च भवतः॥५९॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वतः । इन्द्रियाणीन्द्रियार्थेभ्यः स्थितप्रज्ञस्तदोच्यते ॥ ६ ॥ यदा संहरते इति । न चास्य पाचकवद्योगरूढत्वम् । यदा यदा किलायमिन्द्रियाणि संहरते आत्मन्येव, कूर्म इवा ङ्गानि क्रोडीकरोति विषयेभ्यः, विषयान्निवार्य तदा तदा स्थिरप्रज्ञः । यद्वा इन्द्रियार्थेभ्यः प्रभृति इन्द्रियाणि आत्मनि संहरते विषयेन्द्रियात्मकं सर्वम् आत्मसात्कुरुते ।। ६०॥ तनु तपस्विनोऽपि कथं स्थितप्रज्ञशब्दो न प्रवर्तते? उच्यते
- S-विरहिता 2. S विषयेभ्यः विषयार्थस्यैव विषयानिवार्य 3. K-न्द्रियादिकम् 4. BN आसन्नं instead सर्वम् गीता-3 34 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता निषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ६१ ॥ विषया इति । यद्यपि आहायः रूपादिभिविषयैः संबन्धो ऽस्य नास्ति, तथापि तस्य विषया अन्तःकरणगतमुपरागलक्षणं रसं वर्जयित्वा [एव] निवर्तन्ते । अतो नासौ स्थिरप्रज्ञः। रसं केचिदास्वाद्यं मधुरादिकमाहुः । योगिनस्तु परमेश्वरदर्शनात् उपरागो न भवति । अन्यस्य तु तपस्विनो नासौ निवर्तते॥६१ यत्तस्यापि हि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६२॥ यत्तस्यापीति । यत् यस्मात् तस्यापि तपस्विनो मन इन्द्रियः हियते । अथवा यत्तस्य सयत्नस्यापि । योगिना च मव एव जेतव्यमिति द्वितीयो निर्णीतः ॥ ६२ ॥ तानि संयम्य मनसा युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६३ ॥ तानीति । यः एवं मनसा इन्द्रियाणि नियमयति न त्व प्रवृत्त्या स एव स्थिरप्रज्ञः । स च मत्पर एव आसीत, मामेव चिदात्मानं परमेश्वरमभ्यस्येत् ॥ ६३ ॥ ध्यायतो विषयान् पुंसः संगस्तेषूपजायते । संगात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ ६४ ॥
- K omits this entire sentence 2. N omits न 3. BIN अभ्यसेत् द्वितीयोऽध्यायः 35 क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशावुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६५॥ ध्यायत इति । क्रोधादिति। तपस्विनो विषयत्याग एव विषयग्रहणे पर्यवस्यति । ध्यात्वा हि ते त्यजन्ते । ध्यान काले एव च संगादयः उपजायन्ते इति अनपायो विषयत्यागः स्थिरप्रज्ञस्य [एव] ॥ ६४-६५ ।। रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैविधेयात्मा प्रसादमधिगच्छति ॥ ६६ ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६७॥ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६८॥ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायु वमिवाम्भसि ॥ ६९ ॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वतः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ७॥ रागद्वेषेत्यादि प्रतिष्ठितेत्यन्तम् । यस्तु मनसो नियामकः स विषयान् सेवमानोऽपि न क्रोधादिकल्लोलैरभिभूयते इति स एव स्थितप्रज्ञो योगीति तात्पर्यम् ॥ ६६-७० ॥
- S omits a 2. K अनुपायो 36 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता योगी च सर्वव्यवहारान् कुर्वाणोऽपि लोकोत्तर इति विरूपयता परमेश्वरेण संक्षिप्यास्य स्वरूपं कथ्यते या निशा सर्वभूतानां तस्यां जगति संयमी । यस्यां जाग्रति भूतानि सा रात्रिः पश्यतो मुनेः ॥ ७॥ या निशेति । या सर्वेषां भूतानां निशा मोहिनी माया तस्यां मुनिर्जागत्ति ‘कथमियं हेया’ इति । यस्यां च दशायां लोको जत्ति नानाविधा चेष्टा कुरुते, सा मुनेः रात्रिः यतोऽसौ व्यवहारं प्रत्यबुद्धः। एतदुक्तं भवति - येयं माया खलु, तस्या द्वे रूपे मोह कत्वं नाम रूपं सुखतन्त्रताभासनं च। तत्र लोकः प्राच्यं स्वरूपमस्या अपरामृश्यैव द्वितीयस्मिन् रूपे निबद्धस्मृतिरास्ते । योगी तु तद्विपरीतस्तदीयं मोहकत्वं तदुन्मूलनाय पश्यति । सुख तन्वतां च नाद्रियते’, पश्यन् सम्यग्ज्ञानी। मिथ्याज्ञानोप घाताच्च सुखतन्त्रतानादरः । [एवं च पश्यत एव सा रावि. रिति चित्रम् । विद्याया वा बुध्यतेयोगी, यत्र सर्वोऽfq10 विमढः; अविद्यायो त्वबुद्धः यत्र जनः प्रबुद्ध इत्यपि चिवम् ॥७॥
- S omits sifa 2. Kमोहनी 3. S विविधा 4. B.N omit à ed 5. BN मोहकत्वे 6. B,N arg for aa hereinafter 7. Nनाश्रीयते 8. Sतन्त्रतायां नादरः 9. SK -यां चावधत्ते 10. S,B.N omit afa द्वितीयोऽध्यायः 37 अत एव आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥७२॥ आपूर्यमाणमिति । योगी न कामार्थ बहिर्धावति, अपि तु इन्द्रियधर्मतया; तं विषया अनुप्रविशन्तो न तरङ्गयन्ति नदीवेगा इवोदधिम् । एवं तृतीयो निर्णीतः ॥ ७२ ॥ विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः । निर्ममो निरहंकारो स शान्तिमधिगच्छति ॥ ७३ ॥ विहायेति । स योगी सर्वकामसंन्यासित्वात् शान्तिरूपं मोक्षमेति ॥७३॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुद्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति ॥ ७४ ॥ ॥ इति श्रीमद्भगवद्गीतायां द्वितीयोऽध्यायः॥ एषेति । एषा असौ ब्रह्मसत्ता, यस्यां क्षणमात्रं स्थित्वा अवस्थिति प्राप्य शरीरभेदात् परं2 ब्रह्म आप्नोति। इति प्रश्न चतुष्टयं निर्णीतमिति ॥ ७४॥ ॥ शिवम् ॥
- BN omit a and read faqatgafazat hati atat (B न तरंगयन्ति) 2. S,BN परमं श्रीमद्भगवद्गीता गौतार्थसंग्रहोपेता अव संग्रहश्लोकः अहो तु चेतसश्चित्रा गतिस्त्यागेन यत्किल । आरोहयत्येव विषयाञ्छ्यस्तास्तु परित्यजेत् ॥ २ ॥ ॥ इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे द्वितीयोऽध्यायः ॥ ॥श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ४-६ (व्या) एतच्चेत्यादिना फलविशेषाभिसन्धा नमपि न संभवतीति दर्शयति ॥ श्लो. ८ (मू) अवाप्येति । अवाप्य स्थितस्य ममेति संबन्धः॥ श्लो. ११ (मू) विसंज्ञ इति । सम्यक् ज्ञायते अनेन इति संज्ञं सम्यग्ज्ञानम् ; तस्माद्विनिवृत्तः विसंज्ञः सम्यग्ज्ञानशून्य इत्यर्थः ॥ श्लो. १४ (व्या)न शोचति इति । अनेनेदं सूचितमिव देहिन इति पद्ये चतुर्थपादे आचार्यः प्रायशः ‘न शोचतिः इति पपाठ, न तु ‘न मुह्यति’ इति यश्च सार्वत्रिकः पाठः ॥ _ श्लो. १५ (व्या) एतद्युक्तानिति । पूर्वोक्तावस्थाविशेष युक्तान् इत्यर्थः । वक्ष्यति च समनन्तरं तथैव ॥
- BN गतिर्योगन 2. BN तामपरित्यजेत् द्वितीयोऽध्यायः 39 श्लो. १७ (व्या) भावः सत्ता॥ श्लो. १९ (मू) नित्यस्येति । नित्यत्वं च ध्वंसाप्रतियो. गित्वम् । (व्या) स्थूलेत्यादि । अनेन ‘अन्तवन्त’ इत्यस्यार्थो वणितो वैदितव्यः । विनाशिन इति । विशिष्टो नाश एषामित्यर्थः । वैशिष्टयं च स्थूलत्वप्रतिद्वंद्वि सूक्ष्मत्वम् । तदेव दर्शयति - प्रति क्षणमित्यादिना। तथा च अन्तवन्तः विनाशिनः इत्यपौनरुक्त्यं बोध्यम् ॥ श्लो. २१ (व्या) न नेति द्वौ नौ प्रकृतार्थं दृढीकुरुतः । तच्च दर्शयति अपि तु भूत्वैवेति । एवमुत्तरत्रापि ॥ _श्लो. २४-२६ (व्या) तेन संबध्यते इत्यर्थः इतीदमधिक मनपेक्षमिव ॥ श्लो. २९ (व्या) यस्तावदित्यादि । यः पुरुषस्तावत् अस्य शोचनीयतया अभिमतस्य भावस्य विषये शोचकः शोचनकर्ता तं पुरुषं प्रति उद्दिश्य, एष भावः इत्याद्यर्थः । विचित्र स्वभावतयेति । तृतीयार्थः अवच्छिन्नप्रकारताकत्वं दर्शनेऽन्वेति ॥ श्लो. ३६ (मू) एषाम् इति काश्मीरपाठोऽत्र समादृतः ॥ श्लो. ४० (व्या) एषैव च यथा योगे कर्मकौशलायेति । अनेन च द्वयं सूचितमिव । प्रकृतगीताश्लोके द्वितीयपादे ‘योगे यथा शृणु’ इति पाठः प्रायश आचार्याभिमत इति; तथा सांख्ये योगे इति सप्तम्यौ निमित्तात् कर्मयोगे बोध्ये इति च ॥ । श्लो. ४३-४५ (व्या) तयैवेति । मूले तच्छब्देन (श्लो. ४५) पूर्वोक्ता (श्लो. ४३) पुष्पिता वाक् परामृष्टा, तादृश40 श्रीमद्भगवद्गीता गौतार्थसंग्रहोपैता वाचश्च तत्रैव प्रकृष्टवदनक्रियाकर्मत्वमुक्तमिति तस्या वस्तुतः कल्पितत्वमेव भगवदभिमतमिति कृत्वा तदर्थमाह - स्वयंकल्पितया वेदवाचा इति । तत्तदर्थवादानुरोधेन विधिवाक्यानि कल्पयन्त्यपि कमिण इति प्रसिद्धम् । फलनिश्चयत्वादिति । फलनिश्चयासत्त्वा दिति विवक्षितमिव ॥ श्लो. ४६ (व्या) करणेनेति करणे तृतीया। विशेषेण इत्य नेन विषय शब्दगतवीत्युपसर्गार्थमाह ॥ श्लो. ४८ (व्या) यत् अप्रार्थ्यमानं ज्ञानं नानिच्छोस्तत् इति । अत्र ‘यत प्रार्थ्यमानं फलं ज्ञातं, नानिच्छोस्तत्’ इति ; ‘फलं न ज्ञानेच्छोस्तत्’ इति वा; ‘फलं वानिच्छोस्तत्’ इति वा विवक्षितमिव प्रतिभाति ॥ श्लो. ५१ (व्या) हेतोरिति । तथा च बुद्धियोगात् इति मूले पञ्चमी ‘विभाषा गुणेऽस्त्रियाम् (PA,II,II,25) इत्यनेन बोध्येति भावः ॥ श्लो. ५४-५५ (व्या) अभिलष्यमाणस्येति । श्रोतव्यं श्रुतं चागमं कर्मठा अभिलष्यन्तेतमामिति प्रसिद्धमेतत् ॥ श्लो. ५६ (व्या) उक्तः, उक्तप्रायः । प्रयोगलक्षणमिति । प्रयोगः प्रकृष्टो योगः अवयवशक्तिसंबन्धः स एव लक्षणं ज्ञापकं यस्य तम् अर्थमिति । अवयवशक्तिमात्रबोधितमिति यावत् । अथ वा प्रकृष्टो योगः बुद्धियोगः यश्च प्रकृतः; स एव लक्षणं स्वरूपं यस्य सः; तमर्थमिति। बुद्धियोगयुक्तमिति पर्यवसितार्थः। अत एव स्थिरधीर्योगी इत्यपि वक्ष्यति । द्वितीयोऽध्यायः श्लो. ५७ (व्या) रूढिश्चेत्यादि । अत्रेदमभिप्रेतमिव ‘रूढिश्च नित्यमात्मरूढित्वम् । तस्मिश्च सति —— योगिनो यः स्थितप्रज्ञशब्दः सोऽन्वर्थः, स चेत्थं युक्तः’ इति ॥ श्लो. ६० (व्या) न चास्य पाचकवद्योगरूढत्वमिति । अत्र च ‘न चास्य पङ्कजशब्दवद्योगरूढत्वम् ; अपि तु पाचकपद वत् यौगिकत्वम्’ इति विवक्षितमिति प्रतिभाति । अत एव यदा यदा इत्यादि वक्ष्यमाणं संगच्छते । अत्र च — ‘यदि क्रियासंबन्धनिमित्तः कारकशब्दप्रयोगः, पचत्येव पाचकशब्दः प्रवर्तते, नापाक्षीत् इति पाचकः, न पक्ष्यतीति पाचकः ।। इति न्यायवातिकवाक्यानि (II, i, 16) अनुसंधेयानि । इन्द्रियार्थेभ्यः प्रभृति इति । तथा च प्रभृतिशब्दाभावेऽपि तद र्थस्य सत्त्वात् तत्प्रयुक्ता मूले इन्द्रियार्थेभ्य इति पञ्चमी इति भावः । अत एव ‘अपादाने पञ्चमी’ (PA,II,iii,28) इति सूत्रे पहा भाष्ये ‘यतश्चाध्वकालनिमानं ततः पञ्चमी’ इति वात्तिकप्रत्या. ख्यानावसरे ‘इदमत्र प्रयोक्तव्यं सत् न प्रयुज्यते-कात्तिक्याः प्रभृति आग्रहायणी मासे’ इत्युक्तम् । सर्वमिति । तथा च एतद्वितीयव्याख्यानुरोधेन मूले सर्वत इति सार्वविभक्तिकस्तसिरिति आचार्याभिप्रेतमिव प्रतिभाति ॥ श्लो.६१ (मू) दृष्ट्वेति। परं दृष्ट्वा वर्तमानस्य अस्य रसोऽपि निवर्तते इति योजना ॥ 42 श्रीमद्भगवद्गीता गौतार्थसंग्रहीपैता श्लो. ६२ (न्या) यत्तस्येति-यती प्रयत्ने इति भौवादि कस्य धातोरकर्मकत्वात् गत्यर्थाकर्मकेत्यादिना(PA,III,iv, 72) कर्तरि क्तः, प्रयतत इत्यर्थः । तदेवाह सयत्नस्येति ॥ श्लो. ७१ (व्या) द्वे रूपे इत्यादि । मोहकत्वं नाम एक रूपं, सुखतन्त्रताभासनं नाम द्वितीयं च रूपमित्यर्थः ॥ संग्रहश्लोके आरोहत्येवेत्यादि । अथवा ‘आरुह्यादेव विषयान्, श्रयत् तास्तु’ इति युज्यतेतराम् । श्रयदिति चेतो. विशेषणम् । विषयाणां त्यागेन तानारुह्यात् चेतः, श्रयणेन तु तानेव परित्यजेत् इति अतीव चित्रा गतिश्चेतसः, अहो! इति तात्पर्यम् ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां द्वितीयोऽध्यायः ॥