17

१७।१

ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥१॥

श्रीधरः :
उक्ताधिकार-हेतूनां श्रद्धा मुख्या तु सात्त्विकी ।
इति सप्तदशे गौण-श्रद्धा-भेदस् त्रिधोच्यते ॥

पूर्वाध्यायान्ते यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-चारतः । न स सिद्धिम् अवाप्नोति [गीता १६।२४] इत्य् अनेन शास्त्रोक्त-विधिम् उत्सृज्य काम-चारेण वर्तमानस्य ज्ञाने ऽधिकारो नास्तीत्य् उक्तम् । तत्र शास्त्रम् उत्सृज्य काम-चारं विना श्रद्दया वर्तमानानां किम् अधिकारो ऽस्ति नास्ति वेति बुभुत्सया ऽर्जुन उवाच य इति । अत्र च शास्त्र-विधिम् उत्सृज्य यजन्त इत्य् अनेन शास्त्रार्थं बुद्ध्या तम् उल्लङ्घ्य वर्तमानो न गृह्यते । तेषां श्रद्धया यजनानुपत्तेः । आस्तिक्य-बुद्धिर् हि श्रद्धा । न चासौ शास्त्र-विरुद्धे ऽर्थे शास्त्र-ज्ञानवतां सम्भवति । तान् एवाधिकृत्य त्रिविधा भवति श्रद्धेति । यजन्ते सात्त्विका देवान् इत्य् आद्य् उत्तरानुपपत्तेश् च । अतो नात्र शास्त्रोल्लङ्घिनो गृह्यन्ते । अपि तु क्लेश-बुद्ध्य्-आलस्याद् वा शास्त्रार्थ-ज्ञाने प्रयत्नम् अकृत्वा केवलम् आचार-परम्परा-वशेन श्रद्धया
क्वचिद् देवताराधनादौ प्रवर्तमाना गृह्यन्ते । अतो ऽयम् अर्थः ये शास्त्र-विधिम् उत्सृज्य दुःख-बुद्ध्यालस्य-द्वारा अनादृत्य केवलम् आचार-प्रामाण्येन श्रद्धया ऽन्विताः सन्तो यजन्ते तेषां का निष्ठा । का स्थितिः । क आश्रयः । ताम् एव विशेषेण पृच्छति किं सत्त्वम् । आहो किं वा रजः । अथवा तम इति । तेषां तादृशी देव-पूजादि-प्रवृत्तिः किं सत्त्व-संश्रिता । रजः-संश्रिता वा । तमः-संश्रिता वेत्य् अर्थः । श्रद्धायाः सत्त्व-संश्रिता तर्हि तेषाम् अपि सात्त्विकत्वाद् यथोक्तात्म-ज्ञाने ऽधिकारः स्यात् । अन्यथा नेति प्रश्न-तात्पर्यार्थः ॥१॥

मधुसूदनः : त्रिविधाः कर्मानुष्ठातारो भवन्ति । केचिच् छास्त्र-विधिं ज्ञात्वाप्य् अश्रद्धया तम् उत्सृज्य काम-कार-मात्रेण यत् किञ्चिद् अनुतिष्ठन्ति ते सर्व-पुरुषार्थायोग्यत्वाद् असुराः । केचित् तु शास्त्र-विधिं ज्ञात्वा श्रद्दधानतया तद्-अनुसारेणैव निषिद्धं वर्जयन्तो विहितम् अनुतिष्ठन्ति ते सर्व-पुरुषार्थ-योग्यत्वाद् देवा इति पूर्वाध्यायान्ते सिद्धम् । ये तु शास्त्रीयं विधिम् आलस्यादि-वशाद् उपेक्ष्य श्रद्दधानतयैव वृद्ध-व्यवहार-मात्रेण निषिद्धं वर्जयन्तो विहितम् अनुतिष्ठन्ति । ते शास्त्रीय-विध्य्-उपेक्षा-लक्षणेनान्सुर-साधर्म्येण श्रद्धा-पूर्वकानुष्ठान-लक्षणेन च देव-साधर्म्येणान्विताः किम् असुरेष्व् अन्तर्भवन्ति किं वा देवेष्व् इत्य् उभय-धर्म-दर्शनाद् एक-कोटि-निश्चायकादर्शनाच् च सन्दिहानो ऽर्जुन उवाच य इति ।

ये पूर्वाध्याये त निर्णीता न देववच् छास्त्रानुसारिणः किन्तु शास्त्र-विधिं श्रुति-स्मृति-चोदनाम् उत्सृज्यालस्यादि-वशाद् अनादृत्य नासुरवद् अश्रद्दधानाः किं तु वृद्ध-व्यवहारानुसारेण श्रद्धयान्विता यजन्ते देव-पूजादिकं कुर्वन्ति तेषां तु शास्त्र-विध्य्-उपेक्षा-श्रद्धाभ्यां पूर्व-निश्चित-देवासुर-विलक्षणानां निष्ठा का कीदृशी तेषां शास्त्र-विध्य्-अनपेक्षा श्रद्धा-पूर्विका च सा यजनादि-क्रिया-व्यवस्थितिः । हे कृष्ण भक्तावकर्षण ! किं सत्त्वं सात्त्विकी । तथा सति सात्त्विकत्वात् ते देवाः । आहो इति पक्षान्तरे । किं रजस् तमो राजसी ताम्सी च । तथा सति राजस-तामसत्वाद् असुरास् ते सत्त्वम् इत्य् एका कोटिः । रजस् तम इत्य् अपरा कोटिर् इति विभाग-ज्ञापनायाहो-शब्दः ॥१७।१॥

विश्वनाथः :
अथ सप्तदशे वस्तु सात्त्विकं राजसं तथा ।
तामसं च विविच्योक्तं पार्थ-प्रश्नोत्तरं यथा ॥

नन्व् आसुर-सर्गम् उक्त्वा तद्-उपसंहारे -

यः शास्त्र-विधिम् उत्सृज्य वर्तते कामचारतः ।
न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥[गीता १६।२४]

इति त्वयोक्तम् । तत्राहम् इदं जिज्ञास इत्य् आह य इति । ये शास्त्र-विधिम् उत्सृज्य काम-चारतो वर्तन्ते किन्तु काम-भोग-रहिता एव श्रद्धयान्विताः सन्तो यजन्ते तओप्-यज्ञ-ज्ञान-यज्ञ-जप-यज्ञादिकं कुर्वन्ति । तेषां का निष्ठा स्थितिः किम् आलम्बनम् इत्य् अर्थः । तत् किं सत्त्वम् । आहो स्वित् रजः । अथवा तमस् तद् ब्रूहीत्य् अर्थः ॥१॥

बलदेवः :
सात्त्विकं राजसं वस्तु तामसं च विवेकतः ।
कृष्णः सप्तदशे ऽवादीत् पार्थ-प्रश्नानुसारतः ॥

वेदम् अधीत्य तद्-विधिना तद्-अर्थानुतिष्ठन्तः शास्त्रीय-श्रद्धा-युक्ता देवाः । वेदम् अवज्ञाय यथेच्छा-चारिणो वेद-बाह्यास् त्व् आसुरा इति पूर्वस्मिन्न् अध्याये त्वयोक्तम् । अथेयं मे जिज्ञासा ये शास्त्रेति । ये जनाः पाठतो ऽर्थतश् च दुर्गमं वेदं विदित्वालस्यादिना तद्-विधिम् उत्सृज्य लोकाचार-जातया श्रद्धयान्विताः सन्तो देवादीन् यजन्ते, तेषां शास्त्र-विध्य्-उपेक्षा-श्रद्धाभ्यां पूर्व-निर्णीत-दैवासुर-विलक्षणानां का निष्ठा । सत्त्वं संश्रया तेषां स्थितिर् अथवा रजस् तमः संश्रयेति कोटि-द्वयावबोधायाहो-शब्दो मध्ये निवेशितः ॥१॥


१७।२

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२॥

श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच त्रिविधेति । अयम् अर्थः शास्त्र-तत्त्व-ज्ञानतः प्रवर्तमानानां परमेश्वर-पूजा-विषया सात्त्विकी एकविधैव भवति श्रद्धा । लोकाचार-मात्रेण तु प्रवर्तमानानां देहिनां या श्रद्धा सा तु सात्त्विकी राजसी तामसी चेति त्रिविधा भवति । तत्र हेतुः स्वभावजा । स्वभावः पूर्व-कर्म-संस्कारः । तस्माज् जाता । स्वभावम् अन्यथा कर्तुं समर्थं शास्त्रोत्थं विवेक-ज्ञानम् । तत् तु तेषां नास्ति । अतः केवलं पूर्व-स्वभावेन भवन्ती श्रद्धा त्रिविधा भवति । ताम् इमां त्रिविधां श्रद्धां शृण्व् इति । तद् उक्तं व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन इत्य् आदिना ॥२॥

मधुसूदनः : ये शास्त्र-विधिम् उत्सृज्य श्रद्धया यजन्ते ते श्रद्धा-भेदाद् भिद्यन्ते । तत्र ये सात्त्विक्या श्रद्धयान्वितास् ते देवाः शास्त्रोक्त-साधने ऽधिक्रियन्ते तत्-फलेन चयुज्यन्ते । ये तु राजस्या तामस्या च श्रद्धयान्वितास् ते ऽसुरा न शास्त्रीय-साधने ऽधिक्रियन्ते न वा तत्-फलेन युज्यन्त इति विवेकेनार्जुनस्य सन्देहम् अपनिनीषुः श्रद्धा-भेदं श्री-भगवान् उवाच त्रि-विधेति । यथा श्रद्धयान्विताः शास्त्र-विधिम् उत्सृज्य यजन्ते सा देहिनां स्वभावजा, जन्मान्तर-कृतो धर्माधर्मादि-शुभाशुभ-संस्कार इदानीन्तन-जन्मारम्भकः स्वभावः । स त्रि-विधः सात्त्विको राजसस् तामसश् चेति । तेन जनिता श्रद्धा त्रि-विधा भवति सात्त्विकी राजसी तामसी च । कारणानुरूपत्वात् कार्यस्य । या त्व् आरब्धे जन्मनि शास्त्र-संस्कार-मात्रजा विदुषां सा कारणैक-रूपत्वाद्
एक-रूपा सात्त्विक्य् एव । न राजसी तामसी चेति प्रथम-च-कारार्थः । शास्त्र-निरपेक्षा तु प्राणि-मात्र-साधारणी स्वभाव-जा । सैव स्वभाव-त्रैविध्यात् त्रिविधेत्य् एव-कारार्थः । उक्त-विधा-त्रय-समुच्चयार्थश् चरमश् च-कारः । यतः प्राग्-भवीय-वासनाख्य-स्वभावस्याभिभावकं शास्त्रीयं विवेक-विज्ञानम् अनादृत-शास्त्राणां देहिनां नास्ति अतस् तेषां स्वभाव-वशात् त्रिधा भवन्तीं तां श्रद्धां शृणु । श्रुत्वा च देवासुर-भावं स्वयम् एवावधारयेत्य् अर्थः ॥२॥

विश्वनाथः : भो अर्जुन प्रथमं शास्त्र-विधिम् उत्सृज्य यजतां निष्ठां शृणु । पश्चात् शास्त्र-विधि-त्यागिनां निष्ठां ते वक्ष्यामीत्य् आह त्रिविधेति । स्वभावः प्राचीन-संस्कार-विशेषस् तस्माज् जाता श्रद्धा । सा च त्रिविधा ॥२॥

बलदेवः : एवं पृष्टो भगवान् उवाच त्रिविधेति । आलस्यात् क्लेशाच् च शास्त्र-विधिम् उत्सृज्य ये श्रद्धया देवादीन् यजन्ते देहिनः । सा तेषां स्वभावजा बोध्या प्राक्तनः शुभाशुभ-संस्कारः स्वभावस् तस्माज् जातेत्य् अर्थः । अनादि-त्रिगुण-प्रकृति-संसृष्टानां देहिनाम् अनादितो ऽनावृत्तस्य संसारस्य सात्त्विकत्वादिना त्रैविध्यात् तज्-जात-श्रद्धापि त्रिविधेत्य् आह सात्त्विकीत्यादि । स्वभावम् अन्यथयितुं समर्था खलु सद्-उपदिष्ट-शास्त्र-जन्या विवेक-संवित् सा तेषां नास्त्य् अतः स्वभावजा श्रद्धा त्रिविधा भवति । तादृक्-शास्त्र-जन्या श्रद्धा त्व् अन्यैव यथा तद्-उक्ति-विधिनैव तद्-अर्थानुष्ठानम् ॥२॥


१७।३

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः ॥३॥

श्रीधरः : ननु च श्रद्धा सात्त्विक्य् एव सत्त्व-कार्यत्वेन त्वयैव श्री-भागवते उद्धवं प्रति निर्दिष्टत्वात् । यथोक्तं -

शमो दमस् तितिक्षेज्या तपः सत्यं दया स्मृतिः ।
तुष्टिस् त्यागो ऽस्पृहा श्रद्धा ह्रीर् दया निर्वृत्तिर् धृतिः ॥[भ्प् ११।२५।२]

इत्य् एताः सत्त्वस्य वृत्तयः । इति ।

अथ कथं तस्यास् त्रैविध्यम् उच्यते । सत्यम् । तथापि रजस्-तमो-युक्त-पुरुषाश्रयत्वेन रजस्-तमो-मिश्रितत्वेन सत्त्वस्य त्रैविध्याच् छ्रद्धायापि त्रैविध्यं घटते इत्य् आहसत्त्वानुरूपेति । सत्त्वानुरूपा सत्त्व-तारतम्यानुसारिणी सर्वस्य विवेकिनो ऽविवेकिनो लोकस्य श्रद्धा विक्रिअत इत्य् अर्थः । तद् एवाह यो यच् छ्रद्धः यादृशी श्रद्धा यस्य । स एव सः । तादृश-श्रद्धा-युक्त एव सः । यः पूर्वं सत्त्वोत्कर्षेण सात्त्विक-श्रद्धया युक्तः पुरुषः स पुनस् तादृश-स्व-संस्कारेण सात्त्विक-श्रद्धयायुक्त एव भवति । यस् तु रजस उत्कर्षेण राजस-श्रद्धया युक्तः स पुनस् तादृश एव भवति । यस् तु तमस उत्कर्षेण तामस-श्रद्धया युक्तः स पुनस् तादृश एव भवति । लोकाचार-मात्रेण प्रवर्तमानेष्व् एवं सात्त्विक-राजस-तामस-श्रद्धा-व्यवस्था । शास्त्र-जनित-विवेक-ज्ञान-युक्तानां
तु स्वभाव-विजयेन सात्त्विकी एकैव श्रद्धेति प्रकरणार्थः ॥३॥

मधुसूदनः : प्राग्-भवीयान्तः-करण-गत-वासना-रूप-निमित्त-कारण-वैचित्र्येण श्रद्धा-वैचित्र्यम् उक्त्वा तद्-उपादान-कारणान्तः-करण-वैचित्र्येणापि तद्-वैचित्र्यम् आह सत्त्वेति । सत्त्वं प्रकाश-शीलत्वात् सत्त्व-प्रधान-त्रिगुणापञ्चीकृत-पञ्च-महा-भूतारब्धम् अन्तः-करणम् । तच् च क्वचिद् उद्रिक्त-सत्त्वम् एव यथा देवानाम् । क्वचिद् रजसाभिभूत-सत्त्वं यथा यक्षादीनाम् । क्वचित् तमसाभिभूत-सत्त्वं यथा प्रेत-भूतादीनाम् । मनुष्याणां तु प्रायेण व्यामिश्रम् एव । तच् च शास्त्रीय-विवेक-ज्ञानेनोद्भूत-सत्त्वं रजस्-तमसी अभिभूय क्रियते । शास्त्रीय-विवेक-विज्ञान-शून्यस्य तु सर्वस्य प्राणि-जातस्य सत्त्वानुरूपा श्रद्धा सत्त्व-वैचित्र्याद् विचित्रा भवति, सत्त्व-प्रधाने ऽन्तः-करणे सात्त्विकी । रजः-प्रधाने तस्मिन् राजसी तमः-प्रधाने तु तस्मिंस्
तामसीति । हे भारत महा-कुल-प्रसूत ज्ञान-निरतेति वा शुद्ध-सात्त्विकत्वं द्योतयति । यत् त्वया पृष्टं तेषां निष्टा केति तत्रोत्तरं शृणु । अयं शास्त्रीय-ज्ञान-शून्यः कर्माधिकृतः पुरुषस् त्रिगुणान्तः-करण-सम्पिण्डितः श्रद्धा-मयः प्राचुर्येणास्मिन् श्रद्धा प्रकृतेति तत्-प्रस्तुत-वचने मयट् । अनन्य-मयो यज्ञ इतिवत् । अतो यो यच्-छ्रधो या सात्त्विकी राजसी तामसी वा श्रद्धा यस्य स एव श्रद्धानुरूप एव स सात्त्विको राजसस् तामसो वा । श्रद्धयैव निष्ठा व्याख्यातेत्य् अभिप्रायः ॥३॥

विश्वनाथः : सत्त्वम् अन्तःकरणं त्रिविधं सात्त्विकं राजसं तामसं च । तद्-अनुरूपा सात्त्विकान्तःकरणानां सात्त्विक्य् एव श्रद्धा । राजसान्तःकरणानां राजस्य् एव । तामसान्तःकरणानां तामस्य् एवेत्य् अर्थः । यच्-छ्रद्धो यस्मिन् यजनीये देवे ऽसुरे राक्षसे वा श्रद्धावान् यो भवति । स स एव भवति तत् तच् छब्देनैव व्यपदिश्यत इत्य् अर्थः ॥३॥

बलदेवः : यद्यपि श्रद्धा सत्त्व-गुण-वृत्तिस् तथाप्य् अन्तः-करण-धर्मस्य स्वभावस्यान्तः-करणस्य च धर्मिणस् त्रैविध्यात् तद्-उदितायास् तस्यास् त्रैविध्यं सिद्ध्येद् इति भावेनाह सत्त्वानुरूपेति । सत्त्वम् अन्तःकरणं त्रिगुणात्मकं तद्-अनुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति । सत्त्व-प्रधानान्तःकरणस्य श्रद्धा सात्त्विकी । रजः-प्रधानान्तःकरणस्य तु राजसी । तमःप्रधानान्तःकरणस्य तु श्रद्धा तामसीति । अतो ऽयं पूज्य-पूजक-रूपो लौकिकः पुरुषः श्रद्धामयस् त्रिविध-श्रद्धा-प्रचुरो यः पुरुषो यच्-छ्रद्धो यस्मिन् पूज्ये देवादौ यक्षादौ प्रेतादौ च श्रद्धावान् भवति । स पूजको ऽपि स एव तत्-तच्-छब्देन व्यपदेश्य पूज्य-गुणवान् पूजक इत्य् अर्थः ॥३॥

यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश् चान्ये यजन्ते तामसा जनाः ॥४॥

श्रीधरः : सात्त्विकादि-भेदम् एव कार्य-भेदेन प्रपञ्चयति यजन्त इति । सात्त्विका जनाः सत्त्व-प्रकृतीन् देवान् एव यजन्ते पूजयन्ति । राजसास् तु रजः-प्रकृतीन् यक्षान् रक्षसांश् च यजन्ते । एतेभ्यो ऽन्ये विलक्षणास् तामसा जनास् तामसान् एव प्रेतान् भूत-गणांश् च यजन्ते । सत्त्वादि-प्रकृतीनां तत्-तद्-देवादीनां पूजा-रुचिभिस् तत्-तत्-पूजकानां सात्त्विकादित्वं ज्ञातव्यम् इत्य् अर्थः ॥४॥

मधुसूदनः : श्रद्धा ज्ञाता सती निष्ठां ज्ञापयिष्यति । केनोपायेन सा ज्ञायताम् इत्य् अपेक्षिते देव-पूजादिकार्य-लिङ्गेनानुमेयेत्य् आह यजन्त इति । जनाः शास्त्रीय-विवेक-हीना ये स्वाभाविक्या श्रद्धया देवान् वसु-रुद्रादीन् सात्त्विकान् यजन्ते ते ऽन्ये सात्त्विका ज्ञेयाः । ये च यक्षान् कुवेरादीन् रक्षांसि च राक्षसान् निरृति-प्रभृतीन् राजसान् यजन्ते ते ऽन्ये राजसा ज्ञेयाः । ये च प्रेतान् विप्रादयः स्वधर्मात् प्रच्युता देह-पाताद् ऊर्ध्वं वायवीयं देहम् आपन्ना उल्कामुख-कट-पूतनादि-सञ्ज्ञाः प्रेता भवन्तीति मनूक्तान् पिशाच-विशेषान् वा भूत-गणांश् च सप्त-मातृकादींश् च तामसान् यजन्ते ते ऽन्ये तामसा ज्ञेयाः । अन्य इति पदं त्रिष्व् अपि वैलक्षण्य-द्योतनाय सम्बध्यते ॥४॥

विश्वनाथः : उक्तम् अर्थं स्पष्टयति सात्त्विकान्तः-करणाः सात्त्विक्या श्रद्धया सात्त्विक-शास्त्र-विधिना सात्त्विकान् देवान् एव यजन्ते । देवेष्व् एव श्रद्धावत्त्वाद् देवा एवोच्यन्ते । एवं राजसा राजसान्तः-करणा इत्य् आदि विवरितव्यम् ॥४॥

बलदेवः : कार्य-भेदेन सात्त्विकादि-भेदं प्रपञ्चयति यजन्त इति । शास्त्रीय-विवेक-संविद्-विहीना ये जनाः स्वभाव-जया श्रद्धया देवान् सात्त्विकान् वसु-रुद्रादीन् यजन्ते ते ऽन्ये राजसाः । ये प्रेतान् भूत-गणांश् च तामसा यजन्ते ते ऽन्ये तामसाः । द्विजाः स्वधर्म-विभ्रष्टा देह-पातोत्तर-लब्ध-वायवीय-देहा उल्कामुख-कट-पूतनादि-सञ्ज्ञाः प्रेता मनूक्ताः पिशाच-विशेषा वेति व्याख्यातारश् चात् सप्त-मातृकादयः । एवम् आलस्यात् त्यक्त-वेद-विधीनां स्वभावान् सात्त्विकाद्या निरूपिताः । एते च बलवद् वैदिक-सत्-प्रसङ्गात् स्वभावान् विजित्य कदाचिद् वेदे ऽप्य् अधिकृतो भवन्तीति बोध्यम् ॥४॥


१७।५-६

अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कार-संयुक्ताः काम-राग-बलान्विताः ॥५॥
कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः ।
मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥६॥

श्रीधरः : राजस-तामसेष्व् अपि पुनर् विशेषान्तरम् आह अशास्त्र-विहितम् इति द्वाभ्याम् । शास्त्र-विधिम् अजानन्तो ऽपि केचित् प्राचीन-पुण्य-संस्कारेण उत्तमाः सात्त्विका एव भवन्ति । केचिन् मध्यमा राजसा भवन्ति । अधमास् तु तामसा भवन्ति । ये पुनर् अत्यन्तं मन्द-भाग्यास् ते गतानुगत्या पाषण्ड-सङ्गेन च तद्-आचारानुवर्तिनः सन्तो ऽशास्त्र-विहितं घोरं भूत-भयङ्करं तपस् तप्यन्ते कुर्वन्ति । तत्र हेतवः दम्भाहङ्काराभ्यां संयुक्ताः । तथा कामो ऽभिलाषः । राग आसक्तिः । बलम् आग्रहः । एतैर् अन्विताः सन्तः । तान् आसुर-निश्चयान् विद्वीत्य् उत्तरेणान्वयः ॥५॥

किं च कर्शयन्त इति । शरीर-स्थं प्रारम्भकत्वेन देहे स्थितं भूतानां पृथिव्य्-आदीनां ग्रामं समूहं कर्शयन्तो वृथैव उपवासादिभिः कृशं कुर्वन्तो ऽचेतसो ऽविवेकिनः । मां चान्तर्यामितयान्तः-शरीर-स्थं देह-मध्ये स्थितं मद्-आज्ञा-लङ्घनेनैव कर्शयन्तः । एवं ये तपश् चरन्ति तान् आसुर-निश्चयान् । आसुरो ऽतिक्रूरो निश्चयो येषां तान् विद्धि ॥६॥

मधुसूदनः : एवम् अनादृत-शास्त्राणां सत्त्वादि-निष्ठा कार्यतो निर्णीता । तत्र केचिद् राजस-तामसा अपि प्राग्-भवीय-पुण्य-परिपाकात् सात्त्विका भूत्वा शास्त्रीय-साधने ऽधिक्रियन्ते । ये तु दुराग्रहेण दुर्दैव-परिपाक-प्राप्त-दुर्जन-सङ्गादि-दोषेण च राजस-तामसतां न मुञ्चन्ति ते शास्त्रीय-मार्गाद् भ्रष्टा असन्-मार्गानुसरणेनेह लोके परत्र च दुःख-भागिन एवेत्य् आह द्वाभ्याम् ।

अशास्त्र-विहितं शास्त्रेण वेदेन प्रत्यक्षेणानुमितेन वा न विहितम् अशास्त्रेण बुद्धाद्य्-आगमेन बोधितं वा घोरं परस्यात्मनः पीडा-करं तपस् तप्त-शिला-रोहणादि तप्यन्ते कुर्वन्ति ये जनाः । दम्भो धार्मिकत्व-ख्यापनम् अहङ्कारो ऽहम् एव श्रेष्ठ इति दुरभिमानस् ताभ्यां सम्यग् युक्ताः, योगस्य सम्यक्त्वम् अनायासेन वियोग-जनना-सामर्थ्यं कामे काम्यमान-विषये यो रात्गस् तन्-निमित्तं बलम् अत्य्ग्र-दुःख-सहन-सामर्थ्यं तेनान्विताः । कामो विषये ऽभिलाषः । रागः सदा-तद्-अभिनिविष्टत्व-रूपो ऽभिष्वङ्गः । बलम् अवश्यम् इदं साधयिष्यामीत्य् आग्रहः । तैर् अन्विता इति वा । अत एव बलद्-दुःख-दर्शने ऽप्य् अनिवर्तमानाः, कर्शयन्तः कृशी-कुर्वन्तो वृथोपवासादिना शरीर-स्थं भूत-ग्रामं देहेन्द्रिय-सङ्घाताकारेण
परिणतं पृथिव्यादि-भूत-समुदायम् अचेतसो विवेक-शून्या मां चान्तः-शरीर-स्थं भोक्तृ-रूपेण स्थितं भोग्यस्य शरीरस्य कृशीकरणेन कृशीकुर्वन्त एव । माम अन्तर्यामित्वेन शरीरान्तः-स्थितं बुद्धि-तद्-वृत्ति-साक्षि-भूतम् ईश्वरम् आज्ञा-लङ्घनेन कर्शयन्त इति वा । तान् ऐहिक-सर्व-भोग-विमुखान् परत्र चाधम-गति-भागिनः सर्व-पुरुषार्थ-भ्रष्टान् आसुर-निश्चयान् आसुरो विपर्यास-रूपो वेदार्थ-विरोधी निश्चयो येषां तान् मनुष्यत्वेन प्रतीयमानान् अप्य् असुर-कार्य-कारित्वाद् असुरान् विद्धि जानीहि परिहरणाय । निश्चयस्यासुरत्वात् तत्-पूर्विकाणां सर्वासाम् अन्तः-करण-वृत्तीनाम् आसुरत्वम् । असुरत्व-जाति-रहितानां च मनुष्याणां कर्मणैवासुरत्वात् तान् असुरान् विद्धीति साक्षान् नोक्तम् इति च द्रष्टव्यम् ॥५-६॥

विश्वनाथः : यस् त्वया पृष्ठं ये शास्त्र-विधिम् उत्सृज्य काम-भोग-रहिताः श्रद्धया यजन्ते तेषां का निष्ठा इति । तस्योत्तरम् अधुना शृण्व् इत्य् आह अशास्त्रेति द्वाभ्याम् । घोरं प्राणि-भयङ्करं तपस् तप्यन्ते कुर्वन्तीत्य्-उपलक्षणम् इदं जप-यागादिकम् अप्य् अशास्त्रीयं कुर्वन्ति । कामाचरण-राहित्यं श्रद्धान्वितत्वं च स्वत एव लभ्यते । दम्भाहङ्कार-संयुक्ता इति । दम्भाहङ्काराभ्यां विना शास्त्र-विध्य्-उल्लङ्घनानुपपत्तेः । कामः स्वस्याजरामरत्व-राज्याद्य्-अभिलाषो रागस् तपस्य् आसक्तिर् बलं हिरण्यकशिपु-प्रभृतीनाम् इव तपः-करण-सामर्थ्यम् । तैर् अन्विताः शरीर-स्थम् अयम्भकत्वेन देह-स्थितम् । भूतानां पृथिव्यादीनां ग्रामं समूहं कर्शयन्तः कृशी-कुर्वन्तो मां च मद्-अंश-भूतं जीवं च दुःखयन्तः
। आसूय-निश्चयान् असुराणाम् एव निष्ठायां स्थिताम् इत्य् अर्थः ॥५-६॥

बलदेवः : वेद-बाह्यानां कदाचिद् अपि दुर्गतेर् निस्तारो नेति पूर्वाध्यायोक्तं दृढयन्न् आह अशास्त्रेति द्वाभ्याम् । अशास्त्रेण वेद-विरुद्धेन स्वागमेन विहितं घोरं पर-पीडकं तपो ये तप्यन्ते कुर्वन्ति काम-रागो विषय-स्पृहा बलं च मया शक्यम् एतत् सिद्धैः कर्तुम् इति दुराग्रहः शरीरस्थम् आरम्भकतया शरीरं स्थितं भूत-ग्रामं पृथिव्यादि-सङ्घातं कर्षयन्तो वृथोपवासादिना कृशं कुर्वन्तो ऽन्तः-शरीर-स्थं शरीर-मध्य-गतान्तर्यामिणं मां चावज्ञया कर्षयन्तो ऽचेतसः शास्त्रीय-विवेक-संविद्-विहीनास् तान् वेद-बाह्यान् आसुर-निश्चयान् निश्चयेनासुरान् विद्धीति पूर्वोक्तानां तेषां दुर्गतिर् अवर्जनीयैवेति भावः । स्वभावजया श्रद्धया यक्ष-रक्षः-प्रेतादीन् यजतां बलवद्-वैदिक-सद्-अनुग्रहे सति
शास्त्रीय-श्रद्धयासुर-भाव-विनाशः स्याद् एव । देवान् यजतां तु वस्तुतः सात्त्विकत्वात् तद्-अनुग्रहे सति शास्त्रीया सुलभेति स्थितम् ॥५-६॥


१७।७

आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥७॥

श्रीधरः : आहारादि-भेदाद् अपि सात्त्विकादि-भेदं दर्शयितुम् आह आहारस् त्व् इत्य् आदि-त्रयोदशभिः । सर्वस्यापि जनस्य य आहारो ऽन्नादि स तु यथायथं त्रिविधः प्रियो भवति । तथा यज्ञ-तपो-दानानि च त्रिविधानि भवन्ति तेषां वक्ष्यमानं भेदम् इमं शृणु । एतच् च राजस-तामसाहार-यज्ञादि-परित्यागेन सात्त्विकाहार-यज्ञादि-सेवया सत्त्व-वृद्धौ यत्न-कर्तव्य इत्य् एतद् अर्थं कथ्यते ॥७॥

मधुसूदनः : ये सात्त्विकास् ते देवा ये तु राजसास् तामसाश् च ते विपर्यस्तत्वाद् असुरा इति स्थिते सात्त्विकानाम् आदानाय राजस-तामसानां हानाय चाहार-यज्ञ-तपो-दानानां त्रैविध्यम् आह आहार इति । न केवलं श्रद्धैव त्रिविधा । आहारो ऽपि सर्वस्य प्रियस् त्रिविध एव भवति सर्वस्य त्रिगुणात्मकत्वेन चतुर्थ्यां विधाया असम्भवात् । यथा दृष्टार्थ आहारस् त्रिविधस् तथा यज्ञ-तपो-दानान्य-दृष्टार्थान्य् अपि त्रिविधानि । तत्र यज्ञं व्याख्यास्यामो द्रव्य-देवता-त्यागः इति कल्प-कारैर् देवतोद्देशेन द्रव्य-त्यागो यज्ञ इति निरुक्तः । स च यजतिना जुहोतिना च चोदितत्वेन यागो होमश् चेति द्विविध उत्तिष्ठद्-धोमा वषट्-कार-प्रयोगान्ता याज्यापुरो ऽनुवाक्यावन्तो यजतय उपविष्ट-होमः स्वाहा-कार-प्रयोगान्ता याज्यापुरो ऽनुवाक्यारहिता जुहोतय इति कल्प-कारैर् व्याख्यातो यज्ञ-शब्देनोक्तः
। तपः कायेन्द्रिय-शोषणं कृच्छ्र-चान्द्रायणादि । दानं परस्वत्वापत्ति-फलकः स्व-स्वत्व-त्यागः । तेषाम् आहार-यज्ञ-तपो-दानानां सात्त्विक-राजस-तामस-भेदं मया व्याख्यायमानम् इमं शृणु ॥७॥

विश्वनाथः : तद् एवं ये शास्त्र-विधि-त्यागिनः काम-चारेण वर्तन्ते पूर्वाध्यायोक्ता ये चास्मिन्न् अध्याये आसुर-शास्त्र-विधिना यक्ष-रक्षः-प्रेतादीन् यजन्ते, ये चाशास्त्रीयं तप-आदिकं कुर्वन्ति ते सर्वे आसुर-सर्ग-मध्य-गता एव भवन्तीति प्रकरणार्थः । तथाप्य् आहारादीनां वक्ष्यमाणानां त्रैविध्यात् तद्वतां यथा-योगं दैवम् आसुरं च सर्गं स्वयम् एव विविच्य जानीत्य् आह आहारस् त्व् इत्य् आदि त्रयोदशभिः ॥७॥

बलदेवः : एवं स्थिते तद्-आहारादीनाम् अपि त्रैविध्यम् आह आहारस् त्व् इति । श्रद्धावत् सर्वस्य प्रियो ऽन्नादिर् आहारो ऽपि त्रिविधो भवति । एवं यज्ञादीनि च त्रिविधानि । तेषाम् आहारादीनां चतुर्णाम् ॥७॥


१७।८

आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः ॥८॥

श्रीधरः : तत्राहार-त्रैविध्यम् आह आयुर् इति त्रिभिः । आयुर् जीवितम् । सत्त्वम् उत्साहः । बलं शक्तिः । आरोग्यं रोग-राहित्यम् । सुखं चित्त-प्रसादः । प्रीतिर् अभिरुचिः । आयुर्-आदीनां विवर्धनाः विशेषेण वृद्धि-कराः । ते च रस्या रसवन्तः । स्निग्धाः स्नेह-युक्ताः । स्थिरा देहे सारांशेन चिर-काल्यावस्थायिनः । हृद्या दृष्टि-मात्राद् एव हृदयङ्गमाः । एवम्भूता आहारा भक्ष्य-भोज्यादयः सात्त्विक-प्रियाः ॥८॥

मधुसूदनः : आहार-यज्ञ-तपो-दानानां भेदः पञ्चदशभिर् व्याख्यायते । तत्राहार-भेद आयुर् इति त्रिभिः । आयुश् चिरञ्जीवनं सत्त्वं चित्त-धैर्यं बलवति दुःखे ऽपि निर्विकारत्वापादकम्, बलं शरीर-सामर्थ्यं स्वोचिते कार्ये श्रमाभाव-प्रयोजकम् । आरोग्यं व्याध्य्-अभावः । सुखं भोजनानन्तराह्लादस् तृप्तिः । प्रीतिर् भोजन-काले ऽनभिरुचि-राहित्यम् इच्छौत्कट्यं तेषां विवर्धना । विशेषेण वृद्धि-हेतवः । रस्या आस्वाद्या मधुर-रस-प्रधानाः । स्निग्धाः सहजेनागन्तुकेन वा स्नेहेन युक्ताः । स्थिरा रसाद्य्-अंशेन शरीरे चिर-काल-स्थायिनः । हृद्या हृदयङ्गमा दुर्गन्धाशुचित्वादि-दृष्टादृष्ट-दोष-शून्याः । आहाराश् चर्व्य-चोष्य-लेह्य-पेयाः सात्त्विकानां प्रियाः । एतैर् लिङ्गैः सात्त्विक ज्ञेयाः सात्त्विकत्वम्
अभिलषद्भिश् चैत आदेया इत्य् अर्थः ॥८॥

विश्वनाथः : सात्त्विकाहारवताम् आयुर् वर्धत इति प्रसिद्धः । सत्त्वम् उत्साहः । रस्या इति केवल गुडादीनां रस्यत्वे ऽपि रूक्षत्वम् अत आह स्निग्धा इति । दुग्ध-फेनादीनां रस्यत्व-स्निग्धत्वे ऽपि अस्थैर्यम् अत आह स्थिरा इति । पनस-फलादीनां रस्यत्वे स्निग्धत्व-स्थिरत्वे ऽपि हृद्-उदराद्य्-अहितत्वम् अत आह हृद्या हृद्-उदर-हिता इति । तेन स-गव्य-शर्करा-शालि-गोधूमान्नादय एव रस्यत्वादि-चतुष्टय-गुणवत्त्वात् सात्त्विक-लोक-प्रिया ज्ञेयास् तेषां प्रियत्वे सत्य् एव सात्त्विकत्वं च ज्ञेयम् । किं च गुण-चतुष्टयवत्त्वे ऽपि अपावित्र्ये सति सात्त्विक-प्रियतादर्शनाद् अत्र पवित्रा इत्य् अपि विशेषणं देयम् । तामस-प्रियेष्व् अमेध्य-पद-दर्शनात् ॥८॥

बलदेवः : तत्र सात्त्विकाहारम् आह आयुरि इति । आयुश् चिर-जीवितम् । सत्त्वम् चित्त-धैर्यम् । बलं देह-सामर्थ्यं । सुखं तृप्तिः । प्रीतिर् अभिरुचिः । एतासां विवर्धनाः रम्यत्वादि-गुणवन्तः स-गव्य-शर्कराः शालि-गोधूमादयः सात्त्विकानां प्रियास् तैर् उपादेया इत्य् अर्थः । रम्या इति नीरसानां चणकादीनां । स्निग्धा इति रुक्षाणां गुडादीनां । स्थिरा इत्य् अस्थिराणां दुग्ध-फेनादीनां । हृद्येत्य् अहृद्यानां पनस-फलादीनां च व्यावृत्तिः । क्षुद्-उदराद्य्-अहितत्वम् अहृद्यत्वम् । अत्र पवित्रा इति ज्ञेयम् । तामस-प्रियेष्व् अमेध्य-पद-दर्शनात् ॥८॥


१७।९

कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः ।
आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः ॥९॥

श्रीधरः : तथा कट्व् इति । अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि सम्बध्यते । तेनाति-कटुर् निम्बादिः । अत्यम्लो ऽतिलवणो ऽत्युष्णश् च प्रसिद्धः । अति-तीक्ष्णो मरिचादिः । अतिरूक्षः कङ्गु-कोद्रवादिः । अतिविदाही सऋषपादिः । अतिकट्व्-आदय आहारा राजसस्येष्टाः प्रियाः । दुःखं तात्-कालिकं हृदय-सन्तापादि । शोकः पश्चाद्-भावि-दौर्मनस्यम् । आमयो रोगः । एतान् प्रददाति प्रयच्छन्तीति तथा ॥९॥

मधुसूदनः : अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि योजनीयः । कटुस् तिक्तः । कटु-रसस्य तीक्ष्ण-शब्देनोक्तत्वात् । तत्रातिकटुर् निम्बादिः । अत्यम्लातिलवणात्युष्णाः प्रसिद्धः । अति-तीक्ष्णो मरिचादिः । अतिरूक्षः स्नेह-शून्यः कङ्गु-कोद्रवादिः । अतिविदाही सन्तापको राजिकादिः । दुःखं तात्-कालिकीं पीडाम् । शोकं पश्चाद्-भावि-दौर्मनस्यम् । आमयं रोगं च धातु-वैषम्य-द्वारा प्रददतीति तथा-विधा आहारा राजसस्येष्टाः । एतैर् लिङ्गैः राजसा ज्ञेयाः सात्त्विकैश् चैत उपेक्षणीया इत्य् अर्थः ॥९॥

विश्वनाथः : अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि सम्बध्यते । अति-कटुर् निम्बादिः । अत्य्-अम्लवणोष्णः प्रसिद्ध एव । अतितीक्ष्णो मूलिका-विषादिर् मरीच्य्-आद्या वा । अतिरूक्षो हिङ्गु-कोद्रवादिः । विदाही दाहकरो भृष्ट-चणकादिः । एते दुःखादि-प्रदाः । तत्र दुःखं तात्कालिको रसनाकण्ठादि-सन्तापः । शोकः पश्चाद्-भावि-दौर्मनस्यम् । आमयो रोगः ॥९॥

बलदेवः : राजसाहारम् आह कट्व् इति । सप्तस्व् अति-शब्दो योज्यः । अति-कटुर् इति तिक्तो निम्बादिर् न च मरिचादिस् तस्य तीक्ष्ण-शब्देनोक्तेर् अत्यम्लो ऽतिलवणो ऽत्युष्णश् च । ख्यातो ऽतितीक्ष्णो मरीच्य्-आदिर् अतिरुक्षः कङ्गुकादिर् अतिदाही राजिकादिः । एते राजसस्येष्टाः, सात्त्विकानां तु हेयाः । दुःखं तात्कालिकं जिह्वा कण्ठादि-शोषणजम् । शोको दौर्मनस्यं पाश्चात्यम् आमयो रुधिर-कोपः ।


१७।१०

यात-यामं गत-रसं पूति पर्युषितं च यत् ।
उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम् ॥१०॥

श्रीधरः : तथा यात-यामम् इति । यातो यामः प्रहरो यस्य पक्वस्यौदनादेस् तद् यात-यामम् । शैत्यावस्थां प्राप्तम् इत्य् अर्थः । गतरसं निष्पीडित-सारम् । पूति दुर्गन्धम् । पर्यूषितं दिनान्तर-पक्वम् । उच्छिष्टम् अन्य-भुक्तावशिष्टम् । अमेध्यम् अभक्ष्यं कलञ्ज्य्-आदि । एवम्भूतं भोजनं तामसस्य प्रियम् ॥१०॥

मधुसूदनः : यातयामम् अर्ध-पक्वं निर्वीर्यस्य गत-रस-पदेनोक्तत्वाद् इति भाष्यम् । गत-रसं विरसतां प्राप्तं शुष्कम् । यात-यामं पक्वं सत् प्रहरादि-व्यवहित-मोदनादि शैत्यं प्राप्तम् । गत-रसं उद्धृत-सारम् मथित-दुग्धादीत्य् अन्ये । पूति दुर्गन्धम् । पर्यूषितं पक्वं सद् रात्र्य्-अन्तरितम् । चेन तत्-कालोन्माद-करं धत्तूरादि समुच्चीयते । यद् अतिप्रसिद्धं दुष्टत्वेनोच्छिष्टम् भुक्तावशिष्टम् । अमेध्यम् अयज्ञार्हम् अशुचि मांसादि । अपि चेति वैद्यक-शास्त्रोक्तम् अपथ्यं समुच्चीयते । एतादृशं यद् भोजनं भोज्यं तत् तामसस्य प्रियं सात्त्विकैर् अतिदूराद् उपेक्षणीयम् इत्य् अर्थः । एतादृश-भोजनस्य दुःख-शोकामय-प्रदत्वम् अतिप्रसिद्धम् इति कण्ठतो नोक्तम् ।

अत्र च क्रमेण रस्यादि-वर्गः सात्त्विकः । कट्व्-आदि-वर्गो राजसः । यात-यामादि-वर्गस् तामस इत्य् उक्तम् आहार-वर्ग-त्रयम् । तत्र सात्त्विक-वर्ग-विरोधित्वम् इतर-वर्ग-द्वये द्रष्टव्यम् । तथा ह्य् अतिकटुत्वादिकं रस्यत्व-विरोधित्वात् स्थिरत्व-विरोधिनी । अत्युष्णत्वादिकं हृद्यत्व-विरोधि । आमय-प्रदत्वम् आयुः-सत्त्व-बलारोग्य-विरोधि । दुःख-शोकअ-प्रदत्वं सुख-प्रीति-विरोधि । एवं सात्त्विक-वर्ग-विरोधित्वं राजस-वर्गे स्पष्टम् । तथा तामस-वर्गे ऽपि गत-रसत्व-यातयामत्व-पर्युषितत्वानि यथा-सम्भवं रस्यत्व-स्निघ्धत्व-स्थिरत्व-विरोधीनि । पूतित्वोच्छिष्टत्वामेध्यत्वानि हृद्यत्व-विरोधीनि । आयुः-सत्त्वादि-विरोधित्वं तु स्पष्टम् एव । राजस-वर्गे दृष्ट-विरोध-मात्रं तामस-वर्गे तु दृष्टादृष्ट-विरोध इत्य् अतिशयः ॥१०॥

विश्वनाथः : यातो यामः प्रहरो यस्य पक्वस्यौदनादेस् तद् यात-यामं शैत्यावस्थां प्राप्तम् इत्य् अर्थः । गत-रसं गत-स्वाभाविक-रसं निष्पीडित-रसम् पक्वाम्रत्व-गष्ट्य्-आदिकं वा । पूति दुर्गन्धम् । पर्यूषितं दिनान्तर-पक्वम् । उच्छिष्टम् गुर्वादिभ्यो ऽन्येषां भुक्तावशिष्टम् । अमेध्यम् अभक्ष्यं कलज्ञादि । ततश् चैवं पर्यालोच्य स्व-हितैषिभिः सात्त्विक आहारः सेव्य इति भावः । वैष्णवैस् तु सो ऽपि भगवद्-अनिवेदितस् त्याज्य एव । भगवन्-निवेदितम् अन्नादिकं तु निर्गुण-भक्त-लोक-प्रियम् इति श्री-भागवताज् ज्ञेयम् ॥१०॥

बलदेवः : तामसाहारम् आह यातेति । यातो ऽतिक्रान्तो यामः प्रहरो यस्य राद्धस्यान्नादेस् तद् यातयामम् । गत-रसं वैरस्यवत् । पूतिः दुर्गन्धम् । पर्युषितं पूर्वे ऽह्नि राद्धम् उच्छिष्टं गुरोर् अन्येषां भुक्तावशिष्टम् अमेध्यम् अपवित्रं कलञ्जादि । ईदृग्-भोजनं तामसानां प्रियं सात्त्विकानां त्व् अतिदूरतो हेयम् ॥१०॥


१७।११

अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते ।
यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः ॥११॥

श्रीधरः : यज्ञो ऽपि त्रिविधः । तत्र सात्त्विकं यज्ञम् आह अफलाकाङ्क्षिभिर् इति । फलाकाङ्क्षा-रहितैः पुरुषैर् विधिनादिष्ट आवश्यकतया विहितो यो यज्ञ इज्यते ऽनुष्ठीयते स सात्त्विको यज्ञः । कथम् इज्यते । यष्टव्यम् एवेति । यज्ञानुष्ठानम् एव कार्यम् । नान्यत् फलं साधनीयम् इत्य् एवं मनः समाधायैकाग्रं कृत्वेत्य् अर्थः ॥११॥

मधुसूदनः : इदानीं क्रम-प्राप्तं त्रिविधं यज्ञम् आह अफलेति त्रिभिः । अग्निहोत्र-दर्शपूर्णमास-चातुर्मास्य-पशु-बन्ध-ज्योतिष्टोमादिर् यज्ञो द्विविधः काम्यो नित्यश् च । फल-संयोगेन चोदितः काम्यः सर्वाङ्गोपसंहारेणैव मुख्य-कल्पेनानुष्ठेयः । फल-संयोगं विना जीवनादि-निमित्त-संयोगेन चोदितः सर्वाङ्गोपसंहारासम्भवे प्रतिनिध्य्-आद्य्-उपादानेनामुख्य-कल्पेनाप्य् अनुष्ठेयो नित्यः । तत्र सर्वाङ्गोपसंहारासम्भवे ऽपि प्रतिनिधिम् उपादायावश्यं यष्टव्यम् एव प्रत्यवाय-परिहारायायावश्यक-जीवनादि-निमित्तेन चोदितत्वाद् इति मनः समाधाय निश्चित्याफलाकाङ्क्षिभिर् अन्तः-करण-शुद्ध्य्-अर्थितया काम्य-प्रयोग-विमुखैर् विधि-दृष्टो यथा-शास्त्रं निश्चितो यो यज्ञ इज्यते ऽनुष्ठीयते स यथा-शास्त्रम् अन्तः-करण-शुद्ध्य्-अर्थम्
अनुष्ठीयमानो नित्य-प्रयोगः सात्त्विको ज्ञेयः ॥११॥

विश्वनाथः : अथ यज्ञस्य त्रैविध्यम् आह अफलाकाङ्क्षिभिर् इति । फलाकाङ्क्षा-राहित्ये कथं यज्ञे प्रवृत्तिर् अत आह – यष्टव्यम् एवेति । स्वानुष्ठेयत्वेन शास्त्रोक्तत्वाद् अवश्य-कर्तव्यम् एतद् इति मनः समाधाय ॥११॥

बलदेवः : अथ यज्ञ-त्रैविध्यम् आह अफलेति त्रिभिः । अफलाकाङ्क्षिभिः फलेच्छा-शून्यैर् यो यज्ञ इज्यते क्रियते विधि-दृष्टो विधि-वाक्याज् जातः स सात्त्विकः । ननु फलेच्छां विना तत्र कथं प्रवृत्तिस् तत्राह यष्टव्यम् एवेति । मां प्रति वेदेनोक्तत्वात् तत् यजनम् एव कार्यम्, न तु तेन फलं साध्यम् इति मनः समाधायैकाग्रं कृत्वेत्य् अर्थः ॥११॥


१७।१२

अभिसन्धाय तु फलं दम्भार्थम् अपि चैव यत् ।
इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥

श्रीधरः : राजसं यज्ञम् आह अभिसन्धायेति । फलम् अभिसन्धायोद्दिश्य तु यद् इज्यते यज्ञः क्रियते । दम्भार्थं च स्व-महत्त्व-ख्यापनार्थं च । तं यज्ञं राजसं विद्धि ॥१२॥

मधुसूदनः : फलं काम्यं स्वर्गादि अभिसन्धायोद्दिश्य न त्व् अन्तःकरण-शुद्धिः । तुर् नित्य-प्रयोग-वैलक्षण्य-सूचनार्थः । दम्भो लोके धार्मिकत्व-ख्यापनं तद्-अर्थम् । अपि चैवेति विकल्प-समुच्चयाभ्यां त्रैविध्य-सूचनार्थम् । पारलौकिकं फलम् अभिसन्धायैवादम्भार्थत्वे ऽपि पारलौकिक-फलानभिसन्धाने ऽपि दम्भार्थम् एवेति विकल्पेन द्वौ पक्षौ । पारलौकिक-फलार्थम् अप्य् ऐहलौकिक-दम्भार्थम् अपीति समुच्चयेनैकः पक्षः । एवं दृष्टादृष्ट-फलाभिसन्धिनान्तः-करण-शुद्धिम् अनुद्दिश्य यद् इज्यते यथा-शास्त्रं यो यज्ञो ऽनुष्ठीयते तं यज्ञं राजसं विद्धि हानाय । हे भरत-श्रेष्ठेति योग्यत्व-सूचनम् ॥१२॥

विश्वनाथः : नोथिन्ग् ॥१२॥

बलदेवः : फलं स्वर्गादिकम् अभिसन्धाय यद् इज्यते दम्भार्ह्तं वा स्वमहिम-ख्यापनाय, तं यज्ञं राजसं विद्धि ॥१२॥


१७।१३

विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम् ।
श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ॥१३॥

श्रीधरः : तामसं यज्ञम् आह विधि-हीनम् इति । विधि-हीनं शास्त्रोक्त-विधि-शून्यम् असृष्टान्नं ब्राह्मणादिभ्यो न सृष्टं न निष्पादितम् अन्नं यस्मिंस् तम् । मन्त्रैर् हीनं । यथोक्त-दक्षिणा-रहितं श्रद्धा-शून्यं च यज्ञं तामसं परिचक्षते कथयन्ति शिष्टाः ॥१३॥

मधुसूदनः : यथा-शास्त्र-बोधित-विपरीतम् अन्न-दान-हीनं स्वरतो वर्णतश् च मन्त्र-हीनं यथोक्त-दक्षिणा-हीनम् ऋत्विग्-द्वेषादिना श्रद्धा-रहितं तामसं यज्ञं परिचक्षते शिष्टाः । विधि-हीनत्वाद्य्-एकैक-विशेषणः पञ्च-विधः सर्व-विशेषण-समुच्चयेन चैक-विध इति षट् । द्वि-त्रि-चतुर्-विशेषण-समुच्चयेन च बहवो भेदास् तामस-यज्ञस्य ज्ञेयाः । राजसे यज्ञे ऽन्तः-करण-शुद्ध्य्-अभावे ऽपि फलोत्पादकम् अपूर्वम् अस्ति यथा-शास्त्रम् अनुष्ठानात् । तामसे त्व् अयथा-शास्त्रानुष्ठानान् न किम् अप्य् अपूर्वम् अस्तीत्य् अतिशयः ॥१३॥

विश्वनाथः : असृष्टान्नम् अन्न-दान-रहितम् ॥१३॥

बलदेवः : विधीति असृष्टान्नम् अन्न-दान-रहितं मन्त्र-हीनं स्वरतो वर्णतश् च हीनेन मन्त्रणोपेतं श्रद्धा-विरहितं ऋत्विग्-विद्वेषात् ॥१३॥

देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥१४॥

श्रीधरः : तपसः सात्त्विकादि-भेदं दर्शयितुं प्रथमं तावत् शारीरादि-भेदेन तस्य त्रैविध्यम् आह देवेत्य् आदि त्रिभिः । तत्र शारीरम् आह देवेति । प्राज्ञा गुरु-व्यक्तिरिक्ता अन्ये ऽपि तत्त्व-विदः । देव-ब्राह्मणादि-पूजनं शौचादिकं च शारीरं शरीर-निर्वर्त्यं तप उच्यते ॥१४॥
मधुसूदनः : क्रम-प्राप्तस्य तपसः सात्त्विकादि-भेदं कथयितुं शारीर-वाचिक-मानस-भेदेन तस्य त्रविध्यम् आह त्रिभिः देवेति । देवा ब्रह्म-विष्णु-शिव-सूर्याग्नि-दुर्गादयः । द्विजा द्विजोत्तमा ब्राह्मणाः । गुरवः पितृ-मात्र्-आचार्यादयः । प्राज्ञाः पण्डिताः विदित-वेद-तद्-उपकरणार्थाः । तेषां पूजनं प्रणाम-शुश्रूषादि यथा-शास्त्रं । शौचं मृज्-जलाभ्यां शरीर-शोधनम् । आर्जवम् अकौटिल्यं भाव-संशुद्धि-शब्देन मानसे तपसि वक्ष्यति । शारीरं त्व् आर्जवं विहित-प्रतिषिद्धयोर् एक-रूप-प्रवृत्ति-निवृत्ति-शालित्वम् । ब्रह्मचर्यं निषिद्ध-मैथुन-निवृत्तिः । अहिंसा-शास्त्रीय-प्राणि-पीडनाभावः । च-काराद् अस्तेयापरिग्रहाव् अपि । शारीरं शरीर-प्रधानैः कर्त्रादिभिः साध्यं न तु केवलेन शरीरेण
। पञ्चैते तस्य हेतव इति हि वक्ष्यति । इत्थं शारीरं तप उच्यते ॥१४॥
विश्वनाथः : तपसस् त्रैविध्यं वदन प्रथमं सात्त्विकस्य तपसस् त्रैविध्यम् आह देवेत्य् आदि त्रिभिः ॥१४॥

बलदेवः : क्रम-प्राप्तस्य तपसः सात्त्विकादि-भेदं वक्तुं तस्यादौ शारीरादि-भावेन त्रैविध्यम् आह देवेति त्रिभिः । देवा वसु-रुद्रादयो द्विजा ब्राह्मण-श्रेष्ठा गुरवो मातृ-पितृ-देशिकाः प्राज्ञा विदित-वेद-वेदाङ्गाः परे ऽत्र तेषां पूजनम् । शौचं द्विविधम् उक्तम् । आर्जवं विहित-निषिद्धयोर् ऐक्य-रूप्येण प्रवृत्ति-निवृत्तत्वम् । ब्रह्मचर्यं विहित-मैथुनं च । एतच् छारीरं शरीर-निर्वर्त्यं तपः ॥१४॥


१७।१५

अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते ॥१५॥

श्रीधरः : वाचिकं तप आह अनुद्वेगकरम् इति । उद्वेगं भयं न करोतीत्य् अनुद्वेगकरं वाक्यम् । सत्यं श्रोतुः प्रियम् । हितं च परिणामे सुख-करम् । स्वाध्यायाभ्यसनं वेदाभ्यासश् च वाङ्-मयं वाचा निर्वर्त्यं तपः ॥१५॥

मधुसूदनः : अनुद्वेग-करं न कस्यचिद् दुःख-करम्, सत्यं प्रमाण-मूलम् अबाधितार्थम् । प्रियं श्रोतुस् तत्-काल-श्रुति-सुखं हितं परिणामे सुख-करम् । च-कारो विशेषणानां समुच्छयार्थः । अनुद्वेग-करत्वादि-विशेषण-चतुष्टयेन विशिष्टं न त्व् एकेनापि विशेषणेन न्यूनम् । यद् वाक्यं यथा शान्तो भव वत्स स्वाध्यायं योगं चानुतिष्ठ तथा ते श्रेयो भविष्यतीत्य् आदि तद् वाङ्-मयं वाचिकं तपः शारीरवत् । स्वाध्यायाभ्यसनं च यथा-विधि वेदाभ्यासश् च वाङ्-मयं तप उच्यते । एव-कारः प्राग्-विशेषण-समुच्चयावधारणे व्याख्यातव्यः ॥१५॥

विश्वनाथः : अनुद्वेग-करं सम्बोध्य-भिन्नानाम् अप्य् उनुद्वेजकम् ॥१५॥

बलदेवः : अनुद्वेगकरम् उद्वेगं भयं कस्यापि यन् न करोति । सत्यं प्रमाणिकम् । श्रोतुः प्रियम् । परिणामे हितं च । एतद्-विशेषण-चतुष्टयवद्-वाक्यं तथा स्वाध्यायस्य वेदाभ्यसनं च वाङ्-मयं वाचा निर्वर्त्यं तपः ॥१५॥


१७।१६

मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः ।
भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥१६॥

श्रीधरः : मानसं तप आह मनः-प्रसाद इति । मनसः प्रसादः स्वच्छता । सौमत्वम् अक्रूरता । मौनं मुनेर् भावः । मननम् इत्य् अर्थः । आत्मनो मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भाव-संशुद्धिर् व्यवहारे माया-राहित्यम् । इत्य् एतन् मानसं तपः ॥१६॥

मधुसूदनः : मनसः प्रसादः स्वच्छता विषय-चिन्ता-व्याकुलत्व-राहित्यम् । सौम्यत्वं सौमस्यं सर्व-लोक-हितैषित्वं प्रतिषिद्धाचिन्तनं च । मौनं मुनि-भाव एकाग्रतयात्म-चिन्तनं निदिध्यासनाख्यं वाक्-संयम-हेतुर् मनः-संयमो मौनम् इति भाष्यम् । आत्म-विनिग्रह आत्मनो मनसो विशेषेण सर्व-वृत्ति-निग्रहो निरोध-समाधिर् असम्प्रज्ञातः । भावस्य हृदयस्य शुद्धिः काम-क्रोध-लोभादि-मल-निवृत्तिः । पुनर् अशुद्ध्य्-उत्पाद-राहित्येन सम्यक्त्वेन विशिष्टा सा भाव-शुद्धिः । परैः सह व्यवहार-काले माया-राहित्यं सेति भाष्यम् । इत्य् एतद् एवं-प्रकारं तपो मानसम् उच्यते ॥१६॥

विश्वनाथः : नोथिन्ग्।

बलदेवः : मनसः प्रसादः वैमल्यं विषय-स्मृत्य्-अवैयग्र्यम् । सौमत्वम् अक्रौर्यम् सर्व-सुखेच्छ्रुत्वम् । मौनम् आत्म- मननम् । आत्मनो मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भाव-संशुद्धिर् व्यवहारे निष्कपटता । इत्य् एतन् मानसा निर्वर्त्यं तपः ॥१६॥


१७।१७

श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥१७॥

श्रीधरः : तद् एवं शरीर-वाङ्-मनोभिर् निर्वर्त्यं त्रिविधं तपो दर्शितम् । तस्य त्रिविधस्यापि तपसः सात्त्विकादि-भेदेन त्रैविध्यम् आह श्रद्धयेत्यादि-त्रिभिः । तत् त्रिविधम् अपि तपः परया श्रेष्ठया श्रद्धया फलाकाङ्क्षा-शून्यैर् युक्तैर् एकाग्र-चित्तैर् नरैस् तप्तं सात्त्विकं कथयन्ति ॥१७॥

मधुसूदनः : शारीर-वाचिक-मानस-भेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादि-भेदेन त्रैविध्यम् इदानीं दर्शयति श्रद्धयेति त्रिभिः । तत्-पूर्वोक्तं त्रिविधं शारीरं वाचिकं मानसं च तपः श्रद्धयास्तिक्य-बुद्ध्या परया प्रकृष्टयाप्रामाण्य-शङ्काकलङ्क-शून्यया फलाभिसन्धि-शून्यैर् युक्तैः समाहितैः सिद्ध्य्-असिद्ध्योर् निर्विकारैर् नरैर् अधिकारिभिस् तप्तम् अनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः ॥१७॥

विश्वनाथः : त्रिविधम् उक्त-लक्षणं कायिक-वाचिक-मानसम् ॥१७॥

बलदेवः : उक्तस्य तपसः सात्त्विकादितया त्रैविध्यम् आह श्रद्धयेति-त्रिभिः । तद् उक्तं त्रिविधं तपः फलाकाङ्क्षा-शून्यैर् युक्तैर् एकाग्र-चित्तैर् नरैर् परया श्रद्धया तप्तम् अनुष्ठितं सात्त्विकम् ॥१७॥


१७।१८

सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥१८॥

श्रीधरः : राजसम् आह सत्-कारेति । सत्-कारः साधुर् अयम् इति तापसो ऽयम् इत्य् आदि वाक्-पूजा । मानः प्रतुत्थानाभिवादनादिर् दैहिकी पूजा । पूजार्थ-लाभादिः । एतद्-अर्थं दम्भेन च यत् तपः क्रियते । अतएव चलम् अनियतम् । अध्रुवं च क्षणिकम् । यद् एवम्भूतं तपस् तद् इह राजसं प्रोक्तम् ॥१८॥

मधुसूदनः : सत्कारः साधुर् अयं तपस्वी ब्राह्मण इत्य् एवम् अविवेकिभिः क्रियमाणा स्तुतिः । मानः प्रत्युत्थानाभिवादनादिः । पूजा पाद-प्रक्षालनार्चन-धन-दानादिः । तद्-अर्थं दम्भेनैव च केवलं धर्म-ध्वजित्वेनैव च न त्व् आस्तिक्य-बुद्ध्या यत् तपः क्रियते तद् राजसं प्रोक्तं शिष्टैः । इहास्मिन्न् एव लोके फलदं न पारलौकिकं चलम् अत्यल्प-काल-स्थायि-फलम् । अध्रुवं फल-जनकता-नियम-शून्यम् ॥१८॥

विश्वनाथः : सत्-कारः साधुर् अयम् इत्य् अन्यः कर्तव्या वाक्-पूजा । मानः प्रतुत्थानाभिवादनादिभिर् अन्यैः कर्तव्या दैहिकी पूजा । पूजा अन्यैर् दीयमानैर् धनादिभिर् भाविनी वा मानसी पूजा तद् अर्थम् । दम्भेन च यत् क्रियते तद् राजसं तपः । चलम् किञ्चित्-कालिकम् । अध्रुवम् अनियत-सत्कारादि-फलकम् ॥१८॥

बलदेवः : सत्-कारः साधुर् अयं तपस्वीति स्तुतिः । मानः प्रतुत्थानादिर् आदरः । पूजा चरण-प्रक्षालन-धन्-दानदिस् तद्-अर्थं यत् तपो दम्भेन च क्रियते तद् राजसं प्रोक्तम् । चलं किञ्चित्-कालिकम् । अध्रुवम् अनियत-सत्कारादि-फलकम् ॥१८॥


१७।१९

मूढ-ग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥१९॥

श्रीधरः : तामसं तप आह मूढेति । मूढ-ग्राहेणाविवेक-कृतेन दुराग्रहेणात्मना पीडया यत् तपः क्रियते । परस्योत्सादनार्थं वा अन्यस्य विनाशार्थम् अभिचार-रूपं तत् तामसम् उदाहृतं कथितम् ॥१९॥

मधुसूदनः : मूढ-ग्राहेणाविवेकातिशय-कृतेन दुराग्रहेणात्मनो देहेन्द्रिय-सङ्घातस्य पीडया यत् तपः क्रियते परस्योत्सादनार्थं वान्यस्य विनाशार्थम् अभिचार-रूपं वा तत् तामसम् उदाहृतं शिष्टैः ॥१९॥

विश्वनाथः : मूढ-ग्राहेण मौढ्य-ग्रहणेन । परस्योत्सादनार्थं विनाशार्थम् ॥१९॥

बलदेवः : मूढ-ग्राहेणाविवेकजेन दुराग्रहेणात्मना देहेन्द्रियादेः पीडया च यत् तपः परस्योत्सादनार्थं विनाशाय वा क्रियते तत् तामसम् ॥१९॥


१७।२०

दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे ।
देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥२०॥

श्रीधरः : पूर्वं प्रतिज्ञातम् एव दानस्य त्रैविध्यम् आह दातव्यम् इति । दातव्यम् एवेत्य् एवं निश्चयेन यद् दानं दीयते ऽनुपकारिणे प्रत्युपकार-समर्थाय । देशे कुरुक्षेत्रादौ काले ग्रहणादौ । पात्रे चेति देश-काल-साहचर्यात् सप्तमी प्रयुक्ता । पात्रे पात्र-भूताय तपः-श्रुतादि-सम्पन्नाय ब्राह्मणायेत्य् अर्थः । यद् वा पात्र इति तृज्-अन्तम् । रक्षकायेत्य् अर्थः । चतुर्थ्य् एवैषा । स हि सर्वस्माद् आपद्-गणाद् दातारं पातीति पाता । तस्मै यद् एवम्भूतं दानं तत् सात्त्विकम् ॥२०॥

मधुसूदनः : इदानीं क्रम-प्राप्तस्य दानस्य त्रैविध्यं दर्शयति दातव्यम् इति त्रिभिः । दातव्यम् एव शास्त्र-चोन्दना-वशाद् इत्य् एवं निश्चयेन न तु फलाभिसन्धिना यद् दानं तुला-पुरुषादि दीयते ऽनुपकारिणे प्रत्युपकाराजनकाय । देशे पुण्ये कुरुक्षेत्रादौ काले च पुण्ये सूर्योपरागादौ । पात्रे चेति चतुर्थ्य्-अर्थे सप्तमी । कीदृशायानुपकारिणे दीयते पात्राय च विद्या-तपो-युक्ताय । पात्र रक्षकायेति वा । विद्या-तपोभ्याम् आत्मनो दातुश् च पालन-क्षम एव प्रतिगृह्णीयाद् इति शास्त्रात् । तद् एवं-भूतं दानं सात्त्विकं स्मृतम् ॥२०॥

विश्वनाथः : दातव्यम् इत्य् एवं निश्चयेन । न तु फलाभिसन्धिना यद् दानम् ॥२०॥

बलदेवः : अथ दानस्य त्रैविध्यम् आह दातव्यम् इति । निश्चयेन यद् दानम् अनुपकारिणे पात्रे विद्या-तपोभ्यां दातू रक्षकाय ब्राह्मणाय यद् दीयते तद् दानं सात्त्विकम् । अनुपकारिणे प्रत्युपकारम् अनुद्दिश्येत्य् अर्थः । देशे तीर्थे काले च सङ्क्रान्त्य्-आदौ ॥२०॥


१७।२१

यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥२१॥

श्रीधरः : राजसं दानम् आह यद् इति । कालान्तरे ऽयं मां प्रत्युपकरिष्यतीत्य् एवम् अर्थं फलं वा स्वर्गादिकम् उद्दिश्य यत् पुनर् दानं दीयते परिक्लिष्टं चित्त-क्लेश-युक्तं यथा भवति एवम्भूतं तद् दानं राजसम् उदाहृतम् ॥२१॥

मधुसूदनः : प्रत्युपकारार्थं कालान्तरे माम् अयं उपकरिष्यतीत्य् एवम् दृष्टार्थं फलं वा स्वर्गादिकम् उद्दिश्य यत् पुनर् दानं सात्त्विक-विलक्षणं दीयते परिक्लिष्टं च कथम् एतावद् व्ययितम् इति पश्चात् ताप-युक्तं यथा भवत्य् एवं च यद् दीयते तद् दानं राजसम् उदाहृतम् ॥२१॥

विश्वनाथः : पर-क्लिष्टं कथम् एतावद् व्ययितम् इति पश्चात्-ताप-युक्तम् । यद् वा दित्सायां अभावे ऽपि गुर्व्-आद्याज्ञान्रोध-वशाद् एव दत्तम् । परिक्लिष्टम् अकल्याण-द्रव्य-कर्मकम् ॥२१॥

बलदेवः : यत् तु प्रतुपकारार्थं दृष्ट-फलार्थं फलं वा स्वर्गादिकम् अदृष्टम् उद्दिश्यानुसन्धाय दीयते तद् दानं राजसम् । परिक्लिष्टं कथम् एतावद् व्ययितव्यम् इति पश्चात्-ताप-युक्तं यथा स्यात् तथा गुरु-वाक्यानुरोधाद् वा यद् दीयते तद् राजसम् ॥२१॥


१७।२२

अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते ।
असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥२२॥

श्रीधरः : तामसं दानम् आह अदेशेति । अदेशे ऽशुचि-स्थाने । अकाले अशौचादि-समये । अपात्रेभ्यो विट-नट-नर्तकादिभ्यः । यद् दानं दीयते देश-काल-पात्र-सम्पत्ताव् अप्य् असत्-कृतं पाद-प्रक्षालनादि-सत्कार-शून्यम् । अवज्ञातं पात्र-तिरस्कार-युक्तम् । एवम्भूतं दानं तामसम् उदाहृतम् ॥२२॥

मधुसूदनः : अदेशे स्वतो दुर्जन-संसर्गाद् वा पाप-हेताव् अशुचि-स्थाने । अकाले पुण्य-हेतुत्वेनाप्रसिद्धे यस्मिन् कस्मिंश्चित् । अशौच-काले वा । अपात्रेभ्यश् च विद्या-तपो-रहितेभ्यो नट-विटादिभ्यो यद् दानं दीयते देश-काल-पात्र-सम्पत्ताव् अपि असत्-कृतं प्रिय-भाषण-पाद-प्रक्षालन-पूजादि-सत्कार-शून्यम् अवज्ञानं पात्र-परिभव-युक्तं च तद् दानं तामसम् उदाहृतम् ॥२२॥

विश्वनाथः : असत्कारो ऽवज्ञायाः फलम् ॥२२॥

बलदेवः : अदेशे ऽशुचि-स्थाने । अकाले ऽशुचि-समये । यद् अपात्रेभ्यो नटादिभ्यो दीयते, देशादि-सम्पत्ताव् अपि यद् असत्कृतं चरण-प्रक्षालनादि-सत्कार-शून्यम् अवज्ञातं तूङ्काराद्य्-अनादर-भाषणोपेतं च यद् दानं तत् तामसम् ॥२२॥


१७।२३-२४

ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः ।
ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥२३॥
तस्माद् ॐ इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम् ॥२४॥

श्रीधरः : नन्व् एवं विचार्यमाणे सर्वम् अपि यज्ञ-तपो-दानादि राजस-तामस-प्रायम् एवेति व्यर्थो यज्ञादि-प्रयास इत्य् आशङ्क्य तथाविधस्यापि सात्त्विकत्वोपपादनात् प्रकारं दर्शयितुम् आह ॐ इति । ॐ तत् सद् इति त्रिविधो ब्रह्मणः परमात्मनो निर्देशो नाम-व्यपदेशः स्मृतः शिष्टैः । तत्र तावद् ॐ इति ब्रह्म इत्य् आदि श्रुति-प्रसिद्धेर् ॐ इति ब्रह्मणो नाम । जगत्-कारणत्वेनाति-प्रसिद्धत्वाद् अविदुषां परोक्षत्वाच् च तच्-छब्दो ऽपि ब्रह्मणो नाम । परमार्थ-सत्त्व-साधुत्व-प्रशस्तत्वादिभिः सच्-छब्दो ऽपि ब्रह्मणो नाम । सद् एव सौम्येदम् अग्र आसीत् इत्य् आदि श्रुतेः । अयं त्रिविधो ऽपि नाम निर्देशेन ब्राह्मणाश् च वेदाश् च यज्ञाश् पुरा सृष्ट्य्-आदौ विहिता विधात्रा निर्मिताः । सगुणी-कृता इति वा । यथा यस्यायं त्रिविधो निर्देशस् तेन परमात्मना ब्राह्मणादयः
पवित्रतमाः सृष्टाः । तस्मात् तस्यायं त्रिविधो निर्देशो ऽतिप्रशस्त इत्य् अर्थः ॥२३॥

इदानीं प्रत्येकम् ओङ्कारादीनां प्राशस्त्यं दर्शयिष्यन्न् ओङ्कारस्य तद् एवाह तस्माद् इति । यस्माद् एवं ब्रह्मणो निर्देशः प्रशस्तस् तस्माद् ॐ इत्य् उदाहृत्य उच्चार्य कृता वेद-वादिनां यज्ञाद्याः शास्त्रोक्ताः क्रियाः सततं सर्वदा अङ्ग-वैकल्ये ऽपि प्रकर्षेण वर्तन्ते । सगुणा भवन्तीत्य् अर्थः ॥२४॥

मधुसूदनः : तद् एवम् आहार-यज्ञ-तपो-दानानां त्रैविध्य-कथनेन सात्त्विकानि तान्य् आदेयानि राजस-तामसानि तु परिहर्तव्यानीत्य् उक्तम् । तत्राहारस्य दृष्टार्थत्वेन नास्त्य् अङ्ग-वैगुण्येन फलाभाव-शङ्का । यज्ञ-तपो-दानानां त्व् अदृष्टार्थानाम् अङ्ग-वैगुण्याद् अपूर्वानुत्पत्तौ फलाभावः स्याद् इति सात्त्विकानी᳡अम् अपि तेषाम् आनर्थक्यं प्राप्तं प्रमाद-बहुलत्वाद् अनुष्ठातॄणाम् अतस् तद्-वैगुण्य-परिहारार्य ॐ तत् सद् इति भगवन्-नामोच्चारण-रूपं सामान्य-प्रायश्चित्तं परम-कारुणिकतयोपदिशति भगवान् ॐ इति । ॐ तत् सद् इत्य् एवं-रूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यते ऽनेनेति निर्देशः प्रतिपादक-शब्दो नामेति यावत् । त्रिविधस् तिस्रो विधा अवयवा यस्य स त्रिविधः स्मृतो वेदान्त-विद्भिः । एक-वचनात् त्र्य्-अवयवम् एकं नाम
प्रणववत् । यस्मात् पूर्वैर् महर्षिभिर् अयं ब्रह्मणो निर्देशः स्मृतस् तस्माद् इदानीन्तनैर् अपि स्मर्तव्य इति विधिर् अत्र कल्प्यते । वषट्-कर्तुः प्रथम-भक्ष इत्य् आदिष्व् इव वचनानि त्व् अपूर्वत्वाद् इति न्यायात् । यज्ञ-दान-तपः-क्रिया-संयोगाच् चास्य तद् अवैगुण्यम् एव फलं ##ष्टाश्व-दग्ध-रथ-वत्-परस्पराकाङ्क्षया कल्प्यते ।

प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥

इति स्मृतेस् तथैव शिष्टाचाराच् च । ब्रह्मणो निर्देशः स्तूयते कर्म-वैगुण्य-परिहार-सामर्थ्य-कथनाय । ब्राह्मणा इति त्रैवर्णिकोपलक्षणम् । ब्राह्मणाद्याः कर्तारो वेदाः करणानि यज्ञाः कर्माणि तेन ब्रह्मणो निर्देशेन करण-भूतेन पुरा विहिताः प्रजापतिना । तस्माद् यज्ञादि-सृष्टि-हेतुत्वेन तद्-वैगुण्य-परिहार-समर्थो महा-प्रभावो ऽयं निर्देश इत्य् अर्थः ॥२३॥

इदानीम् अ-कार-उ-कार-म-कार-व्याख्यानेन तत्-समुदायोङ्कार-व्याख्यानवद् ओङ्कार-तच्-छब्द-सच्-छब्द-व्याख्यानेन तत्-समुदाय-रूपं ब्रह्मणो निर्देशं स्तुत्य्-अतिशयाय व्याख्यातुम् आरभते चतुर्भिः । तत्र प्रथमम् ओङ्कारं व्याचष्टे तस्माद् इति । यस्माद् ॐ इति ब्रह्म इत्य् आदिषु श्रुतिष्व् ॐ इति ब्रह्मणो नाम प्रसिद्धं तस्माद् ॐ इत्य् उदाहृत्योङ्कारोच्चारणानन्तरं विधानोक्ता विधि-शास्त्र-बोधिता ब्रह्म-वादिनां वेद-वादिनां यज्ञ-दान-तपः-क्रियाः सततं प्रवर्तन्ते प्रकृष्टतया वैगुण्य-राहित्येन वर्तन्ते । यस्यैकावयवोच्चारणाद् अप्य् अवैगुण्यं किं पुनस् तस्य सर्वस्योच्चारणाद् इति स्तुत्य्-अतिशयः ॥२४॥

विश्वनाथः : तद् एवं तपो-यज्ञादीनां त्रैविध्यं सामान्यतो मनुष्य-मात्रम् अधिकृत्योक्तम् । तत्र ये सात्त्विकेष्व् अपि मध्ये ब्रह्म-वादिनस् तेषां तु ब्रह्म-निर्देश-पूर्वका एव यज्ञादयो भवन्तीत्य् आह ॐ तत् सद् इत्य् एवं ब्रह्मणो निर्देशो नाम्ना व्यपदेशः स्मृतः । शिष्टैर् देशितः । तत्र ॐ इति सर्व-श्रुतिषु प्रसिद्धम् एव ब्रह्मणो नाम । जगत्-कारणत्वेनातिप्रसिद्धेर् अतन्-निरसनेन च प्रसिद्धेस् तद् इति च । सद् एव सौम्येदम् अग्र आसीत् इति श्रुतेः सद् इति च । यस्मात् ॐ तत् सत् शब्द-वाच्येन ब्रह्मणैव ब्राह्मणा वेदा यज्ञाश् च विहिताः कृतास् तस्मात् ॐ इति ब्रह्मणो नामोदाहृत्योच्चार्य वर्तमानानां ब्रह्म-वादिनां यज्ञादयः प्रवर्तन्ते ॥२३-२४॥

बलदेवः : तद् एवं तपो-यज्ञ-तपो-दानानां त्रैविध्य-कथनेन सात्त्विकानां तेषाम् उपदेयत्वम्, राजसादीनां हेयत्वं च दर्शितम् । अथ सात्त्विकाधिकारिणां यज्ञादीनि विष्णु-नाम-पूर्वकाण्य् एवभवन्तीत्य् उच्यते ॐ इति । ॐ इत्य् आदिकस् त्रिविधो ब्रह्मणो विष्णोर् निर्देशो नाम-धेयं शिष्टैः स्मृतः । ॐ इत्य् एतद् ब्रह्मणो नेदिष्टं नाम इति श्रुतेः । ॐ इत्य् एकं नाम । तत् त्वम् असि इति श्रुतेः तद् इति द्वितीयं नाम । सद् एव सौम्य इति श्रुतेः सद् इति तृतीयं नाम । उपलक्षणम् इदम् । विष्ण्व्-आदि-नाम्नां तेन त्रिविधेन निर्देशेन ब्राह्मणा वेदा यज्ञाश् च पुरा चतुर्मुखेन विहिताः प्रकटितास् तस्मान् महा-प्रभावो ऽयं निर्देशस् तत्-पूर्वकाणां यज्ञादीनां नाङ्ग-वैगुण्यम् । तेन फल-वैगुण्यं च नेति ॥२३॥

यस्माद् एवं तस्माद् ॐ इति निर्देशम् उदाहृत्योच्चार्यानुष्ठिता ब्रह्म-वादिनां सात्त्विकानां त्रै-वर्णिकानां यज्ञाद्याः क्रियाः प्रवर्तन्ते । अङ्ग-वैकल्ये ऽपि साङ्गतां भजन्तीति ॥२४॥


१७।२५

तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः ।
दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥२५॥

श्रीधरः : द्वितीयं नाम प्रस्तौतीति तद् इति तद् इत्य् उदाहृत्य इति पूर्वस्यानुषङ्गः । तद् इत्य् उदाहृत्योच्चार्य शुद्ध-चित्तैर् मोक्ष-काङ्क्षिभिः पुरुषैः फलाभिसन्धिम् अकृत्वा यज्ञाद्याः क्रियाः क्रियन्ते । अतश् चित्त-शोधन-द्वारेण फल-सङ्कल्प-त्यजनेन मुमुक्षुत्व-सम्पादकत्वात् तच्-छब्द-निर्देशः प्रशस्त इत्य् अर्थः ॥२५॥

मधुसूदनः : द्वितीयं तच्-छब्दं व्याचष्टे तद् इति । तत्त्वम् असि इत्य् आदि-श्रुति-प्रसिद्धं तद् इति ब्रह्मणो नामोदाहृत्य फलम् अनभिसन्धायान्तः-करण-शुद्ध्य्-अर्थं यज्ञ-तपः-क्रिया दान-क्रियाश् च विविधा मोक्ष-काङ्क्षिभिः क्रियन्ते तस्माद् अतिप्रशस्तम् एतत् ॥२५॥

विश्वनाथः : तद् इत्य् उदाहृत्येति पूर्वस्यानुषङ्गः । अनभिसन्धाय फलाभिसन्धिम् अकृत्वा ॥२५॥

बलदेवः : तद् इति निर्देशम् उदाहृत्य फलम् अनभिसन्धाय यज्ञादी-क्रिया मोक्ष-काङ्क्षिभिस् तैः क्रियन्ते अनुष्ठीयन्ते । निष्कामतया मुमुक्षा-सम्पादनान् महा-प्रभावस् तच्-छब्दः ॥२६॥


१७।२६-२७

सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ॥२६॥
यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते ।
कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते ॥२७॥

श्रीधरः : सच्-छब्दस्य प्राशस्त्यम् आह सद्-भाव इति द्वाभ्याम् । सद्-भावे ऽस्तित्वे । देव-दत्तस्य पुत्रादिकम् अस्तीत्य् अस्मिन्न् अर्थे । साधु-भावे च साधुत्वे । देव-दत्तस्य पुत्रादि श्रेषी᳡ओहम् इत्य् अस्मिन्न् अर्थे । सद् इत्य् एतत् पदं प्रयुज्यते । प्रशस्ते माङ्गलिके विवाहादि-कर्मणि च सद् इदं कर्मेति सच्-छब्दो युज्यते प्रयुज्यते । सङ्गच्छत इति वा ॥२६॥

किं च यज्ञ इति । यज्ञादिषु च या स्थितिस् तात्पर्येनावस्थानं तद् अपि सद् इत्य् उच्यते । यस्य चेदं नाम-त्रयं स एव परमात्मा अर्थः फलं यस्य तत्-तद्-अर्थं कर्म-पूजोपहार-गृहाङ्गन-परिमार्जनोपलेपन-रङ्ग-माङ्गलिकादि-क्रिया तत्-सिद्धये यद् अन्यत् कर्म क्रियत उद्यान-शालि-क्षेत्र-धनार्जनादि-विषयं तत् कर्म तद्-अर्थीयम् । तच् चातिव्यवहितम् अपि सद् इत्य् एवाभिधीयते । यस्माद् एवम् अति-प्रशस्तम् एतन् नाम-त्रयं तस्माद् एतत् सर्व-कर्म-साद्गुण्यार्थं कीरयेद् इति तात्पर्यार्थः । अत्र चार्थवादानुपपत्त्या विधिः कल्प्यते । विधेयं स्तूयते वस्त्व् इति न्यायात् । अपरे तु प्रवर्तन्ते विधिनोक्ताः क्रियन्ते मोक्ष-काङ्क्षिभिः इत्य् आदि वर्तमानोपदेशः समिधा यजतीत्य् आदिवद् विधितया परिणमनीय इत्य् आहुः । तत् तु सद्-भावे साधु-भावे चेत्य् आदिषु प्राप्तार्थत्वान् न सङ्गच्छत इति
पूर्वोक्त-क्रमेण विधि-कल्पनैव ज्यायसी ॥२७॥

मधुसूदनः : तृतीयं सच्-चब्दं व्याचष्टे सद्-भाव इति द्वाभ्याम् । सद् एव सोम्येदम् अग्र आसीत् इत्य् आदि-श्रुति-प्रसिद्धं सद् इत्य् एतद् ब्रह्मणो नाम सद्-भावे ऽविद्यमानत्व-शङ्कायां विद्यमानत्वे साधु-भावे चासाधुत्व-शङ्कायां साधुत्वे चप्रयुज्यते शिष्टैः । तस्माद् वैगुण्य-परिहारेण यज्ञादेः साधुत्वं तत्-फलस्य च विद्यमानत्वं कर्तुं क्षमम् एतद् इत्य् अर्थः । तथा सद्-भाव-साधु-भावयोर् इव प्रशस्ते ऽप्रतिबन्धेनाशु-सुख-जनके माङ्गलिके कर्मणि विवाहादौ सच्-छब्दो हे पार्थ युज्यते प्रयुज्यते । तस्माद् अप्रतिबन्धेनाशु-फल-जनकत्वं वैगुण्य-परिहारेण यज्ञादेः समर्थम् एतन् नामेति प्रशस्ततरम् एतद् इत्य् अर्थः ॥२६॥

यज्ञे तपसि दाने च या स्थितिस् तत्-परतयावस्थितिर् निष्ठा सापि सद् इत्य् उच्यते विद्वद्भिः । कर्म चैव तद्-अर्थीयं तेषु यज्ञ-दान-तपो-रूपेष्व् अर्थेषु भवं तद्-अनुकूलम् एव च कर्म तद्-अर्थीयं भगवद्-अर्पण-बुद्ध्या क्रियमाणं कर्म वा तद्-अर्थीयं सद् इत्य् एवाभिधीयते । तस्मात् सद् इति नाम कर्म-वैगुण्यापनोदन-समर्थं प्रशस्ततरम् । यस्यैकैको ऽवयवो ऽप्य् एतादृशः किं वक्तव्यं तत्-समुदायस्य ॐ तत् सद् इति निर्देशस्य माहात्म्यम् इति सम्पिण्डितार्थः ॥२७॥

विश्वनाथः : ब्रह्म-वाचकः सच्-छब्दः प्रशस्तेष्व् अपि वर्तते । तस्मात् प्रशस्त-मात्रे कर्मणि प्राकृते ऽप्राकृते ऽपि सच्-छब्दः प्रयोक्तव्य इत्य् आशयेनाह सद्-भाव इति द्वाभ्याम् । सद्-भावे ब्रह्मत्वे साधु-भावे ब्रह्म-वादित्वे प्रयुज्यते सङ्गच्छत इत्य् अर्थः । यज्ञादौ स्थितिर् यज्ञादि-तात्पर्येणावस्थानम् इत्य् अर्थः । तद्-अर्थीयं कर्म ब्रह्मचर्योपयोगि यत् कर्म भगवन्-मन्दिर-मार्जनादिकम् तद् अपि ॥२६-२७॥

बलदेवः : सद् इति निर्देशः प्रशस्तेष्व् अर्थान्तरेषु वर्तते तस्मात् प्रशस्ते कर्म-मात्रे स प्रयोज्य इति भावेनाह सद्-भाव इति द्वाभ्याम् । सद्-भावे ब्रह्म-भावे साधु-भावे च ब्रह्म-ज्ञत्वे ऽभिधायकतया सच्-छब्दः प्रयुज्यते सद् एव सौम्य इत्य् आदौ । सतां प्रसङ्गात् इत्य् आदौ च । तथा प्रशस्ते उपनयन-विवाहादिके च माङ्गलिके कर्मणि सच्-छब्दो युज्यते सङ्गच्छते । यज्ञादौ या तेषां स्थितिस् तात्पर्येणावस्थितिस् तद् अपि सद् इत्य् उच्यते । यस्येदं नाम-त्रयं तद्-अर्थीयं कर्म च तन्-मन्दिर-निर्माण-तद्-विमार्जनादि सद् इत्य् अभिधीयते । अत्र त्रिविधो ऽयं निर्देशः स्मर्तव्य इति विधिः कल्प्यते । वषट्-कर्तुः प्रथमं भक्ष्यः इत्य् आदाव् इव वचनानि त्व् अपूर्वत्वाद् इति न्यायाद् यज्ञ-दानादि-संयोगाच् चास्य तद्-वैगुण्यम् एव फलम् ।

प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥ इति स्मरणाच् च ॥२६-२७॥


१७।२८

अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ।
असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥२८॥

श्रीधरः : इदानीं सर्व-कर्मसु श्रद्धयैव प्रऋत्त्य्-अर्थम् अश्रद्धया कृतं सर्वं निन्दति अश्रद्धयेति । अश्रद्धया हुतं हवनम् । दत्तं दानम् । तपस् तप्तं निर्वर्तितम् । यच् चान्यद् अपि कृतं कर्म । तत् सर्वम् असद् इत्य् उच्यते यतस् तत् प्रेत्य लोकान्तरे न फलति विगुणत्वात् । नो इह न च अस्मिन् लोके फलति अयशस्कत्वात् ।

रजस्-तमो-मयीं त्यक्त्वा श्रद्धां सत्त्व-मयीं श्रितः ।
तत्त्व-ज्ञाने ऽधिकारी स्याद् इति सप्तदशे स्थितम् ॥

इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
श्रद्धा-त्रय-विभाग-योगो नाम सप्तदशो ऽध्यायः ॥१७॥

मधुसूदनः : यद्य् आलस्यादिना शास्त्रीयं विधिम् उत्सृज्य श्रद्दधानतयैव वृद्ध-व्यवहार-मात्रेण यज्ञ-तपो-दानादि कुर्वतां प्रमादाद् वैगुण्यं प्राप्त ॐ तत् सद् इति ब्रह्म-निर्देशेन तत्-परिहारस् तर्ह्य् अश्रद्दधानतया शास्त्रीयं विधिम् उत्सृज्य काम-कारेण यत् किञ्चिद् यज्ञादि कुर्वताम् असुराणाम् अपि तेनैव वैगुण्य-परिहारः स्याद् इति कृतं श्रद्धया सात्त्विकत्व-हेतु-भूतयेत्य् अत आह अश्रद्धयेति । अश्रद्धया यद् धुतं हवनं कृतम् अग्नौ दत्तं यद् ब्राह्मणेभ्यो यत् तपस् तप्तं यच् चान्यत् कर्म कृतं स्तुति-नमस्कारादि तत् सर्वम् अश्रद्धया कृतम् असद् असाध्व् इत्य् उच्यते । अत एव ॐ तत् सद् इति निर्देशेन न तस्य साधु-भावः शक्यते कर्तुं सर्वथा तद्-अयोग्यत्वाच् छिलाया इवाङ्कुरः ।

तत् कस्माद् असद् इत्य् उच्यते शृणु हे पार्थ । चो हेतौ । यस्मात् तद्-अश्रद्धाकृतं न प्रेत्य पर-लोके फलति विगुणत्वेनापूर्वाजनकत्वात् । नो इह नापीह लोके यशः साधुभिर् निन्दितत्वात् । अत ऐहिकामुष्मिक-फल-विकलत्वाद् अश्रद्धा-कृतस्य सात्त्विक्या श्रद्धयैव सात्त्विकं यज्ञादि कुर्याद् अन्तः-करण-शुद्धये । तादृशस्यैव श्रद्धा-पूर्वकस्य सात्त्विकस्य यज्ञादेर् दैवाद् वैगुण्य-शङ्कायां ब्रह्मणो नाम-निर्देशेन साद्गुण्यं सम्पादनीयम् इति परमार्थः । श्रद्धा-पूर्वकम् असात्त्विकम् अपि यज्ञादि विगुणं ब्रह्मणो नाम-निर्देशेन सात्त्विकं स-गुणं च सम्पादितं भवतीति भाष्यम् ।

तद् एवम् अस्मिन्न् अध्याय आलस्यादिनानादृत-शास्त्राणां श्रद्धा-पूर्वकं वृद्ध-व्यवहार-मात्रेण प्रवर्तमानानां शास्त्रानादरेणासुर-साधर्म्येण श्रद्धा-पूर्वकानुष्ठानेन च देव-साधर्म्येण किम् असुरा अमी देवा वेत्य् अर्जुन-संशय-विषयाणां राजस-तामस-श्रद्धा-पूर्वकं राजस-तामस-यज्ञादि-कारिणो ऽसुराः शास्त्रीय-ज्ञान-साधनान् अधिकारिणः सात्त्विक-श्रद्धा-पूर्वकं सात्त्विक-यज्ञादि-कारिणस् तु देवाः शास्त्रीय-ज्ञान-साधनाधिकारिण इति श्रद्धा-त्रैविध्य-प्रदर्शन-मुखेनाहारादि-त्रैविध्य-प्रदर्शनेन भगवता निर्णयः कृत इति सिद्धम् ॥२८॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् श्रद्धा-त्रय-विभाग-योगो नाम सप्तदशो ऽध्यायः
॥१७॥

विश्वनाथः : सत् कर्म श्रुतम् । तथासत् कर्म किम् इत्य् अपेक्षायाम् आह अश्रद्दयेति । हुतं हवनम् । दत्तं दानम् । तपस् तप्तं कृतम् । यद् अन्यच् चापि कर्म कृतं तत् सर्वम् असद् इति हुतम् अप्य् अहुतम् एव । दत्तम् अप्य् अदत्तम् एव । तपो ऽप्य् अतप्तम् एव कृतम् अप्य् अकृतम् एव । यतस् तत् न प्रेत्य न पर-लोके फलति नापीह-लोके फलति ॥२८॥

उक्तेषु विविधेष्व् एव सात्त्विकं श्रद्धया कृतम् ।
यत् स्यात् तद् एव मोक्षार्हम् इत्य् अध्यायार्थ ईरितः ॥

इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतास्व् अयं सप्तदशः सङ्गतः सङ्गतः सताम् ॥
॥१७॥

बलदेवः : अथ सात्त्विक्या श्रद्धया सर्वेषु कर्मसु प्रवर्तितव्यम् । तया विना सर्वं व्यर्थम् इति निन्दति अश्रद्धयेति । हुतं होमो । दत्तं दानम् । तप्तम् अनुष्ठितं यच् चान्यद् अपि स्तुति-प्रणत्य्-आदि-कर्म कृतम्, तत् सर्वम् असन् निन्द्यम् इत्य् उच्यते । कुत इत्य् अत्राह न चेति । हेतौ च-शब्दो यतो ऽश्रद्धया कृतम्, तत् प्रेत्य पर-लोके न फलति विगुणात् तस्मात् पूर्वानुत्पत्तेर् नापीह लोके कीर्तिः सद्भिर् निन्दितत्वात् ॥२८॥

श्रद्धां स्वभावजां हित्वा शास्त्रजां तां समाश्रितः ।
निःश्रेयसाधिकारी स्याद् इति सप्तदशी स्थितिः ॥

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये सप्तदशो ऽध्यायः
॥१७॥