१५।१
श्री-भगवान् उवाच
ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् ।
छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ॥१॥
श्रीधरः :
वैराग्येण विना ज्ञानं न च भक्तिर् अतः स्फुटम् ।
वैराग्योपस्कृतं ज्ञानम् ईशः पञ्चदशे ऽदिशत् ॥
पूर्वाध्यान्ते मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते [गीता १४।२६] इत्य् आदिना परमेश्वरम् एकान्त-भक्त्या भजतस् तत्-प्रसाद-लब्ध-ज्ञानेन ब्रह्म-भावो भवतीत्य् उक्तम् । न चैकान्त-भक्तिः ज्ञानं चाविरक्तस्य सम्भवतीति वैराग्य-पूर्वकं ज्ञानम् उपदेष्टु-कामः प्रथमं तावत् सार्ध-श्लोकाभ्यां संसार-स्वरूपं वृक्ष-रूपकालङ्कारेण वर्णयन् भगवान् उवाच ऊर्ध्व-मूलम् इति । ऊर्ध्वम् उत्तमः क्षराक्षराभ्याम् उत्कृष्टः पुरुषोत्तमो मूलं यस्य तम् । अध इति ततो ऽर्वाचीनां कार्योपाधयो हिरण्यगर्भादयो गृह्यन्ते । ते तु शाखा इव शाखा यस्य तम् । विनश्वरत्वेन श्वः प्रभात-पर्यन्तम् अपि न स्थास्यतीति विश्वासानर्हत्वाद् अश्वत्थं प्राहुः । प्रवाह-रूपेणाविच्छेदाद् अव्ययं च प्राहुः । ऊर्ध्व-मूलो ऽवाक्-शाख एषो
ऽश्वत्थः सनातन [कठु २।३।१] इत्य् आद्याः श्रुतयः । छन्दांसि वेदा यस्य पर्णानि धर्माधर्म-प्रतिपादन-द्वारेण च्छाया-स्थानीयैः कर्म-फलैः संसार-वृक्षस्य सर्व-जीवाश्रयणीयत्व-प्रतिपादनात् पर्ण-स्थानीया वेदाः । यस् तम् एवम्भूतम् अश्वत्थं वेद स एव वेदार्थ-वित् । संसार-प्रपञ्च-वृक्षस्य मूलम् ईश्वरः । ब्रह्मादयस् तद्-अंशाः शाखा-स्थानीयाः । स च संसार-वृक्सो विनश्वरः । प्रवाह-रूपेण नित्यश् च । वेदोक्तैः कर्मभिः सेव्यताम् आपादितश् च इत्य् एतावान् एव हि वेदार्थः । अत एवं विद्वान् वेदविद् इति स्तूयते ॥१॥
मधुसूदनः : पूर्वाध्याये भगव्ता संसार-बन्ध-हेतून् गुणान् व्याख्याय तेषाम् अत्ययेन ब्रह्म-भावो मोक्षो मद्-भजनेन लभ्यत इत्य् उक्तम् –
मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [गीता १४।२६] इति ।
तत्र मनुष्यस्य तव भक्ति-योगेन कथं ब्रह्म-भाव इत्य् आशङ्कायां स्वस्य ब्रह्म-रूपता-ज्ञापनाय सूत्र-भूतो ऽयं श्लोको भगवतोक्तः -
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥[गीता १४।२७] इति ।
अस्य सूत्रस्य वृत्ति-स्थानीयो ऽयं पञ्चदशो ऽध्याय आरभ्यते । भगवतः श्री-कृष्णस्य हि तत्त्वं ज्ञात्वा तत्-प्रेम-भजनेन गुणातीतः सन् ब्रह्म-भावं कथम् आप्नुयाल् लोक इति । तत्र ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदि भगवद्-वचनम् आकर्ण्य मम तुल्यो मनुष्यो ऽयं कथम् एवं वदतीति विस्मयाविष्टम् अप्रतिभया लज्जया च किञ्चिद् अपि प्रष्टुम् अशक्नुवन् तम् अर्जुनम् आलक्ष्य कृपया स्व-स्वरूपं विवक्षुः श्री-भगवान् उवाच ऊर्ध्वेति ।
तत्र विरक्तस्यैव संसाराद् भगवत्-तत्त्व-ज्ञाने ऽधिकारो नान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीन-प्रकृति-पुरुष-संयोग-कार्यं संसारं वृक्ष-रूप-कल्पनया वर्णयति वैराग्याय प्रस्तुत-गुणातीतत्वोपायत्वात् तस्य । ऊर्ध्वम् उत्कृष्टं मूलं कारणं स्व-प्रकाश-परमानन्द-रूपत्वेन नित्यत्वेन च ब्रह्म । अतह्वोर्ध्वं सर्व-संसार-बाधे ऽप्य् अबाधितं सर्व-संसार-भ्रमाधिष्ठानं ब्रह्म तद् एव मायया मूलम् अस्येत्य् ऊर्ध्व-मूलम् । अध इत्य् अर्वाचीनाः कार्योपाधयो हिरण्यग्रभाद्या गृह्यन्ते । ते नाना-दिक्-प्रसृतत्वाच् छाखा इव शाखा अस्येत्य् अधः-शाखम् । आशु-विनाशित्वेन न श्वो ऽपि स्थातेति विश्वासानर्हम् अश्वत्थम् माया-मयं संसार-वृक्षम् अव्ययम् अनाद्य्-अनन्त-देहादि-सन्तानाश्रयम् आत्म-ज्ञानम् अन्तरेणानुच्छेद्यम्
अनन्तम् अव्ययम् आहुः श्रुतयः स्मृतयश् च । श्रुतयस् तावत् – ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [कठु २।३।१] इत्य् आद्यः कठ-वल्लीषु पठिताः । अर्वाञ्चो निकृष्टाः कार्योपाधयो महद्-अहङ्कार-तन्मात्रादयो वा शाखा अस्येत्य् अर्वाक्-शाख इत्य् अधः-शाख-पद-समानार्थः । सनातन तिय् अव्यय-पद-समानार्थम् ।
स्मृतयश् च-
अव्यक्त-मूल-प्रभवस् तस्यैवानुग्रहोत्थितः ।
बुद्धि-स्कन्ध-मयश् चैव इन्द्रियान्तर-कोटरः ॥
महा-भूत-विशाखश् च विषयैः पत्रवांस् तथा ।
धर्माधर्म-सुपुष्पश् च सुख-दुःख-फलोदयः ॥
आजीव्यः सर्व-भूतानां ब्रह्म-वृक्षः सनातनः ।
एतद् ब्रह्म-वनं चास्य ब्रह्माचरति साक्षिवत् ॥
एतच् छित्त्वा च भित्त्वा च ज्ञानेन परमासिना ।
ततश् चात्म-गतिं प्राप्य तस्मान् नावर्तते पुनः ॥ [म्भ् १४।३५।२०-२२] इत्य् आदयः ।
अव्यक्तम् अव्याकृतं मायोपाधिकं ब्रह्म तद् एव मूलं कारणं तस्मात् प्रभवो यस्य स तथा । तस्यैव मूलस्याव्यक्तस्यानुग्रहाद् अतिदृढत्वाद् उत्थितः संवर्धितः । वृक्षस्य हि शाखाः स्कन्धाद् उद्भवन्ति । संसारस्य च बुद्धेः सकाशान् नाना-विधाः परिणामा भवन्ति । तेन साधर्म्येण बुद्धिर् एव स्कन्धस् तन्-मयस् तत्-प्रचुरो ऽयम् । इन्द्रियाणाम् अन्तराणि च्छिद्राण्य् एव कोटराणि यस्य स तथा । महान्ति भूतान्य् आकाशादीनि पृथिव्य्-अन्तानि विविधाः शाखा यस्य विशाखः स्तम्भो यस्येति वा । आजीव्य उपजीव्यः । ब्रह्मणा परमात्मनाधिष्ठितो वृक्षो ब्रह्म-वृक्षः । आत्म-ज्ञानं विना छेत्तुम् अशक्यतया सनातनः । एतद् ब्रह्म-वनम् अस्य ब्रह्मणो जीव-रूपस्य भोग्यं वननीयं सम्भजनीयम् इति वनं ब्रह्म साक्षिवद् आचरति
न त्व् एतत् कृतेन लिप्यत इत्य् अर्थः । एतद् ब्रह्म-वनं संसार-वृक्षात्मकं छित्त्वा च भित्त्वा चाहम्, ब्रह्मास्मीत्य् अतिदृढ-ज्ञान-खड्गेन स-मूलं निकृत्येत्य् अर्थः आत्म-रूपां गतिं प्राप्य तस्माद् आत्म-रूपान् मोक्षान् नावर्तत इत्य् अर्थः । स्पष्टम् इतरत् ।
अत्र च गङ्गा-तरङ्ग-नुद्यमानोत्तुङ्ग-तत्-तीर-तिर्यङ्-निपतितम् अर्धोन्मूलितं मारुतेन महान्तम् अश्वत्थम् उपमानीकृत्य जीवन्तम् इयं रूपक-कल्पनेति द्रष्टव्यम् । तेन नोर्ध्व-मूलत्वाधः-शाखत्वाद्य्-अनुपपत्तिः । यस्य माया-मयस्याश्वत्थस्य च्छन्दांसि च्छादनात् तत्त्व-वस्तु-प्रावरणात् संसार-वृक्ष-रक्षणाद् वा कर्म-काण्डानि ऋग्-यजुः-साम-लक्षणानि पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणाथानि पर्णानि भवन्ति तथा संसार-वृक्षस्य परिरक्षणाथानि कर्म-काण्डानि धर्माधर्मअ-तद्-धेतु-फल-प्रकाशनार्थत्वात् तेषाम् । यस् तं यथा-व्याख्यातं स-मूलं संसार-वृक्षं माया-मयम् अश्वत्थं वेद जानाति स वेद-वित् कर्म-ब्रह्माख्य-वेदार्थ-वित् स एवेत्य् अर्थः । संसार-वृक्षस्य हि मूलं ब्रह्म
हिरण्यगर्भादयश् च जीवाः शाखा-स्थानीयाः । स च संसार-वृक्षः स्वरूपेण विनश्वरः प्रवाह-रूपेण चानन्तः । स च वेदोक्तैः कर्मभिः सिच्यते ब्रह्म-ज्ञानेन च च्छिद्यत इत्य् एतावान् एव हि वेदार्थः । यश् च वेदार्थवित् स एव सर्व-विद् इति स-मूल-वृक्ष-ज्ञानं स्तौति स वेदविद् इति ॥१॥
विश्वनाथः :
संसार-च्छेदको ऽसङ्ग आत्मेशांशः क्षराक्षरात् ।
उत्तमः पुरुषः कृष्णः इति पञ्चदशे कथा ॥
पूर्वाध्याये –
मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [गीता १४।२६] इत्य् उक्तम् ।
तत्र तव मनुष्यस्य भक्ति-योगेन कथं ब्रह्म-भाव इति चेत्, सत्यम् अहं मनुष्य एव किन्तु ब्रह्मणो ऽपि तस्य प्रतिष्ठा परमाश्रय इत्य् अस्य सूत्र-रूपस्य वृत्ति-स्थानीयो ऽयं पञ्चदशाध्याय आरभ्यते । तत्र स गुणान् समतीत्य इत्य् उक्तम् इति गुणम्यो ऽयं संसारः कः, कुतो वायं प्रवृत्तस् तद्-भक्त्या संसारम् अतिक्राम्यन् जीवो वा कः । ब्रह्म-भूयाय कल्पते इत्य् उक्तं ब्रह्म वा किं । ब्रह्मणः प्रतिष्ठा त्वं वा क इत्य्-आद्य्-अपेक्षायां प्रथमम् अतिशयोक्त्य्-अलङ्कारेण संसारो ऽयम् अद्भुतो ऽश्वत्थ-वृक्ष इति वर्णयति । ऊर्ध्वे सर्व-लोकोपरि-तले सत्य-लोके प्रकृति-बीजोत्थ-प्रथम-प्ररोह-रूप-महत्-तत्त्वात्मकश् चतुर्मुख एक एव मूलं यस्य तम् । अधः स्वर्-भुवोर्-भूलोकेषु अनन्ता
देव-गन्धर्व-किन्नरासुर-राक्षस-प्रेत-भूत-मनुष्य-गवाश्वादि-पशु-पक्षि-कृमि-कीट-पतङ्ग-स्थावरास् ताः शाखा यस्य तम् अश्वत्थं धर्मादि-चतुर्वर्ग-साधकत्वाद् अश्वत्थम् उत्तमं वृक्षम् । श्लेषेण भक्तिमतां न श्वः स्थास्यतीत्य् अश्वत्थं नष्ट-प्रायम् इत्य् अर्थः । अभक्तानां त्व् अव्ययम् अनश्वरम् । छन्दांसि वायव्यं श्वेतम् आलभेत भूमिकाम् ऐन्द्रम् एकादशक-पालं निर्वपेत् प्रजाकामः इत्य् आद्याः कर्म-प्रतिपादका वेदाः संसार-वर्धकत्वात् पर्णानि । वृक्षो हि पर्णैः शोभते । यस् तं जानाति स वेदज्ञः । तथा च ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [कठु २।३।१] इति कठ-वल्ली-श्रुतिः ॥१॥
बलदेवः :
संसार-च्छेदि वैराग्यं जीवो मे ऽंशः सनातनः ।
अहं सर्वोत्तमः श्रीमान् इति पञ्चदशे स्मृतम् ॥
पूर्वत्र विज्ञानानन्दस्यौत्पत्तिक-गुणाष्टकस्यापि जीवस्य कर्म-रूपानादि-वासनानुगुणेन भगवत्-सङ्कल्पेन प्रकृति-गुण-सङ्गः । स च बहुविधस् तद्-अत्ययश् च भगवद्-भक्ति-शिरस्केन विवेक-ज्ञानेन भवेत् तस्मिंश् च सति सम्प्राप्त-निज-स्वरूपो जीवो भगवन्तम् आश्रित्य प्र्मोदो सर्वदा तस्मिंस् तिष्ठतीत्य् उक्तम् । अथ तद्-विवेक-ज्ञान-स्थैर्य-करं वैराग्यं जीवस्य भजनीय-भगवद्-अंशत्वं भगवतः स्वेतर-सर्वोत्तमत्वं चोक्तेष्व् अर्थेषूपयोगाय पञ्चदशे ऽस्मिन् वर्ण्यते । तत्र तावद् गुण-विरचितस्य संसारस्य वैराग्य-वैच्चेद्यत्वात् संसारं वृक्षत्वेन वैराग्यं च शस्त्रत्वेन रूपयन् वर्णयति भगवान् – ऊर्ध्वमूलम् इत्य् आदिभिस् त्रिभिः ।
संसार-रूपम् अश्वत्थम् ऊर्ध्व-मूलम् अधः-शाखं प्राहुः । ऊर्ध्वं सर्वोपरि-सत्य-लोके प्रधान-बीजोत्थ-प्रथम-प्ररोह-रूप-महत्-तत्त्वात्मक-चतुर्मुख-रूपं मूलं यस्य सः । अधः सत्य-लोकाद् अर्वाचीनेषु स्वर्-भुवर्-भूर्-लोकेषु देव-गन्धर्व-किन्नरासुर-यक्ष-राक्षस-मनुष्य-पशु-पक्षि-कीट-पतङ्ग-स्थावरान्ता नानादिक्-प्रसृतत्वाच् छाखा यस्य तम् । चतुर्वर्ग-फलाश्रयत्वाद् अश्वत्थम् उत्तम-वृक्षम् । तादृशेन विवेक-ज्ञानेन विना निवृत्तेर् अभावाद् अव्ययं प्रवाह-रूपेण नित्यं च । तम् आहुः श्रुतयश् चात्र –
ऊर्ध्व-मूलो ऽवाक्-शाख
एषो ऽश्वत्थः सनातनः ।
ऊर्ध्व-मूलम् अर्वाक्-शाखं
वृक्षं यो वेद सम्प्रति ॥ [कठु २।३।१] इत्य् आदिकाः ।
यस्य संसाराश्वत्थस्य छन्दांसि कर्माकर्म-प्रतिपादकानि श्रुति-वाक्यानि वासनाआ-रूप-तन्-निदान-वर्धकत्वात् पर्णानि प्राहुस् तानि च्छन्दांसि वायव्यं श्वेतम् आलभेत भूति-काम ऐन्द्रम् एकादशक-पालं निर्वपेत् प्रजा-कामः इत्य् आदीनि बोध्यानि । पत्रैस् तरुर् वर्धते शोभते च तम् अश्वत्थं यो वेद यथोक्तं जानाति स एव वेद-वित् । वेदः खलु संसारस्य वृक्षत्वं छेद्यत्वाभिप्रायेणाह तद्-छेदनोपायज्ञो वेदार्थविद् इति भावः ।
१५।२
अधश् चोर्ध्वं प्रसृतास् तस्य शाखा
गुण-प्रवृद्धा विषय-प्रवालाः ।
अधश् च मूलान्य् अनुसन्ततानि
कर्मानुबन्धीनि मनुष्य-लोके ॥२॥
श्रीधरः : किं च अधश् चेति । हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा-स्थानीयत्वेनोक्ताः । तेषु च ये दुष्कृतिनस् ते ऽधः पश्व्-आदि-योनिषु प्रसृतास् तस्य संसार-वृक्षस्य शाखाः । किं च, गुणैः सत्त्वादि-वृत्तिभिर् जल-सेचनैर् इव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः । किं च, विषया रूपादयः प्रवालाः पल्लव-स्थानीया यासां ताः । शाखाग्र-स्थानीयाभिर् इन्द्रिय-वृत्तिभिः संयुक्तत्वात् । किं च, अधश् च च-शब्दाद् ऊर्ध्वं च । मूलान्य् अनुसन्ततानि विरूढानि । मुख्यं मूलम् ईश्वर एव । इमानि त्व् अन्तरालानि मूलानि तत्-तद्-भोग-वासना-लक्षणानि । तेषां कार्यम् आह मनुष्य-लोके कर्मानुबन्धीनीति । कर्मैवानुबन्ध्य् उत्तर-काल-भावि येषां तानि । ऊर्ध्वाधो-लोकेषूपभुक्त-तत्-तद्-भोग-वासनादिभिर्
हि कर्म-क्षये मनुष्य-लोकं प्राप्तानां तत्-तद्-अनुरूपेषु कर्मसु प्रवृत्तिर् भवति । तस्मिन्न् एव हि कर्माधिकारो नान्येषु लोकेषु । अतो मनुष्य-लोक इत्य् उक्तम् ॥२॥
मधुसूदनः : तस्यैव संसार-वृक्षस्यावयव-सम्बन्धिन्य् अपरा कल्पनोच्यते अधश् चेति । पूर्वं हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा-स्थानीयत्वेनोक्ताः । इदानीं तु तद्-गतो विशेष उच्यते । तेषु ये कपूय-चरणा दुष्कृतिनस् ते ऽधः पश्व्-आदि-योनिषु प्रसृता विस्तारं गताः । ये तु रमणीय-चरणाः सुकृतिनस् त ऊर्ध्वं देवादि-योनिषु प्रसृता अतो ऽधश् च मनुष्यत्वाद् आरभ्य विरिञ्चि-पर्यन्तम् ऊर्ध्वं च तस्माद् एवारभ्य सत्य-लोक-पर्यन्तं प्रसृतास् तस्य संसार-वृक्षस्य शाखाः । कीदृशस् ताः ? गुणैः सत्त्व-रजस्-तमो भिर् देहेन्द्रिय-विषयाकार-परिणतैर् जल-सेचनैर् इव प्रवृद्धाः स्थूलीभूताः । किं च, विषयाः शब्दादयः प्रवालाः पल्लवा इव यासां संसार-वृक्ष-शाखानां तास् तथा शाखाग्र-स्थानीयाभिर्
इन्द्रिय-वृत्तिभिः सम्बन्धाद् रागाधिष्ठानत्वाच् च ।संयुक्तत्वात् । किं च, अधश् च च-शब्दाद् ऊर्ध्वं च मूलान्य् अवान्तराणि तत्-तद्-भोग-जनित-राग-द्वेषादि-वासना-लक्षणानि मूलानीव धर्माधर्म-प्रवृत्ति-कारकाणि तस्य संसार-वृक्षस्यानुसन्ततानि अनुस्यूतानि । मुख्यं च मूलं ब्रह्मैवेति न दोषः । कीदृशान्य् अवान्तर-मूलानि ? कर्म धर्माधर्म-लक्षणम् अनुबन्धुं पश्चाज् जनयितुं शीलं येषां तानि कर्मानुबन्धीनि । कुत्र ? मनुष्य-लोके मनुष्यश् चासौ लोकअश् चेत्य् अधिकृतो ब्राह्मण्यादि-विशिष्टो देहो मनुष्य-लोकस् तस्मिन् बाहुल्येन कर्मानुबन्धीनि । मनुष्याणां हि कर्माधिकारः प्रसिद्धः ॥२॥
विश्वनाथः : अधः पश्व्-आदि-योनिषु ऊर्ध्वे देवादि-योनिषु प्रसृतास् तस्य संसार-वृक्षस्य गुणैः सत्त्वादि-वृत्तिभिर् जल-सेकैर् इव प्रवृद्धाः । विषया शब्दादयः प्रवालाः पल्लव-स्थानीया यासां ताः । किं च तस्य मूले सर्व-लोकैर् अलक्षितो महा-निधिः कश्चिद् अस्तीत्य् अनुमीयते यम् एव मूल-जटाभिर् अवलम्ब्य स्थितस्य तस्याश्वत्थ-वृक्षस्यापि बट-वृक्षस्येव शाखास्व् अपि बाह्या जटाः सन्तीत्य् आह अधश् चेति । ब्रह्म-लोक-मूलस्यापि तस्याधश् च मनुष्य-लोके कर्मानुबन्धीनि कर्मानुलम्बीनि मूलान्य् अनुसन्ततानि निरन्तरं विस्तृतानि भवन्ति । कर्म-फलानां यतस् ततो भोगान्ते पुनर् मनुष्य-जन्मन्य् एव कर्मसु प्रवृत्तानि भवन्तीत्य् अर्थः ॥२॥
बलदेवः : किं चाध इति । तस्योक्त-लक्षणस्य संसाराश्वत्थस्य शाखा अध ऊर्ध्वं च प्रसृताः । अधो मनुष्य-पश्व्-आदि-योनिषु दुष्कृतैर् ऊर्ध्वं च देव-गन्धर्वादि-योनिषु सुकृतैर् विस्तृताः । गुणैः सत्त्वादि-वृत्तिभिर् अम्बु-निषेकैर् इव प्रवृद्धाः स्थौल्य-भाजः । विषयाः शब्द-स्पर्शादयः प्रवालाः पल्लवा यासां ताः । शाखाग्र-स्थानीयाभिः श्रोत्रादि-वृत्तिभिर् योगाद् रागाधिष्ठानत्वाच् च शब्दादीनां पल्लव-स्थानीयत्वम् ।
तस्याश्वत्थस्याधश् च शब्दाद् ऊर्ध्वं चावान्तराणि मूलान्य् अनुसन्ततानि विस्तृतानि सन्ति । तानि च तत्-तद्-भोग-जनित-राग-द्वेषादि-वासना-रूपाणि धर्माधर्म-प्रवृत्ति-कारित्वान् मूल-तुल्यान्य् उच्यन्ते । मुख्यं मूलं तादृक् चतुर्मुखस् तत्-तद्-वासनास् त्व् अवान्तर-मूलानि न्यग्रोधस्यैव जटोपजटावृन्दानीति भावः । तानि कीदृशानीत्य् आह मनुष्य-लोके कर्मानुबन्धीनि यतस् ततः कर्म-फल-भोगावसाने सति पुनर् मनुष्य-लोके कर्म-हेतु-भूतानि भवन्तीत्य् अर्थः । स लोकः खलु कर्म-भूमिर् इति प्रसिद्धम् ॥२॥
१५।३-४
न रूपम् अस्येह तथोपलभ्यते
नान्तो न चादिर् न च सम्प्रतिष्ठा ।
अश्वत्थम् एनं सु-विरूढ-मूलम्
असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥३॥
ततः पदं तत्-परिमार्गितव्यं
यस्मिन् गता न निवर्तन्ति भूयः ।
तम् एव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥
श्रीधरः : किं च, न रूपम् इति । इह संसारे स्थितैः प्राणिभिर् अस्य संसार-वृक्षस्य तथोर्ध्व-मूलत्वादि-प्रकारेण रूपं नोपलभ्यते । न चान्तो ऽवसानम् अपर्यप्तत्वात् । न चादिर् अनादित्वात् । न च सम्प्रतिष्ठा स्थितिः । कथं तिष्ठतीति नोपलभ्यते । यस्माद् एवम्भूतो ऽयं संसार-वृक्षो दुरुच्छेदो ऽनर्थकरश् च तस्माद् एनं दृढेन वैराग्येन शस्त्रेण च्छित्वा तत्त्व-ज्ञाने यतेतेत्य् आह अश्वत्थम् एनम् इति सार्धेन । एनम् अश्वत्थं सुविरूढ-मूलम् अत्यन्त-बद्ध-मूलं सन्तम् । असङ्गः सङ्ग-राहित्यम् अहं-ममता-त्यागः । तेन शस्त्रेण दृढेन सम्यग्-विचारेण च्छित्त्वा पृथक्-कृत्य ॥३॥
तत इति । ततश् तस्य मूल-भूतं तत् पदं वस्तु परिमार्गितव्यम् अन्वेष्टव्यं । कीदृशम्, यस्मिन् गता यत् पदं प्राप्ताः सन्तो भूयो न निवर्तन्ति नावर्तन्त इत्य् अर्थः । अन्वेषण-प्रकारम् एवाह तम् एवेति । यत एषा पुराणी चिरन्तनी संसार-प्रवृत्तिः प्रसृता विस्तृता । तम् एव चाद्यं पुरुषं प्रपद्ये शरणं व्रजामि । इत्य् एवम् एकान्त-भक्त्यान्वेष्टव्यम् इत्य् अर्थः ॥४॥
मधुसूदनः : यस् त्व् अयं संसार-वृक्षो वर्णित इह संसारे स्थितैः प्राणिभिर् अस्य संसार-वृक्षस्य तथोर्ध्व-मूलत्वादि तथा तेन प्रकारेण रूपं नोपलभ्यते स्वप्न-मरीच्य्-उदक-माया-गन्धर्व-नगरवन् मृषात्वेन दृष्ट-नष्ट-स्वरूपत्वात् तस्य । अत एव तस्यान्तो ऽवसानम् नोपलभ्यते । एतावता कालेन समाप्तिं गमिष्यतीति अपर्यप्तत्वात् । न चास्यादिर् उपलभ्यते । इत आरभ्य प्रवृत्त इत्य् अनादित्वात् । न च सम्प्रतिष्ठा स्थितिर् मध्यम-स्थोपलभ्यते । आद्य्-अन्त-प्रतियोगिकत्वात् तस्य । यस्माद् एवं-भूतो ऽयं संसार-वृक्षो दुरुच्छेदः सर्वानर्थ-करश् च तस्माद् अनाद्य्-अज्ञानेन सुविरूढ-मूलम् अत्यन्त-बद्ध-मूलं प्राग्-उक्तम् अश्वत्थं असङ्ग-शस्त्रेण सङ्गः स्पृहासङ्गः सङ्ग-विरोधि वैराग्यं पुत्र-वित्त-लोकैषणा-त्याग-रूपं तद् एव शस्त्रं
राग-द्वेष-मय-संसार-विरोधित्वात्, तेनासङ्ग-शस्त्रेण दृढेन परमात्म-ज्ञानौत्सुख्य-दृढीकृतेन पुनः पुनर् विवेकाभ्यास-निशितेन च्छित्त्वा स-मूलम् उद्धृत्य वैराग्य-शम-दमादि-सम्पत्त्या सर्व-कर्म-सन्न्यासं कृत्वेत्य् एतत् ॥३॥
ततो गुरुम् उपसृत्य ततो ऽश्वत्थाद् ऊर्ध्वं व्यवस्थितं तद् वैष्णवं पदं वेदान्त-वाक्य-विचारेण परिमार्गितव्यं मार्गयितव्यम् अन्वेष्टव्यं सो ऽन्वेष्टभ्यः स विजिज्ञासितव्य इति श्रुतेः । तत् पदं श्रवणादिना ज्ञातव्यम् इत्य् अर्थः । किं तत् पदं यस्मिन् पदे गताः प्रविष्टा ज्ञानेन न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय । कथं तत् परिमार्गितव्यम् ? इत्य् आह - यः पद-शब्देनोक्तस् तम् एव चाद्यम् आदौ भवं पुरुषं येनेदं सर्वं पूर्णं तं पुरुषु पूर्षु वा शयानं प्रपद्ये शरणं गतो ऽस्मीत्य् एवं तद्-एक-शरणतया तद् अन्वेष्टव्यम् इत्य् अर्थः । तं कं पुरुषं ? यतो यस्मात् पुरुषात् प्रवृत्तिर् माया-मय-संसार-वृक्ष-प्रवृत्तिः पुराणी चिरन्तन्य् अनादिर् एषा प्रसृता निःसृतैन्द्रजालिकाद् इव माया-हस्त्य्-आदि
तं पुरुषं प्रपद्य इत्य् अन्वयः ॥४॥
विश्वनाथः : किं चेह मनुष्य-लोके ऽस्य रूपं स्वरूपं तथा स-निश्चयं नोपलभ्यते सत्यो ऽयं मिथ्यायं नित्यो ऽयम् इति वादि-मत-वैविध्याद् इति भावः । न चान्तो ऽपर्यन्तत्वान् न चादिर् अनादित्वान् न च सम्प्रतिष्ठाश्रयः । किं वाधारः को ऽयम् इत्य् अपि नोपलभ्यते तत्त्व-ज्ञानाभावाद् इति भावः । यथा तथायं भवतु जीव-मात्र-दुःखैक-निदानस्यास्य छेदकं शस्त्रम् असङ्गं ज्ञात्वा तेनैतं छित्त्वैवास्य मूल-तल-स्थो महानिधिर् अन्वेष्टव्य इत्य् आह अश्वत्थम् इति । असङ्गो ऽनासक्तिः सर्वत्र वैराग्यम् इति यावत् तेन शस्त्रेण कुठारेण च्छित्वा स्वतः पृथक्-कृत्य ततस् तस्य मूल-भूतं तत्-पदं वस्तु महा-निधि-रूपं ब्रह्म परिमार्गितव्यम् । कीदृशं तद् अत आह यस्मिन् गता यत् पदं प्राप्ताः सन्तो भूयो न निवर्तन्ते न चावर्तन्त इत्य् अर्थः । अन्वेषण-प्रकारम्
आह यत एषा पुराणी चिरन्तनी संसार-प्रवृत्तिः प्रसृता विस्तृता तम् एवाद्यं पुरुषं प्रपद्ये भजामीति भक्त्या अन्वेष्टव्यम् इत्य् अर्थः ॥३-४॥
बलदेवः : न रूपम् इति अस्याश्वत्थस्य रूपम् इह मनुष्य-लोके तथा नोपलभ्यते यथोर्ध्व-मूलत्वादि-धर्मकतया मयोपवर्णितम् । न चास्यान्तो नाश उपललभ्यते । कथम् अयं अनर्थ-व्रात-जटिलो विनश्येद् इति न ज्ञायते । न चास्यादि-कारणम् उपलभ्यते । कुतो ऽयम् ईदृशो जातो ऽस्तीति । न चास्य सम्प्रतिष्ठा समाश्रयो ऽप्य् उपलभ्यते । किं समाश्रयो ऽयं सतिष्ठत् इति ।
किन्तु मनुस्योओ ऽहं पुत्रो यज्ञ-दत्तस्य,, पिता च देव-दत्तस्य, तद्-अनुरूप-कर्म-कारी सुखी दुःखी, सास्मिन् देशे ऽस्मिन् ग्रामे निवसामीत्य् एतावद् एव विज्ञायत इत्य् अर्थः । यस्माद् एवं दुर्बोधो ऽनर्थ-व्रते हेतुश् चायम् अश्वत्थस् तस्मात् सत्-प्रसङ्ग-लब्ध-वस्तु-याथात्म्य-ज्ञानेनैनम् असङ्ग-शस्त्रेण वैराग्य-कुठारेण दृढेन विवेकाभ्यास-निशितेन च्छित्वा स्वतः पृथक्-कृत्य तत् पदं परिमार्गितव्यम् इति परेणान्वयः । सङ्गो विषयाभिलाषस् तद्-विरोध्य् असङ्गो वैराग्यम्, तद् एव शस्त्रं तद्-अभिलाष-नाशकत्वात् सुविरूढ-मूलं पूर्वोक्त-रीत्यात्यन्तं बद्ध-मूलम् । ततः संसाराश्वत्थ-मूलाद् उपरिस्थितं तत् पदं परिमार्गितव्यं मत्-प्रसङ्ग-लब्धैः श्रवणादिभिः साधनैर् अन्वेष्टव्यम् ।
तत् पदं कीदृशं तत्राह यस्मिन्न् इति । यस्मिन् गतास् तैः साधनैर् यत् प्राप्ता जनास् ततो न निवर्तन्ते स्वर्गाद् इव न पतन्ति । मार्गण-विधिम् आह तम् एवेति । यतः पुराणी चिरन्तनीयं जगत्-प्रवृत्तिः प्रसृता विस्तृता । तम् एव चाद्यं पुरुषं प्रपद्ये शरणं व्रजामीति प्रपत्ति-पूर्वकैः श्रवणादिभिस् तन्-मार्गणम् उक्तम् । यो जगद्-धेतुर् यत्-पोरपत्त्या संसार-निवृत्तिः स खलु कृष्ण एव अहं सर्वस्य प्रभवः इत्य् आदेः । दैवी ह्य् एषा गुणमयी इत्य् आदेश् च तद्-उक्तेः । न तद् भासयत इत्य् आदिना व्यक्तीभावित्वाच् च ॥३-४॥
१५।५
निर्मान-मोहा जित-सङ्ग-दोषा
अध्यात्म-नित्या विनिवृत्त-कामाः ।
द्वन्द्वैर् विमुक्ताः सुख-दुःख-सञ्ज्ञैर्
गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥५॥
श्रीधरः : तत्-प्राप्तौ साधनान्तराणि दर्शयन्न् आह निर्मानेति । निर्गतौ मान-मोहौ अहङ्कार-मिथ्यातिसिवेशौ येभ्यस् ते । जितः पुत्रादि-सङ्ग-रूपो दोषो यैस् ते । अध्यात्म आत्म-ज्ञाने नित्याः परिनिष्ठिताः । विशेषेण निवृत्तः कामो येभ्यस् ते । सुख-दुःख-हेतुत्वात् सुख-दुःख-सञ्ज्ञानि शीतोष्णादीनि द्वन्द्वानि । तैर् विमुक्ताः । अत एवामूढा निवृताविद्याः सन्तः । तद् अव्ययं पदं गच्छन्ति ॥५॥
मधुसूदनः : परिमार्गण-पूर्वकं वैष्णवं पदं गच्छताम् अङ्गान्तराण्य् आह निर्माणेति । मानो ऽहङ्कारो गर्वः । मोहस् त्व् अविवेको विपर्ययो वा । ताभ्यां निष्क्रान्ता निर्मान-मोहाः । तौ निर्गतौ येभ्यस् ते वा । तथाहङ्काराविवेकाभ्यां रहिता इति यावत् । जित-सङ्ग-दोषाः प्रियाप्रिय-संविधाव् अपि राग-द्वेष-वर्जिता इति यावत् । अध्यात्म-नित्याः परमात्म-स्वरूप-लोक्चन-तत्-पराः । विनिवृत्त-कामा विशेषेतो निरवशेषेण निवृत्ताः कामा विषय-भोगा येषां ते । विवेक-वैराग्य-द्वारा त्यक्त-सर्व-कर्माण इत्य् अर्थः । द्वन्द्वैः शीतोष्णादि-क्षुत्-पिपासादिभिः सुख-दुःख-सञ्ज्ञैः सुख-दुःख-हेतुत्वात् सुख-दुःख-नामकैः सुख-दुःख-सङ्गैर् इति पाठान्तरे सुख-दुःखाभ्यां सङ्गः सम्बन्धो येषां तैः सुख-दुःख-सङ्गैर्
द्वन्द्वैर् विमुक्ताः परित्यक्ताः । अमूढा वेदान्त-प्रमाण-सञ्जात-सम्यग्-ज्ञान-निवारितात्मआज्ञानास् तद् अव्ययं यथोक्तं पदं गच्छन्ति ॥५॥
विश्वनाथः : तद्-भक्तौ सत्यां जनाः कीदृशा भूत्वा तं पदं प्राप्नुवन्तीत्य् अपेक्षायाम् आह निर्मानेति । अध्यात्म-नित्या अध्यात्म-विचारो नित्य् नित्य-कर्तव्यो येषां ते परमात्मालोचन-तत्-पराः ॥५॥
बलदेवः : तत्-प्रपत्तौ सत्यां कीदृशाः सन्तस् तत् पदं प्राप्नुवन्तीत्य् आह निर्मानेति । मानः सत्-कार-जन्यो गर्वः । मोहो मिथ्याभिनिवेशस् ताभ्यां निर्गताः । जितः सङ्ग-दोषः प्रिय-भार्यादि-स्नेह-लक्षणो यैस् ते । अध्यात्मं स्व-परात्म-विषयको विमर्शः स नित्यो नित्य-कर्तव्यो येषां ते । सुखादि-हेतुत्वात् तत्-सञ्ज्ञैर् द्वन्द्वैः शीतोष्णादिभिर् विमुक्तास् तत्-सहिष्णवः । अमूढाः प्रपत्ति-विधिज्ञाः ॥५॥
न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥६॥
श्रीधरः : तद् एव गन्तव्यं पदं विशिनष्टि न तद् इति । तत् पदं सूर्यादयो न प्रकाशयन्ति । यत् प्राप्य न निवर्तन्ते योगिनः । तद् धाम स्वरूपं परमं मम । अनेन सूर्यादि-प्रकाश-विषयत्वेन जडत्व-शीतोष्णादि-दोष-प्रसङ्गो निरस्तः ॥६॥
मधुसूदनः : तद् एव गन्तव्यं पदं विशिनष्टि न तद् इति । यद् वैष्णवं पदं गत्वा योगिनो न निवर्तन्ते तत् पदं सर्वावभासन-शक्तिमान् अपि सूर्यो न भासयते । सूर्यास्त-मये ऽपि चन्द्रो भासको दृष्ट इत्य् आशङ्क्याह न शशाङ्कः । सूर्याचन्द्रमसोर् उभयोर् अप्य् अस्त-मये ऽग्निः प्रकाशको दृष्ट इत्य् आशङ्क्याह न पावकः । भासयत इत्य् उभयत्राप्य् अनुषज्यते । कुतः सूर्यादीनां तत्र प्रकाशनासामर्थ्यम् इत्य् अत आह तद् धाम ज्योतिः स्वयं-प्रकाशम् आदियादि-सकल-जड-ज्योतिर्-अवभासकं परमं प्रकृष्टं मम विष्णोः स्वरूपात्मकं पदम् । न हि यो यद्-भास्यः स स्वभासकं तं भासयितुम् ईष्टे । तथा च श्रुतिः -
न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः ।
तम् एव भान्तम् अनुभाति सर्वं
तस्य भासा सर्वम् इदं विभाति ॥ [कठु २।२।१५] इति ।
एतेन तत् पदं वेद्यं न वा, आद्ये वेद्य-भिन्न-वेदितृ-सापेक्षत्वेन द्वैतापत्तिर् द्वितीये स्व-पुरुषार्थत्वापत्तिर् इत्य् अपास्तम् । अवेद्यत्वे सत्य् अपि स्वयम् अपरोक्षत्वात् तत्रावेद्यत्वं सूर्याद्य्-अभास्यत्वेनात्रोक्तम्, सर्व-भासकत्वेन तु स्वयम् अपरोक्षत्वं यद् आदित्य-गतं तेज इत्य् अत्र वक्ष्यति । एवम् उभाभ्यां श्लोकाभ्यां श्रुतेर् दलद्-वचं व्याख्यातम् इति द्रष्टव्यम् ॥६॥
विश्वनाथः : तत् पदम् एव कीदृशम् इत्य् अपेक्षायाम् आह न तद् इति । औष्ण्य-शैत्यादि-दुःख-रहितं तत् स्व-प्रकाशम् इति भावः । तन् मम परमं धाम सर्वोत्कृष्टम् अजडम् अतीन्द्रियं तेजः सर्व-प्रकाशकम् । यद् उक्तं हरि-वंशे –
तत् परं परमं ब्रह्म सर्वं विभजते जगत् ।
ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ [ह्व् २।११४।१२] इति ।
न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः ।
तम् एव भान्तम् अनुभाति सर्वं
तस्य भासा सर्वम् इदं विभाति ॥ इति [कठु २।२।१५] श्रुतिभ्यश् च ॥६॥
बलदेवः : गन्तव्यं पदं विशिष्यन् परिचाययति न तद् इति । प्रपन्ना यद् गत्वा यतो न निवर्तन्ते । तन् ममैव धाम स्वरूपं परमं श्रीमत् । सर्वावभासका अपि सूर्यादयस् तन् न भासयन्ति प्रकाशयन्ति । न तत्र सूर्यो भाति इत्य् आदि-श्रुतेश् च । सूर्यादिभिर् अप्रकाश्यस् तेषां प्रकाशकः स्व-प्रकाशक-चिद्-विग्रहो लक्ष्मीपतिर् अहम् एव पद-शब्द-बोध्यः प्रपन्नैर् लभ्य इत्य् अर्थः ॥६॥
१५।७
ममैवांशो जीव-लोके जीव-भूतः सनातनः ।
मनः-षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति ॥७॥
श्रीधरः : ननु च त्वदीयं धाम प्राप्ताः सन्तो यदि न निवर्तन्ते तर्हि सति सम्पद्य न विदुः सति सम्पद्यामहे इत्य् आदि श्रुतेः सुषुप्ति-प्रलय-समये तत्त्व-प्राप्तिः सर्वेषाम् अस्तीति को नाम संसारी स्याद् इत्य् आशङ्क्य संसारिणं दर्शयति ममैवेति पञ्चभिः । ममैवांशो यो ऽयम् अविद्यया जीव-भूतः सनातनः सर्वदा संसारित्वेन प्रसिद्धः । असौ सुषुप्ति-प्रलययोः प्रकृतौ लीनतया स्थितानि मनः षष्ठं येषां तानीन्द्रियाणि पुनर् जीव-लोके संसारोपभोगार्थम् आकर्षति । एतच् च कर्मेन्द्रियाणां प्राणस्य चोपलक्षणार्थम् । अयं भावः सअत्यं सुषुप्ति-प्रलययोर् अपि मद्-अंशत्वात् सर्वसापि जीव-मात्रस्य मयि लयाद् अस्त्य् एव मत्-प्राप्तिः । तथाप्य् अविद्यायावृतस्य सानुशयस्य स-प्रकृतिके मयि लयः । न तु शुद्धे । तद् उक्तम् – अव्यक्ताद्
व्यक्तयः सर्वे प्रभन्तीत्य् आदिना । अतश् च पुनः संसाराय निर्गच्छन् अविद्वान् प्रकृतौ लीनतया स्थितानि स्वोपाधि-भूतानीन्द्रियाणि आकर्षति । विदुषां तु शुद्ध-स्वरूप-प्राप्तेर् नावृत्तिर् इति ॥७॥
मधुसूदनः : जीवस्य तु पारमार्थिकं स्वरूपं ब्रह्मैवेत्य् असकृद् आवेदितम् । तद् एतत् सर्वं प्रतिपाद्यत उत्तरेण ग्रन्थेन । तत्र जीवस्य ब्रह्म-रूपत्वाद् अज्ञान-निवृत्त्या तत्-स्वरूपं प्राप्तस्य ततो न प्रच्युतिर् इति प्रतिपाद्यते ममैवाम्श [गीता १५।७अ] इति श्लोकार्धेन । सुषुप्तौ तु सर्व-कार्य-संस्कार-सहिताज्ञान-सत्त्वात् ततः पुनः संसारो जीवस्येति मनः-षष्ठानि [गीता १५।७ब्] इति श्लोकार्धेन प्रतिपाद्यते । ततस् तस्य वस्तुतो ऽसंसारिणो ऽपि मायया संसारं प्राप्तस्य मन्द-मतिभिर् देह-तादात्म्यं प्रापितस्य देहाद् व्यतिरेकः प्रतिपाद्यते शरीरम् [गीता १५।८] इत्य् आदिना श्लोकार्धेन । श्रोत्रं चक्षुर् [गीता १५।९] इत्य् आदिना तु यथायथं स्व-विषयेष्व् इन्द्रियाणां प्रवर्तकस्य तस्य तेभ्यो व्यतिरेकः प्रतिपाद्यते । एवं देहेन्द्रियादि-विलक्षणम् उत्क्रान्त्य्-आदि-समये स्वात्म-रूपत्वात्
किम् इति सर्वे न पश्यन्तीत्य् आशङ्कायां विषय-विक्षिप्त-चित्ता दर्शन-योग्यम् अपि तं न पश्यन्तीत्य् उत्तरम् उच्यते उत्क्रामन्तम् [गीता १५।१०अ] इत्य् आदिना श्लोकेन । तं ज्ञान-चक्षुषः पश्यन्तीति विवृतं यतन्तो योगिनः [गीता १५।११अ] इति श्लोकार्धेन । विमूढा नानुपश्यन्ति [गीता १५।१०ब्] इत्य् एतद् विवृतं यतन्तो ऽपि [गीता १५।११ब्] इति श्लोकार्धेनेति पञ्चानां श्लोकानां सङ्गतिः । इदानीं अक्षराणि व्याख्यास्यामो ममेति ।
ममैव परमात्मनो ऽंशो निरंशस्यापि मायया कल्पितः सूर्यस्येव जले नभस इव च घटे मृषाभेदवान् अम्श इवांशो जीव-लोके संसारे, स च प्राण-धारणोपाधिना जीव-भूतः कर्ता भोक्ता संसरतीति मृषैव प्रसिद्धिम् उपागतः सनातनो नित्य उपाधि-परिच्छेदे ऽपि वस्तुतः परमात्मत्व-रूपत्वात् । अतो ज्ञानादि-ज्ञान-निवृत्त्या स्व-स्वरूपं ब्रह्म प्राप्य ततो न निवर्तन्त इति युक्तम् ।
एवम्-भूतो ऽपि सुषुप्तात् कथम् आवर्तत इत्य् आह - मनः षष्ठं येषां तानि श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि पञ्चेन्द्रियाईन्द्रस्यात्मनो विषयोपलब्धि-करणतया लिङ्गानि जाग्रत्-स्वप्न-भोग-जनक-कर्म-क्षये प्रकृति-स्थानि प्रकृतावज्ञाने सूक्ष्म-रूपेण स्थितानि पुनर्-जाग्रद्-भोग-जनक-कर्मोदये भोगार्थं कर्षति कूर्मो ऽङ्गानीव प्रकृतेर् अज्ञानाद् आकर्षति विषय-ग्रहण-योग्यतयाविर्भावयतीत्य् अर्थः । अतो ज्ञानाद् अनावृत्ताव् अप्य् अज्ञानाद् आवृत्तिर् नानुपपन्नेति भावः ॥७॥
विश्वनाथः : त्वद्-भक्त्या संसारम् अतिक्राम्यन् त-पद-गामी जीवः क इत्य् अपेक्षायाम् आह ममैवाम्श इति । यद् उक्तं वाराहे स्वांशश् चाथ विभिन्नाम्श इति द्वेधायम् इष्यते । विभिन्नांशस् तु जीवः स्यात् इति । सनातनो नित्यः स च बद्ध-दशायां मनः एव षष्ठं येषां तानीन्द्रियाणि प्रकृताव् उपाधौ स्थितानि कर्षति । ममैव एतानीति स्वीयत्वाभिमानेन गृहीतां पादार्गल-शृङ्खलाम् इव कर्षति ॥७॥
बलदेवः : ननु त्वत्-प्रपत्त्या यस् तत्-पदं याति, स जीवः क इत्य् अपेक्षायाम् आह ममैवेति । जीवः सर्वेश्वरस्य ममैवांशो, न तु ब्रह्म-रुद्रादेर् ईश्वरस्य, स च सनातनो नित्यो, न तु घटाकाशादिवत् कल्पितः । स च जीव-लोके प्रपञ्चे स्थितो मनः-षष्ठानीन्द्रियाणि श्रोत्रादीनि कर्षति पादादि-शृङ्खला इव वहति । तानि कीदृंशीत्य् आह प्रकृति-स्थानि प्रकृति-विकार-भूताहङ्कार-कार्याणीत्य् अर्थः । तत्र मनः सात्त्विकाहङ्कारस्य श्रोत्रादिकं तु राजसाहङ्कारस्य कार्यम् इति बोध्यम् । भगवत्-प्रपत्त्या प्राकृत-करण-हीनो भगवल्-लोकं गतस् तु भागवतैर् देह-करणैर् विभूषणैर् इव विशिष्टो भगवन्तं संश्रयन् निवसतीति सूच्यते – स वा एष ब्रह्म-निष्ठ इदं शरीरं मर्त्यम् अतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा
शृणोति ब्रह्मणैवेदं सर्वम् अनुभवति इति माध्यन्दिनायन-श्रुतेः । वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः [भ्प् ३।१५।१४] इत्य् आदि स्मृतेश् च । भगवत्-सङ्कल्प-सिद्ध-चिद्-विग्रहस् तत्र भवतीति ।
यत् तु घटाकाशवज् जलाकाशवद् वा जीवे ब्रह्मणो ऽंशो ऽन्तः-करणेनावच्छेदात् तस्मिन् प्रतिबिम्ब-नाशाद् वा घट-जल-नाशे तत्-तद्-आकाशस्य शुद्धाकाशत्ववद् अन्तः-करण-नाशे जीवांशस्य शुद्ध-ब्रह्मत्वम् इति वदन्ति, न तत् सारम्, जीव-भूतः, ममांशः, सनातनः इत्य् उक्ति-व्याकोपात् । परिच्छेदादि-वाद-द्वयस्य देहिनो ऽस्मिन् यथा [गीता २।१२] इत्य् अत्र प्रत्याख्यानाच् च । प्रतिबिम्ब-सादृश्यात् तु तत्त्वं मन्तव्यम् अम्बुवद् अधिकरण-विनिर्णयात् । तस्मात् ब्रह्मोपसर्जनत्वं जीवस्य ब्रह्मांशत्वं विधु-मण्डलस्य शतांशः शुक्र-मण्डलम् इत्य् आदौ दृष्टं चेदम् एक-वस्त्व्-एक-देशत्वं चांशत्वम् आहुः । ब्रह्म खलु शक्तिमद् एकं वस्तु ब्रह्म-शक्तिः, इतस् त्व् अन्यां प्रकृतिं विद्धि मे परां जीव-भूताम् [गीता ७।५] इति पूर्वोक्तेर् अतस् तद् एक-देशात्
तद्-अंशो जीवः ॥७॥
१५।८
शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥८॥
श्रीधरः : तान्य् आकृष्य किं करोतीति । अत्राह शरीरम् इति । यद् यदा शरीरान्तरं कर्म-वशाद् अवाप्नोति यतश् च शरीराद् उत्क्रामतीश्वरो देहादीनां स्वामी तदा पूर्वस्मात् शरीराद् एतानि गृहीत्वा तच्-छरीरान्तरं सम्यग् याति । शरीरे सत्य् अपि इन्द्रिय-ग्रहणे दृष्टान्तः । आशयात् स्व-स्थानात् कुसुमादेः सकाशात् गन्धान् गन्धवतः सूक्ष्मान् अंशान् गृहीत्वा वायुर् यथा गच्छति तद्वत् ॥८॥
मधुसूदनः : अस्मिन् काले कर्षतीत्य् उच्यते शरीरम् इति । यद् यदोत्क्रामति बहिर् निर्गच्छतीश्वरो देहेन्द्रिय-सङ्घातस्य स्वामी जीवस् तदा यतो देहाद् उत्क्रामति ततो मनः-षष्ठानीन्द्रियाणि कर्षतीति द्वितीय-पादस्य प्रथमम् अन्वय उत्क्रमणोत्तर-भावित्वाद् गमनस्य । न केवलं कर्षत्य् एव, किन्तु यद् यदा च पूर्वस्माच् छरीरान्तरम् अवाप्नोति तदैतानि मनः-षष्ठाईन्द्रियाणि गृहीत्वा संयात्य् अपि सम्यक् पुनर् आगमन-राहित्येन गच्छत्य् अपि । शरीरे सत्य् एवेन्द्रिय-ग्रहणे दृष्टान्तः - आशयात् कुसुमादेः स्थानाद् गन्धान् गन्धात्मकान् सूक्ष्मान् अंशान् गृहीत्वा यथा वायुर् वाति तद्वत् ॥८॥
विश्वनाथः : तान्य् अकृष्य किं करोतीत्य् अपेक्षायाम् आह शरीरम् इति । यत् स्थूल-शरीरं कर्म-वशाद् अवाप्नोति, यच् च यस्माच् च शरीराद् उत्क्रामति निष्क्रामति, ईश्वरो देहेन्द्रियादि-स्वामी जीवः तस्मात् तत्र एतानीन्द्रियाणि भूत-सूक्ष्मैः सह गृहीत्वैव संयाति वायुर् गन्धानि इवेति वायुर् यथाशयाद् गन्धाश्रयात् स्रक्-चन्दनादेः सकाशात् सूक्ष्मावयवैः सह गन्धान् गृहीत्वान्यत्र याति तद्वद् इत्य् अर्थः ।
बलदेवः : जीव-लोके स्थित इन्द्रियाणि कर्षति इत्य् उक्तम् । तत् प्रतिपादयति शरीरम् इति । ईश्वरः शरीरेन्द्रियाणं स्वामी जीवो यद् यदा पूर्व-शरीराद् अन्यच् छरीरम् अवाप्नोति, यदा चाप्ताच् छरीराद् उत्क्रामति, तदैतानीन्द्रियाणि भूत-सूक्ष्मैः सह गृह्टिवा यात्य् आशयात् पुष्प-कोशाद् गन्धान् गृहीत्वा वायुर् इव स यथान्यत्र याति तद्वत् ॥८॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च ।
अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥९॥
श्रीधरः : तान्य् एवेन्द्रियाणि दर्शयन् यद् अर्थं गृहीत्वा गच्छति तद् आह श्रोत्रम् इति । श्रोत्रादीनि बाह्येन्द्रियाणि मनश् चान्तःकरणम्, तान्य् अधिष्टायाश्रित्य शब्दादीन् विषयान् अयं जीव उपभुङ्क्ते ॥९॥
मधुसूदनः : तान्य् एवेन्द्रियाणि दर्शयन् यद् अर्थं गृहीत्वा गच्छति तद् आह श्रोत्रम् इति । श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । च-कारात् कर्मेन्द्रियाणि प्राणं च मनश् च षष्ठम् अधिष्ठायैवाश्रित्यैव विषयान् शब्दादीन् अयं जीव उपसेवते भुङ्क्ते ॥९॥
विश्वनाथः : तत्र गत्वा किं करोतीत्य् अत आह श्रोत्रम् इति । श्रोत्रादीनीन्द्रियाणि मनश् चाधिष्ठायाश्रित्य विषयान् शब्दादीन् उपभुङ्क्ते ॥९॥
बलदेवः : तानि गृहीत्वा किम् अर्थं याति । तत्राह श्रोत्रम् इति । श्रोत्रादीनि समनस्कान्य् अधिष्ठायाश्रित्यायं जीवो विषयान् शब्दादीन् उपभुङ्क्ते । तद् अर्थं तद्-ग्रहणम् इत्य् अर्थः । च-शब्दात् कर्मेन्द्रियाणि च पञ्च प्राणांश् चाधिष्ठाये त्य् अवगम्यम् ॥९॥
१५।१०
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥१०॥
श्रीधरः : ननु कार्य-कारण-सङ्घात-व्यतिरेकेण एवम्भूतम् आत्मानं सर्वे ऽपि किं न पश्यन्ति । तत्राह उत्क्रामन्तम् इति । उत्क्रामन्तं देहाद् देहान्तरं गच्छन्तं तस्मिन्न् एव देहे स्थितं वा विषयान् भुञ्जानं वा गुणान्वितम् इन्द्रियादि-युक्तं जीवं विमूढा नानुपश्यन्ति नालोकयन्ति । ज्ञानम् एव चक्षुर् येषां ते विवेकिनः पश्यन्ति ॥१०॥
मधुसूदनः : एवं देह-गतं दर्शन-योगयम् अपि देहात् उत्क्रामन्तम् इति । उत्क्रामन्तं देहान्तरं गच्छन्तं पूर्वस्मात्, स्थितं वापि तस्मिन्न् एव देहे, भुञ्जानं वा शब्दादीन् विषयान् । गुणान्वितम् सुख-दुःख-मोहात्मकैर् गुणैर् अन्वितम् । एवं सर्वास्व् अवस्थासु दर्शन-योग्यम् अप्य् एनं विमूढा दृष्टादृष्ट-विषय-भोग-वासनाकृष्ट-चेतस्तयात्मानात्म-विवेकायोग्या नानुपश्यन्ति । अहो कष्टं वर्तत इत्य् अज्ञान् अनुक्रोशति भगवान् । ये तु प्रमाण-जनित-ज्ञान-चक्षुषो विवेकिनस् त एव पश्यन्ति ॥१०॥
विश्वनाथः : ननु यमाद् देहान् निष्क्रामति यस्मिन् देहे वा तिष्ठति तत्र स्थित्वा वा यथा भोगान् भुङ्क्ते इत्य् एवं विशेषं नोपलभामहे । तत्राह उत्क्रामन्तं देहान्न् निष्क्रामन्तम्, स्थितं देहान्तरे वर्तमानं च विषयान् भुञ्जानं च गुणान्वितम् इन्दिर्यादि-सहितं विमूढा अविवेकिनः ज्ञान-चक्षुषो विवेकिनः ॥१०॥
बलदेवः : एवं शरीरस्थत्वेनानुभवयोग्यम् अविवेकिनस् तम् आत्मानं नानुभवन्तीत्य् आह उद् इति । शरीराद् उत्क्रामन्तं तत्रैव स्थितं वा स्थित्वा विषयान् भुञ्जानं वा गुणान्वितं सुख-दुःख-मोहैर् इन्दिर्यादिभिर् वान्वितं युक्तम् अनुभव-योग्यम् अप्य् आत्मानं विमूढाश् चिरन्तन-ज्ञान-चक्षुषो विवेक-ज्ञान-नेत्रास् तु तं पश्यन्ति । शरीरादि-विविक्तम् अनुभवन्ति ॥१०॥
१५।११
यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् ।
यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥११॥
श्रीधरः : दुर्ज्ञेयश् चायं यतो विवेकिष्व् अपि केचित् पश्यन्ति केचिन् न पश्यन्तीत्य् आह यतन्त इति । यतन्तो ध्यानादिभिः प्रयतमाना योगिनः केचिद् एनम् आत्मानम् आत्मनि देहे ऽवस्थितं विविक्तं पश्यन्ति । शास्त्राभ्यासादिभिः प्रयत्नं कुर्वाणा अप्य् अकृतात्मानो ऽविशुद्ध-चित्ता अत एवाचेतसो मन्द-मतय एनं न पश्यन्ति ॥११॥
मधुसूदनः : पश्यन्ति ज्ञान-चक्षुष इत्य् एतद् विवृणोति यतन्त इति । आत्मनि स्व-बुद्धाव् अवस्थितं प्रतिफलितम् एनम् आत्मानम् यतन्तो ध्यानादिभिः प्रयतमाना योगिन एव पश्यन्ति । चो ऽवधारणे । यतमाना अप्य् अकृतात्मानो यज्ञादिभिर् अशोधितान्तः-करणा अत एवाचेतसो विवेक-शून्या नैनं पश्यन्तीति विमूढा नानुपश्यन्तीत्य् एतद् विवरणम् ॥११॥
विश्वनाथः : ते च विवेकिनो यतमाना योगिन एवेत्य् आह यतन्त इति । अकृतात्मानो ऽशुद्ध-चित्ताः ॥११॥
बलदेवः : ज्ञान-चक्षुषः पश्यन्ति इत्य् एतद् विवृण्वन् दुर्ज्ञानतां तस्याह् यतन्त इति । केचिद् योगिनो यतमानाः श्रवणाद्य्-उपायान् अनुतिष्ठन्त आत्मनि शरीरे ऽवस्थितम् एनम् आत्मानं पश्यन्ति । केचिद् यतमाना अप्य् अकृतात्मानो ऽनिर्मल-चित्ता अतो ऽवचेतसो ऽनुदित-विवेक-ज्ञाना एनं न पश्यन्तीति दुर्ज्ञेयम् आत्म-तत्त्वम् इत्य् अर्थः ॥११॥
१५।१२
यद् आदित्य-गतं तेजो जगद् भासयते ऽखिलम् ।
यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥१२॥
श्रीधरः : तद् एवं न तद् भासयते सूर्य इत्य् आदिना पारमेश्वरं परं धामोक्तम् । तत्-प्राप्तानां चापुनर्-आवृत्तिर् उक्ता । तत्र च संसारिणो ऽभावम् आशङ्क्य संसारि-स्वरूपं देहादि-व्यतिरिक्तं दर्शितम् । इदानीं तद् एव पारमेश्वरं रूपम् अनन्त-शक्तित्वेन निरूपयति यद् इत्य् आदि-चतुर्भिः । आदियादिषु स्थितं यद् अनेक-प्रकारं तेजो विश्वं प्रकाशयति तत् सर्वं तेजो मदीयम् एव जानीहि ॥१२॥
मधुसूदनः : इदानीं यत् पदं सर्वावभासन-क्षमा अप्य् आदित्यादयो भासयितुं न क्षमन्ते यत्-प्राप्ताश् च मुमुक्षवः पुनः संसाराय नावर्तन्ते यस्य च पदस्योपादि-भेदम् अनु विधीयमाना जीवा घटाकाशादय इवाकाशस्य कल्पितांशा मृषैव संसारम् अनुभवन्ति तस्य पदस्य सर्वात्मत्व-सर्व-व्यवहारास्पदत्व-प्रदर्शनेन ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४।२७] इति प्राग् उक्तं विवरीतुं चतुर्भिः श्लोकैर् आत्मनो विभूति-सङ्क्षेपम् आह भगवान् यद् इति । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः [कठु २।२।१५] इत्य् आदिना । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति [कठु २।२।१५] इति श्रुत्य्-अर्थम् अनेन व्याख्यायते । यद् आदित्य-गतं तेजश् चैत्न्यात्मकं ज्योतिर् यच् चन्द्रमसि यच् चाग्नौ स्थितं तेजो जगद् अखिलम्
अवभासयते तत् तेजो मामकं मदीयं विद्धि । यद्यपि स्थावर-जङ्गमेषु समानं चैतन्यात्मकं ज्योतिस् तथापि सत्त्वोत्कर्षेणादित्यादीनाम् उत्कर्षात् तत्रैवाविस्तरां चैतन्य-ज्योतिर् इति तैर् विशेष्यते यद् आदित्य-गतम् इत्य् आदि । यथा तुल्ये ऽपि मुख-सन्निधाने काष्ठ-कुड्यादौ न मुखम् आविर्भवति । आदर्शादौ च स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति तद्वद् यद् आदित्य-गतं तेज इत्य् उक्त्वा पुनस् तत् तेजो विद्धि मामकम् इति तेजो-ग्रहणाद् यद् आदित्यादि-गतं तेजः प्रकाशः पर-प्रकाश-समर्थं सित-भास्वरं रूपं जगद् अखिलं रूपवद् वस्तु अवभासयते । एवं यच् चन्द्रमसि यच् चाग्नौ जगद्-अवभासकं तेजस् तन् मामाकं विद्धीति विभूति-कथनाय द्वितीयो ऽप्य् अर्थो द्रष्टव्यः । अन्यथा तन् मामकं विद्धीत्य् एतावद् ब्रूयात् तेजो-ग्रहणम् अन्तरेणैवेति भावः ॥१२॥
विश्वनाथः : तद् एवं जीवस्य बद्धावस्थायां यत् यत् प्राप्य-वस्तु तत्राहम् एव सूर्य-चन्द्राद्य्-आत्मकः सन्न् उपकरोमीत्य् आह यद् इति त्रिभिः । आदित्य-स्थितं तेज एव उदय-पर्वते प्रातर् उदित्य जीवस्य दृष्टादृष्ट-भोग-साधन-कर्म-प्रवर्तनार्थं जगद् भासयत एवं च यच् चन्द्रमसि अगनौ च तत् तद् अखिलं मामकम् एव । सूर्यादि-सञ्ज्ञो ऽहम् एव भवामीत्य् अर्थः । तत् तेजस एव तत्-तद्-विभूतिर् इति भावः ॥१२॥
बलदेवः : अथ मद्-अंशस्य जीवस्य संसार-रक्तस्य मुमुक्षोश् च भोग-मोक्ष-साधनम् अहम् एवेति भावेनाह यद् इति चतुर्भिः । आदित्ये स्थितं यत् तेजो यच् चन्द्रे ऽग्नौ च स्थितं सत् सर्वं जगत् प्रकाशयति, तत् तेजो मामकं मदीयं विद्धि । उदितेन सूर्येण ज्वलितेन च वह्निनादृष्ट-भोग-साधनानि कर्माणि निष्पद्यन्ते । तिमिर-जाड्य-नाशादयश् च सुख-हेतवो भवन्ति । उदितेन चन्द्रेण चौषधि-पोष-ताप-शान्ति-ज्योत्स्नाविहारास् तथाभूता भवन्तीति तेषां तत्-तत्-साधकं तेजो मत्-तेजो-विभूतिर् इत्य् अर्थः ॥१२॥
गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥
श्रीधरः : किं च गाम् इति । गां पृथ्वीम् ओजसा बलेनाधिष्ठायाहम् एव चराचराणि भूतानि धारयामि । अहम् एव रसमयः सोमो भूत्वा ब्रीह्य्-आद्य्-औषधीः सर्वाः संवर्धयामि ॥१३॥
मधुसूदनः : किं च, गां पृथिवीम् पृथिवी-देवता-रूपेणाविश्यौजसा निजेन बलेन पृथिवीं धूलि-मुष्टि-तुल्यां दृढीकृत्य भूतानि पृथिव्याधेयानि वस्तून्य् अहम् एव धारयामि । अन्यथा पृथिवी सिकता-मुष्टिवद् विशीर्यताधो निमज्जेद् वा । येन द्यौर् उग्रा पृथिवी च दृढा [यजुःक् १।८।५, तैत्त्स् ४।१।८] इति मन्त्र-वर्णात् । स दाधार पृथिवीम् [Ṛक् ८।७।३।१] इति च हिरण्यगर्भ-भावापन्नं भगवन्तम् एवाह । किं च, रसात्मकः सर्व-रस-स्वभावः सोमो भूत्वौषधीः सर्वा ब्रीहि-यवाद्याः पृथिव्यां जाता अहम् एव पुष्णामि पुष्टिमती रस-स्वादुमतीश् च करोमि ॥१३॥
विश्वनाथः : गां पृथ्वीम् ओजसा स्व-शक्त्याविश्याधिष्ठायाहम् एव चराचराणि भूतानि धारयामि । तथाहम् एवामृत-रसमयः सोमो भूत्वा ब्रीह्य्-आद्य्-औषधीः सर्वाः संवर्धयामि ॥१३॥
बलदेवः : गाम् इति पांशु-मुष्टि-तुल्यां गां पृथिवीम् ओजसा स्व-शक्त्याविश्य दृढीकृत्य भूतानि स्थिर-चराणि धारयामि । मन्त्र-वर्णश् चैवम् आह – येन द्यौर् उग्रा पृथिवी च दृढा [Ṛक् ८।७।३।१] इति । अन्यथासौ सिकता-मुष्टिवद्-विशीर्येण निमज्जेद् वेति भावः । तथाहम् एव रसात्मकः सोमो ऽमृतमयश् चन्द्रो भूत्वा सर्वा औषधीर् निखिला ब्रीह्य्-आद्याः पुष्णामि । स्वादु-विविध-रस-पूर्णाः करोमि । तथा च भूमिलोके स्थितस्य जीवस्य विविध-प्रासाद-बाटिका-तडागादि-क्रीडा-स्थानानि निर्माय नाना-रसान् भुञ्जानस्य तत्-तत्-साधनम् अहम् एवेति ॥१३॥
१५।१४
अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥१४॥
श्रीधरः : किं च अहम् इति । अहम् ईश्वर एव वैश्वानरो जठराग्निर् भूत्वा प्राणिनां देहस्यान्तः प्रविश्य प्रानापानाभ्यां च तद्-उद्दीपकाभ्यां सहितः प्राणिभिर् भुक्तं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति चतुर्विधम् अन्नं पचामि । तत्र यद् दन्तैर् अवखण्ड्यावखण्ड्य भक्ष्यते पूपादि तद् भक्ष्यम् । यत् तु केवलं जिह्वया विलोड्य निगीर्यते पायसादि तद् भोज्यम् । यज् जिह्वायां निक्षिप्य रसास्वादेन क्रमशो निगीर्यते द्रवीभूतं गुडादि तल् लेह्यम् । यत् तु दंष्ट्रादिभिर् निष्पीड्य सारांशं निगीर्यावशिष्टं त्यज्यत इक्षु-दण्डादि तच् चोष्यम् इति चतुर्विधो ऽस्य भेदः ॥१४॥
मधुसूदनः : किं च अहम् इति । अहम् ईश्वर एव वैश्वानरो जठरो ऽग्निर् भूत्वा अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे येनेदम् अन्नं पच्यते यद् इदम् अद्यते [बउ ५।९।१] इत्य् आदि श्रुति-प्रतिपादितः सन् प्राणिनां सर्वेषां देहम् आश्रितो ऽन्तः प्रविष्टः प्रानापानाभ्यां तद्-उद्दीपकाभ्यां संयुक्तः सन्धुक्षितः सन् पचामि प्राणिभिर् भुक्तम् अन्नं चतुर्विधम् भक्ष्यं भोज्यं लेह्यं चोष्यं चेति । तत्र यद् दन्तैर् अवखण्ड्यावखण्ड्य भक्ष्यते पूपादि तद् भक्ष्यम् । यत् तु केवलं जिह्वया विलोड्य निगीर्यते सूपौदनादि तद् भोज्यम् । यज् जिह्वायां निक्षिप्य रसास्वादेन निगीर्यते किञ्चिद् द्रवीभूतं गुड-रसाला-शिखरिण्य्-आदि तल् लेह्यम् । यत् तु दन्तैर् निष्पीड्य रसांशं निगीर्यावशिष्टं त्यज्यते यथेक्षु-दण्डादि तच् चोष्यम् इति भेदः
। भोक्ता यः सो ऽग्न्रि वैश्वानरो यद् भोज्यम् अन्नं स सोमस् तद् एतद् उभयम् अग्नीषोमौ सर्वम् इति ध्यायतो ऽन्न-दोष-लेपो न भवतीत्य् अपि द्रष्टव्यम् ॥१४॥
विश्वनाथः : वैश्वानरो जठरानलः प्राणापानाभ्यां तद् उद्दीपकाभ्यां सहितश् चतुर्विधं भक्ष्यं भोज्यं लेह्यं चोष्यम् । भक्ष्यं दन्त-च्छेद्यं भृष्ट-चनकादि भोज्यं मोदकादि । लेह्यं गुडादि । चोष्यम् इक्षु-दण्डादि ॥१४॥
बलदेवः : भोग्यानाम् अन्नादीनां पाक-हेतुश् चाहम् एवेत्य् आह अहम् इति । वैश्वानरो जठराग्निस् तच्-छरीरको भूत्वा प्राणिनां सर्वेषां देहम् उदरम् आश्रितः प्रानापानाभ्यां तद्-उद्दीपकाभ्यां समायुक्तश् च सन्न् अहं तैर् भुक्तं चतुर्विधम् अन्नं पचामि पाकं नयामि । श्रुतिश् चैवम् आह अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे येनेदं अन्नं पच्यते इत्य् आदिना । तथा चाहम् एव जाठराग्नि-शरीरस् तद्-उपकारीत्य् एवम् आह सूत्रकारः – शब्दादिभ्यो ऽन्तः प्रतिष्ठानाच् च इत्य् आदिना । अन्नस्य चातुर्विध्यं च भक्ष्यं भोज्यं लेह्यं चूष्यं चेति भेदात् । दन्त-च्छेद्यं चणक-पूपादि । भक्ष्यं चर्व्यम् इति चोच्यते । मोदकौदन-सूपादि भोज्यं । पायस-गुड-मध्व्-आदि लेह्यं । पक्वाम्रेक्षु-दण्डादि चूष्यं । सोम-वैश्वानरयोः स्वाभेदेनोक्तिः
स्व-व्याप्यत्वाद् इति बोध्यम् ॥१४॥
१५।१५
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर् ज्ञानम् अपोहनं च ।
वेदैश् च सर्वैर् अहम् एव वेद्यो
वेदान्त-कृद् वेद-विद् एव चाहम् ॥१५॥
श्रीधरः : किं च सर्वस्य प्रानि-जातस्य हृदि सम्यग्-अन्तर्यामि-रूपेण प्रविष्टो ऽहम् । अतश् च मत्त एव हेतोः प्राणि-मात्रस्य पूर्वान्भूतार्थ-विषया स्मृतिर् भवति । ज्ञानं च विषयेन्द्न्द्रिय-संयोगजं भवति । आपोहनं च तयोः प्रमोषो भवति । वेदैश् च सर्वैस् तत्-तद्-देवतादि-रूपेणाहम् एव वेद्यः । वेदान्त-कृत् तत्-सम्प्रदाय-प्रवर्तकश् च । ज्ञानदो गुरुर् अहम् इत्य् अर्थः । वेद-विद् एव च वेदार्थ-विद् अप्य् अहम् एव ॥१५॥
मधुसूदनः : किं च, सर्वस्य ब्रह्मादि-स्थावरान्तस्य प्राणि-जातस्याहम् आत्मा सन् हृदि बुद्धौ सन्निविष्तः स एष इह प्रविष्टः [बउ १।४।७] इति श्रुतेः । अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छाउ ६।३।२] इति च । अतो मत्त आत्मन एव हेतोः प्राणि-जातस्य यथानुरूपं स्मृतिर् एतज् जन्मनि पूर्वानुभूतार्थ-विषया वृत्तिर् योगिनां च जन्मान्तरानुभूतार्थ-विषयापि । तथा मत्त एव ज्ञानं विषयेन्द्रिय-संयोगजं भवति । योगिनां च देश-काल-विप्रकृष्ट-विषयम् अपि । एवं काम-क्रोध-शोकादि-व्याकुल-चेतसाम् अपोहनं च स्मृति-ज्ञानयोर् अपायश् च मत्त एव भवति ।
एवं स्वस्य जीव-रूपताम् उक्त्वा ब्रह्म-रूपताम् आह - वेदैश् च सर्वैर् इन्द्रादि-देवता-प्रकाशकैर् अपि अहम् एव वेद्यः सर्वात्मत्वात् ।
इन्द्रं मित्रं वरुणम् अग्निम् आहुर्
अथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद् विप्रा बहुधा वदन्ति
अग्निं यमं मातरिश्वानम् आहुः ॥ [Ṛक् २।३।२२।६] इति मन्त्र-वर्णात् ।
एष उ ह्य् एव सर्वे देवाः इति च श्रुतेः । वेदान्त-कृद् वेदान्तार्थ-सम्प्रदाय-प्रवर्तको वेद-व्यासादि-रूपेण । न केवलम् एतावद् एव वेद-विद् एव चाहं कर्म-काण्डोपासना-काण्ड-ज्ञान-काण्डात्मक-मन्त्र-ब्राह्मण-रूप-सर्व-वेदार्थ-विच् चाहम् एव । अतः साधूक्तं ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४।२७] इत्य् आदि ॥१५॥
विश्वनाथः : यथैव जठरे जठराग्निर् अहं तथैव सर्वस्य चराचरस्य हृदि सन्निविष्टो बुद्धि-तत्त्व-रूपो ऽहम् एव । यतो मत्तो बुद्धि-तत्त्वाद् एव पूर्वानुभूतार्थ-विषयानुस्मृतिर् भवति । तथा विषयेन्द्रिय-योगजं ज्ञानं च अपोहनं स्मृति-ज्ञानयोर् अपगमश् च भवतीति । जीवस्य बन्धावस्थायां स्वस्योपकारकत्वम् उक्त्वा मोक्षावस्थायां यत् प्राप्यं तत्राप्य् उपकारत्वम् आह वेदैर् इति । वेद-व्यास-द्वारा वेदान्त-कृद् अहम् एव यतो वेदविद् वेदार्थ-तत्त्व-ज्ञो ऽहम् एव मत्तो ऽन्यो वेदार्थं न जानातीत्य् अर्थः ॥१५॥
बलदेवः : प्राणिनां ज्ञानाज्ञान-हेतुश् चाहम् एवेत्य् आह सर्वस्य चेति । तयोः सोम-वैश्वानरयोः सर्वस्य च प्राणि-वृन्दस्य हृदि निखिल-प्रवृत्ति-हेतु-ज्ञानोदय-देहे ऽहम् एव नियामकत्वेन सन्निविष्टः । अन्तः-प्रविष्टः शास्ता जनानाम् [तैत्त ३।११] । इत्य् आदि-श्रवणात् । अतो मत्त एव सर्वस्य स्मृतिः पूऋवानुभूत-वस्तु-विषयानुसन्धि-ज्ञानं च विषयेन्द्रिय-सन्निकर्ष-जन्यं जायते । तयोर् अपोहनं प्रमोषश् च मत्तो भवति । एवम् उक्तं उद्धवेन त्वत्तो ज्ञानं हि जीवानां प्रमोषस् तत्र शक्तितः इति ।
एवं सांसारिक-भोग-साधनतां स्वस्योक्त्वा मोक्ष-साधनताम् आह वेदैश् चेति । सर्वैर् निखिलैर् वेदैर् अहम् एव सर्वेश्वरः सर्व-शक्तिमान् कृष्णो वेद्यः । यो ऽसौ सर्वैर् वेदैर् गीयते इति श्रुतेः । अत्र कर्म-काण्डेन परम्परया ज्ञान-काण्डेन तु साक्षाद् इति बोध्यम् । कथम् एवं प्रत्येतव्यम् इति चेत् तत्राह वेदान्त-कृद् अहम् एवेति । वेदानाम् अन्तो ऽर्थ-निर्णयस् तत्-कृद् अहम् एव बादरायणात्मना । एवम् आह सूत्र-कारः – त तु समन्वयात् [व्स् १।१।४] इत्य् आदिभिः । नन्व् अन्ये वेदार्थम् अन्यथा व्याचक्ष्यते । तत्राह वेदविद् एव चाहम् इत्य् अहम् एव वेदविद् इति । बादरायणः सन् यम् अर्थम् अहं निरणैषं स एव वेदार्थस् ततो ऽन्यथा तु भ्रान्ति-विजृम्भित इति । तथा च मोक्ष-प्रदस्य सर्वेश्वर-तत्त्वस्य वेदैर् अबोधनाद् अहम् एव मोक्ष-साधनम् ॥१५॥
द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥१६॥
श्रीधरः : इदानीं तद् धाम परमं ममेति यद् उक्तं स्वकीयं सर्वोत्तम-स्वरूपं तद् दर्शयति द्वाव् इति त्रिभिः । क्षरश् चाक्षरश् चेति द्वाव् इमौ पुरुषौ लोके प्रसिद्धौ । ताव् एवाह तत्र क्षरः पुरुषो नाम सर्वाणि भूतानि ब्रह्मादि-स्थावरान्तानि शरीराणि । अविवेकि-लोकस्य शरीरेष्व् एव पुरुषत्व-प्रसिद्धेः । कुटो राशिः शिला-राशिः । पर्वत इव देहेषु नश्यत्स्व् अपि निर्विकारतया तिष्ठतीति कूटस्ह्तश् चेतनो भोक्ता । स त्व् अक्षरः पुरुष इत्य् उच्यते विवेकिभिः ॥१६॥
मधुसूदनः : एवं सोपाधिकम् आत्मानम् उक्त्वा क्षराक्षर-शब्द-वाच्य-कार्य-कारणोपाधि-द्वय-वियोगेन निरुपाधिकं शुद्धम् आत्मानं प्रतिपादयति कृपया भगवान् अर्जुनाय द्वाव् इमाव् इति त्रिभिः श्लोकैः । द्वाव् इमौ पृथग्-राशी-कृतौ पुरुषौ पुरुषोपाधित्वेन पुरुष-शब्द-व्यपदेश्यौ लोके संसारे । कौ तौ ? इत्य् आह क्षराक्षर एव च क्षरतीति क्षरो विनाशी कार्य-राशिर् एकः पुरुषः । न क्षरतीत्य् अक्षरो विनाश-रहितः क्षराख्यस्य पुरुषस्योत्पत्ति-बीजं भगवतो माया-शक्तिर् द्वितीयः पुरुषः । तौ पुरुषौ व्याचष्टे स्वयम् एव भगवान् क्षरः सर्वाणि भूतानि समस्तं कार्य-जातम् इत्य् अर्थः । कूटस्थः कूटो यथार्थ-वस्त्व्-आच्छादनेनायथार्थ्-वस्तु-प्रकाशनं वञ्चनं मायेत्य् अनर्थान्तरम् । तेनावरण-विक्षेप-शक्ति-द्वय-रूपेण
स्थितः कूटस्थो भगवान् माया-शक्ति-रूपः कारणोपाधिः संसार-बीजत्वेनानन्त्याद् अक्षर उच्यते ।
केचित् तु क्षर-शब्देनाचेतन-वर्गम् उक्त्वा कूटस्थो ऽक्षर उच्यत इत्य् अनेन जीवम् आहुः । तन् न सम्यक् । क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वात् । तस्मात् क्षराक्षर-शब्दाभ्यां कार्य-कारणोपाधी उभाव् अपि जडाव् एवोच्येते इत्य् एव युक्तम् ॥१६॥
विश्वनाथः : यस्माद् अहम् एव वेदवित् तस्मात् सर्व-वेदार्थ-निष्कर्षं सङ्क्षेपेण ब्रवीमि शृणु इत्य् आह द्वाव् इमाव् इति त्रिभिः । लोके चतुर्दश-भुवनात्मके जड-प्रपञ्चे इमौ द्वौ पुरुषौ चेतनौ स्तः । कौ ताव् अत आह क्षरं स्व-स्वरूपात् क्षरति विच्युतो भवतीति क्षरो जीवः । स्व-स्वरूपान् न क्षरतीत्य् अक्षर ब्रह्मैव । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा विविदिषन्ति । इति श्रुतेः । अक्षरं ब्रह्म परमम् इति स्मृतेश् च अक्षर-शब्दो ब्रह्म-वाचक एव दृष्टः । क्षराक्षरयोर् अर्थं पुनर् विशदयति सर्वाणि भूतानि एको जीव एव अनाद्य्-अविद्यया स्वरूप-विच्युतः सन् कर्म-परतन्त्रः समष्ट्य्-आत्मको ब्रह्मादि-स्थावरान्तानि भूतानि भवतीत्य् अर्थः । जात्या वा एकवचनम् । द्वितीय-पुरुषो ऽक्षरस् तु कूटस्थ एकेनैव स्वरूपेणविच्युतिमता सर्व-काल-व्यापी
। एकरूपतया तु यः काल-व्यापी स कूटस्थः इत्य् अमरः ॥१६॥
बलदेवः : बादरायणात्मना निर्णीतं वेदार्थं सङ्क्षिप्याह द्वाव् इति । लोक्यते तत्त्वम् अनेन इति व्युत्पत्तेर् लोके वेदे । द्वौ पुरुषौ प्रथितौ इमाव् इति प्रमाण-सिद्धता सूच्यते । तौ काव् इत्य् आह क्षरश् चेति । शरीर-क्षरणात् क्षरो ऽनेकावस्थो बद्धो ऽचित्-संसर्गैक-धर्म-सम्बन्धाद् एकत्वेन निर्दिष्टः । अक्षरस् तद्-अभावाद् एकावस्थो मुक्तो ऽचिद्-वियोगैक-धर्म-सम्बन्धाद् एकत्वेन निर्दिष्टः । क्षराक्षरौ स्फुटयति सर्वाणि ब्रह्मादि-स्तम्बान्तानि भूतानि क्षरः । कूतस्थः सदिअकावस्थो मुक्तस् त्व् अक्षरः । एकत्व-निर्देशः प्राग्-उक्त-युक्तेर् बोध्यः । बहवो ज्ञान-तपसा इत्य् आदेः । इदं ज्ञानम् उपाश्रित्य इत्य् आदेश् च बहुत्व-सङ्ख्याकः सः ॥१६॥
१५।१७
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥१७॥
श्रीधरः : यद् अर्थम् एतौ लक्षितौ तम् आह उत्तम इति । एताभ्यां क्षराक्सराभ्याम् अन्यो विलक्षणस् तु उत्तमः पुरुषः । वैलक्षण्यम् एवाह परमश् चासाव् आत्मा चेत्य् उदाहृतः उक्तः श्रुतिभिः । आत्मत्वेन क्षराद् अचेतनाद् विलक्षणः । परमत्वेनाक्षराच् चेतनाद् भोक्तुर् विलक्षण इत्य् अर्थः । परमात्मत्वं दर्शयति यो लोक-त्रयम् इति । य ईश्वर ईशन-शीलो ऽव्ययश् च निर्विकार एव सन् लोक-त्रयं कृस्नम् आविश्य बिभर्ति पालयति ॥१७॥
मधुसूदनः : आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधि-द्वय-दोषेणास्पृष्टो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावः उत्तम इति । उत्तम उत्कृष्टतमः पुरुषस् त्व् अन्योन्य एवात्यन्त-विलक्षण आभ्यां क्षराक्षराभ्यां जड-राशिभ्याम् उभय-भासकस् तृतीयश् चेतन-राशिर् इत्य् अर्थः । परमात्मेत्य् उदाहृतो ऽन्न-मय-प्राण-मय-मनो-मय-ज्ञान-मयानन्द-मयेभ्यः पञ्चभ्यो ऽविद्या-कल्पितात्मभ्यः परमः प्रकृष्टो ऽकल्पितो ब्रह्म पुच्छं प्रतिष्ठेत्य् उक्त आत्मा च सर्व-भूतानां प्रत्यक्-चेतन इत्य् अतः परमात्मेत्य् उक्तओ वेदान्तेषु । यः परमात्मा लोक-त्रयम् भूर्-भुवः-स्वर्-आख्यं सर्वं जगद् इति यावत् । आविश्य स्वकीयया माया-शक्त्याधिष्ठाय बिभर्ति सत्ता-स्फूर्ति-प्रदानेन धारयति पोषयति च । कीदृशः
? अव्ययः सर्व-विकार-शून्य ईश्वरः सर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्य् उदाहृत इत्य् अन्वयः । स उत्तमः पुरुष इति श्रुतेः ॥१७॥
विश्वनाथः : ज्ञानिभिर् उपास्यं ब्रह्मोक्त्वा योगिभिर् उपास्यं परमात्मानम् आह उत्तम इति । तु-शब्दः पूर्व-वैशिष्ठ्याद् द्योतकः । ज्ञानिभ्यश् चाधिको योगीत्य् उपासक-वैशिष्ट्याद् एवोपास्य-वैशिष्ट्यं च लभ्यते । परमात्म-तत्त्वम् एव दर्शयति य ईश्वर ईसन-शीलो ऽव्ययो निर्विकार एव सन् लोक-त्रयं कृत्स्नम् आविश्य बिभर्ति धारयति पालयति च ॥१७॥
बलदेवः : यद् अर्थं द्वौ पुरुषौ निरूपितौ तम् आह उत्तम इति । अन्यः क्षराक्षराभ्यां न तु तयोर् एवैकः सङ्कल्प इति भावः । तत्र श्रुति-सम्मतिम् आह परमात्मेति । उत्तमता-प्रयोजकं धर्मम् आह यो लोकेति । न चैतज् जगद्-विधारण-पालन-रूपम् ईशनं बद्धस्य जीवस्य कर्मासम्भवात् । न च मुक्तस्य जगद्-व्यापार-वर्जम् इति प्रतिषेधाच् च ॥१७॥
१५।१८
यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः ।
अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥
श्रीधरः : एवम् उक्तं पुरुषोत्तमत्वम् आत्मनो नाम-निर्वचनेन दर्शयति यस्मादि इत् । यस्मात् क्षरं जड-वर्गम् अतिक्रान्तो ऽहं नित्यम् उक्तत्वात् । अक्षराच् चेतन-वर्गाद् अप्य् उत्तमश् च नियन्तृत्वात् । अतो लोके वेदे च पुरुषोत्तम इति प्रथितः प्रख्यातो ऽस्मि । तथा च श्रुतिः - स एव सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदं प्रशास्तीत्य् आदि ॥१८॥
मधुसूदनः : इदानीं यथा-व्याख्यातेश्वरस्य क्षराक्षर-विलक्षणस्य पुरुषोत्तम इत्य् एतत् प्रसिद्ध-नाम-निर्वचनेनेदृशः परमेश्वरो ऽहम् एवेत्य् आत्मानं दर्शयति भगवान् ब्रह्मणो हि प्रतिष्ठाहं [गीता १४।२७] तद् धाम परमं मम [गीता १५।६] इत्यादि प्राग्-उक्त-निज-महिम-निर्धारणाय यस्माद् इति । यस्मात् क्षरं कार्यत्वेन विनाशिनं मायामयं संसार-वृक्ल्षम् अश्वत्थाख्यम् अतीतो ऽतिक्रान्तो ऽहं परमेश्वरो ऽक्षराद् अपि मायाख्याद् अव्याकृताद् अक्षरात् परतः पर इति पञ्चम्य्-अन्ताक्षर-पदेन प्रतिपादितात् संसार-वृक्ष-बीज-भूतात् सर्व-कारणाद् अपि चोत्तम उत्कृष्टतमः । अतः क्षराक्षराभ्यां पुरुषोत्पाधिभ्याम् अध्यासेन पुरुष-पद-व्यपद्श्याभ्याम् उत्तमत्वाद् अस्मि भवामि लोके वेदे च प्रथितः प्रख्यातः पुरुषोत्तम
इति स उत्तमः पुरुष इति वेद उदाहृत एव लोके च कवि-काव्यादौ हरिर् यथैकः पुरुषोत्तमः स्मृतः इत्य् आदि प्रसिद्धम् ।
कारुण्यतो नरवद् आचरतः परार्थान्
पार्थाय बोधितवतो निजम् ईश्वरत्वम् ।
सच्-चित्-उखैक-वपुषः पुरुषोत्तमस्य
नारायणस्य महिमा न हि मानम् एति ॥
केचिन् निगृह्य करणानि विसृज्य भोगम्
आस्थाय योगम् अमलात्म-धियो यतन्ते ।
नारायणस्य महिमानम् अनन्त-पारम्
आस्वादयन्न् अमृत-सारम् अहं तु मुक्तः ॥१८॥
विश्वनाथः : योगिभिर् उपास्यं परमात्मानम् उक्त्वा भक्तैर् उपास्यं भगवन्तं वदन् भगवत्त्वे ऽपि स्वस्य कृष्ण-स्वरूपस्य पुरुषोत्तम इति नाम व्याचक्षाणः सर्वोत्कर्षम् आह यस्माद् इति । क्षरं पुरुषं जीवात्मानम् अतीतः अक्षरात् पुरुषात् ब्रह्मत उत्तमाद् अविकारात् परमात्मनः पुरुषाद् अप्य् उत्तमः ।
योगिनाम् अपि सर्वेषां
मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां
स मे युक्ततमो मतः ॥ [गीता ६।४७] इति ।
उपासक-वैशिष्ट्याद् एवोपास्य-वैशिष्ट्य-लाभात् । च-काराद् भगवतो वैकुण्ठ-नाथादेः सकाशाद् अपि एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् इति सूतोक्तेर् अहम् उत्तमः ।
अत्र यद्यप्य् एकम् एव सच्-चिद्-आनन्द-स्वरूपं वस्तु ब्रह्म-परमात्म-भगवत्-शब्दैर् उच्यते न तु वस्तुतः स्वरूपतः को ऽपि भेदो ऽस्ति स्वरूप-द्वयाभावात् (भ्प् ६।९।३५) इति षष्ठ-स्कन्धोक्तेः । तद् अपि तत्-तद्-उपासकानां साधनतः फलतश् च भेद-दर्शनात् भेद इव व्यवह्रियते । तथा हि ब्रह्म-परमात्म-भगवद्-उपासकानां क्रमेण तत्-तत्-प्राप्ति-साधनं ज्ञानं योगो भक्तिश् च । फलं च ज्ञान-योगयोर् वस्तुतो मोक्ष एव, भक्तेस् तु प्रेमवत्-पार्षदत्वं च । तत्र भक्त्या विना ज्ञान-योगाभ्यां नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते [भ्प् १।५।१२] इति । पुरेह भूमन् बहवो ऽपि योगिनः [भ्प् १०।१४।५] इत्य् आदि-दर्शनात् न मोक्ष इति ।
ब्रह्मोपासकैः परमात्मोपासकैः स्व-साध्य-फल-सिद्ध्य्-अर्थं भगवतो भक्तिर् अवश्यं कर्तव्यैव । भगवद्-उपासकस् तु स्व-साध्य-फल-सिद्ध्य्-अर्थं न ब्रह्मोपासनापि परमात्मोपासना क्रियते । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भ्प् ११।२०।३१] इति, यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [भ्प् ११।२०।३२] इत्य् आदौ -
सर्वं मद्-भक्ति-योगेन
मद्-भक्तो लभते ऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम
कथञ्चिद् यदि वाञ्छति ॥ इति [भ्प् ११।२०।३३] ।
या वै साधन-सम्पत्तिः
पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति
नरो नारायणाश्रयः ॥ इत्य् आदि वचनेभ्यः ॥
अतएव भगवद्-उपासनया स्वर्गापवर्ग-प्रेमादीनि सर्व-फलान्य् एव लब्धुं शक्यन्ते । ब्रह्म-परमात्मोपासनया तु न प्रेमादीनीत्य् अत एव ब्रह्म-परमात्माभ्यां भगवद्-उत्कर्षः खलु अभेदे ऽप्य् उच्यते । यथा तेजस्त्वेनाभेदे ऽपि ज्योतिर् दीपाग्नि-पुञ्जेषु मध्ये शीताद्य्-आर्ति-क्षयाद् धेतोर् अग्नि-पुञ्ज एव श्रेष्ठ उच्यते । तत्रापि भगवतः श्री-कृष्णस्य तु परम एवोत्कर्षः । यथा अग्नि-पुञ्जाद् अपि सूर्यस्य, येन ब्रह्मोपासना-परिपाकतो लभ्यो निर्वाण-मोक्षः स्व-द्वेष्टृभ्यो ऽप्य् अघ-बक्-जरासन्धादिभ्यो महा-पापिभ्यो दत्त इति । अतएव ब्रह्मणो हि प्रतिष्ठाहम् इत्य् अत्र यथावद् एव व्याख्यातं श्री-स्वामि-चरणैः ।
श्री-मधुसूदन-सरस्वती-पादैर् अपि –
चिद्-आनन्दाकारं जलद-रुचि-सारं श्रुति-गिरां
व्रज-स्त्रीणां हारं भव-जलधि-पारं कृत-धियाम् ।
विहन्तुं भूभारं विदधद्-अवतारं मुहुर् अहो
ततो वारं वारं भजत कुशलारम्भ-कृतिनः ॥ इति ।
वंशी-व्विभूषित-करान् नव-नीरदाभात्
पीताम्बराद् अरुण-बिम्ब-फलाधरौष्ठात् ।
पूर्णेन्दु-सुन्दर-मुखाद् अरविन्द-नेत्रात्
कृष्णात् परं किम् अपि तत्त्वम् अहं न जाने ॥ इति ।
प्रमाणतो ऽपि निर्णीयं
कृष्ण-माहात्म्यम् अद्भुतम् ।
न शक्नुवन्ति ये सोढुं
ते मूढा निरयं गताः ॥
इत्य् उक्तवद्भिः कृष्णे सर्वोत्कर्ष एव व्यवस्थापित इत्य् अतः द्वाव् इमौ इत्य् आदि श्लोक-त्रयस्यास्य व्याख्यायाम् अस्याम् अभ्यसूया नाविष्कर्तव्या । नमो ऽस्तु केवल-विद्भ्यः ॥१८॥
बलदेवः : अथ पुरुषोत्तम-नाम-निर्वचनं स्वस्य तत्त्वम् आह यस्माद् इति उत्तम उत्कृष्टतमः । लोके पौरुषेयागमे लोक्यते वेदार्थो ऽनेन इति निरुक्तेः । वेदे तावद् एष सम्प्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतीरूपं सम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः इत्य् आदौ प्रथितः यत् परं ज्योतिः सम्प्रसादेनोपसम्पन्नं स उत्तमः पुरुषः परमात्मेतिय् अर्थः । लोके च -
तैर् विज्ञापित-कार्यस् तु
भगवान् पुरुषोत्तमः ।
अवतीर्णो महा-योगी
सत्यवत्यां पराशरात् ॥ [स्कन्दप्] इत्य् आदौ प्रथितः ॥१८॥
१५।१९
यो माम् एवम् असम्मूढो जानाति पुरुषोत्तमम् ।
स सर्व-विद् भजति मां सर्व-भावेन भारत ॥१९॥
श्रीधरः : एवम्भूतेश्वरस्य ज्ञातुः फलम् आह य इति । एवम् उक्त-प्रकारेणासम्मूढो निश्चित-मतिः सन् यो मां पुरुषोत्तमं जानाति स सर्व-भावेन सर्व-प्रकारेण माम् एव भजति । ततश् च सर्ववित् सर्वज्ञो भवति ॥१९॥
मधुसूदनः : एवं नाम-निर्वचन-ज्ञाने फलम् आह यो माम् इति । यो माम् ईश्वरम् एवं यथोक्त-नाम-निर्वचनेनासम्मूढो मनुष्य एवायं कश्चित् कृष्ण इति सम्मोह-वर्जितो जानात्य् अयम् ईश्वर एवेति पुरुषोत्तमं प्राग् व्याख्यातं स मां भजति सेवते सर्वविन् मां सर्वात्मानं वेत्तीति स एव सर्वज्ञः सर्व-भावेन प्रेम-लक्षणेन भक्ति-योगेन हे भारत । अतो यद् उक्तम् -
मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [गीता १४।२६] इति तद् उपपन्नम् ।
यथोक्तं ब्रह्मणो हि प्रतिष्ठाहम् इति तद् अप्य् उपपन्नतरम् ।
चिद्-आनन्दाकारं जलद-रुचि-सारं श्रुति-गिरां
व्रज-स्त्रीणां हारं भव-जलधि-पारं कृत-धियाम् ।
विहन्तुं भूभारं विदधद्-अवतारं मुहुर् अहो
ततो वारं वारं भजत कुशलारम्भ-कृतिनः ॥१९॥
विश्वनाथः : नन्व् एतस्मिंस् त्वया व्यवस्थापिते ऽप्य् अर्थे वादिनो विवदन्त एव, तत्र विवदन्तां ते मन्-माया-मोहिताः साधुस् तु न मुह्यतीत्य् आह यो माम् इति । असम्मूढो वादिनां वादिअर् अप्राप्त-सम्मोहः । स एव सर्वविद् अनधीत-शास्त्रे ऽपि स सर्व-शास्त्रार्थ-तत्त्व-ज्ञः । तद्-अन्यः किलाधीताध्याशित-सर्व-शास्त्रे ऽपि सम्मूढः सम्यङ्-मूर्ख एवेति भावः । तथा य एवं जानाति स एव मां सर्वतो-भावेन भजति । तद् अन्ये भजन्न् अपि न मां भजतीत्य् अर्थः ॥१९॥
बलदेवः : तात्पर्य-द्योतनाय पुरुषोत्तमत्व-वेत्तुः फलम् आह यो माम् इति । एवं मद्-उक्त-निरुक्त्या न त्व् अश्व-कर्णादिवत् सञ्ज्ञा-मात्रत्वेन । यो मां पुरुषोत्तमं जानात्य् असम्मूढः । प्रोक्ते पुरुषोत्तमत्वे संशय-शून्यः सन्, स श्लोक-त्रयस्यैवार्थं जानन् सर्व-वित् । निखिलस्य वेदस्य तत्रैव तात्पर्यात् । पुरुषोत्तमत्वज्ञो मां सर्व-भावेन सर्व-प्रकारेण भजत्य् उपास्ते । सर्व-वेदार्थ-वेत्तरि सर्व-भक्त्य्-अङ्गानुष्ठातरि च यो मे प्रसादः स तस्मिन् भवेद् इति मे पुरुषोत्तमत्वे सन्दिहानस् त्व् अधीत-सर्व-वेदो ऽप्य् अज्ञः । सर्वथा भजन्न् अप्य् अभक्त इति भावः ॥१९॥
१५।२०
इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ॥२०॥
श्रीधरः : अध्यायार्थम् उपसंहरति इतीति । इत्य् अनेन सङ्क्षेप-प्रकारेण गुह्यतमम् अतिरहस्यं सम्पूर्णं शास्त्रम् एव मयोक्तम् । न तु पुनर् विंशति-श्लोकम् अध्याय-मात्रं हे अनघ व्यसन-शून्य । अत एतन् मद्-उक्तं शास्त्रं बुद्ध्या बुद्धिमान् सम्यग् ज्ञानी स्यआत् । ऋत-कृत्यश् च स्यात् । यो ऽपि को ऽपि हे भारत त्वं कृत-कृत्यो ऽसीति किं वक्तव्यम् इति भावः ॥२०॥
संसार-शाखिनं छित्त्वा स्पष्टं पञ्चदशे विभुः ।
पुरुषोत्तम-योगाख्ये परं पदम् उपादिशत् ॥
इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
पुरुषोत्तम-योगो नाम पञ्चदशो ऽध्यायः
॥१५॥
मधुसूदनः : इदानीम् अध्यायार्थं स्तुवन्न् उपसंहरति इतीति । इति अनेन प्रकारेण गुह्यतमं रहस्यतमं सम्पूर्णं शास्त्रम् एव सङ्क्षेपेणेदम् अस्मिन्न् अध्याये मयोक्तं हे ऽनघाव्यसन । एतद् बुद्ध्वान्यो ऽपि यः कश्चिद् बुद्धिमान् आत्म-ज्ञानवान् स्यात् कृतं सर्वं कृत्यं येन न पुनः कृत्यान्तरं यस्यास्ति स कृतकृत्यश् च स्यात् । विशिष्ट-जन्म-प्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्-तत्त्वे विदिते कृतं भवेत् न त्व् अन्यथा कर्तव्यं परिसमाप्यते कस्यचिद् इत्य् अभिप्रायः । हे भारत त्वं तु महाकुल-प्रसूतः स्वयं च व्यसन-रहित इति कुल-गुणेन स्व-गुणेन चैतद् बुद्ध्वा कृत-कृत्यो भविष्यसीति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥२०॥
वंशी-विभूषित-करान् नव-नीरदाभात्
पीताम्बराद् अरुण-बिम्ब-फलाधरोष्ठात् ।
पूर्णेन्दु-सुन्दर-मुखाद् अरविन्द-नेत्रात्
कृष्णात् परं किम् अपि तत्त्वम् अहं न जाने ॥१॥
सदा सदानन्द-पदे निमग्नं मनो मनोभावम् अपाकरोति ।
गतागतायासम् अपास्य सद्यः परापरातीतम् उपैति तत्त्वम् ॥२॥
शैवाः सौराश् च गाणेशा वैष्णवाः शक्ति-पूजकाः ।
भवन्ति यन्-मयाः सर्वे सो ऽहम् अस्मि परः शिवः ॥३॥
प्रमाणतो ऽपि निर्णीयं कृष्ण-माहात्म्यम् अद्भुतम् ।
न शक्नुवन्ति ये सोढुं ते मूढा निरयं गताः ॥४॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् पुरुषोत्तम्-योगो नाम षोडशो ऽध्यायः
॥१५॥
विश्वनाथः : अध्यायार्थम् उपसंहरति इतीति । विंशत्या श्लोकैर् एभिर् अतिरहस्यं शास्त्रम् एव सम्पूर्णं मयोक्तम् ॥२०॥
जड-चैतन्य-वर्गाणां विवृतं कुर्वता कृतम् ।
कृष्ण एव महोत्कर्ष इत्य् अध्यायार्थ ईरितः ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतास्व् अयं पञ्चदशः सङ्गतः सङ्गतः सताम् ॥
॥१५॥
बलदेवः : अथैतद् अपात्रेष्व् अप्रकाश्यम् इति भावेनाह इतीति । इत्य् एवं सङ्क्षेप-रूपं पुरुषोत्तमत्व-निरूपकम् इदं त्रिश्लोकी-शास्त्रं तुभ्यं परम-भक्ताय मयोक्तम् । हे अनघ, त्वआप्य् अपात्रेषु नैतत् प्रकाश्यम् इति भावः । एतद् बुद्ध्वा बुद्धिमान् परोक्ष-ज्ञानी स्यात् । कृतकृत्यो ऽपरोक्ष-ज्ञानी चेति पुरुषोत्तमत्व-ज्ञानम् अभ्यर्च्यते ॥२०॥
बद्धान् मुक्ताच् च यः पुंसो भिन्नस् तद्-भृत् तद्-उत्तमः ।
स पुमान् हरिर् एवेति प्राप्तं पञ्चदशाद् अतः ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये पञ्चदशो ऽध्यायः
॥१५॥
भगवद्-गीता - पञ्चदशो ऽध्यायः