16

१६।१

श्री-भगवान् उवाच
अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः ।
दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥१॥
अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् ।
दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥२॥
तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीम् अभिजातस्य भारत ॥३॥

श्रीधरः :
आसुरीं सम्पदं त्यक्त्वा दैवीम् एवाश्रिता नराः ।
मुच्यन्त इति निर्णेतुं तद्-विवेको ऽथ षोडशे ॥

पूर्वाध्यायास् तु एतद्-बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारतेत्य् उक्तम् । तत्र क एतत् तत्त्वं बुध्यते । को वा न बुध्यते । इत्य् अपेक्षायां तत्त्व-ज्ञाने ऽधिकारिणो ऽनधिकारिणश् च विवेकार्थं षोडशाध्यायस्यारम्भः । निरूपिते हि कार्यार्थे ऽधिकारि-जिज्ञासा भवति । तद् उक्तं भट्टैः –

भारो यो येन वोढव्यः स प्राग् आन्दोलिता यदा ।
तदा कण्डस्य वोढेति शक्यं कर्तुं निरूपणम् ॥ इति ।

तत्राधिकारि-विशेषण-भूतां दैवीं सम्पदम् आह अभरम् इति त्रिभिः । अभयं भयाभावः । सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता । ज्ञान-योग आत्म-ज्ञानोपाये व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यस्य अन्नादेर् यथोचितं संविभागः । दमो बाह्येन्द्रिय-संयमः । यज्ञो यथाधिकारं दर्श-पौर्णमासादिः । स्वाध्यायो ब्रह्म-यज्ञादिः । जप-यज्ञो वा । तप उत्तराध्याये वक्ष्यमाणं शारीरादि । आर्जवम् अवक्रता ॥१॥

किं चाहिंसेति । अहिंसा पर-पीडावर्जनम् । सत्यं यथा-दृष्टार्थ-भाषणम् । अक्रोधस् ताडितस्यापि चित्ते क्षोभानुत्पत्तिः । त्याग औदार्यम् । शान्तिश् चित्तोपरतिः । पैशुनं परोक्षे पर-दोष-प्रकाशनम् । तद्-वर्जनम् अपैशुनम् । भूतेषु दीनेषु दया । अलोलुपतम् अलोलुपत्वं लोभाभावः । अवर्ण-लोप आर्षः । मार्दवं मृदुत्वम् अक्रूरता । ह्रीर् अकार्य-प्रवृत्तौ लोक-लज्जा । अचापलं व्यर्थ-क्रिया-राहित्यम् ॥२॥

किं च तेज इति । तेजः प्रागल्भ्यम् । क्षमा परिभवादिषु उत्पद्यमानेषु क्रोध-प्रतिबन्धः । धृतिर् दुःखादिभिर् अवसीदतश् चित्तस्य स्थिरीकरणम् । शौचं बाह्याभ्यन्तर-शुद्धिः । अद्रोहो जिघांसा-राहित्यम् । आतिमानिता आत्मन्य् अतिपूज्यत्वाभिमानः । तद्-अभावो नातिमानिता । एतान्य् अभयादीनि षड्-विंशति-प्रकाराणि दैवीं सम्पदम् अभिजातस्य भवन्ति । देव-योग्यां सात्त्विकीं सम्पदम् अभिलक्ष्य तद्-आभिमुख्येन जातस्य । भावि-कल्याणस्य पुंसो भवन्तीत्य् अर्थः ॥३॥

मधुसूदनः : अनन्ताराध्याये अधश् च मूलान्य् अनुसन्ततानि कर्मानुबन्धीनि मनुष्य-लोके [गीता १५।२] इत्य् अत्र मनुष्य-देहे प्राग्-भवीय-कर्मानुसारेण व्यज्यमाना वासनाः संसारस्यावान्तर-मूलत्वेनोक्तास् ताश् च दैव्यासुरी राक्षसी चेति प्राणिनां प्रकृतयो नवमे ऽध्याये सूचिताः । तत्र वेद-बोधित-कर्मात्म-ज्ञानोपायआनुष्ठान-प्रवृत्ति-हेतुः सात्त्विकी शुभ-वासना दैवी प्रकृतिर् इत्य् उच्यते । एवं वैदिक-निषेधातिक्रमेण स्वभाव-सिद्ध-राग-द्वेषानुसारि-सर्वानर्थ-हेतु-प्रवृत्ति-हेतु-भूता राजसी तामसी चाशुभ-वासनासुरी राक्षसी च प्रकृतिर् उच्यते । तत्र च विषय-भोग-प्राधान्येन राग-प्राबल्याद् आसुरीत्वं हिंसा-प्राधान्येन द्वेष-प्राबल्याद् राक्षसीत्वम् इति विवेकः । सम्प्रति तु शास्त्रानुसारेण तद्-विहित-प्रवृत्ति-हेतु-भूता सात्त्विकी
शुभ-वासना दैवी सम्पत् । शास्त्रातिक्रमेण तन्-निषिद्ध-विषय-प्रवृत्ति-हेतु-भूता राजसी तामसी चाशुभ-वासना राक्षस्य् आसुर्योर् एकीकरणेनासुरी सम्पद् इति द्वैराश्येनशुभाशुभ-वासनाभेदं द्वया ह प्राजापत्या देवाश् चासुराश् च इत्य् आदि-श्रुति-प्रसिद्धं शुभानाम् आदानायाशुभानां हानाय च प्रतिपादयितुं षोडशो ऽध्याय आरभ्यते । तत्रादौ श्लोक-त्रयेन्णादेयां दैवीं सम्पदम् ।

शास्त्रोपदिष्टे ऽर्थे सन्देहं विनानुष्टान-निष्ठत्वम् एकाकी सर्व-परिग्रह-शून्यः कथं जीविष्यामीति भय-राहित्यं वाभयम् । सत्त्वस्यान्तः-करणस्य शुद्धिर् निर्मलता तस्याः सम्यक्ता भगवत्-तत्त्व-स्फूर्ति-योग्यता सत्त्व-संशुद्धिः पर-वञ्चन-मायानृतादि-परिवर्जनं वा । परस्य व्याजेन वशीकरणं पर-वञ्चनम् । हृदये ऽन्यथा कृत्वा बहिर् अन्यथा व्यवहरणं माया, अन्यथादृष्ट-कथनम् अनृतम् इत्य् आदि । ज्ञानं शास्त्राद् आत्म-तत्त्वस्यावगमः । चित्तैकाग्रतया तस्य स्वानुभवारूढत्वं योगः । तयोर् व्यावस्थितिः सर्वदा तन्-निष्ठता ज्ञान-योग-व्यवस्थितिः । यदा त्व् अभयं सर्व-भूताभय-दान-सङ्कल्प-पालनम् । एतच् चान्येषाम् अपि परमहंस-धर्माणाम् उपलक्षणम् । सत्त्व-संशुद्धिः
श्रवणादि-परिपाकेणान्तः-करणस्यासम्भावना-विपरीत-भावनादि-मल-राहित्यम् । ज्ञानम् आत्म-साक्षात्कारः । योगो मनो-नाश-वासना-क्षयानुकूलः पुरुष-प्रयत्नस् ताभ्यां विशिष्टा संसारि-विलक्षणावस्थितिर् जीवन्-मुक्तिर् ज्ञान-योग-व्यवस्थितिर् इत्य् एवं व्याख्यायते तदा फल-मूर्तैव दैवी सम्पद् इयं द्रष्टव्या । भगवद्-भक्तिं विनान्तः-करण-संशुद्धेर् अयोगात् तया सापि कथिता ।

महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥१३॥

इति नवमे दैव्यां सम्पदि भगवद्-भक्तेर् उक्तत्वाच् च । भगवद्-भक्तेर् अतिश्रेष्ठत्वाद् अभयादिभिः सह पाठो न कृत इति द्रष्टव्यम् ।

महा-भाग्यानां परमहंसानां फल-भूतां दैवीं सम्पदम् उक्त्वा ततो न्यूनानां गृहस्थादीनां साधन-भूताम् आह दानं स्व-स्वत्वास्पदानाम् अन्नादीनां यथा-शक्ति शास्त्रोक्तः संविभागः । दमो बाह्येन्द्रिय-संयम ऋतु-कालाद्य्-अतिरिक्त-काले मैथुनाद्य्-अभावः । च-कारो ऽनुक्तानां निवृत्ति-लक्षण-धर्माणां समुच्चयार्थः । यज्ञश् च श्रौतो ऽग्निहोत्र-दर्शपौर्णमासादिः । स्मार्तो देव-यज्ञः पितृ-यज्ञो भूत-यज्ञो मनुष्य-यज्ञ इति चतुर्विधः । ब्रह्म-यज्ञस्य स्वाध्याय-पदेन पृथग्-उक्तेः । च-कारो ऽनुक्तानां प्रवृत्ति-लक्षण-धर्माणां समुच्चयार्थः । एतत् त्रयं गृहस्थस्य । स्वाध्यायो ब्रह्म-यज्ञो ऽदृष्टार्थम् ऋग्-वेदाद्यध्ययन-रूपः । यज्ञ-शब्देन पञ्च-विध-महा-यज्ञोक्ति-सम्भवे ऽप्य् असाधारण्येन
ब्रमचारि-धर्मत्व-कथनार्थं पृथग्-उक्तिः । तपस् त्रि-विधं शारीरादि सप्तदशे वक्ष्यमाणं वानप्रस्थस्यासाधारणो धर्मः । एवं चतुर्णाम् आश्रमाणाम् असाधारणान् धर्मान् उक्त्वा चतुर्णां वर्णानाम् असाधारण-धर्मान् आह आर्जवम् अवक्रत्वं श्रद्दधानेषु श्रोतृषु स्व-ज्ञातार्थासङ्गोपनम् ॥१॥

प्राणि-वृत्ति-च्छेदो हिंसा तद्-अहेतुत्वम् अहिंसा । सत्यम् अनर्थाननुबन्धि यथाभूतार्थ-वचनम् । परैर् आक्रोशे ताडने वा कृते सति प्राप्तो यः क्रोधस् तस्य तत्-कालम् उपशमनम् अक्रोधः । दानस्य प्राग्-उक्तेस् त्यागः सन्न्यासः । दमस्य प्राग्-उक्तेः शान्तिर् अन्तःकरणस्योपशमः । परस्मै परोक्षे पर-दोष-प्रकाशनं पैशुनम्, तद्-अभावो ऽपैशुनम् । दया भूतेषु दुःखितेष्व् अनुकम्पा । अलोलुप्त्वम् अलोलुपत्वम् इन्द्रियाणां विषय-सन्निधाने ऽप्य् अविक्रियत्वम् । मार्दवं अक्रूरत्वम् वृथापूर्वपक्षादि-कारिष्व् अपि शिष्यादिष्व् अप्रिय-भाषणादि-व्यतिरेकेण योधयितृत्वम् । ह्रीर् अकार्य-प्रवृत्त्य्-आरम्भे तत्-प्रतिबन्धिका लोक-लज्जा । अचापलम् प्रयोजनं विनापि वाक्-पाण्य्-आदि-व्यापारयितृत्वं चापलं तद्-अभावः । आर्जवादयो ऽचापलान्ता ब्राह्मणस्यासाधरणा
धर्माः ॥२॥

तेजः प्रागल्भ्यं स्त्री-बालकादिभिर् मूढैर् अनभिभाव्यत्वम् । क्षमा सत्य् अपि सामर्थ्ये परिभव-हेतुं प्रति क्रोधस्यानुत्पत्तिः । धृतिर् देहेन्द्रियेष्व् अवसादं प्राप्तेष्व् अपि तद्-उत्तम्भकः प्रयन-विशेषः । येनोत्तम्भितानि करणानि शरीरं च नावसीदन्ति । एतत् त्रयं क्षत्रियस्यासाधारणम् । शौचम् आभ्यन्तरम् अर्थ-प्रयोगादौ मायानृतादि-राहित्यं न तु मृज्जलादि-जनितम् बाह्यम् अत्र ग्राह्यं तस्य शरीर-शुद्धि-रूपतया बाह्यत्वेनान्तःकरण-वासनात्वाभावात् । तद्-वासनानाम् एव सात्त्विकादि-भेद-भिन्नानां दैव्य्-आसुर्यादि-सम्पद्-रूपत्वेनात्र प्रतिपिपादायिषितत्वात् । स्वाध्यायादिवत् केनचिद् रूपेण वासना-रूपत्वे तद् अप्य् आदेयम् एव । द्रोहः पर-जिघांसया शस्त्र-ग्रहणादि तद्-अभावो ऽद्रोहः । एतद् द्वयं वैश्यस्यासाधारणम् । अस्त्य् अर्थं मानितात्मनि
पूज्यत्वातिशय-भावनातिमिआनिता । तद्-अभावो नातिमानिता पूज्येषु नम्रता । अयं शूद्रस्यासाधारणो धर्मः । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [बउ ४।४।२२] इत्य् आदि श्रुत्या विविदिषौपयिकतया विनियुक्ता असाधारणाः साधारणाश् च वर्णाश्रम-धर्मा इहोपलक्ष्यन्ते । एते धर्मा भवन्ति निष्पद्यन्ते दैवीं शुद्ध-सत्त्व-मयीं सम्पदं वासना-सन्ततिं शरीरारम्भ-काले पुण्य-कर्मभिर् अभिव्यक्ताम् अभिलक्ष्य जातस्य पुरुषस्य तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च [बउ ४।४।२], पुण्यः पुण्येन कर्मणा भवति पापः पापेन [बउ ४।४।५] इत्य् आदि श्रुतिभ्यः । हे भारतेति सम्भोदय्न् शुद्ध-वंशोद्भवत्वेन पूतत्वात् त्वम् एतादृश-धर्म-योग्यो ऽसीति सूचयति ॥३॥

विश्वनाथः :

षोडशे सम्पदं दैवीम् आसुरीम् अप्य् अवर्णयत् ।
सर्गं च द्विविधं दैवम् आसुरं प्रभुर् अक्षयात् ॥

अनन्तराध्याये ऊर्ध्व-मूलम् अधः-शाखम् इत्य् आदिना वर्णितस्य संसाराश्वत्थ-वृक्षस्य फलानि न वर्णितानीत्य् अनुस्मृत्यास्मिन्न् अध्याये तस्य द्विविधानि मोकचानि बन्धकानि च फलानि वर्णयिष्यन् प्रथम्ं मोकआन्य् आह अभयम् इति त्रिभिः । त्यक्त-पुत्र-कलत्रादिक एकाकी निर्जने वने कथं जीविष्यामीति भय-राहित्यम् अभयम् । सत्त्व-संशुद्धिश् चित्त-प्रसादः । ज्ञान-योगे ज्ञानोपाये ऽमानित्वादौ व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यान्नादेर् यथोचितं संविभागः । दमो बाह्येन्द्रिय-संयमः । यज्ञो देव-पूजा । स्वाध्यायो वेद-पाठ्ः । आदीनि स्पष्टानि । त्यागः पुत्र-कलत्रादिषु यमता-त्यागः । अलोलुप्त्वं लोभाभावः । एतानि षड्-विंशतिर् अभयादीनि दैवीं सात्त्विकीं समप्दम् अभिलक्ष्य जातस्य सात्त्विक्याः सम्पदः प्राप्त्-व्यञ्जके
क्षणे जन्म लब्धवतः पुंसो भवन्ति ॥१-३॥

बलदेवः :

दैवीं तथासुरीं कृष्णः सम्पदं षोडशे ऽब्रवीत् ।
पादेयत्व-हेयत्वे बोधयन् क्रमतस् तयोः ॥

पूर्वत्र अश्वत्थ-मूलान्य् अनुसन्ततानि इत्य् आदिना प्राचीन-कर्म-निमित्ताः शुभाशुभ-वासनाः संसार-तरोर् अवान्तर-मूलत्वेनोक्ताः । एता एव नवमे दैव्य् आसुरी राक्षसी चेतेइ प्राणिनां प्रकृतयो निगदिताः । तत्र वैदिकार्थानुष्ठान् अहेतुः सात्त्विकी शुभ-वासना मोक्षोपायोगिनी दैवी प्रकृतिः । सैवेह दैवी सम्पत् तरोर् उपादेयं फलम् । स्वाभाविक-राग-द्वेषानुसारिणी सर्वानर्थ-हेतू राजसी तामसी चाशुभ-वासना आसुरी राक्षसी च प्रकृति-निरय-निपातोपयोगिनी सा । सा चासुर-सम्पत्तयोर् हेयं फलम् इत्य् एतद् बोधयितुं षोडशस्यारम्भः ।

अत्र दैवीं सम्पदं भगवान् उवाच अभयम् इत्य् आदिना त्रिकेण । चतुर्णाम् आश्रमाणां वर्णानां च धर्माः क्रमाद् इह कथ्यन्ते । सन्न्यासिनां तावद् आह अभयं निरुद्यमः कथम् एकाकी जिविष्यामीति भय-शून्यत्वम् । सत्त्व-संशुद्धिः स्वाश्रम-धर्मानुष्ठानेन मनो-नैर्मल्यम् । ज्ञान-योगे श्रवणादौ ज्ञानोपाये । व्यवस्थितिः परिनिष्ठेति त्रयम् ॥

अथ ब्रह्मचारिणाम् आह स्वाध्यायो ब्रह्म-यज्ञः शक्तिमतो भगवतः प्रति-पादको ऽयम् अपौरुषेयो ऽक्षर-राशिर् इत्य् अनुसन्धाय वेदाभ्यास-निष्ठतेत्य् एकम् ।

अथ वानप्रस्थानाम् आह तप इति । तच् च शरीरादि-त्रिभेदम् इत्य् अष्टादशे वक्ष्यमाणं बोध्यम् इत्य् एकम् ।

अथ वर्णेषु विप्राणाम् आह आर्जवं सारल्यम् । तच् च श्रद्धालु-श्रोतृषु स्व-ज्ञातार्थागोपनं ज्ञेयम् । अहिंसा प्राणि-जीविकानुच्छेदकता । सत्यम् अन्र्थान् अनुभन्दि-यथादृष्टार्थ-विषयं वाक्यम् । अक्रोधो दुर्जन-कृते स्व-तिरस्कारे ऽभ्युदितस्य कोपस्य निरोधः । त्यागो दुरुक्तेर् अपि तत्राप्रकाशः । शान्तिर् मनसः संयमः । अपैशुनं परोक्षे परानर्थ-कारि-वाक्याप्रकाशनम् । भूतेषु दया तद्-दुःखासहिष्णुता । अलोलुप्त्वं निर्लोभता । प-लोपश् छान्दसः । मार्दवं कोमलत्वम् सत्-पात्र-सङ्ग-विच्छेदासहनम् । ह्रीर् विकर्मणि लज्जा । अचापलं व्यर्थ-क्रिया-विरह इति द्वादश ।

अथ क्षत्रियाणाम् आह तेजस् तुच्छ-जनानभिभाव्यत्वम् । क्षमा सत्य् अपि सामर्थेय् स्वासमानं परिभावकं प्रति कोपानुदयः । धृतिः शरीरेन्द्रियेष्व् अपि तद्-उत्तम्भकः प्रयत्नो येन तेषां नावसादः स्याद् इति त्रयम् ।

अथ वैश्यानाम् आह शौचं व्यापारे वाणिज्ये मायान्ट्रादि-राहित्यम् । अद्रोहः पर-जिघांसया खड्गाद्य-ग्रहणम् इति द्वयम् ।

अथ शूद्रानाम् आह नातिमानिता आत्मनि पूज्यत्व-भावना-शून्यता विप्रादिषु त्रिषु नम्रतेत्य् एकम् इति षड्-विंशतिः ।

एते तत्र तत्र प्रधान-भूता बोध्या अनुक्तानाम् अप्य् उपलक्षणार्थाः । देहारम्भ-कालोन्मुखैः सुकृतैर् व्यक्तां दैवीं शुभ-वासनाम् अभिलक्षीकृत्य जातस्य पुरुषस्य भवन्ति उदयन्ते –पुण्यः पुण्ये कर्मणा भवति पापः पापेन इति श्रुतेः । देवाह् खलु परेशानु-वृत्ति-शीलास् तेषाम् इयं सम्पद् अनया तत्-प्रापक-ज्ञान-भक्ति-सम्भवात् संसार-तरोर् उपादेयं फलम् एतत् ॥१-३॥


१६।४

दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदम् आसुरीम् ॥४॥

श्रीधरः : आसुरीं सम्पदम् आह दम्भ इति । दम्भो धर्म-ध्वजित्वम् । दर्पो धन-विद्यादि-निमित्तश् चित्तस्योत्सेकः । अभिमानः पूर्वोक्तः । क्रोधश् च । पारुष्यम् एव च परुष-वचनम् । यथा काणं चक्षुष्मान् विरूपं रूपवान् हीनाभिजनम् उत्तमाभिजन इत्य् आदि । अज्ञानं च अविवेक-ज्ञानं मिथ्या-प्रत्ययः कर्तव्याकर्तव्यादि-विषयः । अभिजातस्य पार्थ किम् अभिजातस्येति । आह आसुरानां सम्पद् आसुरी । ताम् अभिजातस्येत्य् अर्थः ॥४॥

मधुसूदनः : आदेयत्वेन दैवीं सम्पदम् उक्त्वेदानीं हेयत्वेनासुरीं सम्पदम् एकेन श्लोकेन सङ्क्षिप्याह दम्भ इति । दम्भो दाअर्मिकतयात्मनः ख्यापनं तद् एव धर्म-ध्वजित्वम् । दर्पो धन-स्वजनादि-निमित्तो महद्-अवधीरणा-हेतुर् गर्व-विशेषः । अतिमान आत्मन्य् अत्यन्त-पूज्यत्वातिशयाध्यारोपः । देवाश् च वा असुराश् चोभये प्राजापत्याः पस्पृधिरे ततो ऽसुरा अतिमानेनैव कस्मिन् नु वयं जुहुयामेति स्वेष्व् एवास्येषु जुह्वतश् चेरुस् ते ऽतिमानेनैव परावभूवुस् तस्मान् नातिमन्येत पराभवस्य ह्य् एतन्-मुखं यद् अतिमानः इति शतपथ-श्रुत्य्-उक्तः । क्रोधश् च स्व-परापकार-वृत्ति-हेतुर् अभिज्वलनात्मको ऽन्तःकरण-वृत्ति-विशेषः । पारुष्यम् प्रत्यक्ष-रूक्ष-वदन-शीलत्वम् । च-कारो ऽनुक्तानां भाव-भूतानां चापलादि-दोषाणां समुच्चयार्थः
। अज्ञानं कर्तव्याकर्तव्यादि-विषय-विवेकाभावः । च-शब्दो ऽनुक्तानाम् अभाव-भूतानाम् अधृत्य्-आदि-दोषाणां समुच्चयार्थः । आसुरीम् असुर-रमण-हेतु-भूतां रजस्-तमो-मयीं सम्पदम् अशुभ-वासना-सन्ततिं शरीरारम्भ-काले पाप-कर्मभिर् अभिव्यक्ताम् अभिलक्ष्य जातस्य कुपुरुषस्य दम्भाद्या अज्ञानान्ता दोषा एव भवन्ति न त्व् अभयाद्या गुणा इत्य् अर्थः । हे पार्थेति सम्बोधयन् विशुद्ध-मातृकत्वेन तद्-अयोग्यत्वं सूचयति ॥४॥

विश्वनाथः : बन्धकानि फलान्य् आह दम्भः स्वस्याधर्मिकत्वे ऽपि धार्मिकत्व-प्रख्यापनम् । दर्पो धन-विद्यादि-हेतुको गर्वो ऽभिमानो ऽन्य-कृत-सम्माननाकाङ्क्षितत्वं कलत्र-पुत्रादिष्व् आसक्तिर् वा । क्रोधः प्रसिद्धः । पारुष्यं निष्ठुरता । अज्ञानम् अविवेकः । आसुरीम् इत्य् उपलक्षणं राक्षसीम् अपि सम्पदम् अभिजातस्य राजस्यास्तामसस्यश् च सम्पदः प्राप्ति-सूचक-क्षणे जन्म लब्धवतः पुम्स एतानि दम्भादीनि भवन्तीत्य् अर्थः ॥४॥

बलदेवः : अथ नरक-हेतुम् आसुरीं सम्पदम् आह दम्भ इत्य् एकेन । दम्भो धार्मिकत्व-ख्यातये धर्मानुष्ठानम् । दर्पो विद्याभिजन-जन्यो गर्वः । स्वस्मिन्न् अभ्यर्चत्व-बुद्धिः । क्रोधः प्रसिद्धः । पारुष्यम् प्रत्यक्षं रुक्ष-भाषितम् । च-कारश् चापलादेः समुच्चायकः । अज्ञानं कार्याकार्य-विवेक-धी-शून्यत्वम् । चकारो ऽधृत्यादेः समुच्चायकः । एते देहारम्भ-कालोन्मुखैर् दुष्कृतैर् व्यक्ताम् आसुरीम् अशुभ-वासनाम् अभिलक्ष्य जातस्य पुरुषस्य भवन्ति । पापः पापेन इति श्रुतिः ॥४॥


१६।५

दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीम् अभिजातो ऽसि पाण्डव ॥५॥

श्रीधरः : एतयोः सम्पदोः कार्यं दर्शयन्न् आह दैवीति । दैवी वा सम्पत् तया युक्तो मयोपदिष्टे तत्त्व-ज्ञाने ऽधिकारी । आसुर्या सम्पदा युक्तस् तु नित्यं संसारीत्य् अर्थः । एतच् छ्रुत्वा किम् अहम् अत्राधिकारी न वेति सन्देह्-व्व्याकुल-चित्तम् अर्जुनम् आश्वासयति हे पाण्डव मा शुचः शोकं मा कार्षीः । यतस् त्वं दैवीं सम्पद् अभिजातो ऽसि ॥५॥

मधुसूदनः : अनयोः सम्पदोः फल-विभागो ऽभिधीयते दैवीति । यस्य वर्णस्य यस्याश्रमस्य च या विहिता सात्त्विकी फलाभिसन्धि-रहिता क्रिया सा तस्य दैवी सम्पत् सा सत्त्व-शुद्धि-भगवद्-भक्ति-ज्ञान-योग-स्थिति-पर्यन्ता सती संसार-बन्धनाद् विमोक्षाय कैवल्याय भवति । अतः सैवोपादेया श्रेयो ऽर्थिभिः । या तु यस्य शास्त्र-निषिद्धा फलाभिसन्धि-पूर्वा साहङ्कारा च राजसी तामसी क्रिया तस्य सा सर्वाप्य् आसुरी सम्पत् । अतो राक्षसी अपि तद्-अन्तर्-भूतैव । सा निबन्धाय नियताय संसार-बन्धाय मता सम्मता शास्त्राणां तद्-अनुसारिणां च । अतः सा हेयैव श्रेयो ऽर्थिभिर् इत्य् अर्थः । तत्रैवं सत्य् अहं कया सम्पदा युक्त इति सन्दिहानम् अर्जुनम् आश्वासयति भगवान् । मा शुचः । अहम् आसुर्यां सम्पदा युक्त इति शङ्कया शोकम् अनुतापं मा कार्षीः ।
दैवीं सम्पदम् अभिलक्ष्य जातो ऽसि प्राग्-अर्जित-कल्याणो भावि-कल्याणश् च त्वम् असि हे पाण्डव पाण्डु-पुत्रेष्व् अन्येष्व् अपि दैवी सम्पत् प्रसिद्धा किं पुनस् त्वयीति भावः ॥५॥

विश्वनाथः : एतयोः सम्पदोः कार्यं दर्शयति दैवीति । हन्त हन्त शर्-प्रहारैर् बन्धून् जिघंसोः पारुष्य-क्रोधादि-मतो ममैवेयम् आसुरी-सम्पत् संसार-बन्ध-प्रापिका दृश्यत इति खिद्यन्तम् अर्जुनम् आश्वासयति मा शुचः इति । पाण्डवेति तव क्षत्रिय-कुलोत्पन्नस्य सङ्ग्रामे पारुष्य-क्रोधाद्या धर्म-शास्त्रे विहिता एव । तद्-अन्यत्रैव ते हिंसाद्या आसुरी सम्पद् इति भावः ॥५॥

बलदेवः : एतयोः सम्पदोः फल-भेदम् आह दैवीत्य् अर्धकेन स्फुटम् । बाण-वृष्ट्या पूज्या द्रोणादीन् जिघंसोः क्रोध- पारुष्यवतो ममेयम् आसुरी सम्पत् नरकं जनयेद् इति शोचयन्तं पार्थम् आलक्षाह मा शुच इति । हे पाण्डवेति क्षत्रियस्य ते युद्धे बाण-निक्षेप-पारुष्यादिकं विहितत्वात् दिअव्य् एव सम्पत् ततो ऽन्यत्र त्व् आसुरीति मा शुचः शोकं मा कुरु ॥ ५॥


१६।६

द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥६॥

श्रीधरः : आसुरी सम्पत् सर्वात्मना वर्जयितव्येत्य् एतद् अर्थम् आसुरीं सम्पदं प्रपञ्चयितुम् आह द्वाव् इति । द्वौ द्वि-प्रकारौ भूतानां सर्गौ मे सद्-वचनात् शृणु । आसुर राक्षस-प्रकृत्योर् एकी-करणेन द्वाव् इत्य् उक्तम् । अतो राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिता इत्य् आदिना नवाध्यायोक्त-प्रकृति-त्रैविध्येनाविरोधः । स्पष्टम् अन्यत् ॥६॥

मधुसूदनः : ननु भवतु राक्षसी प्रकृतिर् आसुर्याम् अन्तर्-भूता शास्त्र-निषिद्ध-क्रियोन्मुखत्वेन सामान्यात् कामोपभोग-प्राधान्य-प्राणि-हिंसा-प्राधान्याभ्यां क्वचिद् भेदेन व्यपदेशोपपत्तेः, मानुषी तु प्रकृतिस् तृतीया पृथग् अस्ति त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुर् देवा मनुष्या असुराः [बउ ५।२।१] इति श्रुतेः । अतः सापि हेय-कोटाव् उपादेय-कोटौ वा वक्तव्येत्य् अत्राह द्वाव् इति ।

अस्मिन् लोके सर्वस्मिन्न् अपि संसार-मार्गे द्वौ द्वि-प्रकाराव् एव भूत-सर्गौ मनुष्य-सर्गौ भवतः । कौ तौ दैव आसुरश् च, न तु राक्षसो मानुषो वाधिकः सर्गो ऽस्तीत्य् अर्थः । यो यदा मनुष्यः शास्त्र-संस्कार-प्राबल्येन स्वभाव-सिद्धौ राग-द्वेषाव् अभिभूय धर्म-परायणो भवति स तदा देवः । यदा तु स्वभाव-सिद्ध-राग-द्वेष-प्राबल्येन शास्त्र-संस्कारम् अभिभूयाधर्म-परायणो भवति स तदासुर इति द्वैविध्योपपत्तेः । न हि धर्माधर्माभ्यां तृतीया कोटिर् अस्ति । तथा च श्रूयते – द्वया ह प्राजापत्या देवाश् चासुराश् च । ततः कानीयसा एव देवा ज्यायसा असुरास् त एषु लोकेष्व् अस्पर्धन्त । ते ह देवा ऊचुर् हन्तासुरान् यज्ञ उद्गीथेनात्ययाम् एति [बउ १।३।१] इति । दम-दान-दया-विधि-परे तु वाक्ये त्रयाः प्राजापत्या इत्य् आदौ दम-दान-दया-रहिता मनुष्या
असुरा एव सन्तः केनचित् साधर्म्येण देवा मनुष्या असुरा इत्य् उपचर्यन्त इति नाधिक्यावकाशः । एकेनैव द इत्य् अक्षरेण प्रजापतिना दम-रहितान् मनुष्यान् प्रति दमोपदेशः कृतः । दान-रहितान् प्रति दानोपदेशः, दया-रहितान् प्रति दयोपदेशः, न तु विजातीया एव देवासुर-मनुष्या इह विवक्षिता मौष्याधिकारत्वाच् छास्त्रस्य । तथा चान्त उपसंहरति – तद् एतद् एवैषा दैवी वाग् अनुवदति स्तनयित्नुर् द द द इति दाम्यत दत्त दयध्वमिति । तद् एतत् त्रयं शिक्षेद् दमं दानं दयाम् [बउ ५।२।३] इति । तस्माद् राक्षसी मानुषी च प्रकृतिर् आसुर्याम् एवान्तर्भवतीति युक्तम् उक्तं द्वौ भूत-सर्गाव् इति ।

तत्र दैवो भूत-सर्गो मया त्वां प्रति विसतरशो विस्तर-प्रकारैः प्रोक्तः स्थित-प्रज्ञ-लक्षणे द्वितीये भक्त-लक्षणे द्वादशे ज्ञान-लक्षणे त्रयोदशे गुणातीत-लक्षणे चतुर्दश इह चाभयम् इत्य् आदिना । इदानीम् आसुरं भूत-सर्गं मे मद्-वचनैर् विस्तरशः प्रतिपाद्यमानं त्वं शृणु हानार्थम् अवधारय सम्यक्तया ज्ञातस्य हि परिवर्जनं शक्यते कर्तुम् इति । हे पार्थेति सम्बन्ध-सूचनेनानुपेक्षणीयतां दर्शयति ॥६॥

विश्वनाथः : तद् अपि विषण्णम् अर्जुनं प्रत्य् आसुरीं सम्पदं प्रपञ्चयितुम् आह द्वाव् इति । विस्तरशः प्रोक्त इत्य् अभयः सत्त्व-संशुद्धिर् इत्य् आदि ॥६॥

बलदेवः : तथाप्य् अनिवृत्त-शोकं तम् आलक्ष्य आसुरीं सम्पदं प्रपञ्चयति द्वाव् इति । अस्मिन् कर्माधिकारिणि मनुष्य-लोके द्विव्धौ भूत-सर्गौ मनुष्य-सृष्टी भवतः । यदायं मनुष्य-लोके शास्त्रात् स्वाभाविकौ राग-द्वेषौ विनिर्धूय शास्त्रीयार्थानुष्ठायी तदा दैवः । यदा शास्त्रम् उत्सृज्य स्वाभाविक-राग-द्वेषाधीनो ऽशास्त्रीयान् धर्मान् आचरति, तदा त्व् आसुरः । न हि धर्माधर्माभ्याम् अन्या कोटि-सृतीयास्ति । श्रुतिश् चैवम् आह - द्वया ह प्राजपत्या देवाश् चासुराश् च इत्य् [बउ १।३।१] आदिना । तत्र दैवो विस्तरशः प्रोक्तः अभयम् इत्य् आदिना । अथासुरं शृणु विस्तरशो वक्ष्यामि ॥६॥


१६।७

प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७॥

श्रीधरः : आसुरीं विस्तरशो निरूपयति प्रवृत्तिं चेत्य् आदि-द्वादशभिः । धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिं चासुर-स्वभावा जना न जानन्ति । अतः शौचम् आचारः सत्यं च तेषु नास्त्य् एव ॥७॥

मधुसूदनः : वर्जनीयाम् आसुरीं सम्पदं प्राणि-विशेषणतया तान् अहम् इत्य् अतः प्राक्तनैर् द्वादशभिः श्लोकैर् विवृणोति प्रवृत्तिम् इति । प्रवृत्तिं प्रवृत्ति-विषयं धर्मं च-कारात् तत्-प्रतिपादकं निषेध-वाक्यं चासुर-स्वभावा जना न जानन्ति । अतस् तेषु न शौचं द्विविधं नाप्य् आचारो मन्व्-आदिभिर् उक्तः । न सत्यं च प्रिय-हित-यथार्थ-भाषणं विद्यते । शौच-सत्ययोर् आचारान्तर्भावे ऽपि ब्राह्मण-परिव्राजक-न्यायेन पृथग्-उपादानम् । अशौचा अनाचारा अनृत-वादिनो ह्य् आसुरा मायाविनः प्रसिद्धाः ॥७॥

विश्वनाथः : धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिम् ॥७॥

बलदेवः : आसुरं सर्गम् आह प्रवृत्तिं चेति द्वादशभिः । आसुरा जना धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिम् च न जानन्ति । च-काराभ्यां तयोः प्रतिपादके विधि-निषेध-वाक्ये च न जानन्ति । वेदेष्व् आस्थाभावाद् इत्य् उक्तम् । तेषु शौचं बाह्याभ्यन्तरं तत्-प्रवृत्त्य्-उपयोगि न विद्यते । नाप्य् आचारो मन्वादिभिर् उक्तः । न च सत्यं प्राणिहितानुबन्धि यथा-दृष्टार्थ-विषय-वाक्यम् इति गृध्र-गोमायुवत् तेषाम् उपदेशादि ॥७॥


१६।८

असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् ।
अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥८॥

श्रीधरः : ननु वेदोक्तयोर् धर्माधर्मयोः प्रवृत्तिं निवृत्तिं च कथं न विदुः । कुतो वा धर्माधर्मयोर् अनङ्गीकारे जगतः सुख-दुःखादि-व्यवस्था स्यात् । कथं वा शौचाचारादि-विषयान् ईश्वराज्ञान् अतिवर्तेरन् । ईश्वरानङ्गीकारे च कुतो जगद्-उत्पत्तिः स्यात् । अत आह असत्यम् इति । नास्ति सत्यं वेद-पुराणादि-प्रमाणं यस्मिन् तादृशं जगद् आहुः । वेदादीनां प्रामाण्यं न मन्यन्त इत्य् अर्थः । तद् उक्तं त्रयो वेदस्य कर्तारो भण्ड-धूर्त-निशाचरा इत्य् आदि ॥ अतएव नास्ति धर्माधर्म-रूपा प्रतिष्ठा व्यवस्था-हेतुर् यस्य तत् । स्वाभाविकं जगद्-वैचित्र्यम् आहुर् इत्य् अर्थः । अतएव नास्ति ईश्वरः कर्ता व्यवस्थापकश् च यस्य तादृशं जगद् आहुः । तर्हि कुतो ऽस्य जगत उत्पत्तिं वदन्तीति । अत आह अपरस्पर-सम्भूतम् इति । अपरश् चेत्य् अपरस्परम् । अपरस्परतो
ऽनोन्यतः स्त्री-पुरुषयोर् मिथुनात् सम्भूतं जगत् । किम् अन्यत् । कारणम् अस्य नास्ति अन्यत् किञ्चित् । किन्तु काम-हैतुकम् एव । स्त्री-पुरुषयोर् उभयोः काम एव प्रवाह-रूपेण हेतुर् अस्येत्य् आहुर् इत्य् अर्थः ॥८॥

मधुसूदनः : ननु धर्माधर्मयोः प्रवृत्ति-निवृत्ति-विषययोः प्रतिपादकं वेदाख्यं प्रमाणम् अस्ति निर्दोषं भगवद्-आज्ञा-रूपं सर्व-लोक-प्रसिद्धं तद्-उपजीवीनि च स्मृति-पुराणेतिहासादीनि सन्ति, तत् कथं प्रवृत्ति-निवृत्ति-तत्-प्रमाणाद्य् अज्ञानम् । ज्ञाने वाज्ञोल्लङ्घिनां शासितरि भगवति सति कथं तद्-अननुष्ठानेन शौचाचारादि-रहितत्वं दुष्टानां शासितुर् भगवतो ऽपि लोक-वेद-प्रसिद्धत्वाद् अत आह असत्यम् इति । सत्यम् अबाधित-तात्पर्य-विषयं तत्त्वावेदकं वेदाख्यं प्रमाणं तद्-उपजीवि पुराणादि च नास्ति यत्र तद् असत्यं वेद-स्वरूपस्य प्रत्यक्ष-सिद्धत्वे ऽपि तत्-प्रामाण्यानभ्युपगमाद् विशिष्टाभावः । अत एव नास्ति धर्माधर्म-रूपा प्रतिष्ठिता व्यवस्था-हेतुर् यस्य तद् अप्रतिष्ठम् । तथा नास्ति शुभाशुभयोः कर्मणोः
फल-दानेश्वरो नियन्ता यस्य तद् अनीश्वरं त आसुरा जगद् आहुः । बलवत् पाप-प्रतिबन्धाद् वेदस्य प्रामाण्यं ते न मन्यन्ते । ततश् च तद् बोधितयोर् धर्माधर्मयोर् ईश्वरस्य चानङ्गीकाराद् यथेष्टाचरणेन ते पुरुषार्थ-भ्रष्टा इत्य् अर्थः ।

शास्त्रैक-समधिगम्य-धर्माधर्म-सहायेन प्रकृत्य्-अधिष्ठात्रा परमेश्वरेण रहितं जगद् इष्यते चेत् कारणाभावात् कथं तद् उत्पत्तिर् इत्य् आशङ्क्याह अपरस्पर-सम्भूतं काम-प्रयुक्तयोः स्त्री-पुरुषयोर् अन्योन्य-संयोगात् सम्भूतम् जगत् काम-हैतुकं काम-हेतुकम् एव काम-हैतुकं कामातिरिक्तअ-कारण-शून्यम् ।

ननु धर्माद्य् अप्य् अस्ति कारणम् ? नेत्य् आह किम् अन्यत्, अन्यद् अदृष्टं कारणं किम् अस्ति ? नास्त्य् एवेत्य् अर्थः । अदृष्टाङ्गीकारे ऽपि क्वचिद् गत्वा स्वभावे पर्यवसानात् स्वाभाविकम् एव जगद्-वैचित्र्यम् अस्तु दृष्टे सम्भवत्य् अदृष्ट-कल्पनानवकाशात् । अतः काम एव प्राणिनां कारणं नान्यद् अदृष्टेश्वरादीत्य् आहुर् इति लोकायतिक-दृष्टिर् इयम् ॥८॥

विश्वनाथः : असुराणां मतम् आह असत्यं मिथ्या-भूतं भ्रमोपलब्धम् एव जगत् ते वद्नैत् । अप्रतिष्ठं प्रतिष्ठाश्रयस् तद्-रहितम् । न हि ख-पुष्पस्य किञ्चिद् अधिष्ठानम् अस्तीति भावः । अनीश्वरं मिथ्याभूतत्वाद् एव ईश्वर-कर्तृकम् एतन् न भवति । स्वेदजादीनाम् अकस्माद् एव जातत्वात् अपरस्पर-सम्भूतम् । अन्यत् किं वक्तव्यम् । काम-हैतुकम् कामो वादिनाम् इच्छैव हेतुर् यस्य तत् । मिथ्याभूतत्वाद् एव ये यथा कल्पयितुं शक्नुवन्ति तथिअवैतद् इति ।

केचित् पुनर् एवं व्याचक्षते असत्यं नास्ति सत्यं वेद-पुराणादिकं प्रमाणं यत्र तत् । तद् उक्तं त्रयो वेदस्य कर्तारो भण्ड-धूर्त-निशाचरा इत्य् आदि । अप्रतिष्ठं नास्ति धर्माधर्म-रूपा प्रतिष्ठा व्यवस्था यत्र तत् । धर्माधर्माव् अपि भ्रमोपलब्धाव् इति भावः । अनीश्वरम् ईश्वरो ऽपि भ्रमेणोपलभ्यत इति भावः ।

ननु स्त्री-पुंसयोः परस्पर-प्रयत्न-विशेषाद् जगद् एतद् उत्पन्नं दृश्यत इत्य् अपि भ्रम एव कुलालस्य घटोत्पादने ज्ञानम् इव मातापित्रोस् तादृश-बालोत्पादने किल नास्ति ज्ञान्म् इति भावः । किम् अन्यत् किम् अन्यत् वक्तव्यम् इति भावः । तस्माद् इदं जगत् काम-हेतुकं कामेन स्वेच्छयैव हेतुका हेतु-कल्पका यत्र तत् । युक्ति-बलेन ये यत् परमाणु-मायेश्वरादिकं जल्पयितुं शक्नुवन्ति ते तद् एव तस्य हेतुं वदन्तीत्य् अर्थः ॥८॥

बलदेवः : तेषां सिद्धान्तान् दर्शयति तत्रैक-जीव-वादिनाम् आह असत्यम् इति । इदं जगद् असत्यं शुक्ति-रजतादिवद् भ्रान्ति-विजृम्भितम् । अप्रतिष्ठं ख-पुष्पवन् निराश्रयम् । नास्त्य् एवेश्वरो जन्मादि-हेतुर् यस्य तत् । सो ऽपि तद्वद् भ्रान्ति-रचित एव । पारमार्थिके तस्मिन् स्थिते तन् निर्मित-जगत् तद्वद् दृष्ट-नष्ट-प्रायं न स्यात् । तस्माद् असत्यं जगत् त एव मन्यन्ते । एकैव निर्विशेषो सर्व-प्रमाणावेद्या चिद्-भ्रमाद् एको जीवस् ततो ऽन्यज् जड-जीवेश्वरात्मकं तद्-अज्ञानात् प्रतिभाषते । आ-स्वरूप-साक्षात्-काराद् अविसंवादि स्वाप्निकम् इव हस्त्य्-अश्व-रथादिकम् आ-जागरात् । सति च स्वरूप-साक्षात्कारे तद्-अज्ञान-कल्पितं तज्-जीवत्वेन सह निवर्तेत स्वाप्निक-रथाशादीव सुषुप्ताव् इति ।

अथ स्वभाव-वादिनां बौद्धानाम् आह अपरस्पर-सम्भूतम् इति स्त्री-पुरुष-सम्भोग-जन्यं जगन् न भवति घटोत्पादने कुलालस्येव बालोत्पादने पित्रादेर् ज्ञानाभावात् सत्य् अप्य् असकृत् सम्भोगे सन्तानान् उत्पत्तेश् च स्वेदजादीनाम् अकस्माद् उत्पत्तेश् च । तस्मात् स्वभावाद् एवेदं भवतीति ।

अथ लोकायतिकानाम् आह काम-हेतुकम् इति । किम् अन्यद् वाच्य्म् । स्त्री-पुरुषयोः काम एव प्रवाहात्मना हेतुर् अस्येति स्वार्थे ठञ् । अथवा जैनानाम् आह कामः स्वेच्छयैव हेतुर् अस्येति । युक्ति-बलेन यो यत् कल्पयितुं शक्नुयात् स तद् एव तस्य हेतुं वदतीत्य् अर्थः ॥८॥

एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्प-बुद्धयः ।
प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो ऽहिताः ॥९॥

श्रीधरः : किं च एताम् इति । एतां लोकायतिकानां दृष्टिं दर्शनम् आश्रित्य नष्टात्मनो मलीमस-चित्ताः सन्तो ऽल्प-बुद्धयो दुष्टार्थ-मात्र-मतयः । अतेव उग्रं हिंस्रं कर्म येषां ते अहिता वैरिणो भूत्वा जगतः क्षयाय प्रभवन्ति उद्भवन्तीत्य् अर्थः ॥९॥

मधुसूदनः : इयं दृष्टिः शास्त्रीय-दृष्टिवद् इष्टैवेत्य् आशङ्क्याह एताम् इति । एतां प्राग्-उक्तां लोकायतिक-दृष्टिम् अवष्टभ्यालम्ब्य नष्टत्मानो भ्रष्ट-पर-लोक-साधना अल्प-बुद्धयो दृष्ट-मात्रोद्देश-प्रवृत्त-मतय उग्र-कर्माणो हिंसा अहिताः शत्रवो जगतः प्राणि-जातस्य क्षयाय व्याघ्र-सर्पादि-रूपेण प्रभवन्ति उत्पद्यन्ते । तस्माद् इयं दृष्टिर् अत्यन्ताधो-गति-हेतुतया सर्वात्मना श्रेयो ऽर्थिभिर् अवहेयैवेत्य् अर्थः ॥९॥

विश्वनाथः : एवं वादिनो ऽसुराः केचिन् नष्टात्मानः केचिद् अल्पज्ञानाः केचिद् उग्र-कर्माणः स्वच्छन्दाचारा महा-नारकिनो भवन्तीत्य् आह । एताम् इत्य् एकादशभिः । अवष्टभ्य आलम्ब्य ॥९॥

बलदेवः : स्व-स्व-मत-निर्णायकानि दर्शनानि च तैः कृतानि यान्य् आस्थाय जगद्-विनश्यतीत्य् आह एताम् इति जात्यैक-वचनम् । एतानि दर्शनान्य् अवष्टभ्यालम्ब्याल्प-बुद्धयो नष्टात्मानो ऽदृष्ट-देहादि-विविक्तात्म-तत्त्वा उग्र-कर्माणो हिंसा-पैशुन्य-पारुष्यादि-कर्म-निष्ठा जगतो ऽहिताः शत्रवश् च सन्तस्य क्षयाय प्रभवन्ति पर्मार्थाज् जगद्-भ्रंशयन्तीत्य् अर्थः ॥९॥


१६।१०

कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदान्विताः ।
मोहाद् गृहीत्वासद्-ग्राहान् प्रवर्तन्ते ऽशुचि-व्रताः ॥१०॥

श्रीधरः : अपि च कामम् आश्रित्येति । दुष्पूरं पुरयितुम् अशक्यं कामम् आश्रित्य दम्भादिभिर् युक्ताः सन्तः क्षुद्र-देवताराधनादौ प्रवर्तन्ते । कथम् । असद्-ग्राहान् गृहीत्वा अनेन मन्त्रेणैतां देवताम् आराध्य महा-निधीन् साधयिष्याम इत्य् आदीन् दुराग्रहान् मोह-मात्रेण स्वीकृत्य प्रवर्तन्ते । अशुचि-व्रताः अशुचीनि मद्य-मांसादि-विषयीणि व्रतानि येषां ते ॥१०॥

मधुसूदनः : ते च यदा केनचित् कर्मणा मनुष्य-योनिम् आपद्यन्ते, तदा कामं तत् तद् दृष्ट-विषयाभिलाषं दुष्पूरं पूरयितुम् अशक्यं दम्भेनाधार्मिकत्वे ऽपि धार्मिकत्व-ख्यापनेन मानेनापूज्यत्वे ऽपि पूज्यत्व-ख्यापनेन मदेनोत्कर्ष-रहितत्वे ऽप्य् उत्कर्ष-विशेषाध्यारोपेण महद्-अवधीरणा-हेतुनान्विता असद्-ग्राहान् अशुभ-निश्चयान् अनेन मन्त्रेणेमां देवताम् आराध्य कामिनीनाम् आकर्षणं करिष्यामः, अनेन मन्त्रेणेमां देवताम् आराध्य महानिधीन् साधयिष्याम इत्य् आदि-दुराग्रह-रूपान् मोहाद् अविवेकाद् गृहीत्वा न तु शास्त्रात्, अशुचि-व्रताः प्रवर्तन्ते यत्र कुत्राप्य् अवैदिके दृष्ट-फले क्षुद्र-देवताराधनादाव् इति शेषः । एतादृशाः पतन्ति नरके ऽशुचाव् इत्य् अग्रिमेणान्वयः ॥१०॥

विश्वनाथः : असद्-ग्राहान् प्रवर्तन्ते कुमते एव प्रवृत्ता भवन्ति । अशुचीनि शौचाचार-वर्जितानि व्रतानि येषां ते ॥१०॥

बलदेवः : अथ तेषां दुर्वृत्ततां दुराचारतां चाह कामम् इति । दुष्पूरं कामं विषय-तृष्णाम् आश्रित्य मोहान् न तु शास्त्राद् असद्-ग्राहान् गृहीत्वाशुचि-व्रताः सन्तः प्रवर्तन्ते । असद्-ग्राहान् दुष्ट-नक्रवद् आत्म-विनाशकान् कल्पित-देवता-तन्-मन्त्र-तद्-आराधन-निमित्तक-कामिनी-पार्थिव-निध्य्-आकर्षण-रूपान् दुराग्रहान् इत्य् अर्थः । अशुचीनि श्मशान-निषेवण-मद्य-मांस-विषयाणि व्रतानि येषां ते । दम्भेनाधरिष्ठत्वे ऽपि धर्मिष्ठत्व-ख्यापनेन मानेनापूज्यत्वे ऽपि पूज्यत्वं ख्यापनेन मदेनआनुत्कृष्टत्वे ऽप्य् उत्कृष्टत्वारोपणेन चान्विताः ॥१०॥


१६।११

चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः ।
कामोपभोग-परमा एतावद् इति निश्चिताः ॥११॥

श्रीधरः : किं च चिन्ताम् इति । प्रलयो मरणम् एवान्तो यस्यास्ताम् अपरिमेयां परिमातुम् अशक्यां चिन्ताम् आश्रिताः । नित्यं चिन्तापरा इत्य् अर्थः । कामोपभोग एव परमो येषां ते । एतावद् इति कामोपभोग एव परमः पुरुषार्थो नान्यद् अस्तीति कृत-निश्चयाः । अर्थ-सञ्चयान् ईहन्तु इत्य् उत्तरेणान्वयः । तथा च बार्हस्पत्यं सूत्रं - काम एवैकः पुरुषार्थ इति । चैतन्य-विशिष्टः कामः पुरुष इति च ॥११॥

मधुसूदनः : तान् एव पुनर् विशिनष्टि चिन्ताम् इति । चिन्ताम् आत्मीय-योग-क्षेमोपायालोचनात्मिकाम् अपरिमेयाम् अपरिमेय-विषयत्व्}अत् पर्म्}अतुम् अशक्यां प्रलयो मरणम् एवान्तो यस्यास् तां प्रलयान्तां यावज्-जीवम् अनुवर्तमानाम् इति यावत् । न केवलम् अशुचि-व्रताः प्रवर्तन्ते किं त्व् एतादृशीं चिन्तां चोपाश्रिता इति समुच्चयार्थश् च-कारः ।

सदानन्त-चिन्ता-परा अपि न कदाचित् पारलौकिक-चिन्तायुताः किं तु कामोपभोग-परमाः काम्यन्त इति कामा दृष्टाः शब्दादयो विषयास् तद्-उपभोग एव परमः पुरुषार्थो न धर्मादिर् येषां ते तथा । पारलौकिकम् उत्तमं सुखं कुतो न कामयन्ते तत्राह एतावद् दृष्टम् एव सुखं नान्यद् एतच् छरीर-वियोगे भोग्यं सुखम् अस्ति एतत् कायातिरिक्तस्य भोक्तुर् अभावाद् इति निश्चिता एवं-निश्चयवन्तः । तथा च बार्हस्पत्यं सूत्रं चैतन्य-विशिष्टः कायः पुरुषः, काम एवैकः पुरुषार्थः इति च ॥११॥

विश्वनाथः : प्रलयान्तां प्रलयो मरणं तत्-पर्यन्ताम् । एतावद् इति इन्द्रियाणि विषय-सुखे मज्जन्तु नाम का चिन्ता इत्य् एतावद् एव शास्त्रार्थ-तात्पर्यम् इति निश्चितं येषां ते ॥११-१५॥

बलदेवः : अपरिमेयाम् अपरा प्रलयान्तां च मरण-कालावधि-साध्य-वस्तु-विषयां चिन्ताम् उपाश्रितः कामोपभोगः सम्यग्-विषय-सेवैव परमः पुमर्थो येषां ते । एतावद् एव कामोपभोग-मात्रम् एवैहिकम् । न त्वतो ऽन्यत् पारलौकिकं सुखम् अस्तीति कृत-निश्चयाः ॥११॥


१६।१२

आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः ।
ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-सञ्चयान् ॥१२॥

श्रीधरः : अतएव आशेति । आशा एव पाशाः । तेषां शतैर् बद्धा इतस् तत आकृष्यमाणाः । काम-क्रोध-परायणाः काम-क्रोधौ परम्-अयनाश्रयो येषां ते । काम-भोगार्थम् अन्यायेन चौर्यादिनार्थानां सञ्चयान् राशीन् ईहन्त इच्छन्ति ॥१२॥

मधुसूदनः : त ईदृशा असुराः अशक्योपायार्थ-विषया अनवगतोपायार्थ-विषया वा प्रार्थना आशास्ता एव पाशा इव बन्धन-हेतुत्वात् पाशास् तेषां शतैः समूहैर् बद्धा इव श्रेयसः पच्याव्येतस् तत आकृष्य नीयमानाः काम-क्रोधौ परम् अयनम् आश्रयो येसां ते काम-क्रोध-परायणाः स्त्री-व्यतिकराभिलाष-परानिष्टाभिलाषाभ्यां सदा परिगृहीता इति यावत् । ईहन्ते कर्तुं चेष्टन्ते काम-भोगार्थं न तु धर्मार्थम् अन्यायेन परस्व-हरणादिनार्थ-सञ्चयान् धन-राशीन् । सञ्चयान् इति बहु-वचनेन धन-प्राप्ताव् अपि तत्-तृष्णानुवृत्तेर् विषय-प्राप्ति-वर्धमान-तृष्णत्व-रूपो लोभो दर्शितः ॥१२॥

विश्वनाथः : नोथिन्ग्।
बलदेवः : आशेति स्पष्टम् । ईहन्ते कर्तुं चेष्टन्ते अन्यायेन कूट-साक्ष्येण चौर्येण च ॥१२॥

इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् ।
इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥१३॥

श्रीधरः : तेषां मनोरथं कथयन् नरक-प्राप्तिम् आह इदम् अद्य मयेति चतुर्भिः । प्राप्स्ये प्राप्स्यामि । मनोरथं मनसः प्रियम् । स्पष्टम् अन्यत् । एतेषां च त्रयाणां श्लोकानाम् इत्य् अज्ञान-विमोहिताः सन्तो नरके पतन्तीति चतुर्थेनान्वयः ॥१३॥

मधुसूदनः : तेषाम् ईदृशीं धन-तृष्णानुवृत्तिं मनोराज्य-कथनेन विवृणोति इदम् इति । इदं धनम् अद्येदानीं अनेनोपायेन मया लब्धम् । इदं तद् अन्य-मनोरथं मनस्-तुष्टि-करं शीघ्रम् एव प्राप्स्ये । इदं पुरैव सञ्चितं मम गृहे ऽस्ति । इदम् अपि बहुतरं भविष्यत्य् आगामिनि संवत्सरे पुनर् धनम् । एवं धन-तृष्णाकुलाः पतन्ति नरके ऽशुचाव् इत्य् अग्रिमेणान्वयः ॥१३॥

विश्वनाथः : नोथिन्ग्।

बलदेवः : तेषां धनाशानुवृत्तिं मनोराज्योक्त्या विवृण्वन् नरक-निपातम् आह इदम् इति चतुर्भिः । इदं क्षेत्रं पशु-पुत्रादि मयैवाद्य स्व-धी-बलेन लब्धम् । इमं मनोरथं मनः-प्रियम् अर्थम् अहम् एव स्व-बलेन प्राप्स्यामि, स्वबलेनैव लब्धम् इदं धनं मम सम्प्रत्य् अस्ति । इदम् इष्यमाणं धनम् आगामि-वर्षे मद्-बलेनैव मे भविष्यति । न त्व् अदृष्ट-बलेन ईश्वर-प्रसादेन वेत्य् अर्थः । एवं धन-तृष्णां प्रपञ्च्य दुष्टं भावं प्रपञ्चयति असाव् इति । यज्ञ-दत्ताख्यो ऽसौ शत्रुर् मयातिबलिना हतः । अपरान् अपि शत्रून् अहम् एव हनिष्यामि । तेषां दार-धनादि च नेष्यामीति च-शब्दात् मत्तो न को ऽपि जीवेद् इति भावः । नन्व् ईश्वरेच्छाम् अदृष्टं च केचिज् जय-हेतुम् आहुस् तत्राहअहम् एवेश्वरः स्वतन्त्रो यद् अहं भोगी स्वतो निखिल-भोग-सम्पन्नः
सिद्धो ऽस्मीति । यदि कश्चिद् ईश्वरं कल्पयति । तर्हि स माम् एवेश्वरं कल्पयतु न तु मत्तो ऽन्यम् अनुपलब्धेर् इति भावः ॥१३॥


१६।१४

असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि ।
ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ॥१४॥

श्रीधरः : असाव् इति । सिद्धः कृत-कृत्यः । स्पष्टम् अन्यत् ॥१४॥

मधुसूदनः :
एवं लोभं प्रपञ्च्य तद्-अभिप्राय-कथनेनैव तेषां क्रोधं प्रपञ्चयति असाव् इति । असौ देवदत्त-नामा मया हतः शत्रुर् अतिदुर्जयः । अत इदानीम् अनायासेन हनिष्ये च हनिष्यामि अपरान् सर्वान् अपि शत्रून् । न को ऽपि मत्-सकाशाज् जीविष्यतीत्य् अपेर् अर्थः । च-कारान् न केवलं हनिष्यामि तान् किं तु तेषां दार-धनादिकम् अपि ग्रहीष्यामीत्य् अभिप्रायः । कुतस् तवैतादृशं सामर्थ्यं त्वत्-तुल्यानां त्वद्-अधिकानां वा शत्रूणां सम्भवाद् इत्य् अत आह - ईश्वरो ऽहं न केवलं मानुषो येन मत्-तुल्यो ऽधिको वा कश्चित् स्यात् । किम् एते करिष्यन्ति वराकाः सर्वथा नास्ति मत्-तुल्यः कश्चिद् इत्य् अनेनाभिप्रायेण्श्वरत्वं विवृणोति । यस्माद् अहं भोगी सर्वैर् भोगोपकरणैर् उपेतः सिद्धो ऽहं पुत्र-भृत्यादिभिः सहायैः सम्पन्नः स्वतो ऽपि बलवान् अत्योजस्वी
सुखी सर्वथा नीरोगः ॥१४॥

विश्वनाथः : नोथिन्ग्।

बलदेवः : नोथिन्ग्।


१६।१५

आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः ॥१५॥

श्रीधरः : किं च आढ्य इति । आढ्यो धनादि-सम्पन्नः । अभिजनवान् कुलीनः । यक्ष्ये यागाद्य्-अनुष्ठानेनापि दीक्षितान्तरेभ्यः सकाशान् महतीं प्रतिष्ठां प्राप्स्यामि । दास्यामिस् तावकेभ्यः । मोदिष्ये हर्षं प्राप्स्यामि इत्य् एवम् अज्ञानेन विमोहिता मिथ्याभिनिवेशं प्रापिताः ॥१५॥

मधुसूदनः : ननु धनेन कुलेन वा कश्चित् तत्-तुल्यः स्याद् इत्य् अत आह आढ्य इति । आढ्यो धनी, अभिजनवान् कुलीनो ऽप्य् अहम् एवास्मि । अतः को ऽन्यो ऽस्ति सदृशो मया न को ऽपीत्य् अर्थः । योगेन दानेन वा कश्चित् तत्-तुल्यः स्याद् इत्य् अत आह – यक्ष्ये यागेनाप्य् अन्यान् अभिभविष्यामि, दास्यामि धनं स्तावकेभ्यो नटादिभ्यश् च । ततश् च मोदिष्ये हर्षं लप्स्ये नर्तक्यादिभिः सहेत्य् एवम् अज्ञानेनाविवेकेन विमोहिता विविधं मोहं भ्रम-परम्परां प्रापिताः ॥१५॥

विश्वनाथः : नोथिन्ग्।

बलदेवः : ननु सम्पदा कुलेन चान्ये त्वत्-समा वीक्ष्यन्ते तत् कथम् ईश्वरस् त्वम् इति चेद् आह आढ्यः सम्पन्नः स्वतो ऽहम् अस्म्य् अभिजनवान् कुलीनश् च । न तु केनचिन् निमित्तेनातो मत्-सदृशो ऽन्यः को ऽस्ति । न को ऽपीत्य् अहम् एवेश्वरः । अतो ऽहं त्व् अबलेनैव यक्ष्ये दिव्याङ्गनानां सङ्गतिः करिष्ये । दास्यामि । तासाम् अधरादि खण्डयिषाम्य् एव मोहिष इत्य् अज्ञान-विमोहिताः सन्तो नरके पतन्तीत्य् अग्रिमेणान्वयः । अनेकेषु चिर-प्रयास-साध्येषु वस्तुष् यच् चित्तं तेन विभ्रान्ता विक्षिप्ता मोह-मयेन जालेन समावृता मत्स्या इव ततो निर्गन्तु-क्षमाः । काम-भोगेषु प्रसक्ता मध्ये मृताः सन्तो नरके पतन्त्य् अशुचौ वैतरण्यादौ ॥१५-१६॥


१६।१६

अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः ।
प्रसक्ताः काम-भोगेषु पतन्ति नरके ऽशुचौ ॥१६॥

श्रीधरः : एवम्भूता यत् प्राप्नुवन्ति तच् छृणु अनेकेति । अनेकेषु मनोरथेषु प्रवृत्तं चित्तम् अन्के-चित्तम् । तेन विभ्रान्ता विक्षिप्ताः । तेनैव मोहमयेन जालेन समावृताः । मत्स्या इव सूत्रमयेन जालेन यन्त्रिताः । एवं काम-भोगेषु प्रसक्ता अभिनिविष्टा सन्तो ऽशुचौ कल्मषे नरके पतन्ति ॥१६॥

मधुसूदनः : उक्त-प्रकारैर् अनेकैश् चित्तैस् तत्-तद्-दुष्ट-सङ्कल्पैर् विविधं भ्रान्ताः, यतो मोह-जाल-समावृताः मोहो हिताहित-वस्तु-विवेकासामर्थ्यं तद् एव जालम् इवावरणात्मकत्वेन बन्ध-हेतुत्वात् । तेन सम्यग्-आवृताः सर्वतो वेष्टिता मत्स्या इव सूत्रमयेन जालेन पर-वशी-कृता इत्य् अर्थः । अत एव स्वानिष्ट-साधनेस्व् अपि काम-भोगेषु प्रसक्ताः सर्वथा तद्-एक-पराः प्रतिक्षणम् उपचीयमान-कल्मषाः पतन्ति नरके वैतरण्यादाव् अशुचौ विण्-मूत्र-श्लेष्मादि-पूर्णे ॥१६॥

विश्वनाथः : अशुचौ नरके वैतर्ण्यादौ ॥१६॥

बलदेवः : नोथिन्ग्।


१६।१७

आत्म-सम्भाविताः स्तब्धा धन-मान-मदान्विताः ।
यजन्ते नाम-यज्ञैस् ते दम्भेनाविधि-पूर्वकम् ॥१७॥

श्रीधरः : यक्स्य इति च यस् तेषां मनोरथ उक्तः स केवलं दम्भाहङ्कारादि-प्रधान एव न तु सात्त्विक इत्य् अभिप्रायेणाह आत्मेति द्वाभ्याम् । आत्मनैव सम्भाविताः पूज्यतां नीताः । न तु साधुभिः कैश्चित् । अतएव स्तब्धा अनम्राः । धनेन यो मनोमदश् च ताभ्यां समन्विताः सन्तस् ते । नाम-मात्रेण ये यज्ञास् ते नाम-यज्ञाः । यद् वा दीक्षितः सोम-याजीत्य् एवम् आदि नाम-मात्र-प्रसिद्धये ये यज्ञास् तैर् यजन्ते । कथम् । दम्भेन । न तु श्रद्धया । अविधि-पूर्वकं च यथा भवति तथा ॥१७॥

मधुसूदनः : ननु तेषाम् अपि केषाञ्चिद् वैदिके कर्मणि याग-दानादौ प्रवृत्ति-दर्शनाद् अयुक्तं नरके पतनम् इति नेत्य् आह आत्म-सम्भाविता इति । सर्व-गुण-विशिष्टता वयम् इत्य् आत्मनैव सम्भाविताः पूज्यतां प्रापिता न तु साधुभिः कैश्चित् । स्तब्धा अनम्राः । यतो धन-मान-मदान्विता धन-निमित्तो यो मान आत्मनि पूज्यत्वातिशयाध्यासस् तन्-निमित्तश् च यो मदः परस्मिन् गुर्वादाव् अप्य् अपूज्यत्वाभिमानस् ताभ्याम् अन्वितास् ते नाम-यज्ञैः नाम-मात्रैर् यज्ञैर् न तात्त्विकैर् दीक्षिताः सोम-याजीत्य् आदिनाम् अमात्र-सम्पादकैर् वा यज्ञैर् अविधि-पूर्वकं विहिताङ्गेति-कर्तव्यता-रहितैर् दम्भेन धर्म-ध्वजितया न तु श्रद्धया यजन्ते । अतस् तत्-फल-भाजो न भवन्तीत्य् अर्थः ॥१७॥

विश्वनाथः : आत्मनैव सम्भाविताः पूज्यतां नीता न तु साधुभिः कैश्चिद् इत्य् अर्थः । अतएव स्तब्धा अनम्राः । नाम-मात्रेणैव ये यज्ञास् ते नाम-यज्ञास् तैः ॥१७॥

बलदेवः : आत्मनैव सम्भाविताः श्रैष्ठ्यं नीताः । न तु शास्त्रज्ञैः सद्भिः । स्तब्धाः अनम्राः । धनेन सम्पदा मानेन च परमहंसो महा-श्रमणः श्री-पूज्य-पादो महा-पूजाविद् इत्य् एवं लक्षणेन स्सत्-कारेण यो मदो गर्वस् तेनान्विताः । नाम-यज्ञैर् नाम-मात्रेण यज्ञैः पूजा-विधिभिः स्व-कल्पिता देवता यजन्ते स्व-स्वकानां गृहिणाम् अभ्युदयाय दम्भेन धर्म-ध्वजित्वेन विशिष्टा विरक्त-वेशाः सन्त इत्य् अर्थः । अविधि-पूर्वकम् अवेद-विहितं यथा भवति तथा ॥१७॥


१६।१८

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
माम् आत्म-पर-देहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥१८॥

श्रीधरः : अविधि-पूर्वकत्वम् एव प्रपञ्चयति अहङ्कारम् इति । अहङ्कारादीन् संश्रिताः सन्तः आत्म-पर-देहेष्व् आत्म-देहेषु पर-देहेषु च चिद्-अंशेन स्थितं मां प्रद्विषन्तो यजन्ते । दम्भ-यज्ञेषु श्रद्धाया अभावाद् आत्मनो वृथैव पीडा भवति । तथा पश्व्-आदीनाम् अप्य् अविधिना हिंसायां चैतन्य-द्रोह एवावशिष्यत इति प्रद्विषन्त इत्य् उक्तम् । अभ्यसूयकाः सन्-मार्ग-वर्तिनां गुणेषु दोषारोपकाः ॥१८॥

मधुसूदनः : यक्ष्ये दास्यामीत्य् आदि-सङ्कल्पेन दम्भाहङ्कारादि-प्रधानेन प्रवृत्तानाम् आसुराणां बहिरङ्ग-साधनम् अपि याग-दानादिकं कर्म न सिध्यति, अन्तरङ्ग-साधनं तु ज्ञान-वैराग्य-भगवद्-भजनादि तेषां दुरापास् तम् एवेत्य् आह अहङ्कारम् इति । अहम् अभिमान-रूपो यो ऽहङ्कारः स सर्व-साधारणः । एतैस् त्व् आरोपितैर् गुणैर् आत्मनो महत्त्वाभिमानम् अहङ्कारं तथा बलं पर-परिभव-निमित्तं शरीर-गत-सामर्थ्य-विशेषं दर्पं परावधीरणा-रूपं गुरु-नृपाद्य्-अतिक्रम-कारणं चित्त-दोष-विशेषं कामम् इष्ट-विषयाभिलाषं क्रोधम् अनिष्ट-विषय-द्वेषम् । च-कारात् पर-गुणासहिष्णुत्व-रूपं मात्सर्यम् । एवम् अन्यांश् च महतो दोषान् संश्रिताः ।

एतादृशा अपि पतितास् तव भक्त्या पूताः सन्तो नरके न पतिष्यन्तीति चेन् नेत्य् आह माम् ईश्वरं भगवन्तम् अपर-देहेषु आत्मनां तेषाम् आसुराणां परेषां च तत्-पुत्र-भार्यादीनां देहेषु प्रेमास्पदेषु तत्-तद्-बुद्धि-कर्म-साक्षितया सन्तम् अतिप्रेमास्पदम् अपि दुर्दैव-परिपाकात् प्रद्विषन्त ईश्वरस्य मम शासनं श्रुति-स्मृति-रूपं तद्-उक्तार्थानुष्ठान-पराङ्मुखतया तद्-अतिवर्तनं मे प्रद्वेषस् तं कुर्वन्तः । नृपाद्य्-आज्ञा-लङ्घनम् एव हि तत्-प्रद्वेष इति प्रसिद्धं लोके ।

ननु गुर्वादयः कथं तान् नानुशासति तत्राह अभ्यसूयका गुर्व्-आदीनां वैदिक-मार्ग-स्थानां कारुण्यादि-गुणेषु प्रतारणादि-दोषारोपकाः । अतस् ते सर्व-साधन-शून्या नरक एव पतन्तीत्य् अर्थः ।

माम् आत्म-पर-देहेष्व् इत्य् अस्यापरा व्याख्या स्व-देहेषु पर-देहेषु च चिद्-अंशेन स्थितं मां प्रद्विषन्तां यजन्ते दम्भ-यज्ञेषु श्रद्धाया अभावाद् दीक्षादिनात्मनो वृतहिव पीडा भवति । तथा पश्व्-आदीनाम् अप्य् अविधिना हिंसया चैतन्य-द्रोह-मात्रम् अवशिष्यत इति ।

अपरा व्याख्या आत्म-देहे जीवान् आविष्टे भगवल्-लीला-विग्रहे वासुदेवादि-समाख्ये मनुष्यत्वादि-भ्रमान् मां प्रद्विषन्तः । तथा पर-देहेषु भक्त-देहेषु प्रह्लादादि-समाख्येषु सर्वदाविर्भूतं मां प्रद्विषन्त इति योजना । उक्तं हि नवमे -

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ [गीता ९।११-१२]

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः [गीता ८।२३] इति चान्यत्र । तथा च भजनीये द्वेषान् न भक्त्या पूतना तेषां सम्भवतीत्य् अर्थः ॥१८॥

विश्वनाथः : मां परमात्मानम् अमानयन्त एव प्रद्विषन्तः । यद् वा आत्म-पराः परमात्म-परायणाः साधवस् तेषां देहेषु स्थितं मां प्रद्विषन्तः साधु-देह-द्वेषाद् एव मद्-द्वेष इति भावः । अभ्यसूयकाः साधूनां गुणेषु दोषारोपकाः ॥१८॥

बलदेवः : सर्वथा वेद-तत्-प्रतिपाद्येश्वरावमन्तराच् त इत्य् आह अहङ्कारम् इति । अहङ्कारादीन् संश्रितास् ते आत्मनः परेषां च देहेषु नियामकतया भर्तृतया चावस्थितं मां सर्वेश्वरं मद्-विषयकं वेदं च प्रद्विषन्तो ऽवज्ञयाकुर्वन्तो भवन्ति । अभ्यसूयकाः कुटिल-युक्तिभिर् मम वेदस्य च गुणेषु दोषान् आरोपयन्तः । अहम् एव स्वतन्त्रः करोमीत्य् अहङ्कारः । अहम् एव पराक्रमीति बलम् । मत्-तुल्यो न को ऽप्य् अस्तीति दर्पः । मद्-इच्छैव सर्व-साधिकेति कामः । मत्-प्रतीपम् अहम् एव हनिष्यामीति क्रोधश् च ॥१८॥


१६।१९

तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥१९॥

श्रीधरः : तेषां च कदाचिद् अपि आसुर-स्वभाव-प्रच्युतिर् न भवतीत्य् आह तान् इति द्वाभ्याम् । तान् अहं द्विषतः क्रूरान् संसारेषु जन्म-मृत्यु-मार्गेषु तत्राप्य् आसुरीष्व् एवातिक्रूरासु व्याघ्र-सर्पादि-योनिषु अजस्रम् अनवरतं क्षिपामि । तेषां पाप-कर्मणां तादृशं फलं ददामीत्य् अर्थः ॥१९॥

मधुसूदनः : तेषां त्वत्-कृपया कदाचिन् निस्तारः स्याद् इति नेत्य् आह तान् इति । तान् सन्-मार्ग-प्रतिपक्ष-भूतान् द्विषतः साधून् मा च क्रूरान् हिंसा-परान् अतो नराधमान् अतिनिनिद्तान् अजस्रं सन्ततम् अशुभान् अशुभ-कर्म-कारिणो ऽहं सर्व-कर्म-फल-दातेश्वरः संसारेष्व् एव नरक-संसरण-मार्गेषु क्षिपामि पातयामि । नरक-गताश् चासुरीष्व् एवातिक्रूरासु व्याघ्र-सर्पादि-योनिषु तत्-तत्-कर्म-वासनानुसारेण क्षिपामीत्य् अनुषज्यते । एतादृशेषु द्रोहिषु नास्ति ममेश्वरस्य कृपेत्य् अर्थः । तथा च श्रुतिः - अथ य इह कपूय-चरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरञ् श्व-योनिं वा सूकर-योनिं वा चण्डाल-योनिं वा [छाउ ५।१०।७] इति । कपूय-चरणाः कुत्सित-कर्माणो ऽभ्याशो ह शीघ्रम् एव कपूयां कुत्सितांयोनिम् आपद्यन्त
इति श्रुतेर् अर्थः । अत एव पूर्व-पूर्व-कर्मानुसारित्वान् नेश्वरस्य वैषम्यं नैर्घृण्यं वा । तथा च पारमर्षं सूत्रं - वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति [व्स् २।१।३४] इति । एवं च पाप-कर्माण्य् एव तेषां कारयति भगवांस् तेषु तद्-बीज-सत्त्वात् । कारुणिकत्वे ऽपि तानि न नाशयति तन्-नाशक-पुण्योपचयाभावात् पुर्ण्योपचयं न कारयति तेषाम् अयोग्यत्वात् । न हीश्वरः पाषाणेषु यवाङ्कुरान् करोति । ईश्वरत्वाद् अयोग्यस्यापि योग्यतां सम्पादयितुं शक्नोतीति चेत्, शक्नोत्य् एव सत्य-सङ्कल्पत्वात् यदि सङ्कल्पयेत् । न तु सङ्कल्पयति आज्ञा-लङ्घिषु स्वभक्त-द्रोहिषु दुरात्म-स्व-प्रसन्नत्वात् । अत एव श्रूयते - एष उ ह्य् एव साधु कर्म कारयति तं यम् उन्निनीषते, एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इति । येषु प्रसाद-कारणम्
अस्त्य् आज्ञा-पालनादि तेषु प्रसीदति । येषु तु तद्-वैपरीत्यं तेषु न प्रसीदति सति कारणे कार्यं कारणाभावे कार्याभाव इति किम् अत्र वैषम्यम् । परात् तु तच् छ्रुतेः [व्स्। २।३।३९] इति न्यायाच् च । अन्ततो गत्वा किञ्चिद् वैषम्यापादने महा-मायत्वाद् अदोषः ॥१९॥

विश्वनाथः : नोथिन्ग्।

बलदेवः : एषाम् आसुर-स्वभावान् क्वचिद् अपि विमोक्षो न भवतीत्य् आह तान् इति द्वाभ्याम् । आसुरीष्व् एव हिंसा-तृष्णादि-युक्तासु म्लेच्छ-व्याध-योनिषु तत्-तत्-कर्मानु-गुण-फलदः सर्वेश्वरो ऽहम् अजस्रं पुनः पुनः क्षिपामि ॥१९॥


१६।२०

आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥२०॥

श्रीधरः : किं च आसुरीम् इति । ते च माम् अप्राप्यैव इति एव-कारेण मत्-प्राप्ति-शङ्कापि कुतस् तेषाम् । मत्-प्राप्त्य्-उपायं सन्-मार्गम् अप्राप्य ततो ऽप्य् अधमां कृमि-कीटादि-योनिं यान्तीत्य् उक्तम् । शेषं स्पष्टम् ॥२०॥

मधुसूदनः : ननु तेषाम् अपि क्रमेण बहूनां जन्मनाम् अन्ते [गीता ७।१९] श्रेयो भविष्यति नेत्य् आह आसुरीम् इति । ये कदाचिद् आसुरीं योनिम् आपन्नास् ते जन्मनि जन्मनि प्रति जन्म मूढास् तमो-बहुलत्वेनाविवेकिनस् ततस् तस्माद् अपि यान्त्य् अधमां गतिं निकृष्टतमां गतिम् । माम् अप्राप्येति न मत्-प्राप्तौ काचिद् आशङ्काप्य् अस्ति । अतो मद्-उपदिष्टं वेद-मार्गम् अप्राप्येत्य् अर्थः । एव-कारस् तिर्यक्-स्थावरादिषु वेद-मार्ग-प्राप्ति-स्वरूपायोग्यतां दर्शयति । तेनात्यन्ततमो-बहुलत्वेन वेद-मार्ग-प्राप्ति-स्वरूपायोग्या भूत्वा पूर्व-पूर्व-निकृष्ट-योनितो निकृष्टतमाम् अधमां योनिम् उत्तरोत्तरं गच्छन्तीत्य् अर्थः । हे कौन्तेयेति निज-सम्बन्ध-कथनेन त्वम् इतो निस्तीर्ण इति सूचयति । यस्माद् एकदासुरीं योनिम् आपन्नानाम् उत्तरोत्तरं निकृष्टतर-निकृष्टतम-योनि-लाभो
न तु तत्-प्रतीकार-सामर्थ्यम् अत्यन्त-तमो-बहुलत्वात्, तस्माद् यावन् मनुष्य-देह-लाभो ऽस्ति तावन् महतापि प्रयत्नेनासुर्याः सम्पदः परम-कष्टतमायाः परिहाराय त्वरयैव यथा-शक्ति दैवी सम्पद् अनुष्ठेया श्रेयो ऽर्थिभिर् अन्यथा तिर्यग्-आदि-देह-प्राप्तौ साधनानुष्ठानायोग्यत्वान् न कदापि निस्तारो ऽस्तीति महत् सङ्कटम् आपद्येतेति समुदायार्थः । तद् उक्तं -

इहैव नरक-व्याधेश् चिकित्सां न करोति यः ।
गत्वा निरौषधं स्थानं स-रुजः किं करिष्यति ॥ इति ॥२०॥

विश्वनाथः : माम् अप्राप्यैवेति न तु मां प्राप्येति । वैवस्वत-मन्वन्तररीयाष्टाविंश-चतुर्व्युग-द्वापरान्ते ऽवतीर्णं मां कृष्णं कंसादि-रूपास् ते प्राप्य प्रद्विषन्तो ऽपि मुक्तिम् एव प्राप्नुवन्तीति भक्ति-ज्ञान-परिपाकतो लभ्याम् अपि मुक्तिं तादृश-पापिभ्यो ऽप्य् अहम् अपार-कृपा-सिन्धुर् ददामि । निभृत-मरुन्-मनो ऽक्ष दृढ-योग-युजो हृदि यन् मुनय उपासते तद्-अरयो ऽपि ययुः स्मरणात् [भ्प् १०।८७।२३] इति श्रुतयो ऽप्य् आहुः । अतः पूर्वोक्ता ममैव सर्वोत्कर्षो वरीवर्तीति भागवतामृत-कारिका यथा -

मां कृष्ण-रूपिणं यावन् नाप्नुवन्ति मम द्विषः ।
तावद् एवाधमं योनिं प्राप्नुवन्तीति हि स्फुटम् ॥ इति । [ल्भाग् १।५।८३]

बलदेवः : ननु बहु-जन्मान्ते तेषां कदाचित् त्वद्-अनुकम्पयासुरयोनेर् विमुक्तिः स्याद् इति चेत् तत्राह आसुरीम् इति । ते मूढा जन्मन्य् आसुरीं योनिम् आपन्ना माम् अप्राप्यैव ततो ऽप्य् अधमाम् अतिनिकृष्टां श्वादि-योनिं यान्ति । माम् अप्राप्यैव अत्र एव-कारेण मद्-अनुकम्पायाः सम्भावनापि नास्ति । तल्-लाभोपाय-योग्या सज्-जातिर् अपि दुर्लभेति । श्रुतिश् चैवम् आह - अथ कपूय-चरणा अभ्यासो ह यत् ते कपूयां योनिम् आपद्येरन् श्व-योनिं वा शूकर-योनिं वा चण्डाल-योनिं वा [छाउ ५।१०।७] इत्य् आदिका ।

नन्व् ईश्वरः सत्य-सङ्कल्पत्वादय् अयोग्यस्यापि योग्यतां शक्नुवात् कर्तुम् इति चेत्, शक्नुयाद् एव । यदि सङ्कल्पयेत् बीजाभावान् न सङ्कल्पयतीत्य् अतस् तस्या वैषम्यम् आह सूत्रकारः - वैष्यम्य-निअर्घृण्ये न [व्स् २।१।३५] इत्य् आदिना । ततश् च तान् अहम् इत्य् आदि-द्वयं सूपपन्नम् । एते नास्तिकाः सर्वदा नारकिनो दर्शिताः । ये तु शापाद् असुरास् तद्-अनुयायिनश् च राजन्याः प्रत्यक्षे उपेन्द्र-नृहरि-वराहादौ विष्णौ स्व-शत्रु-पक्षत्वेन विद्वेषिणो ऽपि वेद-वैदिक-कर्म-पराः सर्व-नियन्तारं काल-शक्तिकम् अप्रत्यक्षं सर्वेश्वरं मन्यन्ते । ते तूपेन्द्रादिभिर् निहताः क्रमात् त्यजन्त्य् आसुरी-योनिम् । कृष्णेन निहतास् तु विमुच्यन्ते चेति । न ते वेद बाह्याः ॥२०॥


१६।२१

त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः ।
कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ॥२१॥

श्रीधरः : उक्तानाम् आसुर-दोषाणां मध्ये सकल-दोष-मूल-भूतं दोष-त्रयं सर्वथा वर्जनीयम् इत्य् आह त्रिविधम् इति । कामः क्रोधो लोभश् चेति इदं त्रिविधं नरकस्य द्वारम् । अत एवात्मनो नाशनं नीचयोनि-प्रापकम् । तस्माद् एतत् त्रयं सर्वात्मना त्यजेत् ॥२१॥

मधुसूदनः : नन्व् आसुरी सम्पद् अनन्त-भेदवती कथं पुरुषायुषेणापि परिहर्तुं शक्यैतेत्वाशङ्क्य तां सङ्क्षिप्याह त्रिविधम् इति । इदं त्रिविधं त्रि-प्रकारं नरकस्य प्राप्तौ द्वारं साधनं सर्वस्या आसुर्याः सम्पदो मूल-भूतम् आत्मनो नाशनं सर्व-पुरुषार्थायोग्यता-सम्पादनेनात्यन्ताधम-योनि-प्रापकम् । किं तत् ? इत्य् अत आह कामः क्रोधस् तथा लोभ इति । प्राग् व्याख्यातम् । यस्माद् एतत् त्रयम् एव सर्वानर्थ-मूलं तस्माद् एतत् त्रयं त्यजेत् । एतत्-त्रय-त्यागेनैव सर्वाप्य् आसुरी सम्पत् त्यक्ता भवति । एतत्-त्रय-त्यागश् चोत्पन्नस्य विवेकेन कार्य-प्रतिबन्धः । ततः परं चानुत्पत्तिर् इति द्रष्टव्यम् ॥२१॥

विश्वनाथः : तद् एवम् आसुरीः समप्त्तीर् विस्तार्य प्रोक्ता इतस् ततः साधूक्तम् मा शुचः सम्पदं दैवीम् अभिजातो ऽसि भारत इति । किं वासुराणाम् एतत् त्रिकम् एव स्वाभाविकम् इत्य् आह त्रिविधम् इति ॥२१॥

बलदेवः : नन्व् आसुरीं प्रकृतिं नरक-हेतुं श्रुत्वा ये मनुष्यास् तां परिहर्तुम् इच्छन्ति । तैः किम् अनुष्ठेयम् इति चेत् तत्राह त्रिविधम् इति । एतत्-त्रय-परिहारे तस्याः परिहारः स्याद् इत्य् अर्थः ॥२१॥


१६।२२

एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः ।
आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥२२॥

श्रीधरः : त्यागे च विशिष्टं फलम् आह एतैर् इति । तमसो नरकस्य द्वार-भूतैर् एतैस् त्रिभिः कामादिभिर् विमुक्तो नर आत्मनः श्रेयः साधनं तपो-योगादिकम् आचरति । ततश् च मोक्षं प्राप्नोति ॥२२॥

मधुसूदनः : एतत् त्रयं त्यजतः किं स्याद् इति तत्राह एतैर् इति । एतैः काम-क्रोध-लोभैस् त्रिभिर् तमो-द्वारैर् नरक-साधनैर् विमुक्तो विरहितः पुरुष आचरत्य् आत्मनः श्रेयो यद् धितं वेद-बोधितं हे कौन्तेय पूर्वं हि कामादि-प्रतिबद्धः श्रेयो नाचरति येन पुरुषार्थः सिध्येत् । अश्रेयश् चाचरति येन निरपयातः स्यात् । अधुना तत्-प्रतिबन्ध-रहितः सन्न् अश्रेयो नाचरति श्रेयश् चाचरति तत ऐहिकं सुखम् अनुभूय सम्यग्-धी-द्वारा याति परां गतिं मोक्षम् ॥१६।२२॥

विश्वनाथः : नोथिन्ग्।

बलदेवः : तत्-त्यागे फलम् आह एतैर् इति । श्रेयः स्वाश्रम-कर्मादि-श्रेयः-साधनम् । परां गतिं मुक्तिम् ॥२२॥


१६।२३

यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः ।
न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥२३॥

श्रीधरः : कामादि-त्यागश् च स्व-धर्माचरणं विना न सम्भवतीत्य् आह य इति । शास्त्र-विधिं वेद-विहितं धर्मम् उत्सृज्य यः काम-चारतो यथेच्छं वर्तते स सिद्धिं तत्त्व-ज्ञानं न प्राप्नोति । न च परां गतिं मोक्षं प्राप्नोति ॥२३॥

मधुसूदनः : यस्माद् अश्रेयो नाचरणस्य श्रेय-आचरणस्य च शास्त्रम् एव निमित्तं तयोः शास्त्रैक-गम्यत्वात् तस्मात् य इति । शिष्यते ऽनुशिष्यते ऽपूर्वो ऽर्थो बोध्यते ऽनेनेति शास्त्रं वेदस् तद्-उपजीवि-स्मृति-पुराणादि च । तत्-सम्बन्धी विधि-लिङ्-आदि-शब्दः कुर्यान् न कुर्याद् इत्य् एवं-प्रवर्तनान्वर्तनात्मकः कर्तव्याकर्तव्य-ज्ञान-हेतुर् विधि-निषेधाख्यस् तं शास्त्र-विधिम् विधि-निषेधातिरिक्तम् अपि ब्रह्म-प्रतिपादकं शास्त्रम् अस्तीति सूचयितुं विधि-शब्दः । उत्सृज्याश्रद्धया परित्यज्य काम-कारतः स्वेच्छा-मात्रेण वर्तते विहितम् अपि नाचरति निषिद्धम् अप्य् आचरति यः स सिद्धिम् पुरुषार्थ-प्राप्ति-योग्यताम् अन्तः-करण-शुद्धिं कर्माणि कुर्वन्न् अपि नाप्नोति, न सुखम् ऐहिकम्, नापि परां गतिम् स्वर्गं मोक्षं वा ॥२३॥

विश्वनाथः : आस्तिक्यवत एव श्रेय इत्य् आह य इति काम-चारतः ॥२३॥

बलदेवः : कामादि-त्यागः स्व-धर्माद् विना न भवेत् । स्व-धर्मश् च शास्त्राद् विना न सिध्येद् अतः शास्त्रम् एवास्थेयं सुधियेत्य् आह य इति । काम-चारतः स्वाच्छन्द्येन यो वर्तते विहितम् अपि न करोति । निषिद्धम् अपि करोतीत्य् अर्थः । स सिद्धिं पुमर्थोपाय-भूतां हृद्-विशुद्धिं नैवाप्नोति । सुखम् उपशमात्मकं च परां गतिं मुक्तिं कुतो वाप्नुयात् ॥२३॥


१६।२४

तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ ।
ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुम् इहार्हसि ॥२४॥

श्रीधरः : फलितम् आह तस्माद् इति । इदं कार्यम् इदम् अकार्यम् इत्य् अस्यां व्यवस्थायां ते तव शास्त्रं श्रुति-स्मृति-पुराणादिकम् एव प्रमाणम् । अतः शास्त्र-विधानोक्तं कर्म ज्ञात्वा इह कर्माधिकारे वर्त्मानो यथा ऽधिकारं कर्म कर्तुम् अर्हसि तन्-मूलत्वात् सत्त्व-शुद्धि-सम्यग् ज्ञान-मुक्तीनाम् इत्य् अर्थः ॥२४॥

देव-दैतेय-सम्पत्ति-संविभागेन षोडशे ।
तत्त्व-ज्ञाने ऽधिकारस् तु सात्त्विकस्येति दर्शितम् ॥

इति श्रीश्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो ऽध्यायः
॥१६॥

मधुसूदनः : यस्माद् एवम् तस्माद् इति । यस्माच् छास्त्र-विमुखतया कामाधीन-प्रवृत्तिर् ऐहिक-पारत्रिक-सर्व-पुरुषार्थ-योग्यस् तस्मात् ते तव श्रेयो ऽर्थिनः कार्याकार्य-व्यवस्थितौ किं कार्यं किम् अकार्यम् इति विषये शास्त्रं वेद-तद्-उपजीवि-स्मृति-पुराणादिकम् एव प्रमाणं बोधकं नान्यत् स्वोत्प्रेक्षा-बुद्ध-वाक्यादीत्य् अभिप्रायः । एवं चेह कर्माधिकार-भूमौ शास्त्र-विधानेन कुर्यान् न कुर्याद् इत्य् एवं-प्रवर्तनानिवर्तना-रूपेण वैदिक-लिङ्-आदि-पदेनोक्तं कर्म-विहितं प्रतिषिद्धं च ज्ञात्वा निषिद्धं वर्जयन् विहितं क्षत्रियस्य युद्धादि-कर्म त्वं कर्तुम् अर्हसि सत्त्व-शुद्धि-पर्यन्तम् इत्य् अर्थः । तद् एवम् अस्मिन्न् अध्याये सर्वस्या आसुर्याः सम्पदो मूल-भूतान् सर्वाश्रेयः-प्रापकान् सर्व-श्रेयः-प्रतिबन्धकान् महा-दोषान् काम-क्रोध-लोभान् अपहाय
श्रेयो ऽर्थिना श्रद्दधानतया शास्त्र-प्रवणेन तद्-उपदिष्टार्थानुष्ठान-परेण भवतिव्यम् इति सम्पद्-द्वय-विभाग-प्रदर्शन-मुखेन निर्धारितम् ॥२४॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो ऽध्यायः
॥१६॥

विश्वनाथः : नोथिन्ग्।

आस्तिका एव विन्दन्ति सद्-गतिं सन्त एव ते ।
नास्तिका नरकं यान्तीत्य् अध्यायार्थो निरूपितः ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतासु षोडशो ऽध्यायः सङ्गतः सङ्गतः सताम् ।
॥१६॥।

बलदेवः : यस्माच् छास्त्र-विमुखतया कामाद्य्-अधीना प्रवृत्तिः पुमर्थाद् विभ्रंशयति । तस्मात् तव कार्याकार्य-व्यवस्थितौ किं कर्तव्यं किम् अकर्तव्यम् इत्य् अस्मिन् विषये निर्दोषम् अपौरुषेयं वेद-रूपं शास्त्रम् एव प्रमाणम् । न तु भ्रमादि-दोषवता पुरुषेणोत्प्रेक्षितं वाक्यम् । अतः शास्त्र-विधानेन कुर्यान् न कुर्याद् इति प्रवर्तना-निवर्तनात्मकेन लिङ्-तव्यादि-पदेनोक्तम् । कर्म विहितं निषिद्धं च ज्ञात्वा निषिद्धं तत् परित्यजन् इह कर्म-भूमौ विहित-कर्माग्नि-होत्रादि युद्धादि च कर्तुम् अर्हसि लोक-सङ्ग्रहाय ॥२४॥

वेदार्थ-नैष्ठिका यान्ति स्वर्गं मोक्षं च शाश्वतम् ।
वेद-बाह्यास् तु नरकान् इति षोडश-निर्णयः ॥

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये षोडशो ऽध्यायः ॥१६॥