18

१८।१

अर्जुन उवाच
सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥१॥

श्रीधर :

न्यास-त्याग-विभागेन सर्व-गीतार्थ-सङ्ग्रहम् ।
स्पष्टम् अष्टादशे प्राह परमार्थ-विनिर्णये ॥

अत्र च -

सर्व-कर्माणि मनसा
सन्न्यस्यास्ते सुखं वशी । (गीता ५।१३)
सन्न्यास-योग-युक्तात्मा (गीता ९।२८)

इत्य् आदिषु कर्म-सन्न्यास उपदिष्टः । तथा -

त्यक्त्वा कर्म-फलासङ्गं
नित्य-तृप्तो निराश्रयः ।
सर्व-कर्म-फल-त्यागं
ततः कुरु यतात्मवान् ॥ (गीता ४।२०)

इत्य् आदिषु च फल-मात्र-त्यागेन कर्मानुष्ठानम् उपदिष्टम् । न च परस्पर-विरुद्धं सर्वज्ञः परम-कारुणिको भगवान् उपदिशेत् । अतः कर्म-सन्न्यासस्य तद्-अनुष्ठानस्य चाविरोध-प्रकारं बुभुत्सुर् अर्जुन उवाच सन्न्यासस्येति । भो हृषीकेश सर्वेन्द्रिय-नियामक । हे केशी-निसूदन केशी-नाम्नो महतो हयाकृतेः दैत्यस्य युद्धे मुखं व्यादाय भक्षयितुम् आगच्छतो अत्यन्तं व्यात्ते मुखे वाम-बाहुं प्रवेश्य तत्-क्षणम् एव विवृद्धेन तेनैव बाहुना कर्कटिका-फलवत् तं विदार्य निसूदितवान् । अतएव हे महाबाहो इति सम्बोधनम् । सन्न्यासस्य त्यागस्य च तत्त्वं पृथग् विवेकेन वेदितुम् इच्छामि ॥१॥

विश्वनाथ :

सन्न्यास-ज्ञान-कर्मादेस् त्रैविध्यं मुक्ति-निर्णयः ।
गुह्य-सारतमा भक्तिर् इत्य् अष्टादश उच्यते ॥

अनन्तराध्याये -

तद् इत्य् अनभिसन्धाय
फलं यज्ञ-तपः-क्रियाः ।
दान-क्रियाश् च विविधाः
क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ (गीता १७।२५)

इत्य् अत्र भगवद्-वाक्ये मोक्ष-काङ्क्षि-शब्देन सन्न्यासिन एव उच्यन्ते । अन्ये वा यद्य् अन्य एव ते, तर्हि - सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् इति (गीता १२।११) त्वद्-उक्तानां सर्व-कर्म-फल-त्यागिनां तेषां स त्यागः कः । सन्न्यासिनां च को स सन्न्यास इति विवेकतो जिज्ञासुर् आह सन्न्यासस्येति । पृथग् इति यदि सन्न्यास-त्याग-शब्दौ भिन्नार्थौ तदा सन्न्यासस्य त्यागस्य च तत्त्वं पृथग् वेदितुम् इच्छामि । यदि त्व् एकार्थौ ताव् अपि त्वन्-मते अन्य-मते वा तयोर् ऐक्यार्थम् अर्थाद् एकार्थत्वम् इति पृथग् वेदितुम् इच्छामि । हे हृषीकेशेति मद्-बुद्धेः प्रवर्तकत्वात् त्वम् एव इमं सन्देह-मुखापयसि । केशि-निसूदन इति तं च सन्देहं त्वम् एव केशिनम् इव विदारयसीति भावः । महाबाहो इति त्वं महा-बाहु-बलान्वितो ऽहं किञ्चिद् बाहुबलान्वित इत्य् एतद् अंशेनैव मया सह सख्यं तव । न तु
सार्वज्ञ्यादिभिर् अंशैर् अतस् त्वद्-दत्त-किञ्चित्-सख्य-भावाद् एव प्रश्ने मम निःशङ्कतेति भावः ॥१॥

बलदेव :

गीतार्थान् इह सङ्गृह्णन् हरिर् अष्टादशे ऽखिलान् ।
भक्तेस् तत्र प्रपत्तेश् च सो ऽब्रवीद् अतिगोप्यताम् ॥

सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । (गीता ५।१३) इत्य् आदौ सन्न्यास-शब्देन किम् उक्तम् – त्यक्त्वा कर्म-फलासङ्गं (गीता ४।२०) इत्यादौ त्याग-शब्देन च किम् उक्तं भगवता तत्र सन्दिहानो ऽर्जुनः पृच्छति सन्न्यासस्येति । सन्न्यास-त्याग-शब्दौ शैल-तरु-शब्दाव् इव विजातीयार्थौ किं वा कुरु-पाण्डव-शब्दाव् इव सजातीयार्थौ । यद्य् आद्यस् तर्हि सन्न्यासस्य त्यागस्य च तत्त्वं पृथग्-वेदितुम् इच्छामि । यद्यन्तस् तर्हि तत्रावान्तरोपाधि-मात्रं भेदकं भावि, तच् च वेदितुम् इच्छामि । हे महाबाहो कृष्ण हृषीकेशेति धी-वृत्ति-प्रेरकत्वात् त्वम् एव मत्-सन्देहम् उत्पादयसि । केशि-निसूदनेति त्वं मत्-सन्देहं केशिनम् इव विनाशयेति ॥१॥


१८।२

श्रीभगवान् उवाच
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ॥२॥

श्रीधर : तत्रोत्तरं श्री-भगवान् उवाच - काम्यानाम् इति । काम्यानां पुत्र-कामो यजेत स्वर्ग-कामो यजेतेत्य् एवम् आदि कामोपबन्धेन विहितानां कर्मणां न्यासं परित्यागं सन्न्यासं कवयो विदुः । सम्यक्-फलैःसह सर्व-कर्मणाम् अपि न्यासं सन्न्यासं पण्डिता विदुर् जानन्तीत्य् अर्थः । सर्वेषां काम्यानां नित्य-नैमित्तिकानां च कर्मणां फल-मात्र-त्यागं प्राहुस् त्यागं प्राहुस् त्यागं विचक्षणा निपुणाः । न तु स्वरूपतः कर्म-त्यागम् ।

ननु नित्य-नैमित्तिकानां फलाश्रवणाद् अविद्यमानस्य फलस्य कथं त्यागः स्यात् । नहि बन्ध्यायाः पुत्र-त्यागः सम्भवन्ति ।

उच्यते यद्यपि स्वर्ग-कामः पशुकाम इत्य् आदिवद् अहरहः सन्ध्याम् उपासीत यावज्-जीवम् अग्निहोत्रं जुहोतीत्य् आदिषु फल-विशेषो न श्रूयते तथाप्य् अपुरुषार्थे व्यापारे प्रेक्षावन्तं प्रवर्तयितुम् अशक्नुवन् विधिर् विश्वजिता यजेतेत्य् आदिष्व् इव सामान्यतः किम् अपि फलम् आक्षिपत्य् एव । न चातीव-गुरुम् अतः श्रद्धया स्व-सिद्धिर् एव विधेः प्रयोजनम् इति मन्तव्यम् । पुरुष-प्रवृत्त्य्-अनुपपत्तेर् दुष्परहरत्वात् । श्रूयते च नित्यादिष्व् अपि फलम् - सर्व एते पुण्य-लोका भवतीति । कर्मणा पितृ-लोक इति । धर्मेण पापम् अपनुदन्ति इत्य् एवम् आदिषु । तस्माद् युक्तम् उक्तं सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणा इति ।

ननु फल-त्यागेन पुनर् पै निष्फलेषु कर्मसु प्रवृत्तिर् एव न स्यात् । तन् न, सर्वेषाम् अपि कर्मणां संयोग-पृथक्त्वेन विविदिषार्थतया विनियोगात् । तथा च श्रुतिः - तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनेति । ततश् च श्रुति-पदोक्तं सर्वं फलं बन्धकत्वेन त्यक्त्वा विविदिषार्थं सर्व-कर्मानुष्ठानं घटत एव । विविदिषा च नित्यानित्य-वस्तु-विवेकेन निवृत्त-देहाद्य्-अभिमानतया बुद्धेः प्रत्यक्-प्रवणता । तावत् पर्यन्तं च सत्त्व-शुद्ध्य्-अर्थं ज्ञानाविरुद्धं यथोचितम् अवश्यकं कर्म कुर्वतस् तत्-फल-त्याग एव कर्म-त्यागो नाम । न स्वरूपेण । तथा च श्रुतिः कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतां समाः (ईशो २) इति । ततः परन्तु सर्व-कर्म-निवृत्तिः स्वत एव भवति । तद् उक्तं नैष्कर्म्य-सिद्धौ -

प्रत्यक्-प्रवणतां बुद्धेः कर्माणि उत्पाद्य शुद्धितः ।
कृतार्थान्यस्तम् आयान्ति प्रावृडस्ते घना इव ॥

उक्तं च भगवता - यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदि । वशिष्ठेन चोक्तम् -

न कर्माणि त्यजेद् योगी
कर्मभिस् त्यज्यते ह्य् असौ ।
कर्मणो मूल-भूतस्य
सङ्कल्पस्यैव नाशतः ॥ इति ।

ज्ञान-निष्ठा-विक्षेपकत्वम् आलक्ष्य त्यजेद् वा । तद् उक्तं श्री-भागवते -

तावत् कर्माणि कुर्वीत
न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा
श्रद्धा यावन् न जायते ॥ (भ्प् ११।२०।९)

ज्ञान-निष्ठो विरक्तो वा
मद्-भक्तो वानपेक्षकः ।
सलिङ्गानाश्रमांस् त्यक्त्वा
चरेद् अविधि-गोचरः ॥ (भ्प् ११।१८।२८) इत्य् आदि ।

अलम् अतिप्रसङ्गेन प्रकृतम् अनुसरामः ॥२॥

विश्वनाथ : प्रथमं प्राच्यं मतम् आश्रित्य सन्न्यास-त्याग-शब्दयोर् भिन्न-जातीयार्थत्वम् आह काम्यानाम् इति । पुत्र-कामो यजेत स्वर्ग-कामो यजेत इत्य् एवं कामोपबन्धेन विहितानां काम्यानां कर्मणां न्यासं स्वरूपेणैव त्यागं सन्न्यासं विदुर् न तु नित्यानाम् अपि सन्ध्योपास्तादीनाम् इति भावः । सर्वेषां काम्यानां नित्यानाम् अपि कर्मणां फलं कर्मणा पितृलोकः इति । धर्मेण पापम् उपनुदति इत्य् आद्याः श्रुतयः प्रतिपादयन्त्य् एव इत्य् अतस् त्यागे फलाभिसन्धि-रहितं सर्व-कर्म-करणम् । सन्न्यासे तु फलाभिसन्धि-रहितं नित्य-कर्म-करणम् । काम्य-कर्मणां तु स्वरूपेणैव त्याग इति भेदो ज्ञेयः ॥२॥

बलदेव : एवं पृष्टो भगवान् उवाच काम्यानाम् इति । पुत्र-कामो यजेत स्वर्ग-कामो यजेत इत्य् एवं कामोपनिबन्धेन विहितानां पुत्रेष्टि-ज्योतिष्टोमादीनां कर्मणां न्यासं स्वरूपेणत्यागं कवयः पण्डिताः सन्न्यासं विदुर् न तु नित्यानाम् अग्निहोत्रादीनाम् इत्य् अर्थः । तेषु विचक्षणास् तु सर्वेषां काम्यानां नित्यानां च कर्मणां फल-त्यागम् एव, न तु स्वरूपतस् त्यागं सन्न्यास-लक्षणं त्यागं प्राहुः । नित्य-कर्मणां च फलम् अस्ति - कर्मणां पितृ-लोको धर्मेण पापम् अपनुदति इत्य् आदि श्रवणात् । यद्यपि अहरहः सन्ध्याम् उपासीत, यावज्-जीवनम् अग्निहोत्रं जुहोति इत्य् आदौ, पुत्र-कामो यजेत इत्य् आदाव् इव फल-विशेषो न श्रुतयस् तथापि विश्वजिता यजेत इत्य् आदाव् इव विधिः किञ्चित् फलम् आक्षिपेद् एव । इतरथा पुरुष-प्रवृत्त्य्-अनुपपत्तेर्
दुष्परिहरतापत्तिः । तथा च काम्य-कर्मणां स्वरूपतस् त्यागो, नित्य-कर्मणां तु फल-त्यागः सन्न्यास-शब्दार्थः । सर्वेषां कर्मणां फलेच्छां त्यक्त्वानुष्ठानं खलु त्याग-शब्दार्थः । पूर्वोक्त-रीत्या ज्ञानोदय-फलस्य सत्त्वाद् अप्रवृत्तेर् दुष्परिहरत्वं प्रत्युक्तम् ॥२॥


१८।३

त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यम् इति चापरे ॥३॥

श्रीधर : अविदुषः फल-त्याग-मात्रम् एव त्याग-शब्दार्थः । न कर्म-त्याग इति । एतद् एव मतान्तर-निरासेन दृढीकर्तुं मत-भेदं दर्शयति त्याज्यम् इति । दोषवद् धिंसादि-दोषकत्वेन केवलं बन्धकम् इति हेतोः सर्वेषाम् अपि कर्म त्याज्यम् इति एके साङ्ख्याः प्राहुर् मनीषिण इति । अस्यायं भावः - मा हिंस्यात् सर्व-भूतानीति निषेधः पुरुषस्यानर्थ-हेतुर् हिंसा इत्य् आह । अग्नीषोमीयं पशुम् आलभेतेत्य् आदि-प्राकरणिको विधिस् तु हिंसायाः क्रतूपकारकत्वम् आह । अतो भिन्न-विषयकत्वेन सामान्य-विशेष-न्यायागोचरत्वाद् वाध्यवाधकता नास्ति । द्रव्य-साध्येषु च सर्वेष्व् अपि कर्मसु हिंसादेः सम्भवात् सर्वम् अपि कर्म त्याज्यम् एवेति । तद् उक्तं - दृष्टवद् आनुश्रविकः स ह्य् अविशुद्धि-क्षयातिशय-युक्त इति । अस्यार्थः गुरु-पाठाद् अनुश्रूयत
इति अनुश्रवो वेदः । तद् बोधित उपायो ज्योतिष्ठोमादिर् आनुश्रविकः । तत्राविशुद्धिर् हिंसा । तथा क्षयो विनाशः । अग्निहोत्र-ज्योतिष्ठोमादि-जन्येषु स्वर्गेषु तारतम्यं च वर्तते । परोत्कर्षस् तु सर्वान् दुःखीकरोति ।

अपरे तु मीमांसका यज्ञादिकं कर्म न त्याज्यम् इति प्राहुः । अयं भावः क्रत्व्-अर्थापि सतीयं हिंसा पुरुषेण कर्तव्या । सा चान्योद्देशेनापि कृता पुरुषस्य प्रत्यवाय-हेतुर् एव । यथा हि विधिर् विधेयस्य तद्-उद्देश्येनानुष्ठानं विधत्ते । तादर्थ्य-लक्षणत्वाच् छेषत्वस्य । न त्व् एवं निषेधो निषेधस्य तादर्थ्यम् अपेक्षते प्राप्ति-मात्रापेक्षितत्वात् । अन्यथाज्ञान-प्रमादादि-कृते दोषाभाव-प्रसङ्गात् । तद् एवं समान-विषयकत्वेन सामान्य-शास्त्रस्य विशेषेण बाधान् नास्ति दोषवत्त्वम् । अतो नित्यं यज्ञादि-कर्म न त्याज्यम् इति । अनेन विधि-निषेधयोः समान-बलता बाध्यते सामान्य-विशेष-न्यायं सम्पादयितुम् ॥३॥

विश्वनाथ : त्यागे पुनर् अपि मत-भेदम् उपक्षिपति त्याज्यम् इति । दोषवत् हिंसादि-दोषवत्त्वात् कर्म स्वरूपत एव त्याज्याम् इत्य् एके साङ्ख्याः । परे मीमांसका यज्ञादिकं कर्म शास्त्रे विहितत्वान् न त्याज्यम् इत्य् आहुः ॥३॥

बलदेव : त्यागे पुनर् अपि मत-भेदम् आह त्याज्यम् इति । एके मनीषिणो दोषवत् न हिंस्यात् सर्व-भूतानीति श्रुति-निदर्शिनः कापिलाः कर्म-दोषवत् पशु-हिंसादि-दोष-युक्तं भवत्य् अतस् त्याज्यं स्वरूपतो हेयम् इत्य् आहुः । अग्नीषोमीयं पशुम् आलभेतेति श्रुतिस् तु हिंसायाः क्रत्व्-अङ्गत्वम् आह त्व् अनर्थ-हेतुत्वं तस्या निवारयति । तथा च द्रव्य-साध्यत्वेन हिंसायाः सम्भवात् । सर्वं कर्म त्याज्यम् इति । अपरे जैमिनीयास् तु यज्ञादिकर्म न त्याज्यं तस्य वेद-विहितत्वेन निर्दोषत्वाद् इत्य् आहुः - यद्यपि हिंसानुग्रहात्मकं कर्म तथापि तस्य वेदेन धर्मत्वाभिधानान् न दोषवत्त्वम् अतः कार्यम् एवेत्य् अर्थः । न हिंस्यात् इति सामान्यतो निषेधस् तु क्रतोर् अन्यत्र तस्याः पापताम् आहेति न किञ्चिद् अवद्यम् ॥३॥


१८।४

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥४॥

श्रीधर : एवं मत-भेदम् उपन्यस्य स्वमतं कथयितुम् आह निश्चयम् इति । तत्रैवं विप्रतिपन्ने त्यागे निश्चयं ये वचनात् शृणु । त्यागस्य लोक-प्रसिद्धत्वात् किम् अत्र श्रोतव्य्म् इति मावमंस्था इत्य् आह हे पुरुष-व्याघ्र पुरुष-श्रेष्ठ । त्यागो ऽयं दुर्बोधः । हि यस्माद् अयं कर्म-त्यागस् तत्त्वविध्बिस् तामसादि-भेदेन त्रिविधः सम्यग्-विवेकेन प्रकीर्तितः । त्रैविध्यं च नियतस्य तु सन्न्यासः कर्मण इत्य् आदिना वक्ष्यति ॥४॥

विश्वनाथ : स्वमतम् आह निश्चयम् इति । त्रिविधः सात्त्विको राजसस् तामसश् चेति । अत्र त्यागस्य त्रैविध्यम् उक्त्रम्य नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥ इति तस्य एव तामस-भेदैः सन्न्यास-शब्द-प्रयोगाद् भगवन्-मते त्याग-सन्न्यास-शब्दयोर् ऐक्यार्थम् एवेत्य् अवगम्यते ॥४॥

बलदेव : एवं मत-भेदम् उपवर्ण्य स्वमतम् आह निश्चयम् इति । मत-भेद-ग्रस्ते त्यागे मे परमेश्वरस्य सर्वज्ञस्य निश्चयं शृणु । ननु त्यागस्य ख्यातत्वात् तत्र श्रोतव्यं किम् अस्ति । तत्राह त्यागो हीति । हि यतस् त्यागस् तामसादि-भेदेन विज्ञैस् त्रिविधः सम्प्रकीर्तितो विविच्योक्तः । तथा च दुर्बोधो ऽसौ श्रोतव्य इति त्याग-त्रैविध्यम् । नियतस्य तु इत्य् आदिभिर् अग्रे वाच्यम् ॥४॥


१८।५

यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् ।
यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥५॥

श्रीधर : प्रथमं तावन् निश्चयम् आह यज्ञेति द्वाभ्याम् । मनीषिणां विवेकिनां पावनानि चित्त-शुद्धि-कराणि ॥५॥

विश्वनाथ : काम्यानाम् अपि मध्ये भगवन्-मते सात्त्विकानि यज्ञ-दान-तपांसि फलाकाङ्क्षा-रहितैः कर्तव्यानीत्य् आह यज्ञादिकं कर्तव्यम् एव । तत्र हेतुः पावनानीति चित्त-शुद्धिकरत्वाद् इत्य् अर्थः ॥५॥

बलदेव : प्रथमं तस्मिन् स्वनिश्चयम् आह यज्ञेति द्वाभ्याम् । यज्ञादीनि मनीषिणां कार्याण्य् एव न त्याज्यानि यद् अमूनि विष-तन्तुवद् अन्तरभ्युदित-ज्ञान-द्वारा पावनानि संसृति-दोष-विनाशकानि भवन्ति ॥५॥


१८।६

एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥६॥

श्रीधर : येन प्रकारेण कृतान्य् एतानि पावनानि भवन्ति तं प्रकारं दर्शयन्न् आह एतानीति । यानि यज्ञादीनि कर्माणि मया पावनानीत्य् उक्तम् एतान्य् अप्य् एव कर्तव्यानि । कथम्? सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलम् ईश्वराराधन्तया कर्तव्यानीति । फलानि च त्यक्त्वा कर्तव्यानि इति च मे मतं निश्चितम् । अत एवोत्तमम् ॥६॥

विश्वनाथ : येन प्रकारेण कृतान्य् एतानि पावनानि भवन्ति तं प्रकारं दर्शयति एतान्य् अपीति । सङ्गं कर्तृत्वाभिनिवेशं फलाभिसन्धिं च । फलाभिसन्धि-कर्तृत्वाभिनिवेशयोस् त्याग एव त्यागः सन्न्यासश् चोच्यत इत्य् भावः ॥६॥

बलदेव : यज्ञादीनां पावनता-प्रकारम् आह एतान्य् अपीति । सङ्गं कर्तृत्वाभिनिवेशं फलानि च प्रतिपओक्तानि पितृ-लोकादीनि च सर्वाणि त्यक्त्वा केवलम् ईश्वरार्चन-धिया कर्तव्यानीति मे मया निश्चितम् अत उत्तमम् इदं मतम् । कर्तृत्वाभिनिवेश-त्यागस्यापि प्रवेशात् पार्थ-सारथेर् मतं वरीयः ॥६॥


१८।७

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥७॥

श्रीधर : प्रतिज्ञातं त्यागस्य त्रैविध्यम् इदानीं दर्शयति नियतस्येति त्रिभिः । काम्यस्य कर्मणो बन्धकत्वात् सन्न्यासो युक्तम् । नियतस्य तु नित्यस्य पुनः कर्मणः सन्न्यासस् त्यागो नोपपद्यते । सत्त्व-शुद्धि-द्वारा मोक्ष-हेतुत्वात् । अतस् तस्य परित्याग उपादेयत्वे ऽपि त्याज्यम् इत्य् एवं लक्षणान् मोहाद् एव भवेत् । स च मोहस्य तामसत्वात् तामसः परिकीर्तितः ॥७॥

विश्वनाथ : प्रक्रान्तस्य त्रिविध-त्यागस्य तामसं भेदम् आह नियतस्य नित्यस्य । मोहात् शास्त्र-तात्पर्याज्ञानात् । सन्न्यासी काम्य-कर्मण्य् आवश्यकत्वाभावात् परित्यजतु नाम, नित्यस्य तु कर्मणस् त्यागो नोपपद्यते इति तु शब्दार्थः । मोहाद् अज्ञानात् । तामस इति तामस-त्यागस्य फलम् अज्ञान-प्राप्तिर् एव । न त्व् अभीप्सित-ज्ञान-प्राप्तिर् इति भावः ॥७॥

बलदेव : प्रतिज्ञातं त्याग-त्रैविध्यम् आह नियतस्येति त्रिभिः । काम्यस्य कर्मणो बन्धकत्वात् त्यागो युक्तः । नियतस्य नित्य-नैमित्तिकस्य महा-यज्ञादेः कर्मणः सन्न्यासस् त्यागो नोपपद्यते । आत्मोद्देशाद् विशीर्णादिवद् अन्तर्गत-ज्ञानस्य तस्य मोचकत्वाद् देहयात्रा-साधकत्वाच् च तत्-त्यागो न युक्तः । तेन हि देवता-भगवद्-विभूतिर् अर्चतां तच्-छेषैः पूतैः सिद्धा देह-यात्रा तत्त्व-ज्ञानाय सम्पद्यते । वैपरीत्ये पूर्वम् अभिहितं नित्यतं कुरु कर्म त्वम् इत्य् आदिभिस् तृतीयए तस्यापि मोहाद् बन्धकम् इदम् इत्य् अज्ञानात् परितः स्वरूपेण त्यागस् तामसो भवति - मोहस्य तमो-धर्मत्वात् ॥७॥


१८।८

दुःखम् इत्य् एव यत् कर्म कायक्लेशभयात् त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥८॥

श्रीधर : राजसं त्यागम् आह दुःखम् इति । यः कर्ता आत्म-बोधं विना केवलं दुःखम् इत्य् एवं मत्वा शरीरायास-भयात् नित्यं कर्म त्यजेत् इति यत् तादृशस् त्यागो राजसो दुःखस्य राजसत्वात् । अतस् तं राजसं त्यागं कृत्वा स राजसः पुरुषस् त्यागस्य फलं ज्ञान-निष्ठा-लक्षणं नैव लभत इत्य् अर्थः ॥८॥

विश्वनाथ : दुःखम् इत्य् एवेति । यद्यपि नित्य-कर्मणाम् आवश्यकम् एव तत्-करणे गुण एव न तु दोष इति जानाम्य् एव । तद् अपिइ तैः शरीरं मया कथं वृथा क्लेशयितव्यम् इति भावः । त्याग-फलं ज्ञानं न लभेत ॥८॥

बलदेव : निष्कामतयानुष्ठितं विहितं कर्म मुक्तिहेतुर् इति जानन्न् अपि द्रवोप्यार्जन-प्रातः-स्नानादिना दुःख-रूपम् इति काय-क्लेश-भयाच् चैतन् मुमुक्षुर् अपि त्यजेत् । स त्यागो राजसः दुःखस्य रजो-धर्मत्वात् । तं त्यागं कृत्वापि जनस् तस्य फलं ज्ञान-निष्ठां न लभेत ॥८॥


१८।९

कार्यम् इत्य् एव यत् कर्म नियतं क्रियतेर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥९॥

श्रीधर : सात्त्विकं त्यागम् आह कार्यम् इति । कार्यम् इत्य् एवं नियतम् अवश्य-कर्तव्यतया विहितं कर्म सङ्गं फलं च त्यक्त्वा क्रियते इति यत् तादृशस् त्यागः सात्त्विको मतः ॥९॥

विश्वनाथ : कार्यम् अवश्य-कर्तव्यम् इति बुद्ध्या नियतं नित्यं कर्म, सात्त्विक इति त्यागात् त्याग-फलं ज्ञानं स लभेतैवेति भावः ॥९॥

बलदेव : कार्यम् अवश्य-कर्तव्यतया विहितं कर्म नियतं यथा भवति, तथा सङ्गं कर्तृत्वाभिनिवेशं फलं च निखिलं त्यक्त्वा क्रियत इति यत् स त्यागः सात्त्विकस् तादृश-ज्ञानस्य सत्त्व-धर्मत्वात् ॥९॥


१८।१०

न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१०॥

श्रीधर : एवम्भूत-सात्त्विक-त्याग-परिनिष्ठितस्य लक्षणम् आह न द्वेष्टीत्य् आदि । सत्त्व-समाविष्टः सत्त्वेन संव्याप्तः सात्त्विक-त्यागी । अकुशलं दुःखावहं शिशिरे प्रातः-स्नानादिकं कर्म न द्वेष्टि । कुशले च सुख-करे कर्मणि निदाघे मध्याह्न-स्नानादौ नानुषज्जते प्रीतिं न करोति । तत्र हेतुः मेधावी स्थिर-बुद्धिः । यत्र पर-परिभवादि महद् अपि दुःखं सहते स्वर्गादि-सुखं च त्यजति तत्र कियद् एतत् तात्कालिकं सुखं दुःखं च इत्य् एवम् अनुसन्धानवान् इत्य् अर्थः । अतएव छिन्नः संशयो मिथ्या-ज्ञानं दैहिक-सुख-दुःखयोर् उपादित्सा-परिजिहीर्षा-लक्षणं यस्य सः ॥१०॥

विश्वनाथ : एवम्भूत-सात्त्विक-त्याग-परिनिष्ठितस्य लक्षणम् आह न द्वेष्टीत्य् आदि । अकुशलं असुखदं शीते प्रातः-स्नानादिकं न द्वेष्टि । कुशले सुख-ग्रीष्म-स्नानादौ ॥१०॥

बलदेव : सात्त्विक-त्यागिनो लक्षणम् आह द्वेष्टीति । अकुशलं दुःखदं हेमन्त-प्रातः-स्नानादि न द्वेष्टि । कुशले सुखदे निदाघ-मध्याह्ने स्नानादौ न सज्जते । यतः सत्त्व-समाविष्टो ऽतिधारो मेधावी स्थिरधीश् छिन्नो विहितानि कर्माणि क्लेशानुष्ठितानि ज्ञानं जनयेयुर् न वेत्य् एवं लक्षणः संशयो येन सः ॥ ईदृशः सात्त्विक-त्यागी बोध्यः ॥१०॥


१८।११

न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः ।
यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ॥११॥

श्रीधर : नन्व् एवम्भुतात् कर्म-फल-त्यागाद् वरं सर्व-कर्म-त्यागः । तथा सति कर्म-विक्षेपाभावेन ज्ञान-निष्ठा सुखं सम्पद्यते तत्राह न हीति । देह-भृता देहात्माभिमानवता निःशेषेण सर्वाणि कर्माणि त्यक्तुं न हि चाक्यम् । तद् उक्तं न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृद् इत्य् आदिना । तस्माद् यस् तु कर्माणि कुर्वन्न् अपि कर्म-फल-त्यागी स एव मुखस् त्यागीत्य् अभिधीयते ॥११॥

विश्वनाथ : इतो ऽपि शास्त्रीयं कर्म न त्याज्यम् इत्य् आह न हीति । त्यक्तुं न शक्यं न शक्यानि । तद् उक्तं न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृद् इति ॥११॥

बलदेव : नन्व् ईदृशात् फल-त्यागात् स्वरूपतः कर्म-त्यागो वरीयान् विक्षेपाभावेन ज्ञान-निष्ठा साधकत्वाद् इति चेत् तत्राह न हीति । देह-भृता कर्माण्य् अशेषतस् त्यक्तुं न हि शक्यं न शक्यानि । यद् उक्तं न हि कश्चित् क्षणम् अपीत्यादि । तस्माद् यः कर्माणि कुर्वन्न् एव तत्-फल-त्यागो, स एव त्यागीत्य् उच्यते । तथा च सनिष्ठो ऽधिकारी कर्तृत्वाभिनिवेश-फलेच्छा-शून्यो यथा-शक्ति सर्वाणि कर्माणि ज्ञानार्थी सन् कुर्याद् इति पार्थ-सारथेर् मतम् ॥११॥


१८।१२

अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्य् अत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥१२॥

श्रीधर : एवम्भूतस्य कर्म-फल-त्यागस्य फलम् आह अनिष्टम् इति । अनिष्टम् नारकित्वम् । इष्टं देवत्वम् । मिश्रं मनुष्यत्वम् । एवं त्रिविधं पापस्य पुण्यस्य चोभय-मिश्रस्य च कर्मणो यत् फलं प्रसिद्धम् । तत् सर्वम् अत्यागिनां सकामानाम् एव प्रेत्य परत्र भवति । तेषां त्रिविध-कर्म-सम्भवात् । न तु सन्न्यासिनां क्वचिद् अपि भवति । सन्न्यासि-शब्देनात्र फल-त्याग-साम्यात् प्रकृताः कर्म-फल-त्यागिनो ऽपि गृह्यन्ते । अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी चेत्य् एवम् आदौ च कर्म-फल-त्यागिषु सन्न्यासि-शब्द-योग-दर्शनात् । तेषां सात्त्विकानां पापासम्भवाद् ईश्वरार्पणेन च पुण्य-फलस्य त्यक्तत्वात् त्रिविधम् अपि कर्म-फलं न भवतीत्य् अर्थः ॥१२॥

विश्वनाथ : एवम्भूत-त्यागाभावे दोषम् आह - अनिष्टं नरक-दुःखं इष्टं स्वर्ग-सुखं मिश्रं मनुष्य-जन्मनि सुख-दुःखम् अत्यागिनां एवम्भूत-त्याग-रहितानाम् एव भवति प्रेत्य परलोके ॥१२॥

बलदेव : ईदृश-त्यागाभावे दोषम् आह अनिष्टम् इति । अनिष्टं नारकित्वम् । इष्टं स्वर्गित्वं मिश्रं मनुष्यत्वम् । दुःख-सुख-योगीति त्रिविधं कर्म-फलम् । अत्यागिनाम् उक्त-त्याग-रहितानां प्रेत्य पर-काले भवति । न तु सन्न्यासिनाम् उक्त-त्यागवताम् । तेषां तु कर्मान्तर्गतेन ज्ञानेन मोक्षो भवतीति त्याग-फलम् उक्तम् ॥१२॥


१८।१३

पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१३॥

श्रीधर : ननु कर्म कुर्वतः कर्म-फलं कथं न भवेद् इत्य् आशङ्क्य सङ्ग-त्यागिनो निरहङ्कारस्य सतः कर्म-फलेन लेपो नास्तीत्य् उपपादयितुम् आह पञ्चेति पञ्चभिः । सर्व-कर्मणां सिद्धये निष्पत्तय इमानि वक्ष्यमाणानि पञ्च-कारणानि मे वचनान् निबोध जानीहि । आत्मनः कर्तृत्वाभिमान-निवृत्त्य्-अर्थम् अवश्यम् एतानि ज्ञातव्यानीत्य् एवम् । तेषां स्तुत्य्-अर्थम् एवाह साङ्ख्य इति । सम्यक् ख्यायते ज्ञायते परमात्मा ऽनेनेति साङ्ख्यं तत्त्व-ज्ञानम् । प्रकाशमान आत्म-बोधः साङ्ख्यम् । तस्मिन् कृतं कर्म तस्यान्तः समाप्तिर् अस्मिन्न् इति साङ्ख्यम् । कृतो ऽन्तो निर्णये ऽस्मिन्न् इति कृतान्तं साङ्ख्य-शास्त्रम् एव । तस्मिन् प्रोक्तानि । अतः सम्यङ् निबोध इत्य् अर्थः ।

विश्वनाथ : ननु कर्मकुर्वतः कर्म-फलं कथं न भवेद् इत्य् आशङ्क्य निरहङ्कारत्वे सति कर्म-लेपो नास्तीत्य् उपपादयितुम् आह पञ्चमानीति पञ्चभिः । सर्व-कर्मणां सिद्धये निष्पत्तय इमानि पञ्च-कारणानि मे मम वचनान् निबोध जानीहि । सम्यक् परमात्मानं ख्याति कथयति इति सङ्ख्यम् एव साङ्ख्यं वेदान्त-शास्त्रं तस्मिन् । कीदृशे कृतं कर्म तस्यान्तो नाशो यस्मात् तस्मिन् प्रोक्तानि ।

बलदेव : ननु कर्माणि कुर्वतां तत्-फलानि कुतो न स्युर् इति चेत् स्वस्मिन् कर्तृत्वाभिनिवेश-त्यागेन परमेश्वरे मुख-कर्तृत्व-निश्चयेन भवतीत्य् आशयेनाह पञ्चैतानीति पञ्चभिः । हे महाबाहो सर्व-कर्मणां सिद्धये निष्पत्तये एतानि पञ्च-कारणानि मे मत्तो निबोध जानीहि । प्रमाणम् आह साङ्ख्य इति । साङ्ख्यं ज्ञानं तत्-प्रतिपादकं वेदान्त-शास्त्रम् साङ्ख्यं तस्मिन् । कीदृशीत्य् आह कृतान्ते कृत-निर्णये सर्वेषां कर्म-हेतूनां प्रवर्तकः परमात्मेति निर्णय-कारिणीत्य् अर्थः । अन्तर्यामि-ब्रह्मणे विदितम् एतत् । इहापि सर्वस्य चाहं हृदि (गीता १५।१५) इत्य् आद्य् उक्तं । वक्ष्यते च ईश्वरः सर्व-भूतानाम् (गीता १८।६१) इत्य् आदि ॥


१८।१४

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश् च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१४॥

श्रीधर : तान्य् एवाह अधिष्ठानम् इति । अधिष्ठानं शरीरम् । कर्ता चिद्-अचिद्-ग्रन्थिर् अहङ्कारः । पृथग्-विधम् अनेक-प्रकारम् । करणं चक्षुः-श्रोत्रादि । विविधाः कार्यतः स्वरूपतश् च । पृथग्-भूत-चेष्टा प्राणापानादीनां व्यापाराः । अत्रैतद् एव पञ्चमं कारणं दैवम् । चक्षुर्-आद्य्-अनुग्राहकम् आदित्यादि-सर्व-प्रेरको ऽन्तर्यामी वा ॥१४॥

विश्वनाथ : तान्य् एव गणयति अधीति । अधिष्ठानं शरीरं । कर्ता चिज्-जड-ग्रन्थिर् अहङ्कारः, करणं चक्षुः-श्रोत्रादि । पृथग्-विधम् अनेक-प्रकारम् । पृथक्-चेष्टा प्राणापानादीनां पृथग्-व्यापाराः । दैवं सर्व-प्रेरको ऽन्तर्यामी च ॥१४॥

बलदेव : तान्य् एव गणयति अधीति । अधिष्ठीयते जीवेनेत्य् अधिष्ठानं शरीरं कर्ता जीवः अस्य ज्ञातृत्व-कर्तृत्वे श्रुतिर् आह एष हि द्रष्टा स्रष्टा इत्य् (प्रश्नउ ४।९) आदिना । सूत्रकारश् च ज्ञो ऽत एव (व्स् २।३।१८) इति कर्ता शास्त्रार्थवत्त्वात् (व्स् २।३।२६) इत्य् आदि च । करणं श्रोत्रादिसमनस्कम् । पृथग्-विधं कर्म-निष्पत्तौ पृथग्-व्यापारम् । विविधा च पृथक्-चेष्टा प्राणापानादीनां नाना-विधा पृथग्-व्यापाराः । दैवं चेत्य् अत्र कर्म-निष्पादके हेतु-प्रचये दैवं सर्वाराध्यं परं ब्रह्म पञ्चमम् । कर्म-निष्पत्ताव् अन्तर्यामी हरिर् मुख्यो हेतुर् इत्य् अर्थः । देहेन्द्रिय-प्राण-जीवोपकरणो ऽसौ कर्म-प्रवर्तक इति निश्चयवतां कर्म तत्-फलेषु कर्तृत्वाभिनिवेश-स्पृहा-विरहितानां कर्माणि न बन्धकानीति भावः ।

ननु जीवस्य कर्तृत्वे परेशायत्ते सति तस्य कर्म स्व-नियोज्यत्वापत्तिः, काष्ठादि-तुल्यत्वात् । विधि-निषेध-शास्त्राणि च व्यर्थानि स्युः । स्वधिया प्रवर्तितुं न शक्तो नियोज्यो दृष्टः । उच्यते – परेशेन दत्तैर् देहेन्द्रियादिभिस् तेनैवाहित-शक्तिभिस् तद्-आधार-भूतो जीवस् तद्-आहित-शक्तिभिस् तद्-आधार-भूतो जीवस् तद्-आहित-शक्तिकः सन् कर्म-सिद्धये स्वेच्छयैव देहेन्द्रियादिकम् अधितिष्ठति । परेशस् तु तत्-सर्वान्तः-स्थस् तस्मिन्न् अनुमतिं ददानस् तं प्रेरयतीति जीवस्य स्व-धिया प्रवृत्ति-निवृत्तिमत्त्वम् अस्तीति न किञ्चिच् चोद्यम् । एवम् एव सूत्रकारो निऋणीतवान् परात् तत् तच् छक्तेः (? परात् तच्-छ्रुतेः, २।३।४०) इत्य् आदिना । ननु मुक्तस्य जीवस्य कर्तृत्वं न स्यात्, तस्य देहेन्द्रिय-प्राणानां विगमाद् इति चेन् न, तदा सङ्कल्प-सिद्धानां दिव्यानां तेषां सत्त्वात् ॥१४॥


१८।१५

शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१५॥

श्रीधर: एतेषाम् एव सर्व-कर्म-हेतुत्वम् आह शरीरेति । यथोक्तैः पञ्चभिः प्रारभ्यमानं कर्म त्रिष्व् एवान्तर्भाव्यम् । शरीर-वाङ्-मनोभिर् इत्य् उक्तं शारीरं वाचिकं मानसं च त्रिविधं कर्मेति प्रसिद्धेः । शरीरादिभिः यत् कर्म धर्म्यम् अधर्म्यं वा करोति नरस् तस्य कर्मण एते पञ्च हेतवः ।

विश्वनाथ : शरीरादिभिर् इति शारीरं वाचिकं मानसं चेति कर्म त्रिविधम् । तच् च सर्वं द्विविधम् । न्याय्यं धर्म्यं विपरीतम् अन्याय्यम् अधर्म्यं । तस्य सर्वस्यापि कर्मण एते पञ्च-हेतवः ।

बलदेव : शरीरेति – न्याय्यं शास्त्रीयम्, विपरीतम् अशास्त्रीयम् ॥ १५ ॥


१८।१६

तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः ।
पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः ॥१६॥

श्रीधर: ततः किं ? अत आह तत्रेति । तत्र सर्वस्मिन् कर्मणि एते पञ्च हेतव इति । एवं सति केवलं निरुपाधिम् असङ्गम् आत्मानं तु यः कर्तारं पश्यति शास्त्राचार्योपदेशाभ्याम् असंस्कृत-बुद्धित्वाद् दुर्मतिर् असौ सम्यक् न पश्यति ।

विश्वनाथ : ततः किं ? अत आह तत्रेति । तत्र सर्वस्मिन् कर्मणि एते पञ्चैव हेतव इत्य् एवं सति केवलं वस्तुतः निःसङ्गम् एवात्मानं जीवं यः कर्तारं पश्यति, सो ऽहङ्कृत-बुद्धित्वाद् असंस्कृत-बुद्धित्वाद् दुर्मतिर् नैव पश्यति । सो ऽज्ञानी अन्द एवोच्यत इति भावः ।

बलदेव : ततः किं ? अत आह तत्रेति । तत्रेति । एवं सति जीवस्य कर्तृत्वे परेशानुमति-पूर्वके तद्-दत्त-देहादि-सापेक्षे च सति, तत्र कर्मणि केवलम् एवात्मानं जीवम् एव यः कर्तारं पश्यति । स दुर्मतिर् अकृत-बुद्धित्वाद् अलब्ध-ज्ञानत्वान् न पश्यति यथान्धः


१८।१७

यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते ।
हत्वा।अपि स इमांल् लोकान् न हन्ति न निबध्यते ॥१७॥

श्रीधर: कस् तर्हि सुमतिर् यस्य कर्म-लेपो नास्तीत्य् उक्तम् इत्य् अपेक्षायाम् आह - यस्येति । अहम् इति कृतो ऽहं कर्ता इत्य् एवम्भूतो भावः । यद् वा अहङ्कृतो ऽहङ्कारस्य भावः स्वभावः । कर्तृत्वाभिनिवेशो यस्य नास्ति । शरीरादीनाम् एव कर्म-कर्तृत्वालोचनाद् इत्य् अर्थः । अतएव यस्य बुद्धिर् न लिप्यते इष्टानिष्ट-बुद्ध्या कर्मसु न सज्जते । न एवम्भूतो देहादि-व्यतिरिक्तात्म-दर्शी इमान् लोकान् सर्वान् अपि प्राणिनो लोक-दृष्ट्या हत्वापि विविक्ततया स्व-दृष्ट्या न हन्ति, न तत्-फलैर् निबध्यते बन्धं न प्राप्नोति । किं पुनः सत्त्व-शुद्धि-द्वारा परोक्ष-ज्ञानोत्पत्ति-हेतुभिः कर्मभिस् तस्य बद्ध-शङ्केत्य् अर्थः । तद् उक्तं - ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥ (गीता ५।१०)

विश्वनाथ : कस् तर्हि सुमतिश् चक्षुष्मान् इत्य् अत आह यस्येति । अहङ्कृतो अहङ्कारस्य भावः स्वभावः कर्तृत्वाभिनिवेशो यस्य नास्ति अतएव यस्य बुद्धिर् न लिप्यते इष्टानिष्ट-बुद्ध्या कर्मसु नासज्जति, स हि कर्म-फलं न प्राप्नोतीति किं कर्तव्यम् । स हि कर्म भद्राभद्रं कुर्वन्न् अपि नैव करोतीत्य् आह हत्वापीति, स इमान् सर्वान् अपि प्राणिनो लोक-दृष्ट्या हत्वापि स्व-दृष्ट्या नैव हन्ति । निरभिसन्धित्वाद् इति भावः । अतो न बध्यते कर्म-फलं न प्राप्नोतीति ।

बलदेव : कस् तर्हि चक्षुष्मान् सुमतिस् तत्राह यस्येति । यस्य पुरुषस्य मनोवृत्ति-लक्षणो भावो नाहङ्कृतः स्व-कर्तृत्वे परेशायत्ते ऽनुसन्धिते सति कर्माण्य् अहम् एव करोमीत्य् अभिमान-कृतो न भवेत् । यस्य च बुद्धिर् न लिप्यते कर्म-फल-स्पृहया, स इमाङ्ल् लोकान् न केवलं भीष्मादीन् हत्वापि न हन्ति, न च तेन सर्व-लोक-हननेन कर्मणा निबध्यते लिप्यते ॥ १७ ॥


१८।१८

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥१८॥

श्रीधर: हत्वापि न हन्ति न निबध्यते इत्य् एतद् एवोपपादयितुं कर्म-चोदनायाः कर्माश्रयस्य च कर्म-फलादीनां च त्रिगुणात्मकत्वान् निर्गुणस्यात्मनस् तत्-सम्बन्धो नास्तीत्य् अभिप्रायेण कर्म-चोदनां कर्माश्रयं चाह - ज्ञानम् इति । ज्ञानम् इष्ट-साधनम् एतद् इति बोधः । ज्ञेयम् इष्ट-साधनं कर्म । परिज्ञाता एवम्भूत-ज्ञानाश्रयः । एवं त्रिविधा कर्म-चोदना । चोद्यते प्रवर्त्यते ऽनया इति चोदना । ज्ञानादि-त्रयं कर्म-प्रवृत्ति-हेतुर् इत्य् अर्थः । यद् वा चोदनेति विधिर् उच्यते । तद् उक्तं भट्टैः - चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इति । ततश् चायम् अर्थः उक्त-लक्षणं त्रिगुणात्मकं ज्ञानादि-त्रयम् अवलम्भ्य कर्म-विधिः प्रवर्तते इति । तद् उक्तं त्रैगुण्य-विषया वेदा इति । तथा च करणं साधकतमम् । कर्म च कर्तुर् ईप्सिततमम् । कर्ता क्रिया-निर्वर्तकः
। कर्म सङ्गृह्यते ऽस्मिन्न् इति कर्म-सङ्ग्रहः । करणादि त्रिविधं कारकम् । क्रियाश्रय इत्य् अर्थः । सम्प्रदानादि कारक-त्रयं तु परस्परया क्रिया-प्रवर्तकम् एव केवलम् । न तु साक्षात् क्रियायां आश्रयः । अतः करणादि-त्रयम् एव क्रियाश्रय इत्य् उक्तम् ॥

विश्वनाथ : तद् एवं भगवन्-मत उक्त-लक्षणः सात्त्विकस् त्याग एव सन्न्यासो ज्ञानिनाम्, भक्तानां तु कर्म-योगस्य स्वरूपेणैव त्यागो ऽवगम्यते । यद् उक्तम् एकादशे भगवतैव

आज्ञायैव गुणान् दोषान्
मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान्
मां भजेत् स च सत्तमः ॥ (भ्प् ११।११।३७) इति ।

अस्यार्थः स्वामि-चरणैर् व्याख्यातो यथा - मया वेद-रूपेणादिष्टान् अपि स्वधर्मान् सन्त्यज्य यो मां भजेत् स च सत्तम इति । किम् अज्ञानतो नास्तिक्याद् वा ? न धर्माचरणे सत्त्व-शुद्ध्यादीन् गुणान् विपक्षे दोषान् प्रत्यवायांश् चाज्ञाय ज्ञात्वापि मद्-ध्यान-विक्षेपतया मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयेनैव धर्मान् सन्त्यज्य इत्य्
अत्र धर्मान् धर्म-फलानि सन्त्यज्येति तु व्याख्या न घटते । न हि धर्म-फल-त्यागे कश्चिद् अत्र प्रत्यवायो भवेद् इत्य् अवधेयम् । अयं भावो भगवद्-वाक्यानां तद्-व्याख्यातॄणां च - ज्ञानं हि चित्त-शुद्धिम् अवश्यम् एवापेक्षते, निष्काम-कर्मभिश् चित्त-शुद्धि-तारतम्ये वृत्ते एव ज्ञानोदय-तारतम्यं भवेन् नान्यथा । अतएव सम्यग् ज्ञानोदय-सिद्ध्य्-अर्थं सन्न्यासिभिर् अपि निष्काम-कर्म न कर्तव्यम् एव । यद् उक्तम् -

आरुरुक्षोर् मुनेर् योगं
कर्म कारणम् उच्यते ।
योगारूढस्य तसैव
शमः कारणम् उच्यते ॥ (गीता ६।२) इति ।

यस् त्व् आत्म-रतिर् एव स्याद्
आत्म-तृप्तश् च मानवः ।
आत्मन्य् एव च सन्तुष्टस्
तस्य कार्यं न विद्यते ॥ (गीता ३।१७) इति ।

भक्तिस् तु परमा स्वतन्त्रा महा-प्रबला चित्त-शुद्धिं नैवापेक्षते, यद् उक्तम् -

विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् इत्य् आदौ
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ (भ्प् १०।३३।४२) इति ।

अत्र त्व् आत्म-प्रत्ययेण हृद्-रोगवत्त्वे वाधिकारिणि परमाया भक्तेर् अपि प्रथमम् एव प्रवेशस् ततस् तत्रैव कामादीनाम् अपगमश् च । तथा -

प्रविष्टः कर्ण-रन्ध्रेण
स्वानां भाव-सरोरुहम् ।
धुनोति शमलं कृष्णः
सलिलस्य यथा शरत् ॥ (भ्प् २।८।५)

इति च इत्य् अतो भक्त्यैव यदि तादृशी चित्त-शुद्धिः स्यात्, तदा भक्तैः कथं कर्म कर्तव्यम् इति ।

अथ प्रकृअम् अनुसरामः - किं च न केवलं देहादि-व्यातिरिक्तस्यात्मनः ज्ञानम् एव ज्ञानम्, तथात्म-तत्त्वम् अपि ज्ञेयम्, तादृश-ज्ञानाश्रय एव ज्ञानी, किन्त्व् एतत् त्रिके कर्म-सम्बन्धो वर्तते । तद् अपि सन्न्यासिभिर् ज्ञेयम् इत्य् आह ज्ञानम् इति । अत्र चोदना शब्देन विधिर् उच्यते, यद् उक्तं भट्टैः - चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इति । उक्तं श्लोकार्धं स्वयम् एव व्याचष्टे करणम् इति यज् ज्ञानं तत् करण-कारकम् । ज्ञायते ऽनेनेति ज्ञानम् इति व्युत्पत्तेः । यज् ज्ञेयं जीवात्म-तत्त्वम्, तद् एव कर्म-कारकम् । यस् तस्य परिज्ञाता स कर्ता इति त्रिविधः करणं कर्म कर्ता इति त्रिविधं कारकम् इत्य् अर्थः ।

कर्म-सङ्ग्रहः कर्मणा निष्काम-कर्मानुष्ठानेनैव सङ्गृह्यत इति कर्म-चोदना पद-व्याख्या । ज्ञानत्वं ज्ञेयत्वं ज्ञातृत्वं चैतत् त्रयं निष्काम-कर्मानुष्ठान-मूलकम् इति भावः ॥१८-१९॥

बलदेव : ज्ञान-काण्डवत् कर्म-काण्डे ऽपि ज्ञानादि-त्रयम् अस्ति । तच् च सनिष्ठेन कर्मठेन बोध्यम् इति उपदिशति ज्ञानम् इति । ज्ञानं ज्ञेयम् परिज्ञातेत्य् एवं त्रिक-युक्ता कर्म-चोदना ज्योतिष्टोमादि-कर्म-विधिः चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इत्य् अभियुक्तोक्तेः । तत् त्रिकं स्वयम् एव व्याख्याति करणम् इति । यज् ज्ञानं तत् करणं ज्ञायते ऽनेन इति निरुक्तेः करण-कारकम् इत्य् अर्थः । यज्-ज्ञेयं कर्तव्यं ज्योतिष्टोमादि तत् कर्म-कारकम् । यस् तु तस्य परितो ऽनुष्ठानेन ज्ञाता, स कर्तेति कर्तृ-कारकम् । एवं कर्म-सङ्ग्रहो ज्योतिष्टोमादि कर्म-विधिस् त्रिविधः करणादि-कारक-त्रय-साध्यश् चोदना-सङ्ग्रह-शब्दयोर् ऐक्यार्थः ॥ १८ ॥


१८।१९

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावच् छृणु तान्य् अपि ॥१९॥

श्रीधरः - ततः किं ? अत आह ज्ञानम् इति । गुणाः सम्यक् कार्य-भेदेन ख्यायते प्रतिपाद्यन्ते ऽस्मिन्न् इति गुण-सङ्ख्यानं साङ्ख्य-शास्त्रम् । तस्मिन् ज्ञानं च कर्म च कर्ता च प्रत्येकं सत्त्वादि-गुण-भेदेन त्रिधैवोच्यते । तान्य् अपि ज्ञानादीनि वक्ष्यमाणानि यथावत् शृणु । त्रिधैवेत्य् एव-कारो गुण-त्रयोपाधि-व्यतिरेकेणात्मनः स्वतः कर्माणि प्रतिषेधार्थः । चतुर्देशे ऽध्याये तत्र सत्त्वं निर्मलत्वाद् इत्य् आदिना गुणानां बन्धकत्व-प्रकारो निरूपितः । सप्तदशे ऽध्याये यजन्ते सात्त्विका देवान् इत्य् आदिना गुण-कृत-त्रिविध-स्वभाव-निरूपणेन रजस्-तमः-स्वभावं परित्यज्य सात्त्विकाहारादि-सेवया सात्त्विकः स्वभावः सम्पादनीय इत्य् उक्तम् । इह तु क्रिया-कारक-फलादीनाम् आत्म-सम्बन्धो नास्तीति दर्शयितुं सर्वेषां त्रिगुणात्मकत्वम् उच्यते इति विशेषो
ज्ञातव्यः ॥१९॥

बलदेवः - ज्ञानम् इति गुण-सङ्ख्याने गुण-निरूपके शास्त्रे चतुर्दशे तत्र सत्त्वं निर्मलत्वाद् इत्य् आदिना गुणानां बन्धकता-प्रकारः । सप्तदशे यजन्ते सात्त्विका देवान् इत्य् आदिना गुण-कृत-स्वभाव-भेदश् चोक्तः । इह तु गुण-सञ्ज्ञानां ज्ञानादीनां त्रैविध्यम् उच्यत इति बोध्यम् ॥१९॥


१८।२०

सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते ।
अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥२०॥

श्रीधरः - तत्र ज्ञानस्य सात्त्विकादि-त्रैविध्यम् आह सर्व-भूतेष्व् इति त्रिभिः । सर्वेषु भूतेषु ब्रह्मादि-स्थावरास् तेषु विभक्तेषु परस्परं व्यवृत्तेष्व् अविभक्तम् अनुस्युतम् एकम् अव्ययं निर्विकारं भावं परमात्म-तत्त्वं येन ज्ञानेनेक्षत आलोचयति तज् ज्ञानं सात्त्विकं विद्धि ॥ २०॥

विश्वनाथः - सात्त्विकं ज्ञानम् आह – सर्व-भूतेष्व् इति । एकं भावम् एकम् एव जीवात्मानं नाना-विध-फल-भोगार्थं क्रमेण सर्व-भूतेषु मनुष्य-देव-तिर्यग्-आदिषु वर्तमानम् अव्ययं नश्वरेष्व् अपि तेष्व् अनश्वरं विभक्तेषु परस्परं विभिन्नेष्व् अप्य् अविभक्तम् एक-रूपं येन कर्म-सम्बन्धिना ज्ञानेनेक्षते तत् सात्त्विकं ज्ञानम् ॥२०॥

बलदेवः - सात्त्विक-ज्ञानम् आह – सर्वेति । सर्व-भूतेषु देव-मनुष्यादिषु देहेषु नाना-कर्म-फल-भोगात् क्रमेण वर्तमान-भावं जीवात्मानं येनैकं वीक्ष्यते । अव्ययं नश्वरेषु तेष्व् अनश्वरं विभक्तेषु मिथो-भिन्नेषु तेष्व् अविभक्तम् एक-रूपं च येन तं वीक्ष्यते तज् ज्ञानं सात्त्विकम् औपनिषद्-अविविक्तात्म-ज्ञानं तद् इत्य् अर्थः ॥२०॥


१८।२१

पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥२१॥

श्रीधर : राजस-ज्ञानम् आह पृथक्त्वेनेति । पृथक्त्वेन तु यज् ज्ञानम् इत्य् अस्यैव विवरणम् । सर्वेषु भूतेषु नाना-भावान् वस्तुत एवानेकान् क्षेत्रज्ञान् पृथग्-विधान् सुखित्व-दुःखित्वादि-रूपेण विलक्षणान् येन ज्ञानेन वेत्ति तज् ज्ञानं राजसं विद्धि ॥२१॥

विश्वनाथ : राजसं ज्ञानम् आह सर्व-भूतेषु जीवात्मनः पृथक्त्वेन यज् ज्ञानम् इति । देह-नाश एवात्मनो नाश इत्य् असुराणां मतम् । अतएव पृथक् पृथग् देहेषु पृथक् पृथग् एवात्मेति तथा शास्त्र-करणात् पृथग्-विधान् नानाभावान् नानाभिप्रायान् । आत्मा सुख-दुःखाश्रय इति । सुख-दुःखाद्यनाश्रय इतिइ जड इति चेतन इति व्यापक इति । अऊउ-स्वरूप इति । अनेक इति इत्यादि कल्पान् येन एक इत्यादि वेद तद् राजसम् ॥२१॥

बलदेव : राजस-ज्ञानम् आह पृथक्त्वेनेति । सर्वेषु भूतेषु देव-मनुष्यादि-देहेषु जीवात्मनः पृथक्त्वेन यज् ज्ञानं देह-विनाश एवात्म-विनाश इति यज् ज्ञानम् इत्य् अर्थः । येन च नाना-विधान् भावान् अभिप्रायान् वेत्ति । देह एवात्मेति देहाद् अन्यो देह-परिमाण आत्मेति । क्षणिक-विज्ञानम् आत्मेति नित्यावज्ञान-मात्र-विभुर् आत्मेति । देहाद् अन्यो नव-विशेष-गुणाश्रयो ऽजडो विभुर् आत्मेत्य् एवं लोकायतिक-जैन-बौद्ध-मायि-तार्किकादि-वादान् येन जानाति तद् राजसं ज्ञानम् ॥२१॥


१८।२२

यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् ।
अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥२२॥

श्रीधर : तामसं ज्ञानम् आह यद् इति । एकस्मिन् कार्ये देहे प्रतिमादौ या कृत्स्नवत् परिपूर्णवत् सत्तम एतावान् एव आत्मेश्वरो या इत्य् अभिनिवेश-युक्तम् अहैतुकं निरुपपत्तिकं । अतत्त्वार्थवत् परमार्थावलम्बन-शून्यम् । अतएवाल्पं तुच्छम् । अल्प-विषयत्वात् । अल्प-फलत्वाच् च । यद् एवम्भूतं ज्ञानं तत् तामसम् उदाहृतम् ॥२२॥

विश्वनाथ : तामसं ज्ञानम् आह यत् तु ज्ञानम् अहैतुकम् औत्पत्तिकम् एव अतएव एकस्मिन् कार्ये लौकिक एव स्नान-भोजन-पान-स्त्री-सम्भोगे तत्-साधने च कर्मणि सक्तम् । न तु वैदिके कर्मणि यज्ञ-दानादौ । अतएवातत्त्वार्थवत् तत्र तत्त्व-रूपो ऽर्थः को ऽपि नास्तीत्य् अर्थः । अल्पं पशूनाम् इव यत् क्षुद्रं तत् तामसं ज्ञानम् । देहाद्य्-अतिरिक्तत्वेन तत्-पदार्थ-ज्ञानं सात्त्विकम् । नानावाद-प्रतिपादकं न्यायादि-शास्त्र-ज्ञानं राजसम् । स्नान-भोजनादि-व्यवहारिक-ज्ञानं तामसम् इति सङ्क्षेपः ॥२२॥

बलदेव : तामसं ज्ञानम् आह यत् त्व् इति । यत् तु ज्ञानम् अहैतुकं स्वाभाविकं न तु शास्त्राद् धेतोर् ज्ञानम् । अतएवैकस्मिन् लौकिके स्नानअ-भोजन-योषित-प्रसङ्गादौ कार्ये । न तु वैदिके याग-दानादौ सक्तं कृत्स्नवत् पूर्णं नातो ऽधिकम् अस्तीत्य् अर्थः । अतएवातत्त्वार्थवद् यत्र तत्त्व-रूपो ऽर्थो नास्ति । अल्पं पश्व्-आदि-साधारण्यात् तुच्छं तल् लौकिक-स्नान-भोजनादि-ज्ञानं तामसम् ॥२२॥


१८।२३

नियतं सङ्गरहितम् अरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥२३॥

श्रीधर: इदानीं त्रिविधं कर्माह - नियतम् इति त्रिभिः । नियतं नित्यतया विहितम् । सङ्ग-रहितम् अभिनिवेश-शून्यम् । अराग-द्वेषतः पुत्रादि-प्रीत्या वाशत्रु-द्वेषेण वा यत् कृतं न भवति । फलं प्राप्तुम् इच्छतीति फल-प्रेप्सुः । तद्-विलक्षणेन निष्कामेण कर्त्रा यत् कृतं कर्म तत् सात्त्विकम् उच्यते ॥२३॥

विश्वनाथ: त्रिविधं ज्ञानम् उक्त्वा त्रिविधं कर्माह - नियतं नित्यतया विहितं सङ्ग-रहितम् अभिनिवेश-शून्यम् अतएवाराग-द्वेषतो राग-द्वेषाभ्यां विनैव कृतम् अफलेप्सुना फलाकाङ्क्षा-रहितेनैव कर्त्रा कृतं कर्म यत् सात्त्विकम् ॥२३॥

बलदेवः: अथ कर्म-त्रैविध्यम् आह - नियतम् इति त्रिभिः । नियतं स्व-वर्णाश्रम-विहितम् । सङ्ग-रहितम् कर्तृत्वाभिनिवेश-वर्जितम् । अराग-द्वेषतः कृतं कीर्तौ रागाद् अकीर्तौ द्वेषाच् च यन् न कृतम्, किन्त्व् ईश्वरार्चनतयिवाफल-प्रेप्सुना फलेच्छा-शून्येन यत् कर्म कृतं तत् सात्त्विकम् ॥२३॥


१८।२४

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद् राजसम् उदाहृतम् ॥२४॥

श्रीधर: राजसं कर्माह यद् इति । यत् तु कर्म कामेप्सुना फलं प्राप्तुम् इच्छता साहङ्कारेण मत्-समः[*एन्द्नोते] को ऽन्यः श्रोत्रियो ऽस्तीत्य् एवं निरूढाहङ्कार-युक्तेन च क्रियते । यच् च पुनर् बहुलायासम् अतिक्लेश-युक्तं तत् कर्म राजसम् उदाहृतम् ॥२४॥

विश्वनाथ: कामेप्सुनाल्पाहङ्कारवतेत्य् अर्थः । साहङ्कारेणात्यहङ्कारवतेत्य् अर्थः ॥२४॥

बलदेवः: यत् कामेप्सुना फलाकाङ्क्षिणा साहङ्कारेण कर्तृत्वाभिनिवेशिना जनेन बहुलायासम् अतिक्लेश-युक्तं कर्म क्रियते तद् राजसम् ॥२४॥


१८।२५

अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् ।
मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥२५॥

श्रीधर: तामसं कर्माह अनुबन्धम् इति । अनुबध्यत इति अनुबन्धः पश्चाद्-भावि शुभाशुभम् । क्षयं वित्त-व्ययम् । हिंसां पर-पीडाम् । पौरुषं च स्व-सामर्थ्यम् अनपेक्ष्यापर्यालोच्य केवलं मोहाद् एव यत् कर्मारभ्यते तत् तामसम् उच्यते ॥२५॥

विश्वनाथ: अनु कर्मानुष्ठानानन्तरम् आयत्यां भाविनं बन्धं राज-दस्यु-यम-दूतादिभिर् बन्धनं । क्षयं धर्म-ज्ञानाद्य्-अपचयम् । हिंसां स्वस्य नाशं च अनपेक्ष्यापर्यालोच्य पौरुषं व्यवहारिक-पुरुष-मात्र-कर्तव्यं कर्म मोहाद् अज्ञानाद् एव यद् आरभ्यते तत् तामसम् ॥२५॥

बलदेवः: अनु कर्मानुष्ठानानन्तरम् बन्धं राज-दूत-यम-दूत-कृतम् । क्षयं धर्मादि-विनाशम् । हिंसां प्राणि-पीडाम् । पौरुषं सबलं चानवेक्ष्य यत् कर्म मोहाद् आरभ्यते तत् तामसम् ॥२५॥


१८।२६

मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥२६॥

श्रीधर: कर्तारं त्रिविधम् आह मुक्त-सङ्ग इति त्रिभिः । मुक्त-सङ्गस् त्यक्ताभिनिवेशः । अनहंवादी गर्वोक्ति-रहितः । धृतिर् धैर्यम् । उत्साह उद्यमः । ताभ्यां समन्वितः संयुक्तः । आरब्धस्य कर्मणः सिद्धाव् असिद्धौ च निर्विकारो हर्ष-विषाद-शून्यः । एवम्भूतः कर्ता सात्त्विक उच्यते ॥२६॥

विश्वनाथ: त्रिविधं कर्मोक्तम् । त्रिविधं कर्तारम् आह मुक्त-सङ्ग इति ॥२६॥

बलदेवः: अथ कर्तृ-त्रैविध्यम् आह मुक्तेति त्रिभिः । मुक्त-सङ्गः कर्तृत्वाभिनिवेश-फलेच्छा-शून्यः । अनहंवादी गर्वोक्ति- शून्यः । धृतिर् आरब्ध-कर्म-पूर्ति-पर्यन्तावर्जनीय-दुःख-सहिष्णुता । उत्साहस् तद्-अनुष्ठानोद्यत-चित्तता ताभ्यां समन्वितः । आनुषङ्गिक-फलस्य सिद्धाव् असिद्धौ च निर्विकारो सुखेन दुःखेन च रहितः । ईदृशः कर्ता सात्त्विकः ॥२६॥


१८।२७

रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मकोशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥२७॥

श्रीधर: राजसं कर्तारम् आह रागीति । रागी पुत्रादिषु प्रीतिमान् । कर्म-फल-प्रेप्सुः कर्म-फल-कामी । लुब्धः परस्वाभिलाषी । हिंसात्मको मारक-स्वभावः । लाभालाभयोर् हर्ष-शोकाभ्याम् अन्वितः संयुक्तः कर्ता राजसः परिकीर्तितः ॥२७॥

विश्वनाथ: रागी कर्मण्य् आसक्तः । लुब्धो विषयासक्तः ॥२७॥

बलदेवः: रागी स्त्री-पुत्रादिष्व् आसक्तः । कर्म-फल-प्रेप्सुः पशु-पुत्रान्न-स्वर्गादिष्व् अतिस्पृहयालुः । लुब्धः कर्मापेक्षित-द्रव्य-व्ययाक्षमः । हिंसात्मकः परान् प्रपीड्य कर्म कुर्वाणः । अशुचिः कर्मापेक्षित-विहित-शुद्धि-शून्यः कर्म-फल-सिद्धि-तद्-असिद्ध्योर् हर्ष-शोकाभ्याम् अन्वितः । ईदृशः कर्ता राजसः ॥२७॥


१८।२८

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥२८॥

श्रीधर: तामसं कर्तारम् आह अयुक्त इति । अयुक्तो ऽनवहितः । प्राकृतो विवेक-शून्यः । स्तब्धो ऽनम्रः । शठः शक्ति-गूहन-कारी । नैकृतिकः पर-वृत्ति-छेदन-परः । अलसो ऽप्रवृत्ति-शीलः [विषादी] कर्तव्येष्व् अपि सर्वदा ऽवसन्न-स्वभावः । दीर्घ-सूत्री च कर्तव्यानां दीर्घ-प्रसारणः सर्वदा मन्द-स्वभावः । यद् अद्य श्वो वा कर्तव्यं तन् मासेनापि न करोति । यश् चैवम्भूतः स कर्ता तामस उच्यते ॥२८॥

कर्तृ-त्रैविध्येनैव ज्ञातुर् अपि त्रैविध्यम् उक्तं भवति । कर्म-त्रैविध्येन च ज्ञेयस्यापि त्रैविध्यम् उक्तं ज्ञातव्यम् । बुद्धेस् त्रैविध्येन करणस्यापि त्रैविध्यम् उक्तं भविष्यति ॥२८॥

विश्वनाथः - अयुक्तो ऽनौचित्य-कारी प्राकृतः प्रकृतौ स्व-स्वभाव एव वर्तमानः, यद् एव स्व-मनसि आयाति तद् एवानुतिष्ठति, न तु गुरोर् अपि वचः प्रमाणयतीत्य् अर्थः । नैकृतिकः परापमान-कर्ता ।

तद् एवं ज्ञानिभिर् उक्त-लक्षणः सात्त्विक एव त्यागः कर्तव्यः सात्त्विकम् एव कर्म-निष्ठं ज्ञानम् आश्रयणीयं सात्त्विकम् एव कर्म कर्तव्यं सात्त्विकेनैव कर्त्रा भवितव्यं । एष एव सन्न्यासो ज्ञानिनाम् इति मे ज्ञानं प्रकरणार्थ-निष्कर्षः । भक्तानां तु त्रिगुणातीतम् एव ज्ञानं त्रिगुणातीतं मे कर्म भक्ति-योगाख्यं त्रिगुणातीता एव कर्तारः । यद् उक्तं भगवतैव श्रीमद्-भागवते -

कैवल्यं सात्त्विकं ज्ञानं
रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं
मन्-निष्ठं निर्गुणं स्मृतम् ॥ (भ्प् ११।२५।२४) इति ।

लक्षणं भक्ति-योगस्य
निर्गुणस्य ह्य् उदाहृतम् ॥ (भ्प् ३।२९।११) इति ।

सात्त्विकः कारको ऽसङ्गी
रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो
निर्गुणो मद्-अपाश्रयः ॥ (भ्प् ११।२५।२६) इति ।

किं च न केवलम् एतत् त्रिकम् एव भक्ति-मते गुणातीतम् अपि तु भक्ति-सम्बन्धि सर्वम् एव गुणातीतम् । यद् उक्तं तत्रैव -

सात्त्विक्याध्यात्मिकी श्रद्धा
कर्म-श्रद्धा तु राजसी ।
तामस्य् अधर्मे या श्रद्धा
मत्-सेवायां तु निर्गुणा ॥ (भ्प् ११।२५।२७) इति ।

वनं तु सात्त्विको वासो
ग्रामो राजस उच्यते ।
तामसं द्युत-सदनं
मन्-निकेतं तु निर्गुणम् ॥ (भ्प् ११।२५।२५) इति ।

सात्त्विकं सुखम् आत्मोत्थं
विषयोत्थं तु राजसम् ।
तामसं मोह-दैन्योत्थं
निर्गुणं मद्-अपाश्रयम् ॥ (भ्प् ११।२५।२९) इति ।

तद् एवं गुणातीतानां भक्तानां भक्ति-सम्बन्धीनि ज्ञान-कर्म-श्रद्धादौ स्व-सुखादीनि सर्वाण्य् एव गुणातीतानि । सात्त्विकानां ज्ञानिनां ज्ञान-सम्बन्धीनि तानि सर्वाणि सात्त्विकान्य् एव । राजसानां कर्मिणां तानि सर्वाणि राजसान्य् एव । तामसानाम् उच्छृङ्खलानां तानि सर्वाणि तामसान्य् एवेति श्री-गीता-भागवतार्थ-दृष्ट्या ज्ञेयम् । ज्ञानिनाम् अपि पुनर् अन्तिम-दशायां ज्ञान-सन्न्यासानन्तरम् उर्वरितया केवलया भक्त्यैव गुणातीतत्वं चतुर्दशाध्याय उक्तम् ॥२८॥

बलदेवः : अयुक्तो ऽनौचित्य-कृत् । प्राकृतः प्रकृतौ स्वभावे वर्तमानः स्व-प्रकृत्य्-अनुसारेणैव, न तु शास्त्रानुसारेण कर्म-कृद् इत्य् अर्थः । स्तब्धो ऽनम्रः शठः स्व-शक्ति-गोपन-कृत् । नैकृतिकः परापमान-कृत् । अलसः प्रारब्धे कर्मणि शिथिलः । विषादी शोकाकुलः । दीर्घ-सूत्री दिवसैक-कर्तव्यं वर्षेणापि यो न करोति । ईदृशः कर्ता तामस ॥२८॥


१८।२९

बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु ।
प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥२९॥

श्रीधर: इदानीं बुद्धेर् धृतेश् च त्रैविध्यं प्रतिजानीते बुद्धेर् भेदम् इति । स्पष्टो ऽर्थः ॥२९॥

विश्वनाथ: ज्ञानिभिः सर्वम् अपि वस्तु सात्त्विकम् एवोपादेयम् इति ज्ञापयितुं बुद्ध्य्-आदीनाम् अपि त्रैविध्यम् आह बुद्धेर् इति ॥२९॥

बलदेव: एवं ज्ञान-ज्ञेय-परिज्ञातॄणां त्रैविध्यम् उक्त्वा बुद्धि-धृत्योस् तद् वक्तुं प्रतिजानीते बुद्धेर् इति । स्फुटार्थम् ॥२९॥


१८।३०

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥३०॥

श्रीधर: अत्र बुद्धेस् त्रैविध्यम् आह प्रवृत्तिं चेति त्रिभिः । प्रवृत्तिं धर्मे । निवृत्तिम् अधर्मे । यस्मिन् देशे काले च यत् कार्यम् अकार्यं च । भयाभये कार्याकार्य-निमित्तौ अर्थानर्थौ । कथं बन्धः कथं वा मोक्षे इति या बुद्धिर् अन्तङ्करणं वेत्ति सा सात्त्विकी । यया पुमान् वेत्तीति वक्तव्ये करणे कर्तृत्वोपचारः काष्ठानि पचन्तीतिवत् ॥३०॥

विश्वनाथ: भयाभये संसारासंसार-हेतुके ॥३०॥

बलदेव: तत्र बुद्धेस् त्रैविध्यम् आह प्रवृत्तिं चेति त्रिभिः । या बुद्धिर् धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिं च वेत्ति, यया वेत्तीति वक्तव्य या वेत्तीति करणे कर्तृत्वम् उपचरितम् । कुठारश् छिनत्तीतिवत् । निष्कामं कर्म कार्यं स-कामं त्व् अकार्यम् इति कार्याकार्ये या वेत्ति अशास्त्रीय-प्रवृत्तितो भयं शास्त्रीय-प्रवृत्तितस् त्व् अभयम् इति भयाभये या वेत्ति, बन्धं संसार-याथात्म्यं मोक्षं तच्-छेद-याथाम्यं च या वेत्ति सा बुद्धिः सात्त्विकी ॥३०॥


१८।३१

यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१॥

श्रीधर: राजसीं बुद्धिम् आह ययेति । अयथावत् सन्देहास्पदत्वेनेत्य् अर्थः । स्पष्टम् अन्यत् ॥३१॥

विश्वनाथ: अयथावत् अस्मयक्तयेत्य् अर्थः ॥३१॥

बलदेव: राजसीं बुद्धिम् आह ययेति । अयथावद् असम्यत्वेन ॥३१॥


१८।३२

अधर्मं धर्मम् इति या मन्यते तमसावृता ।
सर्वार्थान् विपरीताञ्श् च बुद्धिः सा पार्थ तामसी ॥३२॥

श्रीधर: तामसीं बुद्धिम् आह अधर्मम् इति । विपरीत-ग्राहिणी बुद्धिस् तामसीत्य् अर्थः । बुद्धिर् अन्तःकरणं पूर्वोक्तम् । ज्ञानं तु तद्-वृत्तिः । धृतिर् अपि तद्-वृत्तिर् एव । यद् वा अन्तःकरणस्य धर्मिणो बुद्धिर् अप्य् अध्यवसाय-लक्षणा वृत्तिर् एव । इच्छा-द्वेषादीनां तद्-वृत्तीनां बहुत्वे ऽपि धर्माधर्म-भयाभय-साधनत्वेन प्राधान्याद् एतासां त्रैविध्यम् उक्तम् । उपलक्षणं चैतद् अन्यासाम् ॥३२॥

विश्वनाथ: या मन्यत इति । कुठारश् छिनत्तीतिवत् यया मन्यत इत्य् अर्थः ॥३२॥

बलदेवः : तामसीं बुद्धिम् आह अधर्मम् इति । विपरीत-ग्राहिणी बुद्धिस् तामसीत्य् अर्थः । सर्वार्थान् विपरीतानि साधुम् असाधुम् असाधुं च साधुम्, परं तत्त्वम् अपरम् अपरं च तत्त्वं परम् इत्य् एवं सर्वान् अर्थान् विपरीतान् मन्यत इत्य् अर्थः ॥३२॥


१८।३३

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥३३॥

श्रीधर: इदानीं धृतेस् त्रैविध्यम् आह धृत्येति त्रिभिः । योगेन चित्तैगाग्रेण हेतुना ऽव्यभिचारिण्या विषयान्तरम् अधारयन्त्या यया धृत्या मनसः प्राणानाम् इन्द्रियाणां च क्रिया धारयते नियच्छति सा धृतिः सात्त्विकी ॥३३॥

विश्वनाथ: धृतेस् त्रैविध्यम् आह धृत्येति ॥३३॥

बलदेवः : धृतेस् त्रैविध्यम् आह धृत्येति त्रिभिः । यया मनः-प्राणेन्द्रियाणां योगोपाय-भूताः क्रियाः पुरुषो धारयते, सा धृतिः सात्त्विकी । कीदृशेत्य् आह योगेनेति । योगः परात्म-चिन्तनं तेनाव्यभिचारिण्या तद् अन्यं विषयम् अगृह्णन्त्येत्य् अर्थः ॥३३॥


१८।३४

यया तु धर्मकामार्थान् धृत्या धारयतेर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥३४॥

श्रीधर: राजसीं धृतिम् आह यया त्व् इति । यया तु धृत्या धर्मार्थ-कामान् प्राधान्येन धारयते न विमुञ्चति । तत्-सङ्गेन फलाकाङ्क्षी च भवति सा राजसी धृतिः ।

विश्वनाथ - नो चोम्मेन्त्

बलदेवः : स-काम-विद्वत्-प्रसङ्गेन फलाकाङ्क्षी पुरुषः । यया धर्मादीन् तत्-साधन-भूता मनः-प्राणेन्द्रिय-क्रिया धारयतेए, सा धृतिः राजसी ।


१८।३५

यया स्वप्नं भयं शोकं विषादं मदम् एव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५॥

श्रीधर : तामसीं धृतिम् आह ययेति दुष्टाविवेक-बहुला मेधा यस्य स दुर्मेधाः पुरुषो यया धृत्या स्वप्नादीन् न विमुञ्चति पुनः पुनर् आवर्तयति । स्वप्नो ऽत्र निद्रा सा धृतिस् तामसी ॥३५॥

विश्वनाथ - नो चोम्मेन्त्

बलदेवः : यया स्वप्नादीन् न विमुञ्चति दुर्मेधास् तान् धारयत्य् एव, सा धृतिस् तामसी । स्वप्नो निद्रा, मदो विषय-भोग-जो गर्वः । स्वप्नादि-शब्दैस् तद्-धेतु-भूता मनः-प्राणेन्द्रिय-क्रिया यया धारयते सा तामसी धृतिर् इत्य् अर्थः ॥३५॥


१८।३६-३७

सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छ्हति ॥३६॥
यत् तदग्रे विषम् इव परिणामेमृतोपमम् ।
तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥३७॥

श्रीधर: इदानीं सुखस्य त्रैविध्यं प्रतिजानीते ऽर्धेन सुखम् इति । स्पष्टो ऽर्थः ॥३६॥ तत्र सात्त्विकं सुखम् आह अभ्यासाद् इति सार्धेन । यत्र यस्मिंश् च सुखे ऽभ्यासाद् अतिपरिचयाद् रमते । न तु विषय-सुख इव सहसा रतिं प्राप्नोति । यस्मिन् रममाणश् च दुःखस्यान्तम् अवसानं नितरां गच्छति प्राप्नोति । कीदृशं तत् ? यत् तत् किम् अप्य् अग्रे प्रथमं विषम् इव मनः-संयमाधीनत्वाद् दुःखावहम् इव भवति । परिणामे त्व् अमृत-सदृशम् । आत्म-विषया बुद्धिर् आत्म-बुद्धिः । तस्याः प्रसादो रजस्-तमो-मल-त्यागेन स्वच्छतयावस्थानम् । ततो जातं यत् सुखं तत् सात्त्विकं प्रोक्तं योगिभिः ॥३७॥

विश्वनाथ - सात्त्विकं सुखम् आह सार्धेन अभ्यासात् पुनर् अनुशीलनाद् एव रमते, न तु विषयेष्व् इवोत्पत्त्यैव रमत इत्य् अर्थः । दुःखान्तं निगच्छति यस्मिन् रममाणः संसार-दुःखं तरतीत्य् अर्थः ॥३६॥ विषम् इवेति इन्द्रिय-मनो-निरोधो हि प्रथमं दुःखद एव भवतीति भावः ॥३७॥

बलदेवः : अथ सुख-त्रैविध्यं प्रतीजानीते सुखं त्व् इत्य् अर्धकेन । तत्र सात्त्विकं सुखम् आह अभ्यासाद् इति सार्धकेन । अभ्यासात् पुनः पुनः परिशीलनाद् यत्र रमते, न तु विषयेष्व् इवोत्पत्त्या । यस्मिन् रममाणो दुःखान्तं निगच्छति संसारं तरति ॥३६॥ यच् चाग्रे प्रथमं विषम् इव मनः-संयम-क्लेश-सत्त्वाद् विविक्तात्म-प्रकाशाच् चातिदुःखावहम् इव भवति । परिणामे समाधि-परिपाके सत्य् अमृतोपमं विविकात्म-प्रकाशात् पीयूष-प्रवाह-निपातवद् भवति । यच् चात्म-सम्बन्धिन्या बुद्धेः प्रसादाज् जायते तत् सात्त्विकं सुखम् । तत्-प्रसादश् च विषय-सम्बअन्ध-मालिन्य-विनिवृत्तिः ॥३७॥


१८।३८

विषयेन्द्रियसञ्योगाद् यत् तद् अग्रेमृतोपमम् ।
परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥३८॥

श्रीधर : राजसं सुखम् आह विषयेति विषयाणाम् इन्द्रियाणां च संयोगाद् यत् तत् प्रसिद्धं स्त्री-संसर्गादि-सुखम् अमृतम् उपमा यस्य तादृशं भवत्य् अग्रे प्रथमम् । परिणामे तु विष-तुल्यम् इहामुत्र च दुःख-हेतुत्वात् । तत् सुखं राजसं स्मृतम् ॥३८॥

विश्वनाथ : यद् अमृतोपमं पर-स्त्री-सम्भोगादिकम् ॥३८॥

बलदेव : विषयैर् युवति-रूप-स्पर्शादिभिः सहेन्द्रियाणां चक्षुस् त्व् अगादीनां संयोगात् सम्बन्धात् यद् अग्रे पूर्वम् अमृतोपमम् अतिस्वादु-परिणामे ऽवसाने तु निरय-हेतुत्वाद् विषोपमम् अतिदुःखावहं भवति तद् राजसं सुखम् ॥३८॥


१८।३९

यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः ।
निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥३९॥

श्रीधर : तामसं सुखम् आह यद् इति । अग्रे च प्रथम-क्षणे ऽनुबन्धे च पश्चाद् अपि यत् सुखम् आत्मनो मोह-करम् । तद् एवाह निद्रा आलस्यं च प्रमादश् च कर्तव्यार्थावधारण-राहित्येन मनो-ग्राह्यम् एतेभ्य उत्तिष्ठति यत् सुखं तत् तामसम् उदाहृतम् ॥३९॥

विश्वनाथ : नो चोम्मेन्त्

बलदेव : यद्-अग्रे ऽनुभव-काले अनुबन्धे पश्चाद् विपाक-काले चात्मनो मोहनं वस्तु-याथात्म्यावरकम्, यच् च निद्रादिभ्य उत्तिष्ठति जायते तत् तामसं सुखम् । आलस्यम् इनिद्रिय-व्यापारम् आन्द्यम् । प्रमादः कार्याकार्यावधानाभावः ॥३९॥


१८।४०

न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥४०॥

श्रीधर : अनुक्तम् अपि सङ्गृह्णन् प्रकरणार्थम् उपसंहरति न तद् इति । एभिः प्रकृति-सम्भवैः सत्त्वादिभिस् त्रिभिर् गुणैर् मुक्तं प्राणि-जातम् । अन्यद् वा यत् स्यात् तत् । पृथिव्यां मनुष्य-लोकादिषुदिवि देवेषु च क्वापि नास्तीत्य् अर्थः ॥४०॥

विश्वनाथ : अनुक्तम् अपि सङ्गृह्णन् प्रकरणार्थम् उपसंहरति नेति तत् सत्त्वं प्राणि-जातम् अन्यच् च वस्तु-मात्रं क्वापि नास्ति यद् एभिः प्रकृतिजैस् त्रिभिर् गुणैर् मुक्तं रहितं स्याद् अतः सर्वम् एव वस्तु-जातं त्रिगुणात्मकं । तत्र सात्त्विकम् एवोपादेयं राजस-तामसे तु नोपादेय इति प्रकरण-तात्पर्यम् ॥४०॥

बलदेवः : प्रकरणार्थम् उपसंहन्न् अनुक्तम् अपि सङ्गृह्णाति न तद् इति । पृथिव्यां मनुष्यादिषु दिवि स्वर्गादौ देवेषु च प्रकृतिं संसृष्टेषु ब्रह्मादि-स्तम्बान्तेष्व् इत्य् अर्थः । तत् सत्त्वं प्राणि-जातम् अन्यच् च वस्तु नास्ति । यद् एभिः प्रकृतिजैस् त्रिभिर् गुणैर् मुक्तं विरहितं स्यात् । तथा च त्रिगुणात्मकेषु वस्तुषु सात्त्विकस्यैवोपयोगित्वात् तद् एव ग्राह्यम् अन्यत् तु त्याज्यम् इति प्रकरणार्थः ॥४०॥


१८।४१

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः ॥४१॥

श्रीधर : ननु च यद्य् एवं सर्वम् अपि क्रिया-कारक-फलादिकं प्राणि-जातं च त्रिगुणात्मकम् एव तर्हि कथम् अस्य मोक्ष इत्य् अपेक्षायां स्व-स्वाधिकार-विहितैः कर्मभिः परमेश्वराराधनात् तत्-प्रसाद-लब्ध-ज्ञानेनेत्य् एवं सर्व-गीतार्थ-सारं सङ्गृह्य प्रदर्शयितुं प्रकरणान्तरम् आरभते । ब्राह्मणेत्य् आदि यावद् अध्याय-समाप्ति । हे परन्तप हे शत्रु-तापन । ब्राह्मणानां क्षत्रियाणां विशां च शूद्राणां च कर्माणि प्रविभक्तानि प्रकर्षेण विभागतो विहितानि । शूद्राणां समासात् पृथक्-करणं द्विजत्वाभावेन वैलक्षण्यात् । विभागोपलक्षणम् आह स्वभावः सात्त्विकादिः प्रभवति प्रादुर्भवति येभ्यस् तैर् गुणैर् उपकक्षण-भूतैः । यद् वा स्वभावः पूर्व-जन्म-संस्कारः । तस्मात् प्रादुर्भूतैर् इत्य् अर्थः । सत्त्वोपसर्जन-रजः-प्रधानाः
क्षत्रियाः । तम-उपसर्जन-रजः-प्रधाना वैश्याः । रज-उपसर्जन-तमः-प्रधानाः शूद्राः ॥४१॥

विश्वनाथ : किं च त्रिगुणात्मकम् अपि प्राणि-जातं स्वाधिकार-प्राप्तेन विहित-कर्मणा परमेश्वरम् आराध्य कृतार्थीभिवतीत्याह ब्राह्मणेति षड्भिः । स्व-भावेनोत्पत्त्यैव प्रभवन्ति प्रादुर्भवन्ति ये गुणाः सत्त्वादयस् तैः प्रकर्षेण विभक्तानि पृथक्-कृतानि कर्माणि ब्राह्मणादीनां विहितानि सन्तीत्य् अर्थः ॥४१॥

बलदेव : यद्यपि सर्वाणि वस्तूनि त्रिगुणात्मकानि तथापि ब्राह्मणादयश् चेत् स्व-विहितानि कर्माणि भगवद्-आराधन-भावेनानुतिष्ठेयुस् तदा तानि ज्ञान-निष्ठाम् उत्पाद्य मोचकानि भवन्तिईति वक्तुं प्रकरणम् आरभते ब्राह्मणेति षट्केन । शूद्राणं समासात् पृथक्-करणं द्विजत्वाभावात् । ब्राह्मणादीनां चतुर्णां कर्माणि स्वभाव्-प्रभवैर् गुणैः सह शास्त्रेण प्रविभक्तानि, स्वभावः प्राक्तन-संस्कारस् तस्मात् प्रभवन्ति ये गुणाः सत्त्वाद्यास् तैः सह शास्त्रेण तेषां कर्माणि विभज्योक्तानि । एवं गुणक-ब्राह्मणादयस् तेषाम् एतानि कर्माणीति तत्र सत्त्व-प्रधानो ब्राह्मणः प्रशान्तत्वात् सत्त्वोपसर्जन्-रजः-प्रधानः क्षत्रिय ईश्वर-स्वभावत्वात्, तम-उपसर्जन-रजः-प्रधानो विट् इहाप्रधानत्वात् रजौपसर्जनतमःप्रधानः
शूद्रो मूढ-स्वभावत्वात् । कर्माणि त्व् अग्रे वाच्यानि ॥४१॥


१८।४२

शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च ।
ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥४२॥

श्रीधर : तत्र ब्राह्मणस्य स्वाभाविकानि कर्माण्य् आह शम इति । शमश् चित्तोपरमः । दमो बाह्येन्द्रियोपरमः । तपः पूर्वोक्तं शारीतादि । शौचं बाह्याभ्यन्तरम् । क्षान्तिः क्षमा । आर्जवम् ऋजुतैव च । ज्ञानं विज्ञानं । आस्तिक्यम् आस्तिक-भावः श्रद्दधान्तागमार्थेषु । ब्राह्म्यं कर्म ब्राह्मण-जाते कर्म स्वभावजम् । यद् उक्तं स्वभाव-प्रभवैर् गुणैः प्रविभक्तानीति तद् एवोक्तं स्वभावजम् इति ॥४२॥

विश्वनाथ : तत्र सत्त्व-प्रधानानां ब्राह्मणानां स्वभाविकानि कर्माण्य् आह शम इति । शमो ऽन्तरिन्दिर्य-निग्रहः । दमो बाह्येन्द्रिय-निग्रहस् तपः शरीरादि ज्ञान-विज्ञाने शास्त्रानुभवोत्थे आस्तिक्यं शास्त्रार्थे दृढ-विश्वास एवम् आदि ब्रह्म-कर्म ब्राह्मणस्य कर्म स्वभावजं स्वाभाविकम् ॥४२॥

बलदेव : ब्राह्मणस्य स्वाभाविकं कर्माह शम इति । शमो ऽन्तः-करणस्य संयमः । दमो बहिः-करणस्य तपः शास्त्रीय-काय-क्लेशः । शौचं द्विविधम् उक्तम् । क्षान्तिः सहिष्णुता आर्जवम् अवक्रत्वम् । ज्ञानं शास्त्रात् परावर-तत्त्वावगमः । विज्ञानं तस्माद् एव तद्-एकान्त-धर्माधिगमः । आस्तिक्यं सर्ववेद-वेद्यो हरिर् निखिलैक-करणं स्व-व्विहितैः कर्मभिर् आराधितः केवलया भक्त्या च सन्तोषितः स्व-पर्यन्तं सर्वम् अर्पयतीति शास्त्राधिगते ऽर्थे सत्यत्व-विनिश्चयः । एतत् स्वाभाविकं ब्रह्म-कर्म । तथापि सत्त्व-प्राधान्याद् ब्राह्मणस्येति भणितिः । एवम् उक्तं विष्णुना -

क्षमा सत्यं दमः शौचं
दानम् इन्द्रिय-संयमः ।
अहिंसा गुरु-शुश्रूषा
तीर्थानुसरणं दया ॥

आर्जवं लोभ-शून्यत्वं
देव-ब्राह्मण-पूजनम् ।
अनभ्यसूया च तथा
धर्म-सामान्य उच्यते ॥ इति ॥४२॥


१८।४३

शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् ।
दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् ॥४३॥

श्रीधर: क्षत्रियस्य स्वाभाविकानि कर्माण्य् आह शौर्यम् इति । शौर्यं पराक्रमः । तेजः प्रागल्भ्यम् । धृतिर् धैर्यम् । दाक्ष्यं कौशलम् । युद्धे चाप्य् अपलायनम् अपराङ्मुखता । दानम् औदार्यम् । ईश्वर-भावो नियमन-शक्तिः । एतत् क्षत्रियस्य स्वाभाविकं कर्म ॥४३॥

विश्वनाथ: सत्त्वोपसर्जन-रजः-प्रधानानां क्षत्रियाणां कर्माह - शौर्यं पराक्रमः तेजः प्रागल्भ्यं धृतिर् धैर्यं ईश्वर-भावो लोक-नियन्तृत्वम् ॥४३॥

बलदेवः: क्षत्रियस्याह शौर्यम् इति । शौर्यं युद्धे निर्भया प्रवृत्तिः । तेजः परैर् अधृष्यत्वम् । धृतिर् महत्य् अपि सङ्कटे देहेन्द्रियानावसादः । दाक्ष्यं क्रिया-सिद्ध्-कौशलम् । युद्धे स्व-मृत्यु-निश्चये ऽप्य् अपलायनम् तत्रावैमुख्यम् । दानम् असङ्कोचएन स्व-वित्त-त्यागः । ईश्वर-भावः प्रजा-पालनार्थ ईशितव्येषु शासनातिगेषु प्रभुत्व-शक्ति-प्रकाशः । एतत् क्षत्रियस्य स्वाभाविकं कर्म ॥४३॥


१८।४४

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥४४॥

श्रीधर: वैश्य-शूद्रयोः कर्माण्य् आह कृषीति । कृषिः कर्षणम् । गा रक्षतीति गौ-रक्षः । तस्य भावो गौरक्ष्यम् । पाशुपाल्यम् इत्य् अर्थः । वाणिज्यं क्रय-विक्रयादि । एतद् वैश्यस्य स्वभावजं कर्म । त्रवर्णिक-परिचर्यात्मकं शूद्रस्यापि स्वभावजम् ॥४४॥

विश्वनाथ: तम-उपसर्जन-रजः-प्रधानानां कर्माह कृषीति । गा रक्सतीति गो-रक्षस् तस्य भावो गौरक्ष्यम् । रज-उपसर्जन-तमः-प्रधानानां शूद्राणां कर्माह परिचर्यात्मकं ब्राह्मण-क्षत्रिय-विशां परिचर्या-रूपम् ॥४४॥

बलदेवः: वैश्यस्याह कृषीति । अन्नाद्य्-उत्पत्तये हलादिना भूमेर् विलेखनं कृषिः । पाशुपाल्यं गोरक्ष्यम् । वणिक्-कर्म वाणिज्यं क्रय-विक्रय-लक्सणम् । वृद्धौ धन-प्रयोगः कुशीदम् अप्य् अत्रान्तर्गतम् एतत् स्वभाव-सिद्धं वैश्य-कर्म । अथ शूद्रस्याह परीति । ब्राह्मणादीनां द्विजन्मनां परिचर्या शूद्रस्य स्वाभाविकं कर्म । एतानि चातुराश्रम्य-कर्मणाम् उपलक्षणानि ॥४४॥


१८।४५

स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच् छृणु ॥४५॥

श्रीधर: एवम्भूतस्य ब्राह्मणादि-कर्मणो ज्ञान-हेतुत्वम् आह स्वे स्वे इति । स्व-स्वाधिकार-विहिते कर्मण्य् अभिरतः परिनिष्ठितो नरः संसिद्धिं ज्ञान-योग्यतां लभते । कर्मणां ज्ञान-प्राप्ति-प्रकारम् आह स्व-कर्मेति-सार्धेन । स्व-कर्म-परिनिष्ठितो यथा येन प्रकारेण तत्त्व-ज्ञानं लभते तत् प्रकारं शृणु ॥४५॥

विश्वनाथ: नो चोम्मेन्त्

बलदेवः: उक्तानां कर्मणां ज्ञान-हेतुताम् आह स्वे स्वे इति । स्व-स्व-वर्णाश्रम-विहिते कर्मण्य् अभिरतस् तद्-अनुष्ठाता नरः संसिद्धिं विश-तन्तुवत् कर्मान्तर्गतं ज्ञान-निष्ठां लभते । ननु बन्धकेन कर्मणां विमोचिका ज्ञान-निष्ठा कथम् इति चेद् बुद्धि-विशेषाद् इत्य् आह स्व-कर्मेति ॥४५॥


१८।४६

यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् ।
स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥४६॥

श्रीधर: तम् एवाह यत इति । यतो ऽन्तथामिणः परमेश्वराद् भूतानां प्राणिनां प्रवृत्तिश् चेष्टा भवति । येन च कारणात्मना सर्वम् इदं विश्वं ततं व्याप्तम् । तम् ईश्वरं स्व-कर्मणाभ्यर्च्य पूजयित्वा सिद्धिं लभते मनुष्यः ॥४६॥

विश्वनाथ: यतः परमेश्वरात् । तम् एवाभ्यर्च्य इत्य् अनेन कर्मणा परमेशरस् तुष्यत्व् इति मनसा तद्-अर्पणम् एव तद्-अभ्यर्चनम् ॥४६॥

बलदेवः: यत इति । यतः परमेश्वराद् भूतानां जन्मादि-लक्षणा प्रवृत्तिर् भवति , येन चेदं सर्वं जगत् तं व्याप्तं तम् इन्द्रादि-देवतात्मनावस्थितं स्व-विहितेन कर्मणाभ्यर्च्य एतेन कर्मणा स्व-प्रभुस् तुष्यतु इति मनसा तस्मिंस् तत् समर्प्य मानवः सिद्धिं ज्ञान-निष्ठां विन्दति ॥४६॥


१८।४७

श्रेयान् स्वधर्मो विगुणः परधर्मोत् स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥४७॥

श्रीधर: स्वकर्मेति विशेषणस्य फलम् आह श्रेयान् इति । विगुणो ऽपि स्व-धर्मः सम्यग्-अनुष्ठिताद् अपि पर-धर्मात् श्रेयान् श्रेष्ठः । न च बन्धु-वधादि-मुक्ताद् युद्धादेः स्वधर्माद् भिक्षाटनादि पर-धर्मः श्रेष्ठ इति मन्तव्यम् । यतः स्वभावेन पूर्वोक्तेन नियतं नियमेनोक्तं कर्म कुर्वन् किल्बिषं नाप्नोति ॥४७॥

विश्वनाथ: न च क्रियादिभिः स्व-धर्मं राजसं च वीक्ष्य तत्र अनभिरुच्या सात्त्विकं कर्म कर्तव्यम् इत्य् आह श्रेयान् इति । पर-धर्मात् श्रेष्ठाद् अपि स्वनुष्ठितात् सम्यग् अनुष्ठिताद् अपि स्वधर्मो विगुणो निकृष्टो ऽपि सम्यग्-अनुष्ठातुम् अशक्यो ऽपि श्रेष्ठः । तेन बन्धु-वधादि-दोषवत्तात् स्व-धर्मं युद्धं त्यक्त्वा भिक्षाटनादि-रूप-पर-धर्मस् त्वया नानुस्ठेय इति भावः ॥४७॥

बलदेवः: ननु क्षत्रियादि-धर्माणां राजसादित्वात् तेषु रुचि-शून्यैः क्षत्रियादिभिः सात्त्विको ब्रह्म-धर्म एवानुष्ठेय इति चेत् तत्राह श्रेयान् इति । स्व-धर्मो विगुणः निकृष्टो ऽपि सम्यग्-अनुष्ठितो ऽपि वा पर-धर्माद् उत्कृष्टात् स्वनुष्ठिताच् च श्रेयान् अतिप्रशस्तो विहितत्वात् ।


१८।४८

सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः ॥४८॥

श्रीधर: यदि पुनः साङ्ख्य-दृष्ट्य स्व-धर्मे हिंसा-लक्षणं दोषं मत्वा पर-धर्मं श्रेष्ठं मन्यसे तर्हि सदोषत्वं पर-धर्मे ऽपि तुल्यम् इत्य् आशयेनाह सहजम् इति । सहजं स्वभाव-विहितं कर्म स-दोषम् अपि न त्यजेत् । हि यस्मात् सर्वे ऽप्य् आरम्भाः दृष्टादृष्टार्थानि सर्वाण्य् अपि कर्माणि दोषेण केनचिद् आवृता व्याप्ता एव । यथा सहजेन धूमेनाग्निर् आवृत इतिवत् । अतो यथाग्नेर् धूम-रूपं दोषम् अपाकृत्य प्रताप एव तमः-शीतादि-निवृत्तये सेव्यते तथा कर्मणो ऽपि दोषांशं विहाय गुणाम्श एव सत्त्व-शुद्धये सेव्यत इत्य् अर्थः ॥४८॥

विश्वनाथ: न च स्व-धर्मे एव केवलं दोषो ऽस्तीति मन्तव्यम्, यतः पर-धर्मेष्व् अपि दोषः कश्चिद् अस्त्य् एवेत्य् आह सहजम् इति । सहजं स्वभाव-विहितं हि यतः सर्वे ऽप्य् आरम्भाः दृष्टादृष्ट-साधनानि कर्माणि दोषेणावृता एव । यथा धूमेन दोषेणावृत एव वह्निर् दृश्यते । अतो धूम-रूपं दोषम् अपाकृत्य तस्य ताप एव तमः-शीतादि-निवृत्तये यथा सेव्यते तथा कर्मणो ऽपि दोषांशं विहाय गुणाम्श एव सत्त्व-शुद्धये सेव्य इत्य् भावः ॥४८॥

बलदेवः: न खलु क्षत्रियादि-धर्मा एव युद्धादयः स-दोषाः । ब्रह्म-धर्माश् च तथेत्य् आह सहजम् इति । सहजं स्वभाव-प्राप्तं कर्म सदोषम् अपि हिंसादि-मिश्रम् अपि न त्यजेद् अपि तु विहितत्वात् कुर्याद् एव । निर्दोषत्व-बुद्ध्या ब्रह्म-कर्मणा चरेद् इत्य् अर्थः यतः सर्वेति । सर्वेषां ब्राह्मणादि-वर्णानाम् आरम्भाः कर्माणि त्रिगुणात्मकत्वाद् द्रव्य-साध्यत्वाच् च सामान्यतः केनचिद् दोषेणावृता व्याप्ता एव भवन्ति । धूमेनेवाग्निर् इति यथाग्नेर् धूमांशम् अपाकृत्य शीतादि-निवृत्तये तापः सेव्यते । तथा कर्मणां भगवद्-अर्पणेन दोषांशं निर्धूयात्म-दर्शनाय ज्ञान-जनकत्वांशः सेव्य इति भावः ॥४८॥


१८।४९

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥४९॥

श्रीधर: ननु कर्मणि क्रियमाणे कथं दोषांश-प्रहाणेन गुणाम्श एव सम्पद्यत इत्य् अपेक्षायाम् आह असक्त-बुद्धिर् इति । असक्ता सङ्ग-शून्या बुद्धिर् यस्य । जितात्मा निरहङ्कारः । विगत-स्पृहः विगता स्पृहा फल-विषयेच्छा यस्मात् सः । एवम्भूतेन सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः (गीता १८।९) । इत्य् एवं पूर्वोक्तेन कर्मासक्ति-तत्-फलयोस् त्याग-लक्षणेन सन्न्यासेन नैष्कर्म्यसिद्धिं सर्व-कर्म-निवृत्ति-लक्षणां सत्त्व-शुद्धिम् अधिगच्छति । यद्यपि सङ्ग-फलयोस् त्यागेन कर्मानुष्ठानम् अपि नैष्कर्म्यम् एव कर्तृत्वाभिनिवेशाभावात् ( यद् उक्तम् - नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् (गीता ५।८) इत्य् आदि श्लोक-चतुष्टयेन ), तथाप्य् अनेनोक्त-लक्षणेन सन्न्यासेन परमां नैष्कर्म्य-सिद्धिं सर्व-कर्माणि मनसा सन्न्यस्यास्ते
सुखं वशी (गीता ५।१३) इत्य् एवं-लक्षण-पारमहंस्यापर-पर्यायाम् आप्नोति ॥४९॥

विश्वनाथ: एवं सति कर्मणि दोषांसान् कर्तृत्वाभिनिवेश-फलाभिसन्धि-लक्षणान् त्यक्तवतः प्रथम-सन्न्यासिनस् तस्य कालेन साधन-परिपाकतो योगारूढत्व-दशायां कर्मणां स्वरूपेणापि त्याग-रूपं द्वितीय-सन्न्यासम् आह असक्त-बुद्धिः सर्वत्रापि प्राकृत-वस्तुषु न सक्ता आसक्ति-शून्या बुद्धिर् यस्य सः । अतो जितात्मा वशीकृत-चित्तो विगता ब्रह्म-लोक-पर्यन्तेष्व् अपि सुखेषु स्पृहा यस्य सः । ततश् च सन्न्यासेन कर्मणां स्वरूपेणापि त्यागेन नैष्कर्म्यस्य परमां श्रेष्ठां सिद्धिम् अधिगच्छति प्राप्नोति । योगारूढ-दशायां तस्य नैष्कर्म्यम् अतिशयेन सिद्धिर् भवतीत्य् अर्थः ॥४९॥

बलदेव: एवम् आरुरुक्षुः सन्-निष्ठो ज्ञान-गर्भया कर्म-निष्ठयानुभूत-स्वरूपस् ततः कर्म-निष्ठां स्वरूपतस् त्यजेद् इत्य् आह असक्तेति । सर्वत्रात्मातिरिक्तेषु वस्तुष्व् असक्त-बुद्धिर् यतो जितात्मा स्वात्मानन्दास्वादेन वशीकृत-मना अतएव विगत-स्पृह आत्मातिरिक्त-वस्तु-साध्येषु नाना-विधेष्व् आनन्देषु स्पृहा-शून्यः । स्वात्मानन्दास्वाद-विक्षेपकानां कर्मणां सन्न्यासेन स्वरूपतस् त्यागेन परमां नैष्कर्म्य-लक्षणां सिद्धिम् अधिगच्छति योगारूढः सन् । एवम् एवोक्तं तृतीये यस् त्व् आत्म-रतिर् एव स्याद् (गीता ३।१७) इत्य् आदिना ॥४९॥


१८।५०

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥५०॥

श्रीधर: एवम्भूतस्य परमहंसस्य ज्ञान-निष्ठाया ब्रह्म-भाव-प्रकारम् आह सिद्धिं प्राप्त इति षड्भिः । नैष्कर्म्य-सिद्धिं प्राप्तः सन् यथा येन प्रकारेण ब्रह्म प्राप्नोति तथा तं प्रकारं सङ्क्षेपेणैव मे वचनान् निबोध । प्रतिष्ठिता या ब्रह्म-प्राप्तिः ताम् इमां तथा दर्शयितुम् आह निष्ठा ज्ञानस्य या परेति । निष्ठा पर्यवसानं परिसमाप्तिर् इत्य् अर्थः ॥५०॥

विश्वनाथ: ततश् च यथा येन प्रकारेण ब्रह्म प्राप्नोति ब्रह्मानुभवतीत्य् अर्थः । सैव ज्ञानस्य निष्ठा परा परमो ऽन्त इत्य् अर्थः । निष्ठा निष्पत्ति-नाशान्ताः इत्य् अमरः । अविद्यायाम् उपरत-प्रायायां विद्याया अप्य् उपरमारम्भे येन प्रकारेण ज्ञान-सन्न्यासं कृत्वा ब्रह्मानुभवेत् तं बुध्यस्वेत्य् अर्थः ॥५०॥

बलदेव: सिद्धिम् इति । विहितेन कर्मणा हरिम् आराध्य तत्-प्रसाद-जां सर्व-कर्म-त्यागान्तां आत्म-ध्यान-निष्ठां प्राप्तो यथा येन प्रकारेण स्थितो ब्रह्म प्राप्नोति आविर्भावित-गुणाष्टकं स्वरूपम् अनुभवति । तथा तं प्रकारं समासेन गदतो मे मत्तो निबोध । ज्ञानस्य या परा निष्ठा परेश-विषया ज्ञान-निष्ठा त्वां प्रति मयोच्यते तां च शृणु ॥५०॥


१८।५१-५३

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥५२॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥५३॥

श्रीधर: तद् एवम् आह बुद्ध्येति । उक्तेन प्रकारेण विशुद्धया पूर्वोक्तया सात्त्विक्या बुद्ध्या युक्तो धृत्या सात्त्विक्या आत्मानं ताम् एव बुद्धिं नियम्य निश्चलां कृत्वा शब्दादीन् विषयांस् त्यक्त्वा तद्-विषयौ राग-द्वेषौ व्युदस्य बुद्ध्या विशुद्धया युक्त इत्य् आदीनां ब्रह्म-भूयाय कल्पत इति तृतीयेनान्वयः ॥५१॥ किं च विविक्तेति । विविक्त-सेवी शुचि-देशावस्थायी लघ्वाशी मित-भोजी एतैर् उपायैर् यत-वाक्-काय-मानसः संयत-वाग्-देह-चित्तो भूत्वा नित्यं सर्वदा ध्यानेन यो योगो ब्रह्म-संस्पर्शस् तत्-परः सन् ध्यानाविच्छेदार्थं पुनः पुनर् दृढं वैराग्यं सम्यग् उपाश्रितो भूत्वा ॥५२॥ ततश् चाहङ्कारम् इति । विरक्तो ऽहम् इत्य् आद्य् अहङ्कारं बलं दुराग्रहं दर्पं योग-बलाद् उन्मार्ग-प्रवृत्ति-लक्षणं प्रारब्ध-वशात् प्राप्यमानेष्व् अपि
विषयेषु कामं क्रोधं परिग्रहं च विमुच्य विशेषेण त्यक्त्वा बलाद् आपन्नेषु निर्म
मः सन् शान्तः परमाम् उपशान्तिं प्राप्तो ब्रह्म-भूयाय ब्रह्माहम् इति नैश्चल्येनावस्थानाय कल्पते योग्यश् च भवति ॥५३॥

विश्वनाथ: बुद्ध्या विशुद्धया सात्त्विक्या धृत्यापि सात्त्विक्यात्मानं मनो नियम्य । ध्यानेन भगवच्-चिन्तनेनैव यः परो योगस् तत्-परायणः । बलं काम-राग-युक्तं न तु सामर्थ्यम् । अहङ्कारादीन् विमुच्येत्य् अविद्योपरमः । शान्तः सत्त्व-गुणस्याप्य् उपशान्तिमान् इति कृत-ज्ञान-सन्न्यास इत्य् अर्थः । ज्ञानं च मयि सन्न्यसेत् (भ्प् ११।१९।१) इत्य् एकादशोक्तेः । अज्ञान-ज्ञानयोर् उपरमं विना ब्रह्मानुभवानुपत्तिर् इति भावः । ब्रह्म-भूयाय ब्रह्मानुभवाय कल्पते समर्थो भवति ॥५१-५३॥

बलदेव: तं प्रकारम् आह बुद्ध्येति । विशुद्धया सात्त्विक्या बुद्ध्या युक्तस् तादृश्या धृत्या चात्मानं मनो नियम्य समाधि-योग्यं कृत्वा शब्दादीन् विषयांस् त्यक्त्वा तान् सन्निहितान् विधाय राग-द्वेषौ च तद्-धेतुकौ व्युदस्य दूरतः परिहृत्य । विविक्त-सेवी निर्जन-स्थः लघ्वाशी मित-भुक् यतानि ध्येयाभिमुखीकृतानि वागादीनि येन सः । नित्यं ध्यान-योग-परो हरि-चिन्तन-निरतः । वैराग्यम् आत्मेतर-वस्तु-मात्र-विषयकम् । अहम् इति । अहङ्कारो देहात्माभिमानः । बलं तद्-वर्धकं वासना-रूपम् । दर्पस् तद्-धेतुकः प्रारब्ध-शेष-वशाद् उपागतेषु भोग्येषु कामो ऽभिलाषः, तेष्व् अन्यैर् अपहृतेषु क्रोधः । परिग्रहश् च तत्-कर्मकः । तन् एतान् अहङ्कारादीन् विमुच्य निर्ममः सन् ब्रह्म-भूयाय गुणाष्टक-विशिष्ट-स्वात्म-रूपत्वाय
कल्पते तद् अनुभवति । शान्तो निस्तरङ्ग-सिन्धुर् इव स्थितः ॥५१-५३॥


१८।५४

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥५४॥

श्रीधर: ब्रह्माहम् इति नैश्चल्येनावस्थानस्य फलम् आह ब्रह्मेति । ब्रह्म-भूतो ब्रह्मण्य् अवस्थितः प्रसन्न-चित्तः नष्टं न शोचति न चाप्राप्तं काङ्क्षति देहाद्य-अभिमानाभावात् । अतएव सर्वेष्व् अपि भूतेषु समः सन् राग-द्वेषम् आदिकृत-विक्षेपाभावात् सर्व-भूतेषु मद्-भावना-लक्षण्म्ं परां भक्तिं लभते ॥५४॥

विश्वनाथ: ततश् चोपाध्य्-अपगमे सति ब्रह्म-भूतो ऽनावृत्त-चैतन्यत्वेन ब्रह्म-रूप इत्य् अर्थः । गुण-मालिन्यापगमात् । प्रसन्नश् चासाव् आत्मा चेति सः । ततश् च पूर्व-दशायाम् इव नष्टं न शोचति न चाप्राप्तं काङ्क्षति देहाद्य्-अभिमानाभावाद् इति भावः । सर्वेषु भूतेषु भद्राभद्रेषु बालक इव समः बाह्यानुसन्धानाभावाद् इति भावः ।

ततश् च निरिन्धनाग्नाव् इव ज्ञाने शान्ते ऽप्य् अनश्वरां ज्ञानान्तर्भूतां मद्-भक्तिं श्रवण-कीर्तनादि-रूपां लभते । तस्या मत्-स्वरूप-शक्ति-वृत्तित्वेन माया-शक्ति-भिन्नत्वाद् अविद्याविद्ययोर् अपगमे ऽप्य् अनपगमात् । अतएव परां ज्ञानाद् अन्यां श्रेष्ठां निष्काम-कर्म-ज्ञानाद्य्-उर्वरितत्वेन केवलाम् इत्य् अर्थः । लभत इति पूर्वं ज्ञान-वैराग्यादिषु मोक्ष-सिद्ध्य्-अर्थं कलया वर्तमानाया अपि सर्व-भूतेष्व् अन्तर्यामिन इव तस्याः स्पष्टोपलब्धिर् नासीद् इति भावः । अतएव कुरुत इत्य् अनुक्त्वा लभत इति प्रयुक्तम् । माषम् उद्गादिषु मिलितां तेषु नष्टेष्व् अप्य् अनश्वरां काञ्चन-मणिकाम् इव तेभ्यः पृथक्तया केवलां लभत इतिवत् । सम्पूर्णायाः प्रेम-भक्तेस् तु प्रायस् तदानीं लाभ-सम्भवो ऽस्ति नापि तस्याः फलं सायुज्यम् इत्य् अतः परा-शब्देन
प्रेम-लक्षणेति व्याख्येयम् ॥५४॥

बलदेव: तस्य ब्रह्म-भूयोत्तर-भाविनं लाभम् आह ब्रह्मेति । ब्रह्म-भूतः साक्षात्-कृताष्ट-गुणक-स्व-स्वरूपः । प्रसन्नात्मा क्लेश-कर्म-विपाकाशयानां विगमाद् अतिस्वच्छः - नद्यः प्रसन्न-सलिलाः इत्य् आदाव् अतिवैमल्यं प्रस्न्न-शब्दार्थः । स एवम्भूतो मद्-अन्यात् कांश्चित् प्रति न शोचति न च तान् काङ्क्षति । सर्वेषु मद्-अन्येषूच्चावचेषु भूतेषु समः हेयत्वाविशेषाल्लोष्ट्र-काष्ठवत्त्वानि मन्यमानः ईदृशः सन् परां मद्-भक्तिं निष्ठां ज्ञानस्य या परा इत्य् (गीता १८।५०) उक्तां मद्-अनुभव-लक्षणां मद्-वीक्षण-समानाकारां साध्यां भक्तिं विन्दतीत्य् अर्थः ॥५४॥


१८।५५

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥५५॥

श्रीधर: ततश् च भक्त्येति । तथा च परया भक्त्या तत्त्वतो माम् अभिजानाति । कथम्भूतम्, यावान् सर्व-व्यापी यश् चास्मि सच्-चिद्-आनन्द-घनस् तथाभुतं । ततश् च माम् एवं तत्त्वतो ज्ञात्वा तद्-अनन्तरं तस्य ज्ञानस्य उपरमे सति मां विशते परमानन्द-रूपो भवतीत्य् अर्थः ॥५५॥

विश्वनाथ: ननु तया लब्धया भक्त्या तदानीं तस्य किं स्याद् इत्य् अतो ऽर्थान्त्र-न्यासेनाह भक्त्येति । अहं यावान् यश् चास्मि तं मां तत्-पदार्थं ज्ञानी वा नानाविधो भक्तो वा भक्त्यैव तत्त्वतो ऽभिजानाति । भक्त्याहम् एकया ग्राह्यः इति मद्-उक्तेः (भ्प् ११।१४।११) । यस्माद् एवं तस्मात् प्रस्तुतः स ज्ञानी ततस् तया भक्त्यैव तद्-अनन्तरं विद्योपरमाद् उत्तर-काल एव मां ज्ञात्वा मां विशति मत्-सायुज्य-सुखम् अनुभवति । मम मायातीतत्वाद् अविद्यायाश् च मायात्वाद् विद्ययाप्य् अहम् अवगम्य[*एन्द्नोते] इति भावः ।

यत् तु साङ्ख्य-योगौ च वैराग्यं तपो भक्तिश् च केशवे । पञ्च-पर्वैव विद्या इति नारद-पञ्चरात्रे विद्या-वृत्तित्वेन भक्तिः श्रूयते । तत् खलु ह्लादिनी-शक्ति-वृत्तेर् भक्तेर् एव कला काचिद् विद्या-साफल्यार्थं विद्यायां प्रविष्टा । कर्म-साफल्यार्थं कर्म-योगे ऽपि प्रविशति । तया विना कर्म-ज्ञान-योगादीनां श्रम-मात्रत्वोक्तेः । यतो निर्गुणा भक्तिः सद्-गुणमय्या विद्याया वृत्तिर् वस्तुतो न भवति, अतो ह्य् अज्ञान-निवर्तकत्वेनैव विद्यायाः कारणत्वं तत्-पदार्थ-ज्ञाने तु भक्तेर् एव ।

किं च - सत्त्वात् सञ्जायते ज्ञानम् इति स्मृतेः (गीता १४।१७) सत्त्वजं ज्ञानं सत्त्वम् एव । तच् च सत्त्वं विद्या-शब्देनोच्यते यथा तथा भक्त्य्-उत्थं ज्ञानं भक्तिर् एव सैव क्वचित् भक्ति-शब्देन क्वचित् ज्ञान-शब्देन चोच्यत इति ज्ञानम् अपि द्विविधं द्रष्टव्यम् । तत्र प्रथमं ज्ञानं सन्न्यस्य द्वितीयेन ज्ञानेन ब्रह्म-सायुज्यम् आप्नुयाद् इत्य् एकादश-स्कन्ध-पञ्चविंशत्य्-अध्याय-दृष्ट्यापि[*एन्द्नोते] ज्ञेयम् । अत्र केचिद् भक्त्या विनैव केवलेनैव ज्ञानेन सायुज्यार्थिनस् ते ज्ञानि-मानिनः क्लेश-मात्र-फला अतिविगीता एव । अन्ये तु भक्त्या विना केवलेन ज्ञानेन न मुक्तिर् इति ज्ञात्वा भक्ति-मिश्रम् एव ज्ञानम् अभस्यन्तो भगवांस् तु मायोपाधिर् एवेति भगवद्-वपुर् गुण-मयं मन्यमाना योगारूढत्व-दशाम् अपि प्राप्तास् ते ऽपि ज्ञानिनो विमुक्त-मानिनो विगीता एव । यद् उक्तम् -

मुख-बाहूरु-पादेभ्यः
पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा
गुणैर् विप्रादयः पृथक् ॥ (भ्प् ११।५।२)

य एवं पुरुषं साक्षाद्
आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति
स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ (भ्प् ११।५।३) इति ।

अस्यार्थः ये न भजन्ति ये च भजन्तो ऽप्य् अवजानन्ति ते सन्न्यासिनो ऽपि विनष्ट-विद्या अप्य् अधः पतन्ति । तथा च ह्य् उक्तम् -

ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनस्
त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्य् अधो ऽनादृत-युष्मद्-अङ्घ्रयः ॥ (भ्प् १०।२।३२) इति ।

अत्र आङ्घ्रि-पदं भक्त्यैव प्रयुक्तं विवक्षितम् । अनादृत-युष्मद्-अङ्घ्रय इति तनोर् गुण-मयत्व-बुद्धिर् एव तनोर् अनादरः । यद् उक्तं -

अवजानन्ति मां मूढा
मानुषीं तनुम् आश्रितम् । (गीता ९।११) इति ।

वस्तुतस् तु मानुषी सा तनुः सच्चिदानन्दम् अप्य् एव । तस्याः दृश्यत्वं तु दुस्तर्क्य-तदीय-कृपा-शक्ति-प्रभावाद् एव । यद् उक्तम् नारायणाध्यात्म-वचनम् -

नित्याव्यक्तो ऽपि भगवान्
ईक्ष्(य्)अते निज-शक्तितः ।
ताम् ऋते परमानन्दं
कः पश्येत् तम् इमं प्रभुम् ॥ इति ।

एवं च भगवत्-तनोः सच्चिदानन्दमयत्वे क् प्तं सच्-चिद्-आनन्द-विग्रहम् श्री-वृन्दावन-सुर-भूरुह-तलासीनम् इति (ग्तु १।३३) । शाब्दं ब्रह्म वपुर् दधत् इत्य् आदि श्रुतिः-स्मृति-पर-सहस्र-वचनेषु प्रमाणेषु सत्स्व् अपि - मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति (श्वेतु ४।२) इति श्रुति-दृष्ट्यैव भगवान् अपि मायोपाधिर् इति मन्यन्ते किन्तु स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः । अतो माय-मयं विष्णुं प्रवदन्ति सनातनम् इति माध्व-भाष्य-प्रमाणित-श्रुतेः । मायां त्व् इत्य् अत्र माया-शब्देन स्वरूप-भूता चिच्-छक्तिर् एवाभिधीयते न त्व् अस्वरूप-भूता त्रिगुण-मय्य् एव शक्तिर् इति तस्याः श्रुतेर् अर्थं न मन्यन्ते । यद् वा प्रकृतिं दुर्गां मायिनं तु महेश्वरं शम्भुं विद्याद् इत्य् अर्थम् अपि नैव मन्यन्ते ।

अतो भगवद्-अपराधेन जीवन्-मुक्त्व-दशां प्राप्ता अपि ते ऽधः पतन्ति । यद् उक्तं वासना-भाष्य-धृतं परिशिष्ट-वचनम् ।

जीवन्-मुक्ता अपि पुनर्
यान्ति संसार-वासनाम् ।
यद्य् अचिन्त्य-महा-शक्तौ
भगवत्य् अपराधिनः ॥ इति ।

ते च फल-प्राप्तौ सत्याम् अर्थात् नास्ति साधनोपयोग इति मत्वा ज्ञान-सन्न्यास-काले ज्ञानं तत्र गुणी-भूतां भक्तिम् अपि सन्त्यज्य, मिथ्यैवापरोक्षानुभवं त्व् अस्य मन्यन्ते । श्री-विग्रहापराधेन भक्त्या अपि ज्ञानेन सार्धम् अन्तर्धानाद् भक्तिं ते पुनर् नैव लभन्ते । भक्त्या विना च तत्-पदार्थाननुभावान् मृषा-समाधयो जीवन्-मुक्त-मानिन एव ते ज्ञेयाः । यद् उक्तम् - ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनः इति ।

ये तु भक्ति-मिश्रं ज्ञानम् अभ्यस्यन्तो भगवन्-मूर्तिं सच्-चिद्-आनन्दमयीम् एव मानयानाः क्रमेणाविद्याविद्ययोर् उपरामे परां भक्तिं लभन्ते । ते जीवन्-मुक्ता द्विविधाः । एके सायुज्यार्थं भक्तिं कुर्वन्तस् तयैव तत् पदार्थम् अपरोक्षीकृत्य तस्मिन् सायुज्यं लभन्ते ते सङ्गीता एव । अपरे भूरिभागा यादृच्छिक-शान्त-महा-भागवत-सङ्ग-प्रभावेन त्यक्त-मुमुक्षाः शुकादिवद् भक्ति-रस-माधुर्यास्वाद एव निमज्जन्ति, ते तु परम-सङ्गीता एव । यद् उक्तम् -

आत्मारामाश् च मुनयो
निर्ग्रन्था अप्य् उरुक्रमे
कुर्वन्त्य् अहैतुकीं भक्तिम्
इत्थम्भूत-गुणो हरिः ॥ (भ्प् १।७।१०) इति ।

तद् एवं चतुर्विधा ज्ञानिनो द्वये विगीताः पतन्ति, द्वये सङ्गीतास् तरन्ति संसारम् इति ॥५५॥

बलदेव: ततः किं तद् आह भक्त्येति । स्वरूपतो गुणतश् च यो ऽहं विभूतितश् च यावान् अहम् अस्मि तं माम् परया मद्-भक्त्या तत् त्व् अभिजानात्य् अनुभवति । ततो मत्-परम-भक्तितो हेतोर् उक्त-लक्षणं मां तत्त्वतो याथात्म्येन ज्ञात्वानुभूय तद्-अनन्तरं तत एव हेतोर् मां विशते मया सह युज्यते । पुरं प्रविशति इत्य् अत्र पुर-संयोग एव प्रतीयते न तु पुरात्मकत्वम् ।

अत्र तत्त्वतो ऽभिज्ञाने प्रवेशे च भक्तिर् एव हेतुर् उक्तो बोध्यः । भक्त्या त्व् अनन्यया शक्यः इत्य् (गीता ११।५४) आदि पूर्वोक्तेः । तद्-अनन्तरम् इति मत्-स्वरूप-गुण-विभूति-तात्त्विकानुभवाद् उत्तरस्मिन् काले इत्य् अर्थः । यद् वा, परया भक्त्या मां तत्त्वतो ज्ञात्वा ततस् तां भक्तिम् आदायैव मां विशते । ल्यब्-लोपे कर्मणि पञ्चमी । मोक्षे ऽपि भक्तिर् अस्तीत्य् आह सूत्र-कृत् आप्रायणात् तत्रापि हि दृष्टम् इति (व्स् ४।१।१२) आप्रायणाद् आमोक्षात् तत्रापि च मोक्से भक्तिर् अनुवर्तते इति श्रुतौ दृष्टम् इति सूत्रार्थः । भक्त्या विनष्टाविद्यानां भक्त्याः स्वादो विवर्धते सितया नष्ट-पित्तानां सितास्वादवद् इति रहस्य-विदः । इत्थं च स-निष्ठानां साधन-साध्य-पद्धतिर् उक्ता ॥५५॥


१८।५६

सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥५६॥

श्रीधर: स्व-कर्मभिः परमेश्वराराधनाद् उक्तं मोक्ष-प्रकारम् उपसंहरति सर्व-कर्माणीति । सर्वाणि नित्यानि नैमित्तिकानि च कर्माणि पुर्वोक्त-क्रमेण सर्वदा कुर्वाणः मद्-व्यपाश्रयः अहम् एव व्यापाश्रयः आश्रयणीयो न तु स्वर्गादि-फलं यस्य स मत्-प्रसादाद् शाश्वतम् अनादि सर्वोत्कृष्टं पदम् प्राप्नोति ॥५६॥

विश्वनाथ: तद् एवं ज्ञानी यथा-क्रमेणैव कर्म-फल-सन्न्यास-कर्म-सन्न्यासैर् मत्-सायुज्यं प्राप्नोतीत्य् उक्तम् । मद्-भक्तस् तु मां यथा प्राप्नोति तद् अपि शृण्व् इत्य् आह सर्वेति । मद्-व्यपाश्रयो मां विशेषतो ऽपकर्षेण सकामतयापि य आश्रयते सो ऽपि किं पुनर् निष्काम-भक्त इत्य् अर्थः । सर्व-कर्माण्य् अपि नित्य-नैमित्तिक-काम्यानि पुत्र-कलत्रादि-पोषण-लक्षणानि व्यवहारिकाण्य् अपि सर्वाणि कुर्वाणः किं पुनस् त्यक्त-कर्म-योग-ज्ञान-देवतान्तरोपासनान्य-कामान्य् अभक्त इत्य् अर्थः ।

अत्राश्रयते सम्यग् सेवत इति आड्-उपसर्गेन सेवायाः प्रधानीभूतत्वम् । कर्माण्य् अपीत्य् अपि-शब्देनापकर्ष-बोधकेन कर्मणां गुणीभूतत्वम् । अतो ऽयं कर्म-मिश्र-भक्तिमान्, न तु भक्ति-मिश्र-कर्मवान् इति प्रथम-षट्कोक्ते कर्मणि नातिव्याप्तिः । शाश्वतं महत्-पदं मद्-धाम वैकुण्ठ-मथुरा-द्वारकायोध्यादिकम् आप्नोति ।

ननु महा-प्रलये तत् तद् धाम कथं स्थास्यति । तत्राह - अव्ययं महा-प्रलये मद्-धाम्नः किम् अपि न व्ययति मद्-अतर्क्य-प्रभावाद् इति भावः ।

ननु ज्ञानी खल्व् अनेकैर् जन्मभिर् अनेक-तप-आदि-क्लेशैः सर्व-विषयेन्द्रियोपरामेणैव नैष्कर्म्ये सत्य् एव यत् सायुज्यं प्राप्नोति । तस्य ते नित्यं धाम सकर्मकत्वे सकामकत्वे ऽपि त्वद्-आश्रयण-मात्रेणैव कथं प्राप्नोति । तत्राह मत्-प्रसादाद् इति मत्-प्रसादस्यातर्क्यम् एव प्रभावत्वं जानीहीति भावः ॥५६॥

बलदेव: अथ परिनिष्ठितानाम् आह सर्वेति सार्ध-द्वयाभ्याम् । मद्-व्यपाश्रयो मद्-एकान्ती सर्वाणि स्व-विहितानि कर्माणि यथा-योगं कुर्वाणः । अपि-शब्दाद् गौण-काले मद्-एकान्तिनस् तस्य मुख्य-कालाभावात् । एवम् आह सूत्रकारः - सर्वथापि तत्र वोभय-लिङ्गात् (व्स् ३।४।३४) इति । ईदृशः स मत्-प्रसादान् मद्-अत्यनुग्रहात् शाश्वतं नित्यम् अव्ययम् अपरिणामि-ज्ञानानन्दात्मकं पदं परम्-व्योमाख्यम् अवाप्नोति लभते ॥५६॥


१८।५७

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥५७॥

श्रीधर: यस्माद् एवं तस्मात् चेतसेति । सर्वाणि कर्माणि । चेतसा मयि सन्न्यस्य समर्प्य मत्-परः अहम् एव परः प्राप्यः पुरुषार्थो यस्य स व्यवसायात्मिकया बुद्ध्या योगम् उपाश्रित्य सततं कर्मानुष्ठान-काले ऽपि ब्रह्मार्पणं ब्रह्म-हविर् इति (गीता ४।२४) न्यायेन मय्य् एव चित्तं यस्य तथाभूतो भव ॥५७॥

विश्वनाथ: ननु तर्हि मां प्रति त्वं निश्चयेन किम् आज्ञापयसि । किम् अहम् अनन्य-भक्तो भवामि, किं वानन्तरोक्त-लक्षणः सकाम-भक्त एव । तत्र सर्व-प्रकृष्टो ऽनन्य-भक्तो भवितुं न प्रभविष्यसि । नापि सर्व-भक्तेष्व् अपकृष्टः सकाम-भक्तो भव । किन्तु त्वं मध्यम-भक्तो भवेत्य् आह चेतसेति । सर्व-कर्माणि स्वाश्रम-धर्मान् व्यवहारिक-कर्माणि च मयि सन्न्यस्य समर्प्य, मत्-परो ऽहम् एव परः प्राप्यः पुरुषार्थो यस्य स निष्काम इत्य् अर्थः । यद् उक्तं पूर्वम् एव

यत् करोषि यद् अश्नासि
यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय
तत् कुरुष्व मद्-अर्पणम् ॥ इति । (गीता ९।२७)

बुद्धि-योगं व्यवसायात्मिकया बुद्ध्या योगं सततं मच्-चित्तः कर्मानुष्ठान-काले ऽन्यदापि मां स्मरन् भव ॥५७॥

बलदेव: तादृशत्वाद् एव त्वं सर्वाणि स्व-विहितानि कर्माणि कर्तृत्वाभिमानादि-शून्येनचेतसा स्वामिनि मयि सन्न्यस्यार्पयित्वा मत्-परो मद्-एक-पुरुषार्थो माम् एव बुद्धि-योगम् उपाश्रित्य सततं कर्मानुष्ठान-काले मच्-चित्तो भव । एतच् च त्वां प्रति प्राग् अप्य् उक्तं यत् करोषीत्य् आदिना अर्पयित्वैव कर्माणि कुरु, न तु कृत्वार्पयेति ॥५७॥


१८।५८

मच्चित्तः सर्वदुर्गाणि मत्प्रसादत् तरिष्यसि ।
अथ चेत् त्वम् अहङ्कारान् न श्रोष्यसि विनङ्क्ष्यसि ॥५८॥

श्रीधर: ततो यद् भविष्यति तच् छृणु - मच्-चित्त इति । मच्-चित्तः सन् मत्-प्रसादात् सर्वाण्य् अपि दुर्गाणि दुस्तराणि सांसारिक-दुःखानि तरिष्यसि । विपक्षे दोषम् आह – अथ चेत् यदि पुनस् त्वम् अहङ्कारान् ज्ञातृत्वाभिमानात् मद् उक्तम् एवं न श्रोष्यसि तर्हि विनङ्क्ष्यसि पुरुषार्थाद् भ्रष्टो भविष्यसि ॥५८॥

विश्वनाथ : ततः किम् अत आह मच्-चित्त इति ॥५८॥

बलदेव : एवं मच्-चित्तस् त्वं मत्-प्रसादाद् एव सर्वाणि दुर्गाणि दुस्तराणि संसार-दुःखानि तरिष्यसि । तत्र ते न चिन्ता । तान्य् अहं भक्त-बन्धुर् अपनेष्यमि दास्यामि चात्मानम् इति परिनिष्ठितानां साधन-साध्य-पद्धतिर् उक्ता । अथ चेद् अहङ्कारात् कृत्याकृत्य-विषयक-ज्ञानाभिमानात् त्वं मद्-उक्तं न श्रोष्यसि तर्हि विनङ्क्ष्यसि स्वार्थात् विभ्रष्टो भविष्यसि । न हि कश्चित् प्राणिनां कृत्याकृत्योर् विज्ञाता प्रशास्ता वा मत्तो ऽन्यो वर्तते ॥५८॥


१८।५९

यद् अहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥५९॥

श्रीधर: कामं विनङ्क्ष्यसि न तु बन्धुभिर् युद्धं करिष्यामीति चेत् तत्राह
यद् अहङ्कारम् इति । मद्-उक्तम् अनादृत्य केवलम् अहङ्कारम् अवलम्ब्य युद्धं न करिष्यामीति यन् मन्यसे त्वम् अध्यवस्यसि एष तव व्यवसायो मिथ्यैव अस्वतन्त्रत्वात् तव । तद् एवाह प्रकृतिस् त्वां रजो-गुण-रूपेण परिणता सती नियोक्ष्यति प्रवर्तयिष्यतीति ॥५९॥

विश्वनाथ: ननु क्षत्रियस्य मम[*एन्द्नोते] युद्धम् एव परो धर्मस् तत्र बन्धु-वध-पापाद् भीत एव प्रवर्तितुं नेच्छामीति तत्र स-तर्जनम् आह यद् अहम् इति । प्रकृतिः स्वभावः । अधुना त्वं मद्-वचनं न मानयसि, यदा तु महावीरस्य तव स्वाभाविको युद्धोत्साहो दुर्वार एवोद्भविष्यति तदा युध्यमानः स्वयम् एव भीष्मादीन् गुरून् हनिष्यन् मया हसिष्यस इति भावः ॥५९॥

बलदेव: यद्यपि क्षत्रियस्य युद्धम् एव धर्मस् तथापि गुरु-विप्रादि-वध-हेतुकात् पापाद् भीतस्य मे न तत्र प्रवृत्तिर् इति कृत्याकृत्य-विज्ञातृत्वाभिमानम् अहङ्कारम् आश्रित्य नाहं योत्स्ये इति यदि त्वं मन्यसे, तर्हि तवैष व्यवसायो निश्चयो मिथ्या निष्फलो भावी, प्रकृतिर् मन्-माया रजो-गुणात्मना परिणता मद्-वाक्यावहेलिनं त्वां गुर्व्-आदि-वधे निमित्ते युद्धे नियोक्ष्यति प्रवर्तयिष्यत्य् एव ॥५९॥


१८।६०

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशोपि तत् ॥६०॥

श्रीधर: किं च स्वभावजेनेति । स्वभावः क्षत्रियत्व-हेतुः पूर्व-जन्म-संस्कारस् तस्माज् जातेन स्वीयेन कर्मणा शौर्यादिना पूर्वोक्तेन निबद्धः यन्त्रितस् त्वं मोहात् यत् कर्म युद्ध-लक्षणं कर्तुं नेच्छसि अवशः सन् तत् कर्म करिष्यस्य् एव ॥६०॥

विश्वनाथ: उक्तम् एवार्थं विवृणोति स्वभावः क्षत्रियत्वे हेतुः पूर्व-संस्कारस् तस्माज् जातेन स्वीयेन कर्मणा निबद्धो यन्त्रितः ॥६०॥

बलदेव: उक्तम् उपपादयति स्वभावेति । यदि त्वं मोहाद् अज्ञानान् मद्-उक्तम् अपि युद्धं कर्तुं नेच्छसि, तदा स्वभावजेन स्वेन कर्मणा शौर्येण मन्-मायोद्भासितेन निबद्धो ऽवशस् तत् करिष्यसि ॥६०॥


१८।६१

ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥६१॥
[*एन्द्नोते]

श्रीधर: तद् एवं श्लोक-द्वयेन साङ्ख्यादि-मते प्रकृति-पारतन्त्र्यं स्वभाव-पारतन्त्र्यं चोक्तम् । इदानीं स्वमतम् आह ईश्वर इति द्वाभ्याम् । सर्व-भूतानां हृन्-मध्ये ईश्वरो ऽन्तर्यामी तिष्ठति । किं कुर्वन्, सर्वाणि भूतानि मायया निज-शक्त्या भ्रामयंस् तत्-तत्-कर्मसु प्रवर्तयन्, यथा दारु-यन्त्रम् आरूढानि कृत्रिमानि भूतानि सूत्रधारो लोके भ्रामयति तद्वद् इत्य् अर्थः । यद् वा यन्त्राणि शरीराणि आरूढानि भूतानि देहाभिमानिनो जीवान् भ्रमयन्न् इत्य् अर्थः । तथा च श्वेताश्वताराणां मन्त्रः –

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश् च ॥ इति ॥ (श्वेतु ६।११)

अन्तर्यामि-ब्राह्मणं[*एन्द्नोते] च – य आत्मनि तिष्ठन् आत्मानम् अन्तरो यमयति यम् आत्मा न वेद यस्य आत्मा शरीरम् एव ते आत्मान्तर्याम्य् अमृतः ॥ इत्य् आदि ॥६१॥

विश्वनाथ: श्लोक-द्वयेन स्वभाव-वादिनां मतम् उक्त्वा स्व-मतम् आह ईश्वरो नारायणः सर्वान्तर्यामी । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो, यं पृथिवी न वेद, यस्य पृथिवी शरीरम्, यः पृथिवीम् अन्तरो यमयति (बउ ३।६।३) इति ।

यच् च किञ्चिज् जगत्य् अस्मिन्[*एन्द्नोते]
दृश्यते श्रूयते ऽपि वा ।
अन्तर्-बहिश् च तत् सर्वं
व्याप्य नारायणः स्थितः ॥ (महानारायण उपनिषद् १३।५)

इत्य् आदि श्रुति-प्रतिपादित ईश्वरो ऽन्तर्यामी हृदि तिष्ठति । किं कुर्वन्? सर्वाणि
भूतानि मायया निज-शक्त्या भ्रामयन् भ्रमयन्[*एन्द्नोते] तत्-तत्-कर्माणि प्रवर्तयन्, यथा सूत्र-सञ्चारादि-यन्त्रम् आरूढानि कृत्रिमाणि पाञ्चालिका-रूपाणि सर्व-भूतानि माया विभ्रमयति तद्वद् इत्य् अर्थः । यद् वा यन्त्रारूढानि शरीरारूढान् सर्व-जीवान् इत्य् अर्थः ॥६१॥

बलदेव: विज्ञातृत्वाभिमानम् इवालक्ष्यार्जुनम् अत्याज्यत्वाद् विधान्तेर्णोपदिशति ईश्वर इति द्वाभ्याम् । हे अर्जुन त्वं चेत् स्वं विज्णं मन्यसे, तर्ह्य् अन्तर्यामि-ब्राह्मणात् त्वया ज्ञातो य ईश्वरः सर्व-भूतानां ब्रह्मादि-स्थावरान्तानां हृद्देशे तिष्ठति मायया स्व-शक्त्या तानि भ्रामयन् सन् । सर्व-भूतानि विशिनष्टि यन्त्रेति । यत् कर्मानुगुणं माया-निर्मितं देहेन्द्रिय-प्राण-लक्षणं यन्त्रं तद्-आरूढानि । रूपकेणोपमात्र व्यज्यते - यथा सूत्र-धारो दारु-यन्त्रारूढानि कृत्रिमाणि भूतानि भ्रामयति तद्वत् ॥६१॥


१८।६२

तम् एव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥६२॥

श्रीधर: तम् इति । यस्माद् एवं सर्वे जीवाः परमेश्वर-परतन्त्राः तस्माद् अहङ्कारं परित्यज्य सर्व-भावेन सर्वात्मना तम् ईश्वरम् एव शरणं गच्छ । ततश् च तस्यैव प्रसादात् परां उत्तमां शान्तिं स्थानं च पारमेश्वरं शाश्वतं नित्यं प्राप्स्यसि ॥६२॥

विश्वनाथ: एतज्-ज्ञापन-प्रयोजनम् आह तम् एवेति । पराम् अविद्याविद्ययोर् निवृत्तिम् । ततश् च शाश्वतं स्थानं वैकुण्ठम् । इयम् अन्तर्यामि-शरणापत्तिः अन्तर्याम्य्-उपासकानाम् एव । भगवद्-उपासकानां तु भगवच्-छरणापत्तिः । अग्रे वक्ष्यत एवेति केचिद् आहुः । अन्यस् तु यो मद्-इष्ट-देवः श्री-कृष्णः स एव मद्-गुरुर् मां भक्ति-योगम् अनुकूलं हितं चोपदेशम् उपदिशति च । तम् अहं शरणं प्रपद्ये इत्य् अनिशं भावयेति । यद् उक्तम् उद्धवेन -

नैवोपयन्त्य् अपचितिं कवयस् तवेश
ब्रह्मयुसापि कृतम् ऋद्ध-मुदः स्मरन्तः ।
यो ऽन्तर्-बहिस् तनु-भृताम् अशुभं विधुन्वन्
आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥ (भ्प् ११।२९।६) इति ॥६२॥

बलदेव: तर्हि तम् एवेश्वरं सर्व-भावेन कायादि-व्यापारेण शरणं गच्छ । ततः किम् इति चेत् तत्राह तद् इति । परां शान्तिं निखिल-क्लेश-विश्लेष-लक्षणां । शाश्वतं नित्यं स्थानं च, तद् विष्णोः परमं पदम् इत्य् आदि श्रुति-गीतं तद् धाम प्राप्स्यसि । स चेश्वरो ऽहम् एव त्वत्-सखः सर्वस्य चाहं हृदि सन्निविष्टः इत्य् (गीता १५।१५) आदि मत्-पूर्वोक्तेर् देव-र्ष्य्-आदि-सम्मति-ग्राहिणा त्वयापि परं ब्रह्म परं धाम (गीता १०।१२) इत्य्-आदिना स्वीकृतत्वाच् च । विश्व-रूप-दर्शने प्रत्यक्षितत्वाच् च । तस्मान् मद्-उपदेशे तिष्ठेति ॥६२॥


१८।६३

इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥६३॥

श्रीधर: सर्व-गीतार्थम् उपसंहरन्न् आह इतीति । इत्य् अनेन प्रकारेण ते तुभ्यं सर्वज्ञेन परम-कारुणिकेन मया ज्ञानम् आख्यातम् उपदिष्टम् । कथम्भूतम् । गुह्याद् गोप्याद् रहस्य-मन्त्र-योगादि-ज्ञानाद् अपि गुह्यतरं । एतन् मयोपदिष्टं गीता-शास्त्रम् अशेषतो पर्यालोच्य पश्चाद् यथेच्छसि तथा कुरु । एतस्मिन् पर्यालोचिते सति तव मोहो निवर्तिष्यत इति भावः ॥६३॥

विश्वनाथ: सर्व-गीतार्थम् उपसंहरति इतीति । कर्म-योगस्याष्टाङ्ग-योगस्य ज्ञान-योगस्य च ज्ञानं ज्ञायते ऽनेनेति ज्ञानं ज्ञान-शास्त्रं गुह्याद् गुह्यतरम् इत्य् अतिरहस्यत्वात् कैर् अपि वशिष्ट-बादरायण-नारदाद्यैर् अपि स्व-स्व-कृत-शास्त्रेणाप्रकाशितम्[*एन्द्नोते] । यद् वा, तेषां सार्वज्ञ्यम् आपेक्षिकं मम तु आत्यन्तिकम् इत्य् अतस् ते तु एतद् अतिगुह्यत्वान् न जानन्ति । मयापि अतिगुह्यत्वाद् एव ते सर्वथैव नैतद् उपदिष्टा इति भावः । एतद् अशेषेण निःशेषतः एव विमृश्य, यथा येन प्रकारेण स्वाभिरुचितम्, यत्[*एन्द्नोते] कर्तुम् इच्छसि तथा तत् कुरु, इत्य् अन्त्यं ज्ञान-षट्कं सम्पूर्णम् । षट्क-त्रिकम् इदं सर्व-विद्या-शिरो-रत्नं श्री-गीता-शास्त्रं महानर्घ्य-रहस्यतम-भक्ति-सम्पुटं भवति । प्रथमं कर्म-षट्कं यस्याधार-पिधानं कानकं
भवति । अन्त्यं ज्ञान-षट्कं यस्योत्तर-पिधानं मणि-जटितं कानकं भवति । तयोर् मध्यवर्ति-षट्क-गता भक्तिस् त्रिजगद्-अनर्घ्या श्री-कृष्ण-वशीकारिणी महामणि-मतल्लिका विराजते, यस्याः परिचारिका तद्-उत्तर-पिधानार्ध-गता मन्-मना भव इत्य् आदि पद्य-द्वयी चतुः-षष्ठ्य्-अक्षरा शुद्धा भवतीति बुध्यते ॥६३॥

बलदेव: शास्त्रम् उपसंहरन्न् आह इतीति । इति पूर्वोक्त-प्रकारकं ज्ञानं गीता-शास्त्रम् ज्ञायन्ते कर्म-भक्ति-ज्ञानान्य् अनेन इति निरुक्तेः । तन्-मया ते तुभ्यम् आख्यातं सम्प्रोक्तम् । गुह्याद् रहस्य-मन्त्रादि-शास्त्राद् गुह्यतरम् इति गोप्यम् । एतच् छास्त्र-शेषेण सामस्त्येन विमृश्य पश्चाद् यथेच्छसि तथा कुरु । एतस्मिन् पर्यालोचिते तव मोह-विनाशो मद्-वचसि स्थितिश् च भविष्यतीति ॥६३॥


१८।६४

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥६४॥

श्रीधर: अति-गम्भीरं गीता-शास्त्रम् अशेषतः पर्यालोचयितुम् अशक्नुवतः कृपया स्वयम् एव तस्य सारं सङ्गृह्य कथयति सर्व-गुह्यतमम् इति त्रिभिः । सर्वेभ्यो ऽपु गुह्येभ्यो गुह्यतमं मे वचस् तत्र तत्रोक्तम् अपि भूयः पुनर् अपि वक्ष्यमणं शृणु । पुनः पुनः कथने हेतुम् आह दृढम् अत्यन्तं मे मम त्वम् इष्टः प्रियो ऽसीति मत्वा तत एव हेतोस् ते हितं वक्ष्यामि । यद् वा त्वं ममेष्टो ऽसि मया वक्ष्यमाणं च दृढं सर्व-प्रमाणोपेतम् इति निश्चित्य ततस् ते वक्ष्यामीत्य् अर्थः । दृढ-मतिर् इति केचित् पठन्ति ॥६४॥

विश्वनाथ: ततश् च अतिगम्भीरार्थं गीता-शास्त्रं पर्यालोचयितुम् प्रवर्तमानं तुष्णीम्भूयैव स्थितं स्व-प्रिय-सखम् अर्जुनम् आलक्ष्य कृपा-द्रवच्-चित्त-नव-नीतो भगवान् भोः प्रियवयस्य अर्जुन सर्व-शास्त्र-सारम् अहम् एव श्लोकाष्टकेन ब्रवीमि । अलं ते तत्-तत्-पर्यालोचन-क्लेशेनेत्य् आह सर्वेति । भूय इति राज-विद्या-राज-गुह्याध्यायान्ते पूर्वम् उक्तम् ।

मन्-मना भव मद्-भक्तो
मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि युक्त्वैवम्
आत्मानं मत्-परायणः ॥ (गीता ९।३४) इति

यत् तद् एव परमं सर्व-शास्त्रार्थ-सारस्य गीता-शास्त्रस्यापि सारं गुह्यतमम् इति नातः परं किञ्चन गुह्यम् अस्ति क्वचित् कुतश्चित् कथम् अपि अखण्डम् इति भावः । पुनः कथने हेतुम् आह । इष्टो ऽसि मे दृढम् अतिशयेन एव प्रियो मे सखा भवसीति तत एव हेतोर् हितं ते इति सखायं विनातिरहस्यं न कम् अपि कश्चिद् अपि ब्रूत इति भावः । दृढ-मतिर् इति च पाठः ॥६४॥

बलदेव: अथ निरपेक्षाणां साधन-साध्य-पद्धतिम् उपदेक्स्यन्न् आदौ तां स्तौति सर्वेति । सर्वेषु गुह्येषु मध्ये ऽतिशयितं गुह्यम् इति सर्व-गुह्यतमम् । भूय इति राज-विद्याध्याये मन्-मना भव इत्य् आदिना पूर्वम् अपि ममातिप्रियत्वाद् अन्ते पुनर् उच्यमानं शृणु परमं सर्व-सारस्यापि गीता-शास्त्रस्य सारभूतम् । पुनः कथनेन हेतुः इष्टो ऽसीति । त्वं ममेष्टः प्रियतमो ऽसि । मद्-वाक्यं दृढं निखिल-प्रमाणोपेतम् इति निश्चिनोष्य् अतस् ते हितं वक्ष्यामि । तथाप्य् एतद् एवानुष्ठेयम् इति भावः ॥६४॥ __________________________________________________________


१८।६५

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ॥६५॥

श्रीधर: तद् एवम् आह मन्-मना इति । मन्-मना मच्-चित्तो भव । मद्-भक्तो मद्-भजन-शीलो भव । मद्-याजी मद्-यजन-शीलो भव । माम् एव नमस्कुरु एवं वर्तमानस् त्वं मत्-प्रसादात् लब्ध-ज्ञानेन माम् एवैष्यसि प्राप्स्यसि । अत्र च संशयं मा कार्षीः । त्वं हि मे प्रियो ऽसि । अथ सत्यं यथा भवत्य् एवं तुभ्यम् अहं प्रतिजाने प्रतिज्ञां करोमि ॥६५॥

विश्वनाथ: मन्मना भव इति मद्-भक्तः सन्न् एव मां चिन्तय । न तु ज्ञानी योगी वा भूत्वा मद्-ध्यानं कुर्व् इत्य् अर्थः । यद् वा मन्-मना भव मह्यं श्यामसुन्दराय सुस्निग्धाकुञ्चित-कुन्तलकाय-सुन्दर-भ्रू-वल्लि-मधुर-कृपा-कटाक्षामृत-वर्षि-वदन-चन्द्राय स्वीयं देयत्वेन मनो यस्य तथाभूतो भव । अथवा श्रोत्रादीन्द्रियाणि देहीत्य् आह मद्-भक्तो भव । श्रवण-कीर्तन-मन्-मूर्ति-दर्शन-मन्-मन्दिर-मार्जन-लेपन-पुस्पाहरण-मन्-मालालङ्कार-च्छत्र-चामरादिभिः सर्वेन्द्रिय-करणकं मद्-भजनं कुरु । अथवा मह्यं गन्ध-पुष्प-धूप-दीप-नैवेद्यानि देहीत्य् आह मद्-याजी भव । मत्-पूजनं कुरु । अथवा मह्यं नमस्कार-मात्रं देहीत्य् आह मां नमस्कुरु भूमौ निपत्य अष्टाङ्गं वा प्रणामं कुरु । एषां चतुर्णां
मच्-चिन्तन-सेवन-पूजन-प्रणामाणां समुच्चयम् एकतरं वा त्वं कुरु । माम् एवैष्यसि प्राप्स्यसि मनः-प्रदानं श्रोत्रादीन्द्रिय-प्रदानं गन्ध-पुष्पादि-प्रदानं वा त्वं कुरु । तुभ्यम् अहम् आत्मानम् एव दास्यामीति सत्यं । ते तवैव । नात्र संशयिष्ठा इति भावः । सत्यं शपथ-तथ्ययोः इत्य् अमरः ।

ननु माथुर-देशोद्भूता लोकाः प्रतिवाक्यम् एव शपथं कुर्वन्ति सत्यं तर्हि प्रतिजाने प्रतिज्ञां कृत्वा ब्रवीमि । त्वं मे प्रियो ऽसि नहि प्रियं को ऽपि वञ्चयैत् इति भावः ॥६५॥

बलदेव: एतद्-वचः प्राह मन्मना भवेति । व्याख्यातं प्राक् मन्-मनस्त्वाद् विशिष्टो माम् एव नीलोत्पल-श्यामलत्वादि-गुणकं त्वद्-अतिप्रियम् देवकी-नन्दनं कृष्णम् एव मनुष्य-सन्निवेशितम् एष्यसि । न तु मम रूपान्तरं सहस्र-शीर्षत्वादि-लक्षणम् अङ्गुष्ठ-मात्रम् अन्तर्यामिणं वा नृसिंह-वराहादि-लक्षणं वेत्य् अर्थः । तुभ्यम् अहम् आत्मानम् एव त्वत्-सखं दास्यामीति ते तव सत्यं शपथः सत्यं शपथ-तथ्ययोः इति नानार्थवर्गः । अत्र न संशयिष्ठा इति भावः ।

ननु माथुरत्वात् तव शपथ-करणाद् अपि मे न संशय-विनाशस् तत्राह प्रतिजाने प्रतिज्ञां कृत्वाहम् अब्रुवम् । यत् त्वं मे प्रियो ऽसि स्निग्ध-मनसा हि माथुराः प्रियं न प्रतारयन्ति । किं पुनः प्रेष्ठम् इति भावः । यस्य मय्य् अतिप्रीतस् तस्मिन् ममापि तथा । तद्-वियोगं सोढुम् अहं न शक्नोमीति पूर्वम् एव मयोक्तं प्रियो हि इत्यादिना । तस्मान् मद्-वाचि विश्वसिहि माम् एव प्राप्स्यसि ॥६५॥


१८।६६

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः ॥६६॥

श्रीधर: ततो ऽपि गुह्यतमम् आह सर्वेति । मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-विश्वासेन विधि-कैङ्कर्यं त्यक्त्वा मद्-एक-शरणं भव । एवं वर्तमानः कर्म-त्याग-निमित्तं पापं स्याद् इति मा शुचः मोक्षं मा कार्षीः । यतस् त्वं मद्-एक-शरणं सर्व-पापेभ्यो ऽहं मोक्षयिष्यामि ॥६६॥

विश्वनाथ: ननु तद्-ध्यानादिकं यत् करोमि तत् किं स्वाश्रम-धर्मानुष्ठान-पूर्वकं वा, केवलं वा ? तत्राह सर्व-धर्मान् वर्णाश्रम-धर्मान् सर्वान् एव परित्यज्य एकं माम् एव शरणं व्रज । परित्यज्य सन्न्यस्येति न व्याख्येयम् अर्जुनस्य क्षत्रियत्वेन सन्न्यासाधिकारात् न चार्जुनं लक्षीकृत्यान्य-जन-समुदायम् एवोपदिदेश भगवान् इति वाच्यम् । लक्ष्यभूतम् अर्जुनं प्रति उपदेशं योजयितुम् औचित्ये सत्य् एवान्यस्यापि उपदेष्टव्यत्वं सम्भवेन् न, त्व् अन्यथा न च परित्य्ज्येत्य् अस्य फल-त्याग एव तात्पर्यम् इति व्याख्येयम् अस्य वाक्यस्य -

देवर्षि-भूताप्त-नॄणां पितॄणां
नायं किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ (भ्प् ११।५।४१)

मर्त्यो यदा त्यक्त-समस्त-कर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्म-भूयाय च कल्पते वै ॥ (भ्प् ११।२९।३२)

तावत् कर्माणि कुर्वीत
न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा
श्रद्धा यावन् न जायते ॥ (भ्प् ११।२०।९)

आज्ञायैव गुणान् दोषान्
मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान्
मां भजेत् स च सत्तमः ॥ (भ्प् ११।११।३७)

इत्य् आदिभिर् भगवद्-वाक्यैःसहैकार्थस्यावश्य-व्याख्येयत्वात् । अत्र च परि-शब्द-प्रयोगाच् च । अत एकं मां शरणं व्रज, न तु धर्म-ज्ञान-योग-देवतान्तरादिकम् इत्य् अर्थः । पूर्वं हि मद्-अन्य-भक्तौ सर्व-श्रेष्ठायां तवाधिकारो नास्तीत्य् अतस् त्वं यत् करोषि यद् अश्नासीत्यादि-ब्रुवाणेन मया कर्म-मिश्रायां भक्तौ तवाधिकार उक्तः । सम्प्रति त्व् अतिकृपया तुभ्यम् अनन्य-भक्तौ एवाधिकारस् तस्या अनन्य-भक्तेर् यादृच्छिक-मद्-ऐकान्तिक-भक्त-कृपैक-लभ्यत्व-लक्षणं नियमं स्व-कृतम् अपि भीष्म-युद्धे स्व-प्रतिज्ञाम् इवापनीय दत्त इति भावः । न च मद्-आज्ञया नित्य-नैमित्तिक-कर्म-त्यागे तव प्रयवाय-शङ्का सम्भवेत् । वेद-रूपेण मयैव नित्य-कर्मानुष्ठानम् आदिष्टम् अधुना तु स्वरूपेणैव तत्-त्याग आदिश्यते इत्य् अतः कथं ते नित्य-कर्माकरणे
पापानि सम्भवन्ति ? प्रत्युत अतः परं नित्य-कर्मणि कृत एव पापानि भविष्यन्ति साक्षान् मद्-आज्ञा-लङ्घनाद् इत्य् अवधेयम् ।

ननु यो हि यच्-छरणो भवति, स हि मूल्य-क्रीतः पशुर् इव तद्-अधीनः । स तं यत् कारयति, तद् एव करोति । यत्र स्थापयति तत्रैव तिष्ठति । यद् भोजयति, तद् एव भुङ्क्ते इति शरणापत्ति-लक्षणस्य धर्मस्य तत्त्वम् । यद् उक्तं वायु-पुराणे -

आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनं ।
रक्षिष्यतीति विश्वासो गोप्तृत्वे[*एन्द्नोते] वरणं तथा ।
निःक्षेपनम् अकार्पण्यं[*एन्द्नोते] षड्-विधा शरणागतिः ॥ इति ।

भक्ति-शास्त्र-विहिता स्वाभीष्ट-देवाय रोचमाना प्रवृत्तिर् आनुकूल्यं तद्-विपरीतं प्रातिकूल्यम् । गोप्तृत्वे इति स एव मम रक्षको नान्य इति यत् । रक्षिष्यतीति स्व-रक्षण-प्रातिकूल्य-वस्तुषूपस्थितेष्व् अपि स मां रक्षिष्यत्य् एवेति द्रौपदी-गजेन्द्रादीनाम् इव विश्वासः । निःक्षेपनं स्वीय-स्थूल-सूक्ष्म-देह-सहितस्य एव स्वस्य श्री-कृष्णार्थ एव विनियोगः । अकार्पण्यं नान्यत्र क्वापि स्व-दैन्य-ज्ञापनम् इति षण्णां वस्तूनां विधात्र्-अनुष्ठानं यस्यां सा शरणागतिर् इति ।

तद् अद्यारभ्य यद्य् अहं त्वां शरणं गत एव वर्ते तर्हि त्व-उक्तं भद्रम् अभद्रं वा यद् भवेत् तद् एव मम कर्तव्यम् । तत्र यदि त्वं मां धर्मम् एव कारयसि तदा न काचिच् चिन्ता । यदि त्व् ईश्वरत्वात् स्वैराचारस् त्वं माम् अधर्मम् एव कारयसि, तदा का गतिस् तत्राह अहम् इति । प्राचीनार्वाचीनानि यावन्ति वर्तन्ते यावन्ति वा अहं कारयिष्यामि तेभ्यः सर्वेभ्य एव पापेभ्यो मोक्षयिष्यामि । नाहम् अन्य-शरण्य इव तत्रासमर्थ इति भावः ।

त्वाम् अलम्ब्यैव शास्त्रम् इदं लोक-मात्रम् एवोपदिष्टवान् अस्मि । मा शुचः स्वार्थं परार्थं वा शोकं मा कार्षीः । युष्मद्-आदिकं सर्व एव लोकः स्व-पर-धर्मान् सर्वान् एव परित्यज्य मच्-चिन्तनादि-परो मां शरणम् आपद्य सुखेनैव वर्तताम् । तस्य पाप-मोचन-भारः संसार-मोचन-भारो ऽपि मयाङ्गीकृत एव ।

अनन्याश् चिन्तयन्तो मां
ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां
योग-क्षेमं वहाम्य् अहम् ॥ (गीता ९।२२) इति ।

हन्त एतावान् भारो मया स्व-प्रभौ निक्षिप्त इत्य् अपि शोकं माकार्षीर् भक्त-वत्सलस्य मम न तत्रायास-लेशो ऽपीति नातः परम् अधिकम् उपदेष्टव्यम् अस्तीति शास्त्रं समाप्तीकृतम् ॥६६॥

बलदेव: ननु यजन-प्रणत्य्-आदिस् तव शुद्धा भक्तिः प्राक्तन-कर्म-रूपानन्त-पाप-मलिन-हृदा पुंसा कथः शक्या कर्तुं यावत् त्वद्-भक्ति-विरोधीनि तान्य् अनन्तानि पापानि कृच्छ्रादि-प्रायश्चित्तैः सविहितैश् च धर्मैर् न विनश्येयुर् इति चेत् तत्राह - सर्वेति । प्राक्तन-पाप-प्रायश्चित्त-भूतान् कृच्छ्रादीन् स-विहितांश् च सर्वान् धर्मान् परित्यज्य स्वरूपतस् त्यक्त्वा मां सर्वेश्वरं कृष्णं नृसिंह-दाशरथ्य्-आदि-रूपेण बहुधाविर्भूतं विशुद्ध-भक्ति-गोचरं सन्तम् अविद्या-पर्यन्त-सर्व-काम-विनाशम् एकम्, न तु मत्तो ऽन्यं शिति-कण्ठादिं शरणं व्रज प्रपद्यस्व । शरण्यः सर्वेश्वरो ऽहं सर्व-पापेभ्यो प्राक्तन-कर्मभ्यस् त्वां शरणागतं मोक्षयिष्यामीति मिथः-कर्तव्यता दर्शिता । त्वं मा शुचः । अचिरायुषा मया हृद्-विशुद्धम्
इच्छतातिचिर-साध्या दुष्कराश् च ते कृच्छ्रादयः कथम् अनुष्ठेया इति शोकं मा कार्षीर् इत्य् अर्थः ।

अत्र मत्-प्रपत्तुर् न भवेद् इत्य् उक्तम् । श्रुतिश् चैवम् आह - न कर्मणा न प्रजया धनेन त्यागेनैव्के ऽमृतत्वम् आनशुः इति । श्रद्धा-भक्ति-ध्यान-योगाद् अवैतीति चैवम् आद्या । सनिष्ठानां हृद्-विशुद्धये परिनिष्ठितानां च लोक-सङ्ग्रहाय यथायथं कार्यास् ते धर्मः । तम् एतम् इत्य् आदिभ्यः सत्येन लभ्यस् तपसा ह्य् एष आत्मा इत्य् आदिभ्यश् च श्रुतिभ्यः ।

न च विहित-त्यागे प्रत्यवाय-लक्षणं पापं स्याद् इति शोकं मा कुर्व् इति व्याख्येयम् । वेद-निदेशेनाग्नि-होत्रादि-त्यागे यतेर् इव परेशानिदेशेन तत्-त्यागे तत्-प्रपत्तुस् तद्-अयोगात् । प्रत्युत तन्-निदेशातिक्रमे दोषापत्तिः स्यात् । न च स्वरूपतो विहित-त्यागे प्रत्यवायापत्तेः । सर्वाणि धर्म-फलानीति व्याख्येयम् । फल-त्यागे तद्-अनापत्तेः । तस्मात् प्रपन्नस्य स्वरूपतो धर्म-त्यागः । न च न हि क्वचित् इत्य् आदि न्यायेन स्वधर्मानुष्ठानापत्तिस् तद्-यजनादि-निरतस्य तेन न्यायेन तद्-अनापत्तेः । तथा च सन्निष्ठस्यात्मानुभवान्तःपरिनिष्ठितस्य च परात्मानुभवान्तो यथा धर्माचारस् तथा प्रपत्तुः शुद्धान्तः स इति एवम् एवोक्तम् एकादशे -

तावत् कर्माणि कुर्वीत
न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा
श्रद्धा यावन् न जायते ॥ (भ्प् ११।२०।९) इति ।

एषा शरणागतिः शब्दिता प्रपत्तिः षड्-अङ्गिका –

आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनं ।
रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा ।
आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥ इति वायु-पुराणात् ।

भक्ति-शास्त्र-विहिता हरये रोचमाना प्रवृत्तिर् आनुकूल्यम् । तद्-विपरीतं तु प्रातिकूल्यम् । आत्म-निक्षेपः शरण्ये तस्मिन् स्व-भर-न्यासः । कार्पण्यम् अनुघर्षः । निक्षेपणम् अकार्पण्यम् इति क्वचित् पाठः । तत्र कार्पण्यं ततो ऽन्यस्मिन् स्वदैन्य-प्रकाशः । स्फुटम् अन्यत् ॥६६॥


१८।६७

इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति ॥६७॥

श्रीधर: एवं गीतार्थ-तत्त्वम् उपदिश्य तत्-सम्प्रदाय-प्रवर्तने नियमम् आह इदम् इति । इदं गीतार्थ-तत्त्वं ते त्वया अतपस्काय धर्मानुष्ठान-हीनाय न वाच्यम् । न च अभक्ताय गुराव् ईश्वरे च भक्ति-शून्याय कदाचिद् अपि न वाच्यं न चाशुश्रूषवे परिचर्याम् अकुर्वते वाच्यम् । मां परमेश्वरं यो ऽभ्यसूयति मनुष्य-दृष्ट्या दोषारोपेण निन्दति तस्मै न च वाच्यम् ॥६७॥

विश्वनाथ: एवं गीता-शास्त्रम् उपदिश्य सम्प्रदाय-प्रवर्तने नियमम् आह इदम् इति । अतपस्काय असंयतेन्द्रियाय मनश् चेन्द्रियाणां च ऐकाग्र्यं परमं तपः इति स्मृतेः । संयतेन्द्रिये सत्य् अपि अभक्ताय न वाच्यम् । संयतेन्द्रियत्वादि-धर्म-त्रय-वत्त्वे ऽपि यो माम् अभ्यसूयति मयि निरुपाधि-पूर्ण-ब्रह्मणि माया-सावर्ण्य-दोषम् आरोपयति तस्मै सर्वथैव न वाच्यम् ॥६७॥

बलदेव: अथ स्वोपदिष्टं गीता-शास्त्रं पात्रेभ्यः एव न त्व् अपात्रेभ्यो देयम् इति उपदिशति इदम् इति । इदं शास्त्रं ते त्वयातपस्काय अजितेन्द्रियाय न वाच्यम् । तपस्विने ऽप्य् अभक्ताय शास्त्रोपदेष्टरि त्वयि शास्त्र-प्रतिपाद्ये मयि च सर्वेश-भक्ति-शून्याय न वाच्यम् । तपस्विने ऽपि भक्तायाशुश्रूषवे श्रोतुम् अनिच्छवे न वाच्यम् । यो मां सर्वेश्वरं नित्य-गुण-विग्रहम् अभ्यसूयति मयि मायिक-गुण-विग्रहताम् आरोपयति, तस्मै तु नैव वाच्यम् इत्य् अतो भिन्नया विभक्त्या तस्य निर्देशः । एवम् आह सूत्रकारः अनाविष्कुर्वन्न् अन्वयात् इति (व्स् ३।४।५०) ॥६७॥


१८।६८

य इदं परमं गुह्यं मद्भक्तेष्व् अभिधास्यति ।
भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥६८॥

श्रीधर: एतैर् दोषैर् विरहितेभ्यो गीता-शास्त्रोपदेष्टुः फलम् आह य इति । मद्-भक्तेष्व् अभिधास्यति मद्-भक्तेभ्यो य वक्ष्यति । स मयि परां भक्तिं करोति ततो निःसंशयः सन् माम् एव प्राप्नोतीत्य् अर्थः ॥६८॥

विश्वनाथ: एतद् उपदेष्टुः फलम् आह य इति द्वाभ्याम् । परां भक्तिं कृत्वेति प्रथमं परम-भक्ति-प्राप्तिः । ततो मत्-प्राप्तिः । एतद् उपदेष्टुर् भवति ॥६८॥

बलदेव: शास्त्रोपदेष्टुः फलम् आह य इति । एतद् उपदेष्टुर् आदौ मत्-पर-भक्ति-लाभस् ततो मत्-पद-लाभो भवति ॥६८॥


१८।६९

न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः ।
भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥६९॥

श्रीधर: किं च न चेति । तस्मान् मद्-भक्तेभ्यो गीता-शास्त्र-व्याख्यातुः सकाशाद् अन्यो मनुष्येषु मध्ये कश्चिद् अपि मम प्रिय-कृत्तमो ऽत्यन्तं परितोष-कर्ता नास्ति । न च कालान्तरे भविता भविष्यति ममापि तस्माद् अन्यः प्रियतरो ऽधुना भुवि तावन् नास्ति । न च कालान्तरे ऽपि भविष्यतीत्य् अर्थः ॥६९॥

विश्वनाथ: तस्माद् उपदेष्टुः सकाशात् अन्यो ऽतिप्रियङ्करो ऽतिप्रियश् च नास्ति ॥६९॥

बलदेव: न चेति । तस्माद् गीतोपदेष्टुः सकाशाद् अन्यो मनुष्येषु मध्ये मम प्रिय-कृत्तमः परितोष-कर्ता पूर्वं नाभून् न च भविष्यति । मम तस्माद् अन्यः प्रियतरो भुवि नाभून् न च भविष्यति ॥६९॥


१८।७०

अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः ।
ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥७०॥

श्रीधर : पठतः फलम् आह अध्येष्यत इति । आवयोः श्री-कृष्णार्जुनयोर् इमं धर्म्यं धर्माद् अनपेतं संवादं यो ऽध्येष्यते जप-रूपेण पठिष्यति तेन पुंसा सर्व-यज्ञेभ्यः श्रेष्ठेन ज्ञान-यज्ञेन अहम् इष्टः स्यां भवेयम् इति मे मतिः । यद्य् अप्य् असौ गीतार्थम् अबुध्यमान एव केवलं जपति । तथापि मम तच् छृण्वतो माम् एवासौ प्रकाशयतीति बुद्धिर् भवति । यथा लोके यऋच्छयापि यदा कश्चित् कदाचित् कस्यचित् नाम गृह्णाति तदासौ माम् एवायम् आहवयतीति मत्वा तत्-पार्श्वम् आगच्छति । तथाहम् अपितस्य सन्निहितो भवेयम् । अतएव अजामिल-क्षत्र-बन्धु-प्रमुखानां कथञ्चिन् नामोच्चारण-मात्रेण प्रसन्नो ऽस्मि । तथैव अस्यापि प्रसन्नो भवेयम् इति भावः ॥७०॥

विश्वनाथ : एतद् अधयन-फलम् आह अध्येष्यत इति ॥७०॥

बलदेव : अथ शास्त्राध्येतुः फलम् आह अध्येष्यते चेति । अत्र यो ज्ञान-यज्ञो वर्णितस् तेनाहम् एतत्-पाठ-मात्रेणैवेष्टो ऽभ्यर्चितः स्याम् इति मे मतिर्स् तस्याहं सुलभ इत्य् अर्थः । __________________________________________________________


१८।७१

श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः ।
सोपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥७१॥

श्रीधर : अन्यस्य जपतो यो ऽन्यः कश्चित् शृणोति तस्यापि फलम् आह श्रद्धावान् इति । यो नरः श्रद्धा-युक्तः केवलं शृणुयाद् अपि श्रद्धावान् अपि यः कश्चित् किम् अर्थम् उच्चैर् जपति अबद्धः वा जपतीति वा दोष-दृष्टिं करोति तद्-व्यावृत्त्य्-अर्थम् आह अनसूयश् चासूय-रहितो यः शृणुयात् सो ऽपि सर्वैः पापैर् मुक्तः सन्न् अश्वमेधादि-पुण्य-कृतां लोकान् प्राप्नुयात् ॥७१॥

विश्वनाथ : एतच्-छ्रवण-फलम् आह श्रद्धावान् इति ॥७१॥

बलदेव : श्रोतुः फलम् आह श्रद्धेति । यः केवलं श्रद्धया शृणोति अनसूयः किम् अर्थम् उच्चैर् अशुद्धं वा पठतीति दोष-दृष्टिम् अकुर्वन् सो ऽपि निखिलैः पापैर् मुक्तः पुण्य-कर्मणाम् अश्वमेधादि-याजिनां लोकान् प्राप्नुयात् । यद् वा पुण्य-कर्मणां भक्तिमतां लोकान् ध्रुव-लोकादीन् वैकुण्ठ-भेदान् इत्य् अर्थः ॥७१॥


१८।७२

कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिद् अज्ञानसम्मोहः प्रनष्टस् ते धनञ्जय ॥७२॥

श्रीधर : सम्यग् बोधानुपपत्तौ पुनर् उपदेक्ष्यामीत्य् आशयेनाह कच्चिद् इति । कच्चिद् इत् प्रश्नार्थः । कच्चिद् अज्ञान-सम्मोहस् तत्त्वाज्ञान-कृतो विपर्ययः । स्पष्टम् अन्यत् ॥७२ ॥

विश्वनाथ : सम्यग् बोधानुपपत्तौ पुनर् उपदेक्ष्यामीत्य् आशयेनाह कच्चिद् इति ॥७२॥

बलदेव : एवं शास्त्रं तद्-वाचनादि-माहात्म्यं चोक्तम् । अथ शास्त्रार्थावधान-तद्-अनुभवो पृच्छति कच्चिद् इति । प्रश्नार्थे ऽव्ययम् । सम्यग्-अनुभवानुदये पुनर् अप्य् एतद् उपदेक्ष्यामीति भावः ॥७२॥


१८।७३

अर्जुन उवाच
नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत ।
स्थितोस्मि गतसन्देहः करिष्ये वचनं तव ॥७३॥

श्रीधर : कृतार्थः सन्न् अर्जुन उवाच नष्ट इति । आत्म-विषये मोहो नष्टः यतो ऽयम् अहम् अस्मीति स्वरूपानुसन्धान-रूपा स्मृतिस् त्वत्-प्रसादान् मया लब्धा । अतः स्थितो ऽस्मि युद्धायोत्थितो ऽस्मि, गतः धर्म-विषयः सन्देहो यस्य सो ऽहं तव आज्ञां करिष्ये इति ॥७३॥

विश्वनाथ : किम् अतः परं पृच्छाम्य् अहं तु सर्व-धर्मान् परित्यज्य त्वां शरणं गतो निश्चिन्त एव त्वयि विश्रम्भवान् अस्मीत्य् आह नष्ट इति । करिष्य इत्य् अतः परं शरणस्य तवाज्ञायां स्थितिर् एव शरणापन्नस्य मम धर्मः । न तु स्वाश्रम-धर्मो न तु ज्ञान-योगादरः । ते त्व् अद्यारभ्य त्यक्त्वा एव । ततश् च भोः प्रियसख अर्जुन मम भू-भार-हरणे किञ्चिद् अवशिष्टं कृत्यम् अस्ति । तत् तु तद्-द्वारैव चिकीर्षामीति भगवतोक्ते गति गाण्डीव-पाणिर् अर्जुनो योद्धुम् उदतिष्ठाद् इति ॥७३॥

बलदेव : एवं पृष्टः पार्थः शास्त्रानुभवं फल-द्वारेणाह नष्ट इति । मोहो विपरीत-ज्ञान-लक्षणः मम नष्टस् त्वत्-प्रसादाद् एव स्मृतिश् च यथावस्थित-वस्तु-निष्ठया मया लब्धा । अहं गत-सन्देहश् छिन्न-संशयः स्थितो ऽधुनास्मि । तव वचनं करिष्ये । एतद् उक्तं भवति - देव-मानवादयो निखिलाः प्राणिनः सर्वे स्व-स्व-कर्मसु स्वतन्त्रा देहाभिमानिनो मान-वैरर्चिता देवास् तेभ्यो ऽभीष्ट-प्रदाः । यस् त्व् ईश्वरः को ऽप्य् अस्ति । स हि निर्गुणो निराकृतिर् उदासीनस् तत्-सन्निधानात् प्रकृतिर् जगद्-धेतुर् इत्य् एवं विपरीत-ज्ञान-लक्षणो यो मोहः पूर्वं ममाभूत् । स त्वद्-उपलब्धाद् उपदेशाद् विनष्टः । पराख्य-स्वरूप-शक्तिमान् विज्ञानानन्द-मूर्तिः सार्वज्ञ्य-सार्वैश्वर्य-सत्य-सङ्कल्पादि-गुण-रत्नाकरो भक्त-सुहृत् सर्वेश्वरः
प्रकृति-जीव-कालाख्य-शक्तिभिः सङ्कल्प-मात्रेण जीव-कर्मानुगुणो विचित्र-सर्ग-कृत् स्व-भक्तेभ्यः स्व-पर्यन्त-सर्व-प्रदो ऽकिञ्चन-भक्त-वित्तः । स च त्वम् एव मत्-सखो वसुदेव-सूनुर् इति तात्त्विकं ज्ञानं ममाभूत् । अतः परं त्वाम् अहं प्रपन्नः स्थितो ऽस्मि । त्वं मां कदाचिद् अपि न त्यक्ष्यसीति सन्देहश् च मे छिन्नः । अथ भूभार-हरणं स्व-प्रयोजनं चेत् प्रपन्नेन मया चिकीर्षितं तर्हि तद्-वचनं तव करिष्यामीत्य् अर्जुनो धनुः-पाणिर् उदतिष्ठद् इति ॥७३॥ __________________________________________________________


१८।७४

सञ्जय उवाच
इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥७४॥

श्रीधर : तद् एवं धृतराष्ट्रं प्रति श्री-कृष्णार्जुन-संवादं कथयित्वा प्रस्तुतां कथाम् अनुसन्दधानः सञ्जय उवाच इतीति । लोमहर्षणं लोमाञ्च-करं संवादम् अश्रौषं श्रुतवान् अहं । स्पष्टम् अन्यत् ॥७४॥

विश्वनाथ : अतः परं पञ्च-श्लोक-व्याख्या सर्व-गीतार्थ-तात्पर्य-निष्कर्षे ऽन्तिम-श्लोका यत्र वर्तन्ते तां पत्र-द्वयीं विनायकः स्व-वाहनेनाधुना हृतवान् इत्य् अतः पुनर् नालिखम् । तां तन्-मात्र-वादाम् । स प्रसीदतु तस्मै नमः । इति श्रीमद्-भगवद्-गीता-टीका सारार्थ-दर्शिनी समाप्ती-भूता सतां प्रीतये ऽस्ताद् इति

सारार्थवर्षिणी विश्व-जनीना भक्त-चातकान् ।
माधुरी धिनुताद् अस्या माधुरी भातु मे हृदि ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतास्व् अष्टादशो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥

इति श्रील-विश्वनाथ-चक्रवर्ति-ठक्कुर-कृता सारार्थवर्षिणी टीका समाप्ता ॥७४-७८॥

बलदेव : समाप्तः शास्त्रार्थः । अथ कथा-सम्बन्धम् अनुसन्दधानः सञ्जयो धृतराष्ट्रम् उवाच इत्य् अहम् इति । अद्भुतं चेतसो विमय-करं लोकेष्व् असम्भाव्यमानत्वात् । रोमहर्षणम् देहे पुलक-जनकम् ॥७४॥


१८।७५

व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् ।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥७५॥

श्रीधर : आत्मनस् तच्-छ्रवणे सम्भावनाम् आह व्यास-प्रसादाद् इति । भगवता व्यासेन दिव्यं चक्षुः श्रोत्रादि मछ्यं दत्तम् अतो व्यासस्य प्रसादात् एतत् अहं श्रुतवान् अस्मि । किं तद् इत्य् अपेक्षायाम् आह परं योगं । परत्वं आविष्करोति योगेश्वरात् श्री-कृष्णात् स्वयम् एव साक्षात् कथयतः श्रुतवान् इति ॥७५॥

बलदेव : व्यवहित-तत्-संवाद-श्रवणे स्व-योग्यताम् आह व्यासेति । व्यास-प्रसादात् तद्-दत्त-दिव्य-चक्षुः-श्रोत्रादि-लाभ-रूपाद् एतद् गुह्यं श्रुतवान् । किम् एतद् इत्य् आह परम् योगम् इति । कर्म-योगं ज्ञान-योगं भक्ति-योगं चेत्य् अर्थः । परत्वं सम्पादयति योगेश्वराद् इति । देव-मानवादि-निखिल-प्राणिनां स्वभाव्य-सम्बन्धो योगः । तेषाम् अधीशान् नियन्तुः स्वयं-रूपात् कृष्णात् स्व-मुखेनैव, न तु परम्परया कथयतः । श्रुतवान् अस्मीति स्व-भाग्यं श्लाघ्यते ॥७५॥


१८।७६

राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥७६॥

श्रीधर : किं च राजन्न् इति । हृष्यामि रोमाञ्चितो भवामि हर्षं प्राप्नोमीति वा । स्पष्टम् अन्यत् ॥७६॥

बलदेव : राजन् धृतराष्ट्र पुण्यं श्रोतुर् अविद्या-पर्यन्त-सर्व-दोष-हरम् । मुहुर् मुहुः प्रति-क्षणं हृष्यामि रोमाञ्चितो ऽस्मि ॥७६॥


१८।७७

तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥७७॥

श्रीधर : किं च तच् चेति । विश्व-रूपं निरिदिशति । स्पष्टम् अन्यत् ॥७७॥

बलदेव : तच् च विश्व-रूपं यद् अर्जुनायोपदिष्टम् ॥७७॥


१८।७८

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥७८॥

श्रीधर : अतस् त्वं पुत्राणां राज्यादि-शङ्का परित्यजेत्य् आशयेनाह यत्रेति । यत्र येषां पाण्डवानां पक्षे योगेश्वरः श्री-कृष्णो वर्तते, यत्र च पार्थः गाण्डीव-धनुर्-धरस् तत्रैव च श्री राज-लक्ष्मीस् तत्रैव निश्चितेति सम्बध्यते इति मम मतिर् निश्चयः । अत इदानीम् अपि तावत् सपुत्रस् त्वं श्री-कृष्णं शरणम् उपेत्य पाण्डवान् प्रसाद्य सर्वं च तेभ्यो निवेद्य पुत्र-प्राण-रक्षां कुरु इति भावः ।

भगवद्-भक्ति-युक्तस्य
तत्-प्रसादात्म-बोधतः ।
सुखं बन्ध-विमुक्तिः स्याद्
इति गीतार्थ-सङ्ग्रहः ॥

तथा हि,

पुरुषः स परः पार्थ
भक्त्या लभ्यस् त्व् अनन्यया । (गीता ८।२२)

भक्त्या त्व् अनन्यया शक्यस्
त्व् अहम् एवंविधो ऽर्जुन । (गीता ११।५४)

इत्य् आदौ भगवद्-भक्तेर् मोक्षं प्रति साधकतमत्व-श्रवणात् तद्-एकान्त-भक्तिर् एव तत्-प्रसादोत्थ-ज्ञानावान्तर-व्यापार-मात्र-युक्तो मोक्ष-हेतुर् इति स्फुटं प्रतीयते । ज्ञानस्य च भक्त्य्-अवान्तर-व्यापारत्वम् एव युक्तम् -
तेषां सतत-युक्तानां
भजतां प्रीति-पूर्वकम् ।
ददामि बुद्धि-योगं तं
येन माम् उपयान्ति ते ॥ (गीता १०।१०)

मद्-भक्त एतद् विज्ञाय
मद्-भावायोपपद्यते ।
प्रकृतिं पुरुषं चैव
विद्ध्य् अनादी उभाव् अपि ॥ (गीता १३।१९)

न च ज्ञानम् एव भक्तिर् इति युक्तम् । समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् (गीता १८।५४) । भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ॥ (गीता १८।५५) इत्य् आदौ भेद-दर्शनात् । न चैवं सति तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय इति श्रुति-विरोधः शङ्कनीयः भक्त्य्-अवान्तर-व्यापारत्वात् ज्ञानस्य । न हि काष्ठैः पचति इत्य् उक्ते ज्वालानाम् असाध्यनत्वम् उक्तं भवति । किं च

यस्य देवे परा भक्तिर्
यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः
प्रकाशन्ते महात्मनः ॥ (श्वेतु ६।२३)

देहान्ते देवः परं ब्रह्म
तारकं व्यचष्टे ।

यम् एवैष वृणुते तेन लभ्य इत्य् आदि-श्रुति-स्मृति-पुराण-वचनान्य् एवं सति समञ्जसानि भवन्ति । तस्मात् भगवद्-भक्तिर् एव मोक्ष-हेतुर् इति सिद्धम् ॥

तेनैव दत्तया मत्या तद्-गीता-विवृतिः कृता ।
स एव परमानन्दस् तया प्रीणातु माधवः ॥
परमानन्द-पादाब्ज-रजः-श्रीधारिणाधुना ।
श्रीधर-स्वामि-यतिना कृता गीता-सुबोधिनी ॥

स्व-प्रागल्भ्य-बलाद् विलोभ्य भगवद्-गीतां तद्-अन्तर्-गतम्
तत्त्वं प्रेप्सुर् उपैति किं गुरु-कृपा-पीयूष-दृष्टिं विना ।
अम्बु स्वाञ्जलिना निरस्य जलधेर् आदित्सुर् अन्तर्मणी
नावर्तेषु न किं निमज्जति जनः सत्-कर्ण-धारं विना ॥

इति श्री-श्रीधर-स्वामि-कृतायां श्रीमद्-भगवद्-गीता-टीकायां सुबोधिन्यां परमार्थ-निर्णयो नाम अष्टादशो ऽध्यायः ॥७८॥

बलदेव: एवं च सति स्व-पुत्र-विजयादि-स्पृहां परित्यजेत्य् आह यत्रेति । यत्र योगेश्वरः पूर्वं व्याख्यातः स्व-सङ्कल्पायत्त-स्वेतर-सर्व-प्राणि-स्वरूप-स्थिति-प्रवृत्तिकः कृष्णो वसुदेव-सूनुः सारथ्य-पर्यन्त-साहाय्य-कारितया वर्तते । यत्र पार्थस् त्वत्-पितृ-स्वसृ-पुत्रो नरावतारः कृष्णैकान्ती धनुर्धरो ऽच्छेद्य-गाण्डीव-पाणिर् वर्तते । तत्रैव श्री-कृष्णार्जुनाधिष्ठिते युधिष्ठिर-पक्षे श्री-राज-लक्ष्मीः विजयः शत्रु-परिभव-हेतुकः परमोत्कर्षः । भूतिर् उत्तरोत्तरा राज-लक्ष्मी-विवृद्धिः । नीतिर् न्याय-प्रवृत्तिर् ध्रुवा स्थिरेति सर्वत्र सम्बध्यते । यत् तु युद्ध-परम् एतच् छास्त्रम् इति शङ्क्यते । तन् न - मन्-मना भव मद्-भक्त इत्य् आदेः, सर्व-धर्मान् परित्यज्य इत्य् आदेश् चोपदेशस् तस्माच् चतूर्णां वर्णानाम् आश्रमाणां च धर्मा
हृद्-विशुद्धि-हेतुतया लोक-सङ्ग्रहार्थतया चेह निरूपिता इत्य् एव सुष्ठु ॥७८॥

उपाया बहवस् तेषु प्रपत्तिर् दास्य-पूर्विका ।
क्षिप्रं प्रसादनी विष्णोर् इत्य् अष्टादशतो मतम् ॥
पीतं येन यशोदा-स्तन्यं नीतं पार्थ-सारथ्यम् ।
स्फीतं सद्-गुण-वृन्दैस् तद् अत्र गीतं परं तत्त्वम् ॥

यद् इच्छा-तरिं प्राप्य गीतापयोधौ
न्यमज्जं गृहीताति-चित्रार्थ-रत्नम् ।
न चोत्तातुम् अस्मि प्रभुर् हर्ष-योगात्
स मे कौतुकी नन्द-सूनुः प्रियस्तात् ॥

श्रीमद्-गीता-भूषणं नाम भाष्यं
यत्नाद् विद्या-भूषणेनोपचीर्णम् ।
श्री-गोविन्द-प्रेम-माधुर्य-लुब्धाः
कारुण्यार्द्राः साधवः शोधयध्वम् ॥

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये ऽष्टादशो ऽध्यायः ॥
[*एन्द्नोते] तेxत् रेअद्स् मा यत् समः।
[*एन्द्नोते] बिस्ह्wअस् हस् अगम्य।
[*एन्द्नोते] क़ुओतेद् अबोवे इन् विश्वनाथऽस् चोम्मेन्तरिएस् तो
[*एन्द्नोते] मम नोत् इन् बिस्ह्wअस् एदितिओन्, wहो अल्सो रेअद्स् नेच्छसीति।
[*एन्द्नोते] ## १८।६१-६६ अरे चोम्मेन्तेद् ओन् एxतेन्सिवेल्य् इन् कृष्ण-सन्दर्भ, पर। ८२ अन्द् सर्व-संवादिनी।
[*एन्द्नोते] थिस् रेफ़ेरेन्चे तो थे बृहद्-आरण्यक उपनिषद्। थिस् एxअच्त् तेxत् इस् नोत् फ़ोउन्द् थेरे।
[*एन्द्नोते] जगत् सर्वम् इन् थे तेxत्।
[*एन्द्नोते] भ्रमयन् नोत् इन् क्रिस्ह्नदस् एदितिओन्।
[*एन्द्नोते] बिस्ह्wअस् - शास्त्रेण प्रकाशितम्
[*एन्द्नोते] बोथ् तेxत्स् रेअद् स्वाभिरुचितस् तत्, बुत् थिस् रेअदिन्ग्स् सेएम्स् ग्रम्मतिचल्ल्य् प्रोब्लेमतिच्।
[*एन्द्नोते] क्रिस्ह्नदस् गिवेस् भर्तृत्वे अस् अन् अल्तेर्नतिवे रेअदिन्ग् बोथ् हेरे अन्द् फ़ुर्थेर् दोwन्।
[*एन्द्नोते] थे उसुअल् रेअदिन्ग् इस् आत्म-निक्षेप-कार्पण्ये।

भगवद्-गीता - छप्तेर् १८