प्रथमोऽध्यायः
य एष विततस्फुरद्विविधभावचक्रात्मक परस्परविमेदवान विषयतामुपागच्छति । यदेकमयभावनावशत एत्यभेदान्वयं स शम्भुरशिवापहो जयति बोधभास निधिः ॥१॥ द्वैपायनेन मुनिना यदिदं व्यधायि शास्त्रं सहस्रशतसंमितमत्र मोक्षः। प्राधान्यतः फलतया प्रथितस्तदन्य धर्मादि तस्य परिपोषयितुं प्रगीतम् ॥२॥ मोक्षश्च नाम सकलाप्रविभागरूपे सर्वज्ञसर्वकरणादिशुभस्वभावे । आकांक्षया विरहिते भगवत्यधीशे नित्योदिते लय इयान् प्रथितः समासात् ॥३॥
- S commences : श्रेयसे स्वस्ति श्रीगणेशाय नमः । ___B. ओं श्रीगुरवे शिवायों नमः । श्रीगणपतये नमः । श्रीरस्तु । 2. S,B,N - रूप . श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यद्यप्यन्यप्रसङ्गेषु मोक्षो नामात्र गीयते । तथापि भगवद्गीताः सम्यक तत्प्राप्तिदायकाः ॥ १॥ तास्वन्यैः प्राक्तनैाख्याः कृता यद्यपि भूयसा । न्याय्यस्तथाप्युद्यमो मे तद्गूढार्थप्रकाशकः ॥५॥ भद्देन्दुराजादाम्नायं विविच्य च चिरं धिया । कृतोऽभिनवगुप्तेन सोऽयं गीतार्थसंग्रहः ॥६॥ विद्याविद्यात्मनोः द्वयोरभिभाब्याभिभावकात्मत्वं प्रद. शयितुं प्रथमाध्यायप्रस्तावः । न हि अनुत्पन्न विद्यालेशावकाश उपदेशभाजनम्, नापि निर्मलितसपस्ताविद्याप्रपञ्च 5; एककोटि विश्रान्तस्य तु ततः कोटेश्च्यावयितुमशक्यत्वात् । अज्ञविपर्यस्त योस्तूपदेश्यत्वं यदुच्यते, तत् क्वचिदेव । तथा तु औन्मुख्या 6उपदेष्टव्येऽर्थे सन्दिग्धतैव । अत एव संशयनिर्णोदक एवोपदेश इति विद्याविद्याङ्गसंघट्टमयः संशय [इति च] उच्यते। देवा सुरसृष्टिश्च विद्या विद्यामयीति तत्कथोपक्रमणमेव मोक्षमार्गो पदेशनम् । ज्ञानं च प्रधानं कर्माणि च अपहर्तव्यानि इति, कर्मणां ज्ञाननिष्ठतया क्रियमाणानामपि न बन्धकत्वमिति, ज्ञान[स्य] प्राधान्यम् नान्तरीयकत्वं तु कर्मणाम् , न तु ज्ञान S-दायिकाः 2. B, N प्राकृताख्याः 3. S, B प्रदर्शकः 4.S, B विभावकत्वं 5. S-स्तविद्या 6. S- Fटव्ये त्वर्थे 7. परिहर्तव्यानि प्रथमोऽध्यायः कर्मणी समशीर्षतया समुच्चीयेते इत्यत्र तात्पर्यम् । एवमेव मुनेरभिप्रायं यथास्थानं प्रतिपादयिष्यामः इति किमन्यैस्तत्त्व दर्शवविघ्नमात्रफलैग्जिालैः ॥ धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे सर्वक्षत्रसमागमे । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥ धर्मक्षेत्र इति । अत्र केचित् व्याख्याविकल्पमाहुः कुरूणां करणानां यत् क्षेत्रमनुग्राहकं अतएव सांसारिकधर्माणां सर्वेषां क्षेत्रम् उत्पत्तिनिमित्तत्वात् । ‘अयं स परमो धर्मो यद्योगेनात्मदर्शनम्’ (या. स्मृ. I, 8) इत्यस्य च धर्मस्य क्षेत्रम् ; समस्तधर्माणां क्षयात् अपवर्गप्राप्त्या वाणभूतं तदधिकारिशरीरम् । सर्वक्षत्राणी, क्षदेः हिंसार्थत्वात्, परस्परं वध्यघातकभावेन वर्तमानानी रागवैराग्यक्रोधक्षमा प्रभृतीनां समागमो यत्र, तस्मिन् स्थिता ये मामका अविद्या. पुरुषोचिता अविद्यामयाः संकल्पाः; पाण्डवाः शुद्धविद्यापुरुषो चिता विद्यात्मानः; ते किमकुर्वत ? कैः खलु के जिताः ? इति । मायकः अविद्यापुरुषः; पाण्डुः, शुद्धः ॥१॥
- S,B,N समतया 2. S एकमेव च 3.5 सांसारिकत्वधर्माणां 4. परस्परवध्य श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २ ॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते । सैन्ये महति ये सर्वे नेताः शूरसंमताः ॥ ७ ॥ भवान् भीष्मश्च कर्णश्च कृपः शल्यो जयद्रथः । अश्वत्थामा विकर्णश्च सौमदत्तिश्च वीर्यवान् ॥ ८ ॥ अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः । नानाशस्त्र प्रहरणा नानायुद्धविशारदाः ॥९॥ किं वा अनेन बहुपरिगणनेन। इदं तावद्वस्तुतत्त्वम् इत्याह
- K omits बहु प्रथमोऽध्यायः अपर्याप्तं तदस्माकं बलं भीमाभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीष्माभिरक्षितम् ॥ १० ॥ अपर्याप्तमिति । भीमसेनाभिरक्षितं पाण्डवीयं बलम अस्माकमपर्याप्तं जेतुमशक्यम् । यदि वा2 अपर्याप्तम्, कियत्त दस्मद्वलस्येत्येवार्थ. । इदं तु भीष्माभिरक्षितं बलमस्माकं सम्बन्धि एतेषां पाण्डवानां पर्याप्तम्, जेतुं शक्यम्; यदि वा पर्याप्तं बहु, न समरे जय्यमेतैरिति ॥१०॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥ अयनेषु इति - अयनानि वीथयः ॥ ११॥ तस्य संजनयन हर्ष कुरुवृद्धः पितामहः । सिंहनादं विनद्योचैः शंखं दध्मौ प्रतापवान् ॥ १२ ।। ततः शंखाश्च भेयश्च पणवानकगोमुखाः । सहसेवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शखौ प्रदध्मतुः ॥ १४ ॥
- SBN जेतुमसमर्थम् 2. K अथवा 3. K omits ya 4. S पाण्डवानां बलं पर्याप्तम्; BN omit पर्याप्तम् 5. S शक्तम् 8 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः ॥ १५ ॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७॥ पाञ्चालश्च महेष्वासो द्रौपदेयाश्च पञ्च ये। सौभद्रश्च महाबाहुः शंखान् दध्मुः पृथक् पृथक् ॥ १८॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् ॥ १९ ॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ।। हृषीकेशं तदा वाक्यमिदमाह महीपते ।। २० ॥ अर्जुन उवाच - सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान निरीक्षेऽहं योद्धुकामानवस्थितान् । कैमया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥ २१ ॥ योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्टस्य दुर्बुद्धेयुद्धे प्रियचिकीर्षवः ॥ २२॥
K ब्यनुनादयन् प्रथमोऽध्यायः संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २३ ॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ २४ ॥ तत्रापश्यत् स्थितान् पार्थः पितृनथ पितामहान् । आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखींस्तथा। श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ॥ २५ ॥ तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् । कृपया परयाऽऽविष्टः सीदमानोऽब्रवीदिदम् ॥ २६ ॥ अर्जुन उवाच दृष्ट्वेमान स्वजनान् कृष्ण युयुत्मन् समवस्थितान् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २७ ॥ वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं संसते हस्तात् त्वक् चैव परिदह्यते ॥ २८ ॥ न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ २९ ॥ न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न कांक्षे विजयं कृष्ण न राज्यं न सुखानि च ॥ ३० ॥ किं नो राज्येन गोविन्द किं भोगर्जीवितेन वा । ३१॥ गीता-2श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्वे प्राणांस्त्यक्त्वा धनानि च ॥ ३२॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः। मातुलाः श्वशुराः पौत्राः स्पालाः संबन्धिनस्तथा ॥ ३३ ॥ एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किमु महीकृते ॥ ३४ ॥ न च श्रेयोऽनुपश्यामीत्यादि । ‘अमी आचार्यादयः इति विशेषबुद्धया बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदा यिनः । तथा ‘भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते’ इति बुद्धया क्रियमाणं युद्धे वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षा भिप्रायः । अत एव स्वधर्ममावतयैव कर्माणि अनुतिष्ठ, न विशेषधियेति उत्तरं दास्यते ॥ ३०-३४॥ निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन ॥ ३५ ॥ पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः । तस्मान्ना वयं हन्तुं धार्तराष्टान स्वबान्धवान् ।। ३६ ॥ स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७॥ यद्यप्यते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥ 1 B.N शेषबुद्ध या 2. S युद्धेषु वध्य-; K युद्धेष्ववध्य प्रथमोऽध्यायः कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्म नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४०॥ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ।। ४१ ॥ संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ १२ ॥ दोरेतैः कुलध्नानां वर्णसंकरकारकैः । उत्सायन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ।। ४४ ॥ निहत्येत्यादि । आततायिनां हनने पापमेव कर्तृ । अतो ऽयसर्थः- पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् । पापमत्र लोभादि बथात् कुलक्षयादिदोषादर्शनम् । अत एव 4कुलादिधर्माणा. मुपक्षेपं करोति-स्वजनं हि कथमित्यादिना ॥ ३५-४४ ॥ विशेषफलबुद्धया हन्तव्यादिविशेषबुद्धया च हनने महा पातकमित्येतदेव संक्षिप्याभिधातुं परितापातिशयसूचनायात्मगत मेवार्जुनो वचनमाह
- S omits पापम् 2.5 लोभवशात् 3.S दोषदर्शनम् 4. K कुलक्षयादि 5. BN -क्षेपकम् श्रीमद्भगवद्गीता गौतार्थसंग्रहोपेता अहो बत महात्पापं कतुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥ अहो बतेति। वयमिति - कौरवपाण्डबभेदभिन्नाः सर्व एपेत्यर्थः ॥ ४५ ॥ एवं सर्वेष्वविवेकिषु मम विवेकिनः किमुचितं? उचितं बावद्युद्धान्निवर्तनम् एतत्तूचिततरमित्याह यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥ संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविनमानसः ॥ ४७ ॥ ॥ इति श्रीमद्भगवद्गीतायां प्रथमोऽध्यायः ॥ बनायं संग्रहश्लोकः विद्याविद्योभयाघातसंघट्टविवशीकृतः । युक्त्या द्वयमपि त्यक्त्वा निविवेको भवेन्मुनिः ॥ ॥ शिवम् ॥ इति श्रीमहामहेश्वराचार्यवयं राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे प्रथमोऽध्यायः ॥ -* ॥श्रीशङ्करनारायणीया श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ स्तुत्वा कृष्णं वासुदेवं स्मृत्वा सर्वान गुरूनपि । rape नत्वा चाभिनवं गुप्तं वक्ष्येऽत्यल्प प्रयत्नतः ॥ भक्त्यैवाधि तदीयं चागाधं गीतार्थसंग्रहम् । श्रीमच्छङ्करनारायणोऽहं श्रीशिवतुष्टये ।। आमुखपद्ये द्वितीये तस्येति । मोक्षप्रथनस्येत्यर्थः । अस्य च परिपोषयितुपिति तुमुन्नन्तेनान्वयः । इयं च न कर्मणि षष्ठी; ‘न लोकाव्ययनिष्ठाखलर्थतनाम्’ (PA, II, iii, 69) इति विषेधात् । अपि तु शेषषष्ठयेव ॥ (अवतरणिकायाम्) औन्मुख्येति औन्मुख्यजननीत्यर्थः । तत्कथेत्यादि । तेषां देवासुराणा कथैवोपक्रमणं यस्य तत् इति विग्रहः । अपहर्तव्यानीति । आहर्तबानीजि विवक्षितमिव । अबु. ष्ठेयानीति तदर्थः । अथ वा अनपहर्तव्यानीति विवक्षितम् । न परिहर्तव्यानीति तदर्थः । वक्ष्यति च ‘स्वधर्मस्य अनपहार्यत्वात्’ इति (II, 32 )॥ श्लोकः १ (व्याख्या) मामक इति । ममकः स एव मामक इति विवक्षितमिव ।। श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता श्लो ३५-४४ (व्या) हनने पापमेव कत इति । तथा च पापमेव इति पद्ये आश्रयेत् इति तिङन्तार्थाश्रयक्रियाकन यत् पापं तदेव हत्वेति क्त्वान्तहननक्रियाकर्वपि । ‘समानकर्तृकयोः पूर्वकाले’ (PA, III, iv, 21) इत्यनुशासनात् ; हनन क्रिया कर्तृत्वेनान्यस्य कस्य चिदप्यश्रूयमाणत्वाच्चेति भावः ॥ श्लो. ४५ (अ) विशेषफलेति - फखविशेषेत्यर्थः ।। ॥ इति श्रीमद्भगवद्गीथार्थसंग्रहटिप्पण्यां प्रथमोऽध्यायः॥