१४।१
श्री-भगवान् उवाच
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् ।
यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥१॥
श्रीधरः :
पुं-प्रकृत्योः स्वतन्त्रत्वं वारयन् गुण-सङ्गतः ।
प्राहुः संसार-वैचित्र्यं विस्तरेण चतुर्दशे ॥
यावत् सञ्जायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥ इत्य् उक्तम् । स च क्षेत्र-क्षेत्रज्ञयोः संयोगो निरीश्वर-साङ्ख्यानाम् इव न स्वातन्त्र्येण । किन्तु ईश्वरेच्छयिवेति कथन-पूर्वकं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् अनेनोक्तं सत्त्वादि-गुणीकृतं संसार-वैचित्र्यं प्रपञ्चयिष्यन् एवम्भूतं वक्ष्यमानम् अर्थं स्तौति भगवान् परं भूय इति द्वाभ्याम् । परं परमात्म-निष्ठम् । ज्ञायते अनेनेति ज्ञानम् उपदेशः । तज् ज्ञानं भूयो ऽपि तुभ्यं प्रकर्षेण वक्ष्यामि । कथम्भूतम् । ज्ञानानां तपः-कर्मादि-विषयाणां मध्य उत्तमम् । मोक्ष-हेतुत्वात् । तद् एवाह यज् ज्ञात्वा मुनयो मनन-शीलाः सर्वे । इतो देह-बन्धनात् । परां सिद्धिं मोक्षम् । गताः प्राप्ताः ॥१॥
मधुसूदनः : पूर्वाध्याये - यावत् सञ्जायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि [गीता १३।२६] इत्य् उक्तं तत्र निरीश्वर-साङ्ख्यम् अतिनिराकरणेन क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वं वक्तव्यम् । एवं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तं तत्र कस्मिन् गुण कथं सङ्गः के वा गुणाः कथं वा ते बध्नन्तीति वक्तव्यम् । तथा भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् इत्य् उक्तं तत्र भूत-प्रकृति-शब्दितेभ्यो गुणेभ्यः कथं मोक्षणं स्यान् मुक्तस्य च किं लक्षणम् इति वक्तव्यम्, तद् एतत् सर्वं विस्तरेण वक्तुं चतुर्दशो ऽध्याय आरभ्यते । तत्र वक्ष्यमाणम् अर्थं द्वाभ्यां स्तुवन् श्रोतॄणां रुच्य्-उत्पत्तये श्री-भगवान् उवाच परम् इति । ज्ञायते ऽनेन ज्ञानं परमात्म-ज्ञान-साधनं
परं श्रेष्ठं पर-वस्तु-विषयत्वात् । कीदृशं तत् ? ज्ञानानां ज्ञान-साधनानां बहिरङ्गाणां यज्ञादीनां मध्य उत्तमम् उत्तम-फलत्वात् । न त्वम् आनित्वादीनां तेषाम् अन्तरङ्गत्वेनोत्तम-फलत्वात् । परम् इत्य् अनेनोत्कृष्ट-विषयत्वम् उक्तम् । उत्तमम् इत्य् अनेन तूत्कृष्ट-फलत्वम् इति भेदः । ईदृशं ज्ञानम् अहं प्रवक्ष्यामि भूयः पुनः पूर्वेष्व् अध्यायेष्व् असकृद् उक्तम् अपि यज् ज्ञानं ज्ञात्वानुष्ठाय मुनयो मनन-शीलाः सन्न्यासिनः सर्वे परां सिद्धिं मोक्षाख्याम् इतो देह-बन्धनाद् गताः प्राप्ताः ॥१॥
विश्वनाथः :
गुणाः स्युर् बन्धकास् ते तु फलैर् ज्ञेयाश् चतुर्दशे ।
गुणात्यये चिह-ततिर् हेतुर् भक्तिश् च वर्णिता ॥
पूर्वाध्याये कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तम् । तत्र के गुणाः, कीदृशो गुण-सङ्गः, कस्य गुणस्य सङ्गात् किं फलं स्यात्, गुण-युक्तस्य किंवा लक्षणम् । कथं वा गुणेभ्यो मोचनम् इत्य् अपेक्षायां वक्ष्यमानम् अर्थं स्तुवानो वक्तुं प्रतिजानीते परम् इति । ज्ञायते æनेनेति ज्ञानम् उपदेशः परम् अत्युत्तमम् ॥१॥
बलदेवः :
गुणाः स्युर् बन्धकास् ते तु परिचेयाः फलैस् त्रयः ।
मद्-भक्त्या तन्-निवृत्तिः स्याद् इति प्रोक्तं चतुर्दशे ॥
पूर्वाध्याये मिथः-सम्पृक्तानां प्रकृति-जीवेश्वराणां स्वरूपाणि विविच्य जानन्न् अमानित्वादि-धर्मैर् विशिष्टःब् प्रकृति-बन्धाद् विमुच्यते बन्ध-हेतुश् च गुण-सङ्ग इत्य् उक्तम् । तत्र के गुणाः, कस्मिन् गुणे कथं सङ्गः, कस्य गुणस्य सङ्गात् किं फलम्, गुण-सङ्गिनः किंवा लक्षणं कथं वा गुणेभ्यो मुक्तिः इत्य् अपेक्षायां वक्ष्यमाणम् अर्थम् आत्म-रुच्य्-उत्पत्तये भगवान् स्तौति परम् इति द्वाभ्याम् ।
परं पूर्वोक्ताद् अन्यं प्रकृति-जीवान्तर्गतम् एव गुण-विषयकं ज्ञानं भूयो वक्ष्यामि यज्-ज्ञानानां प्रकृति-जीव-विषयकाणाम् उत्तमं श्रेष्ठं नवनीतवद् उद्धृतत्वात् । यज् ज्ञात्वोपलभ्य सर्वे मुनयस् तन्-मनन-शीला इतो लोके परम् आत्म-याथात्म्योपलब्धि-लक्षणां सिद्धिं गताः । यद् वा ज्ञायते ऽनेनेति ज्ञानम् उपदेशम्, तच् च प्राग् उक्तम् अपि भूयः पुनर् विधान्तरेण वक्ष्यामि । तच् च ज्ञानानां तपः-प्रभृतीनां ज्ञान-साधनानां मध्ये परम् उत्तमम् अत्युत्तमं तद्-अन्तरङ्ग-साधनत्वात् । यज् ज्ञात्वा सर्वे मुनय इतो लोकात् परां मोक्ष-लक्षणां सिद्धिं गताः ॥१॥
१४।२
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥२॥
श्रीधरः : किं च इदम् इति । इदं वक्ष्यमाणं ज्ञानम् उपाश्रित्येदं ज्ञान-साधनम् अनुष्ठाय मम साधर्म्यं मद्-रूपत्वं प्राप्ताः सन्तः सर्गे ऽपि ब्रह्मादिषु उत्पाद्यमानेष्व् अपि नोत्पद्यन्ते । तथा प्रलये ऽपि न व्यथन्ति । प्रलये दुःखं नानुभवन्ति । पुनर् नावर्तन्त इत्य् अर्थः ॥२॥
मधुसूदनः : तस्याः सिद्धैर् ऐकान्तिकत्वं दर्शयति इदं इति । इदं यथोक्तम् ज्ञानं ज्ञान-साधनम् उपाश्रित्यानुष्ठाय मम परमेश्वरस्य साधर्म्यं मद्-रूपताम् अत्यन्ताभेदेनागताः प्राप्ताः सन्तः सर्गे ऽपि हिरण्यगर्भादिषूत्पद्यमानेष्व् अपि नोपजायन्ते । प्रलये ब्रह्मणो ऽपि विनाश-काले न व्यथन्ति च व्यथन्ते न च लीयन्त इत्य् अर्थः ॥१४।२॥
विश्वनाथः : साधर्म्यं सारूप्य-लक्षणां मुक्तिं । न व्यथन्ति न व्यथन्ते ॥२॥
बलदेवः : इदम् इति । गुरूपासनयेदं वक्ष्यमाणं ज्ञानम् उपाश्रित्य प्राप्य जनाः सर्वेशस्य मम नित्याविर्भूत-गुणाष्टकस्य साधर्म्यं साधनाविर्भावितेन तद्-अष्टकेन साम्यम् आगताः सन्तः सर्गे नोपजायन्ते सृजि-कर्मतां नाप्नुवन्ति प्रलये न व्यथन्ते मृति-कर्मतां च न यान्तीति जन्म-मृत्युभ्यां रहिता मुक्ता भवन्तीति मोक्षे जीव-बहुत्वम् उक्तम् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः इत्य् आदि-श्रुतिभ्यश् चैतद् अवगतम् ॥२॥
१४।३
मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् ।
सम्भवः सर्व-भूतानां ततो भवति भारत ॥३॥
श्रीधरः : तद् एवं प्रशंसया श्रोतारम् अभिमुखीकृत्येदं परमेश्वराधीनयोः प्रकृति-पुरुषयोः सर्व-भूतोत्पत्तिं प्रति हेतुत्वं न तु स्वतन्त्रयोर् इतीमं विवक्षितम् अर्थं कथयति ममेति । देशतः कालतश् चापरिच्छिन्नत्वान् महत् । बृंहितत्वात् स्वकार्याणां वृद्धि-हेतुत्वाद् वा ब्रह्म । प्रकृतिर् इत्य् अर्थः । तन् महद् ब्रह्म मम परमेश्वरस्य योनिर् गर्भाधान-स्थानम् । तस्मिन्न् अहं गर्भं जगद्-विस्तार-हेतुं चिद्-आभासं दधामि निक्षिपामि । प्रलये मयि लीनं सन्तम् अविद्या-काम-कर्मानुशय-वन्तं क्षेत्रज्ञं सृष्टि-समये भोग-योग्येन क्षेत्रेण संयोजयामीत्य् अर्थः । ततो गर्भाधानात् सर्व-भूतानां ब्रह्मादीनां सम्भव उत्पत्तिर् भवति ॥३॥
मधुसूदनः : तद् एवं प्रशंशया श्रोतारम् अभिमुखीकृत्य परमेश्वराधीनयोः प्रकृति-पुरुषयोः सर्व-भूतोत्पत्तिं प्रति हेतुत्वं न तु साङ्ख्य-सिद्धान्तवत् स्वतन्त्रयोर् इतीमं विवक्षितम् अर्थम् आह मम योनिर् इति द्वाभ्याम् ।
सर्व-कार्यापेक्षयाधिकत्वात् कारणं महत् । सर्व-कार्याणां वृद्धि-हेतुत्व-रूपाद् बृंहणत्वाद् ब्रह्म । अव्याकृतं प्रकृतिस् त्रिगुणात्ङ्किका माया महद् ब्रह्म । तच् च ममेश्वरस्य योनिर् गर्भाधान-स्थानं तस्मिन् महति ब्रह्मणि योनौ गर्भं सर्व-भूत-जन्म-कारणम् अहं बहु स्यां प्रजायेय इतीक्षण-रूपं सङ्कल्पं दधामि धारयामि तत्-सङ्कल्प-विषयीकरोमीत्य् अर्थः । यथा हि । कश्चित् पिता पुत्रम् अनुशयिनं व्रीह्य्-आद्य्-आहार-रूपेण स्वस्मिन् लीनं शरीरेण योजयितुं योनौ रेतः-सेक-पूर्वकं गर्भम् आधत्ते । तस्माच् च गर्भाधानात् स पुत्रः शरीरेण युज्यते । तद् अर्थं च मध्ये कललाद्य्-अवस्था भवन्ति । तथा प्रलये मयि लीनम् अविदिया-काम-कर्मानुशयवन्तं क्षेत्रज्ञं सृष्टि-समये भोग्येन क्षेत्रेण कार्य-कारई᳡एअ-सङ्घातेन
योजयितुं चिद्-आभासआख्य-रेतः-सेक-पूर्वकं माया-वृत्ति-रूपं गर्भम् अहम् आदधामि । तद्-अर्थं हिरण्यगर्भादीनां भवति हे भारत न त्व् ईश्वर-कृत-गर्भाधानं विनेत्य् अर्थः ॥१४।३॥
विश्वनाथः : अथ अनाद्य्-अविद्या-कृतस्य गुण-सङ्गस्य बन्ध-हेतुता-प्रकारं वक्तुं क्षेत्र-क्षेत्रज्ञयोः सम्भव-प्रकारम् आह मम परमेश्वरस्य योनिर् गर्भाधान-स्थानं महद् ब्रह्म देश-कालानवच्छिन्नत्वात् महत्, बृंहणात् कार्य-रूपेण वृद्धेर् हेतोर् ब्रह्म प्रकृतिर् इत्य् अर्थः । श्रुताव् अपि क्वचित् प्रकृतिर् ब्रह्मेति निर्दिश्यते । तस्मिन्न् अहं गर्भं दधाम्य् आदधामि । इतस् त्व् अन्यां प्रकृतिं विद्धि मे परां जीव-भूताम् इत्य् अनेन चेतन-पुञ्ज-रूपा या जीव-प्रकृतिस् तटस्थ-शक्ति-रूपा निर्दिष्टा सा सकल-प्राणि-जीवतया गर्भ-शब्देनोच्यते । ततो मत्-कृतात् गर्भाधानात् सर्व-भूतानां ब्रह्मादीनां सम्भव उत्पत्तिः ॥३॥
बलदेवः : तद् एवं वक्तव्यार्थ-स्तुत्या तस्मिन् रुचिं श्रोतुर् उत्पाद्य भूमिर् आपः इत्य् आदि-द्वयार्थानुसारात् यावत् सञ्जायते किञ्चित् इत्य् आदौ प्रकृति-जीव-संयोगं परेश-हेतुकम् अभिमतम् इह स्फुटयति ममेति । महत् सर्वस्य प्रपञ्चस्य कारणं ब्रह्माभिव्यक्त-सत्त्वादि-गुणकं प्रधानं मम सर्वेश्वर्स्याण्ड-कोटि-स्रष्टुर् योनिर् गर्भ-धारण-स्थानं भवति । प्रधाने ब्रह्म-शब्दश् च तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते । इति श्रुतेः । तस्मिन् महति ब्रह्मणि योनि-भूते गर्भं परमाणु-चैतन्य-राशिम् अहं दधाम्य् अर्पयामि भूमिर् आपः इत्य् आदिना या जडा प्रकृतिर् उक्ता । सेह महद् ब्रह्मेत्य् उच्यते । इतस् त्व् अन्याम् इत्य् आदिना या चेतना प्रकृतिर् उक्ता सेह सर्व-प्राणि-बीजत्वाद् गर्भ-शब्देनेति भोग-क्षेत्र-भूतया जडया प्रकृत्या सह चेतन-भोक्तृ-वर्गं
संयोजयामीत्य् अर्थः । ततो महद्-धेतुकात् प्रकृति-द्वय-संयोगाद् गर्भाधानाद् वा सर्व-भूतानां ब्रह्मादि-स्तम्बान्तानां सम्भवो जनिर् भवति ॥३॥
१४।४
सर्व-योनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥४॥
श्रीधरः : न केवलं सृष्ट्य्-उपक्रम एव मद्-अधिष्ठानेनाभ्यां प्रकृति-पुरुषाभ्याम् अयं भूतोत्पत्ति-प्रकारः । अपि तु सर्वदैवेत्य् आह सर्वेति । सर्वासु योनिषु मनुष्याद्यासु या मूर्तयः स्थावर-जङ्गमात्मिका उत्पद्यन्ते तासां मूर्तीनां महद् ब्रह्म प्रकृतिर् योनिर् मातृ-स्थानीया । अहं च बीज-प्रदः पिता गर्भाधान-कर्ता पिता ॥४॥
मधुसूदनः : ननु कथं सर्व-भूतानां ततः सम्भवो देवादि-देह-विशेषाणां कारणान्तर-सम्भवाद् इत्य् आशङ्क्याह सर्व-योनिष्व् इति । देव-पितृ-मनुष्य-पशु-मृगादि-सर्व-योनिषु या मूर्तयो जरायुजाण्डोद्भिज्जादि-भेदेन विलक्षणा विविध-संस्थानास् तनवः सम्भवन्ति हे कौन्तेय! तासां मूर्तीनां तत्-तत्-कारण-भावापन्नं महद् ब्रह्मैव योनिर् मातृ-स्थानीया । अहं परमेश्वरो बीज-प्रदो गर्भाधानस्य कर्ता पिता । तेन महतो ब्रह्मण एवावस्था-विशेषाः कारणान्तराणीति युक्तम् उक्तं सम्भवः सर्व-भूतानां ततो भवति [गीता १४।३] इति ॥४॥
विश्वनाथः : न केवलं सृष्ट्य्-उत्पत्ति-समय एव सर्व-भूतानां प्रकृतिर् माता अहं पिता अपि तु सर्वदैवेत्य् आह सर्वासु योनिषु देवाद्यासु स्तम्ब-पर्यन्तासु या मूर्तयो जङ्गम-स्थावरात्मिका उत्पद्यन्ते तासां मूर्तीनां महद् ब्रह्म प्रकृतिः । योनिर् उत्पत्ति-स्थानं माता । अहं बीज-प्रदः गर्भाधान-कर्ता पिता ॥४॥
बलदेवः : सर्वेति । हे कौन्तेय सर्व-योनिषु देवादि-स्थावरान्तासु योनिषु या मूर्तयस् तनवः सम्भवन्ति तासां महद् ब्रह्म प्रधानं योनिर् उत्पत्ति-हेतुर् मातेत्य् अर्थः । जीव-प्रदस् तत्-कर्मानुगुण्येन परमाणु-चैतन्य-राशि-संयोजकः परेशो ऽहं पिता भवामि ॥४॥
१४।५
सत्त्वं रजस् तम इति गुणाः प्रकृति-सम्भवाः ।
निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥५॥
श्रीधरः : तद् एवं परमेश्वराधीनाभ्यां प्रकृति-पुरुषाभ्यां सर्व-भूतोत्पत्तिं निरूप्येदानीं प्रकृति-संयोगेन पुरुषस्य संसारं प्रपञ्चयति । सत्त्वम् इत्य् आदि चतुर्दशभिः । सत्त्वं रजस् तम इत्य् एवं सञ्ज्ञकास् त्रयो गुणाः प्रकृति-सम्भवाः । प्रकृतेः सम्भव उद्भवो येषां ते तथोक्ताः । गून-साम्यं प्रकृतिः । तस्याः सकाशात् पृथक्त्वेआभिव्यक्ताः सन्तः प्रकृति-कार्ये देहे तादात्म्येन स्थितं देहिनं चिद्-अंशं वस्तुतो ऽव्ययं निर्विकारम् एव सन्तं निबध्नन्ति स्व-कार्यैः सुख-दुःख-मोहादिभिः संयोजयन्तीत्य् अर्थः ॥५॥
मधुसूदनः : तद् एवं निरीश्वर-साङ्ख्य-निराकरणेन क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वम् उक्तम् । इदानीं कस्मिन् गुणे सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्ति ? इत्य् उच्यते सत्त्वम् इत्य् आदिनान्यम् इत्य् अतः प्राक् चतुर्दशभिः । सत्त्वं रजस् तम इत्य् एवं-नामानो गुणा नित्य-परतन्त्राः पुरुषं प्रति सर्वेषाम् अचेतनानां चेतनार्थत्वात् । न तु वैशेषिकाणां रूपादिवद् द्रव्याश्रिताः । न च गुण-गुणिनोर् अन्यत्वम् अत्र विवक्षितम् गुण-त्रयात्मकत्वात् प्रकृतेः । तर्हि कथं प्रकृति-सम्भवाः ? इत्य् उच्यते - त्रयाणां गुणानां साम्यावस्था प्रकृतिर् माया भगवत्स् तस्याः सकाशात् परस्पराङ्गाङ्गि-भावेन वैषम्येण परिणताः प्रकृति-सम्भवा इत्य् उच्यन्ते । ते च देहे प्रकृति-कार्ये शरीरेन्द्रिय-सङ्घाते देहिनं देह-तादात्म्याध्यासापन्नं
जीवं परमार्थतः सर्व-विकार-शून्यत्वेनाव्ययं निबध्नन्ति निर्विकारम् एव सन्तं स्व-विकारवत्तयोपदर्शयन्तीव भ्रान्त्या जल-पात्राणीव दिवि स्थितम् आदित्यं प्रतिबिम्बाध्यासेन स्व-कम्पादिमत्तया । यथा च पारमर्थिको बन्धो नास्ति तथा व्याख्यातं प्राक् - शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते [गीता १३।३२] इति ॥५॥
विश्वनाथः : तद् एव प्रकृति-पुरुषाभ्यां सर्व-भूतोत्पत्तिं निरूपेय्दानीं के गुणा उच्यन्ते । तेषु सङ्गात् जीवस्य कीदृशो बन्ध इत्य् अपेक्षायाम् आह सत्त्वम् इति । देहे प्रकृति-कार्ये तादात्म्येन स्थितं देहिनं जीवं वस्तुतो ऽव्ययं निर्विकारम् असङ्गिनम् अप्य् अनाद्य्-अविद्यया कृताद् गुण-सङ्गाद् एव हेतोर् गुणा निबध्नन्ति ॥५॥
बलदेवः : अथ के गुणाः कथं तेषु पुरुषस्य सङ्गः कथं वा ते तं निबध्नन्ति इत्य् आह सत्त्वम् इति चतुर्भिः । सत्त्वादि-सञ्ज्ञकास् त्रयो गुणाः प्रकृति-सम्भवाः प्रकृतेर् अभिव्यक्तास् ते स्व-कार्ये देहे स्थितं पुरुषम् अव्ययं वस्तुतो निर्विकारम् अपि निबध्नन्त्य् अविवेक-गृहीतैः सुख-दुःख-मोहैः स्वधर्मैस् तं योजयन्तीति ॥५॥
१४।६
तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् ।
सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ ॥६॥
श्रीधरः : तत्र सत्त्वस्य बन्धकत्व-प्रकारं चाह तत्रेति । तत्र तेषां गुणानां मध्ये सत्त्वं निर्मलत्वात् स्वच्छत्वात् स्फटिक-मणिर् इव प्रकाशकं भास्वरम् अनामयं च निरुपद्रवम् । शान्तम् इत्य् अर्थः । अतः शान्तत्वात् स्व-कार्येण सुखेन यः सङ्गस् तेन बध्नाति । प्रकाशकत्वाच् च स्वकार्येण ज्ञानेन यः सङ्गस् तेन च बध्नाति । हे अनघ निष्पाप, अहं सुखी ज्ञानी चेति मनोधर्मांस् तद्-अभिमानिनि क्षेत्रज्ञे संयोजयतीत्य् अर्थः ॥६॥
मधुसूदनः : तत्र को गुणः केन सङ्गेन बध्नाति ? इत्य् उच्यते तत्रेति । तत्र तेषु गुणेषु मध्ये सत्त्वं प्रकाशकम् चैतन्यस्य तमो-गुण-कृतावरण-तिरोधायकं
निर्मलत्वात् स्वच्छत्वाच् चिद्-बिम्ब-ग्रहण-योग्यत्वाद् इति यावत् । न केवलं चैतन्याभिव्यञ्जकं किन्तु अनामयं । आमयो दुःखं तद्-विरोधि सुखस्यापि व्यञ्जकम् इत्य् अर्थः । तद् बध्नाति सुख-सङ्गेन च देहिनं ! हे अनघ अव्यसन ! सर्वत्र सम्बोधनानाम् अभिप्रायः प्राग् उक्तः स्मर्तव्यः । अत्र सुख-ज्ञान-शब्दाभ्याम् अन्तः-करण-परिणामौ तद्-व्यञ्जकाव् उच्येते । इच्छा द्वेषः सुखं दुःखं सङ्घातश् चेतना धृतिः [गीता १३।७] इति सुख-चेतनयोर् अपीच्छादिवत् क्षेत्र-धर्मत्वेन पाठात् । तत्रान्तः-करण-धर्मस्य सुखस्य ज्ञानस्य चात्मन्य् अध्यासः सङ्गो ऽहं जान इति च । न हि विषय-धर्मो विषयिणो भवति । तस्माद् अविद्या-मात्रम् एतद् इति शतश उक्तं प्राक् ॥६॥
विश्वनाथः : तत्र सत्त्वस्य लक्षणं बन्धकत्व-प्रकारं चाह तत्रेति । अनामयं निरुपद्रवं शान्तम् इत्य् अर्थः । । शान्तत्वात् स्वकार्येण सुखेन यः सङ्गः प्रकाशकत्वात् स्वकार्येण ज्ञानेन च यः सङ्गः अहं सुखी ज्ञानी चेत्य् उपाधि-धर्मयोर् अविद्ययैव जीवस्याभिमानस् तेन तं बध्नाति । हे अनघेति त्वं तु अहं सुखी अहं ज्ञानीत्य् अभिमान-लक्षणम् अघं मा स्वीकुर् इति भावः ॥६॥
बलदेवः : अथ सत्त्वादीनां त्रयाणां लक्षणानि बन्धकत्व-प्रकारांश् चाह तत्रेति त्रिभिः । तत्र तेषु त्रिषु मध्ये प्रकाशकं ज्ञान-व्यञ्जकम् अनामयम् अरोगं दुःख-विरोधि-सुख-व्यञ्जकम् इति यावत् । कुतः । निर्मलत्वात् स्वच्छत्वात् । तथा च प्रकाश-सुख-कारणं सत्त्वम् इति । तच् च सत्त्वं स्व-कार्ये ज्ञाने सुखे च यः संयोगो ज्ञान्य् अहं सुख्य् अहम् इत्य् अभिमानस् तेन पुरुषं निबध्नाति । ज्ञानं चेदं लौकिक-वस्तु -याथात्म्य-विषयं सुखं च देहेन्द्रिय-प्रसद-रूपं बोध्यम् । तत्र तत्र सङ्गे सति तद्-उपायेषु कर्मसु प्रवृत्तिस् तत्-फलानुभवोपायेषु देहेषूत्पत्तिः । पुनश् च तत्र तत्र सङ्ग इति न सत्त्वाद् विमुक्तिः ॥६॥
१४।७
रजो रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् ।
तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥७॥
श्रीधरः : रजसो लक्षणं बन्धकत्वं चाह रज इति । रजः-सञ्ज्ञकं गुणं रागात्मकम् अनुरञ्जन-रूपं विद्धि । अतएव तृष्णासङ्ग-समुद्भवम् । तृष्णाप्राप्तेर् ऽर्थे ऽभिलाषः । सगगः प्राप्ते ऽर्थे प्रीतिर् विशेषेणासक्तिः । तयोस् तृष्णासङ्गयोः समुद्भवो यस्मात् तद्-रजो देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासक्त्या नितरां बध्नाति । तृष्णासङ्गाभ्यां हि कर्मसु आसक्तिर् भवतीत्य् अर्थः ॥७॥
मधुसूदनः : रज्यते विषयेषु पुरुषो ऽनेनेति रागः कामो गर्धः स एवात्मा स्वरूपं यस्य धर्म-धर्मित्णोस् तादात्म्यात् तद् रागात्मकं रजो विद्धि । अत एवाप्राप्ताभिलाषस् तृष्णा । प्राप्तस्योपस्थिते ऽपि विनाशे संरक्षणाभिलाष आसङ्गस् तयोस् तृष्णासङ्गयोः सम्भवो यस्मात् तद् रजो निबध्नाति । हे कौन्तेय ! कर्म-सङ्गेन कर्मसु दृष्टादृष्टार्थेषु अहम् इक्दं करोम्य् एतत् फलं भोक्ष्य इत्य् अभिनिवेश-विशेषेण देहिनं वस्तुतो ऽकर्तारम् एव कर्तृत्वाभिमानिनं रजसः प्रवृत्ति-हेतुत्वात् ॥७॥
विश्वनाथः : रजो-गुणं रागात्मकम् अनुरञ्जन-रूपं विद्धि । तृष्णा अप्राप्ते ऽर्थे अभिलाषः । सङ्गः प्राप्ते ऽर्थे आसक्तिः । तयोः समुद्भवो यस्मात् तद् रजः देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासक्त्या बध्नाति तृष्णा-सङ्गाभ्यां कर्मस्व् आसक्तिर् भवति ॥७॥
बलदेवः : रज इति रागः स्त्री-पुरुषयोर् मिथो ऽभिलासस् तद्-आत्मकं रजो-वृद्धि-हेतु-कार्ययोस् तादात्म्यात् । तच् च तृष्णादि-समुद्भवं शब्दादि-विषयाभिलाषस् तृष्णा । पुत्र-मित्रादि-संयोगो ऽभिलाषः सङ्गस् तयोः सम्भवो यस्मात् तत् । तथा च राग-तृष्णासङ्ग-कारणं रजः इति । तद् रजः स्त्री-विषय-पुत्रादि-प्रापकेषु कर्मसु सङ्गेनाभिलाषेण देहिनं पुरुषं निबध्नाति । स्त्र्य्-आदि-स्पृहया कर्माणि करोति । तानि तत्-फलानुभवोपाय-भूतान् स्त्र्य्-आदीन् प्रापयन्ति । पुनर् अप्य् एवम् इति रजसो न विमुक्तिः ॥७॥
१४।८
तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् ।
प्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत ॥८॥
श्रीधरः : तमसो लक्षणं बन्धकत्वं चाह तम इति । तमस् त्व् अज्ञानाज् जातम् आवरण-शक्ति-प्रधानात् प्रकृत्य्-अंशाद् उद्भुतं विद्धीत्य् अर्थः । अतः सर्वेषां देहिनां मोहनं भ्रान्ति-जनकम् । अतएव प्रमादेनालस्येन निद्रया च तत् तमो देहिनं निबध्नाति । तत्र प्रमादो ऽनवधानम् । आलस्यम् अनुद्यमः । निद्रा चित्तस्यावसादाल् लयः ॥८॥
मधुसूदनः : तु-शब्दः सत्त्व-रजोपेक्षया विशेष-द्योतनार्थः । अज्ञानाद् आवरण-शक्ति-रूपाद् उद्भूतम् अज्ञान-जं तमो विद्धि । अतः सर्वेषां देहिनां मोहनम् अविवेक-रूपत्वेन भ्रान्ति-जनकम् । प्रमादेनालस्येन निद्रया च तत् तमो निबध्नाति । देहिनम् इत्य् अनुषज्यते । हे भारत । प्रमादो वस्तु-विवेकासामर्थ्यं सत्त्व-कार्य-प्रकाश-विरोधी । आलस्यं प्रवृत्त्य्-असामर्थ्यं रजः-कार्य-प्रवृत्ति-विरोधि । उभय-विरोधिनी तमो-गुणालम्बना वृत्तिर् निद्रेति विवेकः ॥८॥
विश्वनाथः : अज्ञानम् अज्ञानात् स्वीय-फलात् जातं प्रतीतम् अनुमितं भवतीत्य् अज्ञानजम् अज्ञान-जनकम् इत्य् अर्थः । मोहनं भ्रान्ति-जनकम् । प्रमादो ऽनवधानम् । आलस्यम् अनुद्यमः । निद्रा चित्तस्यावसादाल् लयः ॥८॥
बलदेवः : तमस् त्व् इति । तु-शब्दः पूर्व-द्वितीयाद् विशेष-द्योतकः । वस्तु-याथात्म्यावगमो ज्ञानं तद्-विरोध्य्-आवरकता-प्रधानं प्रकृत्य्-अंशो ऽज्ञानम् । तस्माज् जातं तमो æतः सर्व-देहिनां मोहनं विपर्यय-ज्ञान-जनकम् । तथा च वस्तु-याथात्म्य-ज्ञानावरकं विपर्यय-ज्ञान-जनकं तमः इति । तत् तमः प्रमादादिभिः स्वकार्यैः पुरुषं निबध्नाति । तत्र प्रमादो ऽनवधानम् अकार्ये कर्मणि प्रवृत्ति-रूपं सत्त्व-कार्य-प्रकाश-विरोधी । आलस्यम् अनुद्यमः, रजः-कार्य-प्रवृत्ति-विरोधि । तद्-उभय-विरोधिनी तु निद्रा चित्तस्यावसादात्मेति ॥८॥
१४।९
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत ॥९॥
श्रीधरः : सत्त्वादीनाम् एवं स्व-स्व-कार्य-करणे सामर्थ्यातिशयम् आह सत्त्वम् इति । सत्त्वं सुखे सञ्जयति संश्लेषयति । दुःख-शोकादि-कारणे सभापि सुखाभिमुखम् एव देहिनं करोतिईत्य् अर्थः । एवं सुखादि-कारणे सत्य् अपि रजः कर्मण्य् एव सञ्जयति । तमस् तु महत्-सङ्गेन उत्पाद्यमानम् अपि ज्ञानम् आवृत्यआच्छाद्य प्रमादे सञ्जयति । महद्भिर् उपदिश्यमानस्यार्थस्यानवधाने योजयति उतापि । आलस्यादाव् अपि संयोजयतीत्य् अर्थः ॥९॥
मधुसूदनः :
विश्वनाथः : उक्तम् एवार्थं सङ्क्षेपेण पुनर् दर्शयति । सत्त्वं कर्तृ सुखे स्वीय-फले आसक्तं जीवं सञ्जयति वशीकरोति निबध्नातीत्य् अर्थः । रजः कर्तृ कर्माणि आसक्तं जीवं बध्नाति । तमः कर्तृ प्रमादे ऽभिरतं तं ज्ञानम् आवृत्य अज्ञानम् उत्पाद्येत्य् अर्थः ॥९॥
बलदेवः : गुणाः स्वान्य् अद्वयोत्कृष्टाः सन्तः स्वकार्ये तन्वन्तीत्य् आह सत्त्वम् इति द्वाभ्याम् । सत्त्वम् उत्कृष्टं सत् स्व-कार्ये सुखे पुरुषं सञ्जयत्य् आसक्तं करोति । रजो उत्कृष्टं सत् कर्माणि तं सञ्जयति । तम उत्कृष्टं सत् प्रमादे तं सञ्जयति ज्ञानम् आवृत्याच्छाद्याज्ञानम् उत्पाद्येत्य् अर्थः ॥९॥
१४।१०
रजस् तमश् चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥१०॥
श्रीधरः : तत्र हेतुम् आह रज इति । रजस्-तमश् चेति गुण-द्वयम् अभिभूय तिरस्कृत्य सत्त्वं भवति । अदृष्ट-वशाद् उद्भवति । ततः स्वकार्ये सुख-ज्ञानादौ सञ्जयतीत्य् अर्थः । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयम् अभिभूयोद्भवति । ततः स्वकार्ये तृष्णाकर्मादौ सञ्जयति । एवं तमो ऽपि सत्त्वं रजश् चोभाव् अपि गुणाव् अभिभूयोद्भवति । ततश् च स्व-कार्ये प्रमादालस्यादौ सञ्जयतीत्य् अर्थः ॥१०॥
मधुसूदनः : उक्तं कार्यं कदा कुर्वन्ति गुणाः ? इत्य् उच्यते रज इति । रजस् तमश् च युगपद् उभाव् अपि गुणाव् अभिभूय सत्त्वं भवति उद्भवति वर्धते यदा, तदा स्व-कार्यं प्राग्-उक्तम् असाधारण्येन करोतीति शेषः । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयम् अभिभूयोद्भवति यदा, तदा स्व-कार्यम् प्राग्-उक्तं करोति । तथा तद्वद् एव तमो ऽपि सत्त्वं रजश् चेत्य् उभाव् अपि गुणाव् अभिभूयोद्भवति यदा, तदा स्व-कार्यम् प्राग्-उक्तं करोतीत्य् अर्थः ॥१०॥
विश्वनाथः : उक्तं स्व-स्व-कार्यं सुखादिकं प्रति गुणाः कथं प्रभवन्तीत्य् अपेक्षायाम् आह रजस् तमश् चेति गुण-द्वयम् अभिभूय तिरस्कृत्य सत्त्वं भवति अदृष्ट-वशाद् उद्भवति । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयाभिभूय तादृशादृष्ट-वशाद् उद्भवति । तमो ऽपि सत्त्वं रजश् चोभाव् अपि गुणाव् अभिभूयोद्भवति ॥१०॥
बलदेवः : समेषु त्रिषु कथम् अकस्माद् एकस्योत्कर्ष इति चेत् प्राचीन-तादृश-कर्मोदयात् तादृशाहाराच् च स्वभवतीति भववान् आह रज इति । सत्त्वं कर्तृ रजस् तमश् चाभिभूयो तिरस्कृत्योत्कृष्टं भवति । रजः कर्तृ सत्त्वं तमश् चाभिभूयोत्कृष्टं भवति । तमः कर्तृ सत्त्वं रजश् चाभिभूयोत्कृष्टं भवति । यदोत्कृष्टं भवति, तदा पूर्वोक्तम् असाधारणं कार्यं करोतीति शेषः ॥१०॥
१४।११
सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥११॥
श्रीधरः : इदानीं सत्त्वादीनां विवृद्धानां लिङ्गान्य् आह सर्व-द्वारेष्व् इति त्रिभिः । अस्मिन्न् आत्मनो भोगायतने देहे सर्वेष्व् अपि द्वारेषु श्रोत्रादिषु यदा शब्दादि-ज्ञानात्मकः प्रकाश उपजायते उत्पद्यते तदानेन प्रकाशलिङ्गेन सत्त्वं विवृद्धं विद्याज् जानीयात् । उत शब्दात् सुखादि-लिङ्गेनापि जानीयाद् इत्य् उक्तम् ॥११॥
मधुसूदनः : इदानीम् उद्भूतानां तेषां लिङ्गान्य् आह त्रिभिः सर्व-द्वारेष्व् इति । अस्मिन्न् आत्मनो भोगायतने देहे सर्वेष्व् अपि द्वारेषूपलब्धि-साधनेषु श्रोत्रादि-करणेषु यदा प्रकाशो बुद्धि-परिणाम-विशेषो विषयाकारः स्व-विषयावरण-विरोधी दीपवत्, तद् एव ज्ञानं शब्दादि-विषय उपजायते तदानेन शब्दादि-विषय-ज्ञानाख्य-प्रकाशेन लिङ्गेन प्रकाशात्मकं सत्त्वं विवृद्धम् उद्भूतम् इति विद्याज् जानीयात् । उतापि सुखादि-लिङ्गेनापि जानीयाद् इत्य् अर्थः ॥११॥
विश्वनाथः : वर्धमानो गुण एव स्वापेक्षया क्षीणाव् इतरौ गुणाव् अभिवअतीत्य् उक्तम् । अतस् तेषां वृद्धि-लिङ्गान्य् आह सर्वेति त्रिभिः । सर्व-द्वारेषु श्रोत्रादिषु यदा प्रकाशः स्यात् । कीदृशः । ज्ञानं वैदिक-शब्दादि-यथार्थ-ज्ञानात्मकं तदा तादृश-ज्ञान-लिङ्गेनैव सत्त्वं विवृद्धम् इति जानीयात् । उत्-शब्दाद् आत्मोत्थ-सुखाट्त्मकः प्रकाशश् च यदेति ॥११॥
बलदेवः : उत्कृष्टानां सत्त्वादीनां लिङ्गान्य् आह सर्वेति त्रिभिः । यदा सर्वेषु ज्ञान-द्वारेषु श्रोत्रादिषु शब्दादि-याथात्म्य-प्रकाश-रूप्ं ज्ञानम् उपजायते । तदा तादृश-ज्ञान-लिङ्गेनास्मिन् देहे सत्त्वं विवृद्धं विद्यात् । उतेत्य् अप्य् अर्थे । सुख-लिङ्गेनापि तद् विद्याद् इत्य् अर्थः ॥११॥
१४।१२
लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा ।
रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥१२॥
श्रीधरः : किं च लोभ इति । लोभो धनाद्य्-आगमे जायमाने ऽपि पुनः पुनर् वर्धमानो ऽभिलाषः । प्रवृत्तिर् नित्यं कुर्वद्-रूपता । कर्मणाम् आरम्भो महा-गृहादि-निर्माणोद्यमः । अशम इदं कृत्वा इदं करिष्यामि इत्य् आदि सङ्कल्प-विकल्पानुपरमः । स्पृहा उच्चावचेषु दृष्ट-मात्रेषु वस्तुषु इतस् ततो जिघृक्षा । रजसि विवृद्धे सत्य् एतानि लिङ्गानि जायन्ते । एतैस् तमसो विवृद्धिर् जाआनीयाद् इत्य् अर्थः ॥१२॥
मधुसूदनः : महति धनागमे जायमाने ऽप्य् अनुक्षणं वर्धमानस् तद्-अभिलाषो लोभः स्व-विषय-प्राप्स्य-निवर्त्य इच्छा-विशेष इति यावत् । प्रवृत्तिर् निरन्तरं प्रयत-मानसा । आरम्भः कर्मणां बहु-वित्त-व्ययायास-कराणां काम्य-निषिद्ध-लौकिक-महा-गृहादि-विषयाणां व्यापाराणाम् उद्यमः । अशम इदं कृत्वेदं करिष्यामीति सङ्कल्प-प्रवाहानुपरमः । स्पृहोच्चावचेषु पर-धनेषु दृष्ट-मात्रेषु येन केनाप्य् उपायेनोपादित्सा । रजसि रागात्मके विवृद्ध एतानि रागात्मकानि लिङ्गानि जायन्ते । हे भरतर्षभ ! एतैर् लिङ्गैर् विवृद्धं रजो जानीयाद् इत्य् अर्थः ॥१२॥
विश्वनाथः : प्रवृत्तिर् नाना प्रयत्न-परता कर्मणाम् आरम्भो गृहादि-निर्माणोद्यमः । अशमो विषय-भोगानुपरतिः ॥१२॥
बलदेवः : लोभः स्व-द्रव्यात्याग-परता । प्रवृत्तिस् तद्-वृद्धि-यत्नअ-परता । कर्मणां गृह-निर्माणादीनाम् आरम्भः । अशमो विषय-भोगाद् इन्द्रियाणाम् अनुपरतिः । स्पृहा विषय-लिप्सा । एतैर् लिङ्गै रजो विवृद्धं विद्यात् ॥१२॥
१४।१३
अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च ।
तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥१३॥
श्रीधरः : किं च अप्रकाश इति । अप्रकाशो विवेक-भ्रंशः । अप्रवृत्तिर् अनुद्यमः । प्रमादः कर्तव्यार्थानुसन्धान-राहित्यम् । मोहो मिथ्याभिनिवेशः । तमसि विवृद्धे सत्य् एतानि लिङ्गानि जायन्ते । एतैस् तमसो विवृद्धिं जानीयाद् इत्य् अर्थः ॥१३॥
मधुसूदनः : अप्रकाशः सत्य् अप्य् उपदेशादौ बोध-कारणे सर्वथा बोधायोग्यत्वम् । अप्रवृत्तिश् च सत्य् अप्य् अग्निहोत्रं जुहुयाद् इत्य् आदौ प्रवृत्ति-कारणं जनित-बोधे ऽपि शास्त्रे सर्वथा तत्-प्रवृत्त्य्-अयोग्यत्वम् । प्रमादस् तत्-काल-कर्तव्यत्वेन प्राप्तस्य अर्थस्यानुसन्धानाभावः । मोह एव च मोहो निद्रा विपर्ययो वा । चौ समुच्चये । एव-कारो व्यभिचार-वारणार्थः । तमस्य् एव विवृद्ध एतानि लिङ्गानि जायन्ते हे कुरु-नन्दन ! अत एतैर् लिङ्गैर् अवयभिचारिभिर् विवृद्धं तमो जानीयाद् इत्य् अर्थः ॥१३॥
विश्वनाथः : अप्रकाशो विवेकाभावः । शास्त्राविहित-शब्दादि-ग्रहणम् । अप्रवृत्तिः प्रयत्न-मात्र-राहित्यम् । प्रमादः कण्ठादि-धृते ऽपि वस्तुनि नास्तीति प्रत्ययः । मोहो मिथ्याभिनिवेशः ॥१३॥
बलदेवः : अप्रकाशो ज्ञानाभावः । शास्त्राविहित-विषय-ग्रह-रूपो ऽप्रवृत्तिः क्रिया-विमुखता । प्रमादः करादिस्थे ऽप्य् अर्थे नास्तीति प्रत्ययो मोहो मिथ्याभिनिवेशः । एतैर् लिङ्गैस् तमो विवृधं विद्यात् ॥१३॥
१४।१४
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् ।
तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥१४॥
श्रीधरः : मरण-समय एव विवृद्धानां सत्त्वादीनां फल-विशेषम् आह यदेति द्वाभ्याम् । सत्त्व प्रवृद्धे सति यदा जीवो मृत्युं प्राप्नोति तदा उत्तमान् हिरण्यगर्भादीन् विदन्ति उपासत इत्य् उत्तम-विदः तेषां ये अमलाः प्रकाशमया लोकाः सुखोपभोग-स्थान-विशेषास् तान् प्रतिपद्यते प्राप्नोति ॥१४॥
मधुसूदनः : इदानीं मरण-समये विवृद्धानां सत्त्वादीनां फल-विशेषम् आह यदेति द्वाभ्याम् । सत्त्वे प्रवृद्धे सति यदा प्रलयं मृत्युं याति प्राप्नोति देह-भृद् देहाभिमानी जीवः, तदोत्तमा ये हिरण्यगर्भादयस् तद्-विदां तद्-उपासकानां लोकान् देव-सुखोपभोग-स्थान-विशेषान् अमलान् रजस्-तमो-मल-रहितान् प्रतिपद्यते प्राप्नोति ॥१४॥
विश्वनाथः : प्रलयं याति मृत्युं प्राप्नोति । तदा उत्तमं विन्दन्ति लभन्त इत्य् उत्तम-विदो हिरण्य-गर्भाद्य्-उपासकास् तेषां लोकान् अमलान् सुख-प्रदान् ॥१४॥
बलदेवः : मृति-काले विवृद्धानां गुणानां फल-विशेषान् आह यद् एति द्वाभ्याम् । सत्त्वे प्रवृद्धे सति यदा देह-भृज् जीवः प्रलयं याति म्रियते, तदोत्तम-विदां हिरण्य-गर्भाद्य्-उपासकानां लोकान् दिव्य-भोगोपेतान् प्रतिपद्यते लभते । अमलान् रजस्-तमो-मल-हीनान् ॥१४॥
१४।१५
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तम् असि मूढ-योनिषु जायत ॥१५॥
श्रीधरः : किं च रजसीति । रजसि प्रवृद्धे सति मृत्युं प्राप्य कर्मासक्तेषु मनुष्येषु जायते । तथा तमसि प्रवृद्धे सति प्रलीनो मृतो मूढ-योनिषु जायते ॥१५॥
मधुसूदनः : रजसि प्रवृद्धे सति प्रलयं मृत्युं गत्वा प्राप्य कर्म-सङ्गिषु श्रुति-स्मृति-विहित-प्रतिषिद्ध-कर्म-फलाधिकारिषु मनुष्येषु जायते । तथा तद्वद् एव तमसि प्रवृद्धे प्रलीनो मृतो मूढ-योनिषु पश्व्-आदिषु जायते ॥१५॥
विश्वनाथः : कर्म-सङ्गिषु कर्मासक्त-मनुष्येषु ॥१५॥
बलदेवः : रजसि प्रवृद्धे प्रलय्ं मरणं गत्वा जनः कर्म-सङ्गिषु काम्य-कर्मासक्तेषु नृषु मध्ये जायते । तथा तमसि प्रवृद्धे प्रलीनो मृतो जनो मूढ-योनिषु पश्व्-आदिषु ॥१५॥
१४।१६
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥१६॥
श्रीधरः : इदानीं सत्त्वादीनां स्वानुरूप कर्म-द्वारेण विचित्र-फल-हेतुत्वम् आह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणः सात्त्विकं सत्त्व-प्रधानं निर्मलं प्रकाश-बहुलं सुखं फलम् आहुः कपिलादयः । रजस इति राजसस्य कर्मण इत्य् अर्थः । कर्म-फल-कथनस्य प्रकृतत्वात् । तस्य दुःखं फलम् आहुः । तमस इति तामसस्य कर्मण इत्य् अर्थः । तस्याज्ञानं मूढत्वं फलम् आहुः । सात्त्विकादि-कर्म-लक्षणं च नियतं सङ्ग-रहितम् इत्य् आदिना अष्टादशे ऽध्याये वक्ष्यति ॥१६॥
मधुसूदनः : इदानीं स्वानुरूप-कर्म-द्वारा सत्त्वादीनां विचित्र-फलतां सङ्क्षिप्याह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणो धर्मस्य सात्त्विकं सत्त्वेन निर्वृत्तं निर्मलं रजस्-तमो-मलामिश्रितं सुखं फलम् आहुः परमर्षयौ । रजसो राजसस्य तु कर्मणः पाप-मिश्रस्य पुण्यस्य फलं राजसं दुःखं दुःख-बहुलम् अल्पं सुखं कारणानुरूप्यात् कार्यस्य । अज्ञानम् अविवेक-प्रायं दुःखं तामसं तमसस् तामसस्य कर्मणो ऽधर्मस्य फलम् । आहुर् इत्य् अनुषज्यते । सात्त्विकादि-कर्म-लक्षणं च नियतं सङ्ग-रहितम् इत्य् आदिनाष्टादशे वक्ष्यति । अत्र रजस्-तमः-शब्दौ तत्-कार्ये प्रयुक्तौ कार्य-कारणयोर् अभेदोपचारात् गोभिः श्रीणीत मत्सरम् इत्य् अत्र यथा गो-शब्दस् तत्-प्रभवे पयसि, यथा वा धान्यम् असि धिनुहि देवान् इत्य् अत्र धान्य-शब्दस्
तत्-प्रभवे तण्डुले । तत्र पयस् तण्डुलयोर् इवात्रापि कर्मणः प्रकृतत्वात् ॥१६॥
विश्वनाथः : सुकृतस्य सात्त्विकस्य कर्मणः सात्त्विकम् एव निर्मलं निरुपद्रवम् । अज्ञानम् अचेतनता ॥१६॥
बलदेवः : अथ गुणानां स्वानुरूपकर्मद्वारा विचित्र-फल-ह्जेतुत्वम् आह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणो निर्मलं फलम् आहुर् गुण-स्वभाव-विदो मुनयो मल-दुःख-मोह-रूप-रजस्-तमः-फल-लक्षणान् निर्गतं सुखम् इत्य् अर्थः । तच् च सात्त्विकं सत्त्वेन निर्वृत्तम् । रजसो राजसस्य कर्मणः फलं दुःखं कार्यस्य कारणानुरूप्याद् दुःख-प्रचुरं किञ्चित् सुखम् इत्य् अर्थः । तमस् तामसस्य कर्मणो हिंसादेः फलम् अज्ञान-चैतन्य-प्रायं दुःखम् एवेत्य् अर्थः । तत्र रजस्-तमह्-शब्दाभ्यां राजस-तामस-कर्मणी लक्ष्ये गोभिः प्रीणित-मत्सरम् इत्य् अत्र यथा गो-शब्देन गो-पयो लक्ष्यते । सात्त्विकादि-कर्मणां लक्षणान्य् अष्टादशे वक्ष्यन्ते नियतं सङ्ग-रहितम् इत्य् आदिभिः ॥१६॥
१४।१७
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ॥१७॥
श्रीधरः : तत्रैव हेतुम् आह सत्त्वाद् इति । सत्त्वाज् ज्ञानं सञ्जायते । अतः सात्त्विकस्य कर्मणः प्रकाश-बहुलं सुखं फलं भवति । रजसो लोभो जायते । तस्य च दुःख-हेतुत्वात् तत्-पूर्वकस्य कर्मणो दुःखं फलं भवति । तमसस् तु प्रमाद-मोहाज्ञानानि भवन्ति । ततस् तामसस्य कर्मणो ऽज्ञान-प्रापकं फलं भवतीति युक्तम् एवेत्य् अर्थः ॥१७॥
मधुसूदनः : एतादृश-फल-वैचित्र्ये पूर्वोक्तम् एव हेतुम् आह सत्त्वाद् इति । सर्व-करण-द्वारकं प्रकाश-रूपं ज्ञानं सत्त्वात् सञ्जायते । अतस् तद्-अनुरूपं सात्त्विकस्य कर्मणः प्रकाश-बहुलं सुखं फलं भवति । रजसो लोभो विषय-कोटि-प्राप्त्यापि निवर्तयितुम् अशक्यो ऽभिलाष-विशेषो जायते । तस्य च निरन्तरम् उपचीयमानस्य पूरयितुम् अशक्यस्य सर्वदा दुःख-हेतुत्वात् तत्-पूर्वकस्य राजसस्य कर्मणो दुःखं फलं भवति । एवं प्रमाद-मोहौ तमसः सकाशाद् भवतो जायेते । अज्ञानम् एव च भवति । एव-कारः प्रकाश-प्रवृत्ति-व्यावृत्त्य्-अर्थः । अतस् तामसस्य कर्मणस् तामसम् अज्ञानादि-प्रायम् एव फलं भवतीति युक्तम् एवेत्य् अर्थः । अत्र चाज्ञानम् अप्रकाशः । प्रमादो मोहश् चाप्रकाशो ऽप्रवृत्तिश् चेत्य् अत्र व्याख्यातौ ॥१७॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : ईदृक्-फल-वैचित्र्ये प्राग् उक्तम् एव हेतुम् आह सत्त्वाद् इति । सत्त्वात् प्रकाश-लक्षणं ज्ञानं जायते । अतः सात्त्विकस्य कर्मणः प्रकाश-प्रचुरं सुखं फलम् । रजसो लोभस् तृष्णा-विशेषो यो विषयकोटिभिर् अप्य् अभिसेवितैर् दुष्पूरस् तस्य च दुःख-हेतुत्वात् तत्-पूर्वकस्य कर्मणो दुःख-प्रचुरं किञ्चित् सुखं फलम् । तमसस् तु प्रमादादीनि भवन्त्य् अतस् तत्-पूर्वकस्य कर्मणो ऽचैतन्य-प्रचुरं दुःखम् एव फलम् ॥१७॥
१४।१८
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्य-गुण-वृत्तस्था अधो गच्छन्ति तामसाः ॥१८॥
श्रीधरः : इदानीं सत्त्वादि-वृत्ति-शीलानां फल-भेदम् आह ऊर्ध्वम् इति । सत्त्व-स्थाः सत्त्व-वृत्ति-प्रधानाः । ऊर्ध्वं गच्छन्ति सत्त्वोत्कर्ष-तारतम्याद् उत्तरोत्तरणतगुणानन्दान् मनुष्य-गन्धर्व-पितृदेवादि-लोकान् सत्य-लोक-पर्यन्तान् प्राप्नुवन्तीत्य् अर्थः । राजसास् तु तृष्णाद्य्-आकुला मध्ये तिष्ठन्ति । मनुष्य-लोक एव उत्पद्यन्ते । जघन्यो निकृष्टस् तमो-गुणः । तस्य वृत्तिः प्रमाद-मोहादिः । अत्र स्थिता अधोगच्छन्ति । तमसो वृत्ति-तारतम्यात् तामिस्रादिषु निरयेषु उत्पद्यन्ते ॥१८॥
मधुसूदनः : इदानीं सत्त्वादि-वृत्त-स्थानां प्राग्-उक्तम् एव फलम् ऊर्ध्व-मध्याधो-भावेनाह ऊर्ध्वम् इति । अत्र तृतीये गुणे वृत्त-शब्द-योगाद् आद्ययोर् अपि वृत्तम् एव विवक्षितम् । तेन सत्त्वस्थाः सत्त्व-वृत्ते शास्त्रीये ज्ञाने कर्मणि च निरता ऊर्ध्वं सत्य-लोक-पर्यन्तं देव-लोकं गच्छन्ति ते देवेषूत्पद्यन्ते ज्ञान-कर्म-तारतम्येन । तथा मध्ये मनुष्य-लोके पुण्य-पाप-मिश्रे तिष्ठन्ति न तूर्ध्वं गच्छन्त्य् अधो वा मनुष्येषूत्पद्यन्ते राजसा रजो-गुण-वृत्ते लोभादि-पूर्वके राजसे कर्मणि निरताः । जघन्य-गुण-वृत्तस्था जघन्यस्य गुण-द्वयापेक्षया पश्चाद्-भाविनो निकृष्टस्य तमसो गुणस्य वृत्ते निद्रालस्यादौ स्थिता अधो गच्छन्ति पश्चादिषूत्पद्यन्ते । कदाचिज् जघन्य-गुण-वृत्त-स्थाः सात्त्विका राजसाश् च भवन्त्य् अत आह तामसाः सर्वदा
तमः-प्रधानाः । इतरेषां कदाचित् तद्-वृत्त-स्थत्वे ऽपि न तत्-प्रधानतेति भावः ॥१८॥
विश्वनाथः : सत्त्व-स्थाः सत्त्व्-तारतम्येनोर्ध्वं सत्य-लोक-पर्यन्तम् । मध्ये मनुस्य-लोक एव । जघन्यश् चासौ गुणश् चेति तस्य वृत्तिः प्रमादालस्यादिस् तत्र स्थिता अधो गच्छन्ति नरकं यान्ति ॥१८॥
बलदेवः : अथ सत्त्वादि-वृत्ति-निष्ठानां तान्य् एव फलान्य् ऊर्ध्व-मध्याधो-भावेनाह ऊर्ध्वम् इति । तमसि वृत्ति-शब्दाद् इतरयोश् च वृत्तिर् विवक्षिता । सत्त्वस्थाः सत्त्व-वृत्ति-निष्ठाः सत्त्व-तारतम्येनोर्ध्वं सत्यलोक-पर्यन्तं गच्छन्ति । राजसा रजो-वृत्ति-निष्ठा मध्ये पुण्य-पाप-मिश्रिते मनुष्य-लोके तिष्ठन्ति । मनुष्या एव भवन्ति रजस्-तारतम्येन । जघन्यः सत्त्व-रजो ऽपेक्षया निकृष्टो यो गुणस् तमः-सञ्ज्ञस् तद्-वृत्तौ प्रमादादौ स्थितास् त्व् अधो गच्छन्ति तमस्-तारतम्येन पशु-पक्षि-स्थावरादि-योनिं लभन्ते । तामसा इत्य् उक्तिस् तेषां सर्वदा तमसि स्थितिं व्यनक्ति ॥१८॥
१४।१९
नान्यं गुणेभ्यः कर्तारं यदा द्र्ष्टानुपश्यति ।
गुणेभ्यश् च परं वेत्ति मद्-भावं सो ऽधिगच्छति ॥१९॥
श्रीधरः : तद् एवं प्रकृति-गुण-सङ्ग-कृतं संसार-प्रपञ्चम् उक्त्वा इदानीं तद्-विवेकतो मोक्षं दर्शयति नान्यम् इति । यदा तु द्रष्टा विवेकी भूत्वा बुद्ध्याद्याकार-परिणतेभ्यो गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति । अपि तु गुण एव कर्माणि कुर्वन्तीति पश्यति । गुणेभ्यश् च परं व्यतिरिक्तं तत्-साक्षिणम् आत्मानं वेत्ति । स तु मद्-भावं ब्रह्मत्वम् अधिगच्छति प्राप्नोति ॥१९॥
मधुसूदनः : अस्मिन्न् अध्याये वक्तव्यत्वेन प्रस्तुतम् अर्थ-त्रयम् । तत्र क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वं के वा गुणाः कथं वा ते बध्नन्तीत्य् अर्थ-द्वयम् उक्तम् । अधुना तु गुणेभ्यः कथं मोक्षणं मुक्तस्य च किं लक्षणम् इति वक्तव्यम् अवशिष्यते । तत्र मिथ्या-ज्ञानात्मकत्वाद् गुणानां सम्यग्-ज्ञानात् तेभ्यो मोक्षणम् इत्य् आह नान्यम् इति । गुणेभ्यः कार्य-कारण-विषयाकार-परिणतेभ्यो ऽन्यं कर्तारं यदा द्रष्टा विचार-कुशलः सन्न् अनुपश्यति विचारम् अनु न पश्यति गुणा एवान्तः-करण-बहिष्करण-शरीर-विषय-भावापन्नाः सर्व-कर्मणां कर्तार इति पश्यति । गुणेभ्यश् च तत्-तद्-अवस्था-विशेषेण परिणतेभ्यः परं गुण-तत्-कार्यासंस्पृष्टं तद्-भासकम् आदित्यम् इव जल-तत्-कम्पाद्य्-असंस्पृष्टं
निर्विकारं सर्व-साक्षिणं सर्वत्र समं क्षेत्रज्ञम् एकं वेत्ति । मद्-भावं मद्-रूपतां स द्रष्टाधिगच्छति ॥१९॥
वीश्वाणट्ःअः : गुण-कृतं संसारं दर्शयित्वा गुणातीतं मोक्षं दर्शयति नान्यम् इति द्वाभ्याम् । गुणेभ्यः कर्तृ-करण्-विषयाकारेण परिणतेभ्यो ऽन्यं कर्तारं द्रष्टा जीवो यदा नानुपश्यति, किन्तु गुणा एव सदैव कर्तार इत्य् एवम् अनुपश्यति अनुभवतीत्य् अर्थः । गुणेभ्यः परं व्यतिरिकम् एवात्मानं वेत्ति तदा स द्रष्टा मद्-भावं मयि सायुज्यम् अधिगच्छति प्राप्नोति । तत्र तादृश-ज्ञानानन्तरम् अपि मयि परां भक्तिं कृत्वैव इत्य् उपान्त-श्लोकार्थ-दृष्ट्या ज्ञेयम् ॥१९॥
बलदेवः : एवं गुण-विवेकात् संसारम् उक्त्वा तद्-विवेकान् मोक्षम् आह नान्यम् इति द्वाभ्याम् । द्रष्टा तत्त्व-याथात्म्य-दर्शी जीवो यदा देहेन्द्रियात्मना परिणतेभ्यो गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति गुणान् कर्तीन् पश्यत्य् आत्मानं गुणेभ्यः परम-कर्तारं वेत्ति । तदा स मद्-भावम् अधिगच्छति । अयम् आशयः – न खलु विज्ञानानन्दो विशुद्धो जीवो युद्ध-यज्ञादि-दुःखमय-कर्मणां कर्ता, किन्तु गुणमय-देहेन्द्रियवान् एव संस्तथेति गुण-हेतुकत्वाद् गुण-निष्ठं तत्-कर्म-कर्तृत्वं न तु विशुद्धात्म-निष्ठम् इति यदानुपश्यति, तदा मद्-भावम् असंसारित्वं मत्-पर-भक्तिं वा । लभत इति पुराप्य् एतद् अभाषि । इह गुण-हेतुकं कर्तृत्वं शुद्धस्य निषिद्धम्, न तु शुद्ध-निष्ठम् इति । तस्य द्रष्टा इत्य् आदिनोक्तम् ॥१९॥
१४।२०
गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् ।
जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो ऽमृतम् अश्नुते ॥२०॥
श्रीधरः : ततश् च गुण-कृत-सर्वानर्थ-निवृत्त्या कृतार्थो भवतीत्य् आह गुणान् इति । देहाद्याकारः समुद्भवः परिणामो येषां ते देह-समुद्भवाः । तान् एतां त्रीन् अपि गुणान् अतीत्यातिक्रम्य तत्-कृतैर् जन्मादिभिर् विमुक्तः सन्न् अमृतम् अश्नुते परमानन्दं प्राप्नोति ॥२०॥
मधुसूदनः : कथम् अधिगच्छतीत्य् उच्यते - गुणान् इति । गुणान् एतान् मायात्मकास् त्रीन् सत्त्व-रजस्-तमो-नाम्नो देह-समुद्भवान् देहोत्पत्ति-बीज-भूतान् अतीत्य जीवन्न् एव तत्त्व-ज्ञानेन बाधित्वा जन्म-मृत्यु-जरा-दुःखैर् जन्मना मृत्युना जरया दुःखैश् चाध्यात्मिकादिभिर् माया-मयैर् विमुक्तो जीवन्न् एव तत्-सम्बन्ध-शून्यः सन् विद्वान् अमृतं मोक्षम् अश्नुते प्राप्नोति ॥२०॥
विश्वनाथः : ततश् च सो ऽपि गुणातीत एवोच्यत इत्य् आह गुणान् इति ॥२०॥
बलदेवः : मद्-भाव-पदेनोक्तम् अर्थं स्फुटयति गुणान् इति । देही देह-मध्य-स्थो ऽपि जीवो गुण-पुरुष-विवेक-बलेनैतान् देह-समुद्भवान् देहोत्पादआंस् त्रीन् गुणान् अतीत्योल्लङ्घ्य जन्मादिभिर् विमुक्तो ऽमृतम् आत्मानम् अश्नुते ऽनुभवति । सो ऽयम् असंसारित्व-लक्षणो मद्-भावो मत्-पर-भक्ति-पात्रता-लक्षणो वा । एवं वक्ष्यति ब्रह्म-भूतः प्रसन्नात्मा इत्य् आदि ॥२०॥
१४।२१
कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो ।
किम्-आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥२१॥
श्रीधरः : गुणान् एतान् अतीत्यामृतम् अश्नुत इत्य् एतत् श्रुत्वा गुणातीतस्य लक्षणम् आचारं गुणात्ययोपायं च सम्यग् बुभुत्सुर् अर्जुन उवाच कैर् इति । हे प्रभो कैर् लिङ्गैः कीदृशैर् आत्म-व्युत्पन्नैश् चिह्नैर् गुणातीतो देही भवतीति लक्षण-प्रश्नः । क आचारो ऽस्येति किम्-आचारः । कथं वर्तत इत्य् अर्थः । कथं च केनोपायेन एतांस् त्रीन् अपि गुणान् अतीत्य वर्तते । तत् कथयेत्य् अर्थः ॥२१॥
मधुसूदनः : गुणान् एतान् अतीत्य जीवन्न् एवामृतम् अश्नुत इत्य् एतच् छ्रुत्वा गुणातीतस्य लक्षणम् चाचारं च गुणात्ययोपायं च सम्यग् बुभुत्सुर् अर्जुन उवाच कैर् इति । एतान् गुणान् अतीतो यः स कैर् लिङ्गैर् विशिष्टो भवति । यैर् लिङ्गैः स ज्ञातुं शक्यस् तानि मे ब्रूहीत्य् एकः प्रश्नः । प्रभुत्वाद् भृत्य-दुःखं भगवतैव निवारणीयम् इति सूचयन् सम्बोधयति प्रभो इति । क आचारो ऽस्येति किम्-आचारः । किं यथेष्ट-चेष्टः किं वा नियन्त्रित इति द्वितीयः प्रश्नः । कथं वा केन च प्रकारेणैतांस् त्रीन् गुणान् अतिवर्तते ऽतिक्रामतीति गुणातीतत्वोपायः क इति तृतीयः प्रश्नः ॥२१॥
विश्वनाथः : स्थित-प्रज्ञस्य का भाषा इत्य् आदिना द्वितीयाध्याये पृष्टम् अप्य् अर्थं पुनस् ततो ऽपि विशेष-बुभूत्सया पृच्छति कैर् लिङ्गैः इत्य् एकः प्रश्नः । कैश् चिह्नैस् त्रिगुणातीतः स ज्ञेय इत्य् अर्थः । किम् आचार इति द्वितीयः । कथं चैतान् इति तृतीयः । गुणातीतत्व-प्राप्तेः किं साधनम् इत्य् अर्थः । स्थित-प्रज्ञस्य का भाषा इत्य् आदौ स्थित-प्रज्ञो गुणातीतः कथं स्याद् इति तदानीं न पृष्टम् इदानीं तु पृष्टम् इति विशेषः ॥२१॥
बलदेवः : गुणातीतस्य लक्षणम् आचारं च गुणात्यय-साधनं चार्जुनः पृच्छति कैर् इत्य् अर्धकेन । प्रथमः प्रश्नः कैश् चिह्नैर् गुणातीतो ज्ञातुं शक्य इत्य् अर्थः । किम् आचार इति द्वितीयः स किं यथेष्टाचारो नियताचारो वेत्य् अर्थः । कथं चैतान् इति तृतीयः केन साधनेन गुणान् अत्येतीत्य् अर्थः ॥२१॥
१४।२२
प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२॥
श्रीधरः : स्थित-प्रज्ञस्य का भाषा [गीता २।५४] इत्य् आदिना द्वितीये ऽध्याये पृष्टम् अपि दत्तोत्तरम् अपि पुनर् विशेष-बुभूत्सया पृच्छतीति ज्ञात्वा प्रकारान्तरेण तस्य लक्षणादिकं श्री-भगवान् उवाच प्रकाशं चेत्य् आदि षड्भिः । तत्रैकेन लक्षणम् आह प्रकाशम् इति । प्रकाशं च सर्व-द्वारेषु देहे ऽस्मिन्न् इति पूर्वोक्तं सत्त्व-कार्यम् । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् सत्त्वादीनाम् । सर्वाण्य् अपि यथायथं सम्प्रवृत्तानि स्वतः-प्राप्तानि सन्ति दुःख-बुद्ध्या यो न द्वेष्टि । निवृत्तानि च सन्ति सुख-बुद्ध्या यो न काङ्क्षति, गुणातीतः स उच्यते इति चतुर्थेनान्वयः ॥२२॥
मधुसूदनः : स्थित-प्रज्ञस्य का भाषा [गीता २।५४] इत्य् आदिना पृष्टम् अपि प्रजहाति यदा कामान् [गीता २।५५] इत्य् आदिना दत्तोत्तरम् अपि पुनः प्रकारान्तरेण बुभूत्समानः पृच्छतीत्य् अवधाय प्रकारान्तरेण तस्य लक्षणादिकं श्री-भगवान् उवाच प्रकाशं चेत्य् आदि पञ्चभिः श्लोकैः । यस् तावत् कैर् लिङ्गैर् युक्तो गुणातीतो भवतीति प्रश्नस् तस्योत्तरं शृणु । प्रकाशं च सर्व-कार्यं । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् । सर्वाण्य् अपि गुण-कार्याणि यथायथं सम्प्रवृत्तानि स्व-सामग्री-वशाद् उद्भूतानि सन्ति दुःख-रूपाण्य् अपि दुःख-बुद्ध्या यो न द्वेष्टि । तथा विनाश-सामग्री-वशान् निवृत्तानि तानि सुख-रूपाण्य् अपि सन्ति सुख-बुद्ध्या यो न काङ्क्षति न कामयते स्वप्नवन् मिथ्यात्व-निश्चयात्
। एतादृश-द्वेष-राग-शून्यो यः स गुणातीत उच्यत इति चतुर्थ-श्लोक-गतेनान्वयः । इदं च स्वात्म-प्रत्यक्षं लक्षणं स्वार्थम् एव न परार्थम् । न हि स्वाश्रितौ द्वेष-तद्-अभावौ राग-तद्-अभावौ च परः प्रत्येतुम् अर्हति ॥२२॥
विश्वनाथः : तत्र कैर् लिङ्गैर् गुणातीतो भवतीति प्रथम-प्रश्नस्योत्तरम् आह प्रकाशं च सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते इति सत्त्व-कार्यम् । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् सत्त्वादीनाम् । सर्वाण्य् अपि यथायथं सम्प्रवृत्तानि स्वतः-प्राप्तानि दुःख-बुद्ध्या यो न द्वेष्टि । गुण-कार्याण्य् एतानि निवृत्तानि च सुख-बुद्ध्या यो न काङ्क्षति, स गुणातीत उच्यते इति चतुर्थेनान्वयः । सम्प्रवृत्तानीति क्लीब्-अन्तम् आर्षम् ॥२२॥
बलदेवः : यद्यपि स्थित-प्रज्ञस्य का भाषा इत्य् आदिना पृष्टम् इदं प्रजहाति यदा कामान् इत्य् आदिनोत्तरितं च, तथापि विशेष-जिज्ञासया पृच्छतीति विधान्तरेण तस्य लक्षाणादीन्य् आह भगवान् प्रकाशं चेत्य् आदि पञ्चभिः । तत्रैकेन लक्षणं स्व-संवेद्यम् आह प्रकाशं सत्त्व-कार्यं प्रवृत्तिं रजः-कार्यं मोहं तमः-कार्यं एतानि त्रीणि सम्प्रवृत्तान्य् उत्पादक-सामग्री-वशात् प्राप्तानि दुःख-रूपाण्य् अपि दुःख-बुद्ध्या यो न द्वेष्टि, विनाशक-सामग्री-वशान् निवृत्तानि विनष्टानि तानि सुख-रूपान्य् अपि सुख-बुद्ध्या यो नाकाङ्क्षति, एतादृश-द्वेष-राग-शून्यो गुणातीतः स उच्यते इति चतुर्थेनान्वयः । स्वगतौ द्वेष-तद्-अभावौ राग-तद्-अभावौ च परो न वेदितुम् अर्हतीति स्व-संवेद्यम् इदं लक्षणम् ॥२२॥
१४।२३
उदासीनवद् आसीनो गुणैर् यो न विचाल्यते ।
गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ॥२३॥
श्रीधरः : तद् एवं स्व-संवेद्यं गुणातीतस्य लक्षणम् उक्त्वा पर-संवेद्यं तस्य लक्षणं वक्तुं द्वितीय-प्रश्नस्य किम् आचार इत्य् अस्योत्तरम् आह उदासीनवद् इति त्रिभिः । उदासीनवत् साक्षितयासीनः स्थितः सन् गुणैर् गुण-कार्यैः सुख-दुःखादिभिर् न यो विचाल्यते स्वरूपान् न प्रच्यवते अपि तु गुणा एव स्वकार्येषु वर्तन्ते । एतैर् मम सम्बन्ध एव नास्तीति विवेक-ज्ञानेन यस् तुष्णीम् अवतिष्ठति । परस्मैपदम् आर्षम् । नेङ्गते न चलति ॥२३॥
मधुसूदनः : एवं लक्ष् हेरे
विश्वनाथः : किम् आचारः इति द्वितीय-प्रश्नस्योत्तरम् आह उदासीनवद् इति त्रिभिः । गुण-कार्यैः सुख-दुःखादिभिर् यो न विचाल्यते स्वरूपावस्थान् न च्यवते, अपि तु गुण एव स्व-स्व-कार्येषु वर्तन्त इत्य् एवेति एभिर् मम सम्बन्ध एव नास्तीति विवेक-ज्ञानेन यस् तूष्णीम् अवतिष्ठति परस्मैपदम् आर्षम् । नेङ्गते न क्वापि दैहिक-कृत्ये यतते । गुणातीतः स उच्यते इति गुणातीतस्य एतानि चिह्नानि एतान् आचारांश् च दृष्ट्वैव गुणातीतो वक्तव्यो न तु गुणातीतत्वोपपत्ति-वावदूको गुणातीतो वक्तव्य इति भावः ॥२३-२५॥
बलदेवः : अथ पर-संवेद्य-लक्षणं वक्तुं किम् आचारः इति द्वितीय-प्रश्नस्योत्तरम् आह उदासीनेति त्रिभिः । उदासीनो मध्यस्थो यथा विवादिनोः पक्षग्रहैः स्व-माध्यस्थ्यान् न विचाल्यते, तया सुख-दुःखादि-भावेन पर्णतैर् गुणैर् यो नात्मावस्थितैर् विचाल्यते, किन्तु गुणाः स्व-कार्येषु प्रकाशादिषु वर्तन्ते । मम तैर् न सम्बन्ध इति निश्चित्य तूष्णीम् अवतिष्ठते । नेङ्गते गुण-कार्यानुरूपेण न चेष्टते । गुणातीतः स उच्यते इति तृतीयेनान्वयः ॥२३॥
१४।२४
सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-काञ्चनः ।
तुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-संस्तुतिः ॥२४॥
श्रीधरः : अपि च समेति । समे सुख-दुःखे यस्य । यतः स्वस्थः स्वरूप एव स्थितः । अतएव समानि लोष्टाश्म-काज्चनानि यस्य । तुल्ये पिर्याप्रिये सुख-दुःख-हेतु-भूते यस्य । धीरो धीमान् । तुल्यो निन्दा चात्मनः संस्तुतिश् च यस्य ॥२४॥
मधुसूदनः : समे दुःख-सुखे द्वेष-राग-शून्यतयानात्म-धर्मतयानृततया च यस्य स सम-दुःख-सुखः । कस्माद् एवं यस्मात् स्वस्थः स्वस्मिन्न् आत्मन्य् एव स्थितो द्वैत-दर्शन-शून्यत्वात् । अत एव समानि हेयोपादेय-भाव-रहितानि लोष्टाश्म-काञ्चनानि यस्य स तथा । लोष्टः पांसु-पिण्डः । अत एव तुल्ये प्रियाप्रिये सुख-दुःख-साधने यस्य हित-साधनत्व-बुद्धि-विषयत्वाभावेनोपेक्षणीयत्वात् । धीरो धीमान् धृतिमान् वा । अत एव तुल्ये । निन्दात्म-संस्तुती दोष-कीर्तन-गुण-कीर्तने यस्य स गुणातीत उच्यत इति द्वितीय-गतेनान्वयः ॥२४॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : किं च समेति । यतो ऽयं स्वस्थः स्वरूप-निष्ठो ऽतएव सम-दुःख-सुखःङ् समे अनात्म-धर्मत्वात् तुल्ये सुख-दुःखे यस्य सः । समान्य् अनुपादेयतया तुल्यानि लोस्ट्रादीनि यस्य सः । लोष्ट्र-मृत्-पिण्ड-तुल्ये प्रियाप्रिये सुख-दुःख-साधने वस्तुनी यस्य सः । धीरः प्रकृति-पुरुष-विवेक-कुशलः । तुल्ये निन्दात्म-संस्तुती यस्य सः । तत्-प्रयोजकयोर् दोष-गुणयोर् आत्म-गतत्वाभावाद् इत्य् अर्थः । य ईदृशो गुणतीतः स उच्यत इति द्वितीयेनान्वयः ॥२४॥
१४।२५
मानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः ।
सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ॥२५॥
श्रीधरः : अपि च मानेति । माने ऽपमाने च तुल्यः । मित्र-पक्षे ऽरिपक्षे च तुल्यः । सर्वान् दृष्टादृष्टार्थान् आरम्भान् उद्यमान् परित्यक्तुं शीलं यस्य सः । एवम्भूताचार-युक्तो गुणातीत उच्यते ॥२५॥
मधुसूदनः : मानः सत्-कार आदरापर-पर्यायः । अपमानस् तिरस्कारो ऽनादरापर-पर्यायः । तयोस् तुल्यो हर्ष-विषाद-शून्यः । निन्दा-स्तुती शब्द-रूपे मानापमानौ तु शब्दम् अन्तरेणापि काय-मनो-व्यापार-विशेषाव् इति भेदः । अत्र प-कार-व-कारयोः पाठ-विकल्पे ऽप्य् अर्थः स एव । तुल्यो मित्रारि-पक्षयोः । मित्र-पक्षस्येवारि-पक्षस्यापि द्वेषाविषयः स्वयं तयोर् अनुग्रह-निग्रह-शून्य इति वा । सर्वारम्भ-परित्यागी । आरभ्यन्त इत्य् आरम्भाः कर्माणि तान् सर्वान् परित्यक्तुं शीलं यस्य स तथा । देह-यात्रा-मात्र-व्यतिरेकेण सर्व-कर्म-परित्यागीत्य् अर्थः । उदासीनवद् आसीन इत्य् आद्य्-उक्त-प्रकाराचारो गुणातीतः स उच्यते । यद् उक्तम् उपेक्षकत्वादि तद्-विद्योदयात् पूर्वं यत्न-साध्यं विद्याधिकारिणा साधनत्वेनानुष्ठेयम् उत्पन्नायां तु
विद्यायां जीवन्-मुक्तस्य गुणातीतस्योक्तं धर्म-जातम् अयत्न-सिद्धं लक्षणत्वेन तिष्ठत्य् अर्थः ॥२५॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : मानेति स्फुटार्थः । निन्दास्तुती वाग्-व्यापारेण साध्ये । मानापमानौ तु कायमनोव्यापारेणापि स्याताम् इति भेदः । सर्वेति देह-यात्रा-मात्राद् अन्यत् सर्व-कर्म ग्राह्यम् । य ईदृशो गुणातीतः उन्दासीनवत् इत्य् आद्य् उक्ता यस्याचार्ः परैर् अपि संवेद्याः स गुणातीतो बोध्यो न तु तद्-उपपत्ति-वावदूक इति भावः ॥२५॥
१४।२६
मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥२६॥
श्रीधरः : कथं चैतान् त्रीन् गुणान् अतिवर्तते इति । अस्य प्रश्नस्योत्तरम् आह मां चेति । च-शब्दो ऽवधारणार्थः । माम् एव परमेश्वरम् अव्यभिचारेण एकान्तेन भक्ति-योगेन यः सेवते स एतान् गुणान् समतीत्य सम्यग् अतिक्रम्य ब्रह्म-भूयाय ब्रह्म-भावाय मोक्षाय कल्पते समर्थो भवति ॥२६॥
मधुसूदनः : अधुना कथम् एतान् गुणान् अतिवर्तत इति तृतीय-प्रश्नस्य प्रतिवचनम् आह मां चेति । चस् त्व्-अर्थः । माम् एवेश्वरं नारायणं सर्व-भूतान्तर्यामिणं मायया क्षेत्रज्ञताम् आगतं परमानन्द-घनं भगवन्तं वासुदेवम् अव्यभिचारेण परम-प्रेम-लक्षणेन भक्ति-योगेन द्वादशाध्यायोक्तेन यः सेवते सदा चिन्तयति स मद्-भक्त एतान् प्राग्-उक्तान् गुणान् समतीत्य सम्यग्-अतिक्रम्याद्वैत-दर्शनेन बाधित्वा ब्रह्म-भूयाय ब्रह्म-भवनाय मोक्षाय कल्पते समर्थो भवति । सर्वदा भगवच्-चिन्तनम् एव गुणातीतत्वोपाय इत्य् अर्थः ॥२६॥
विश्वनाथः : कथं चैतान् त्रीन् गुणान् अतिवर्तते इति तृतीयप्रश्नस्योत्तरम् आह मां चेति । च एवार्थे । माम् एव श्यामसुन्दराकारं परमेश्वरं भक्ति-योगेन यः सेवते स एव ब्रह्म-भूयाय ब्रह्मत्वाय ब्रह्मानुभवाय यावत् भक्त्याहम् एकया ग्राह्यः इति मद्-वाक्ये एकयेति विशेषणोपन्यासात् माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते इत्य् अत्रापि एव-कार-प्रयोगात् भक्त्या विना प्रकारान्तरेण ब्रह्मानुभवो न भवतीति निश्चयात् । भक्ति-योगेन कीदृशेन । अव्यभिचारेण कर्म-ज्ञानाद्य्-अमिश्रेण निष्काम-कर्मणो न्यास-श्रवणात् । ज्ञानं च मयि सन्न्यसेत् इति ज्ञानिनां चरम-दशायां ज्ञानस्यापि न्यास-श्रवणात् । भक्ति-योगस्य तु क्वापि न्यासाश्रवणात् भक्ति-योग एव सो ऽव्यभिचारः । तेन कर्म-योगम् इव ज्ञान-योगम् अपि परित्याज्य यद्य् अव्यभिचारेण केवलेनैव
भक्तियोगेन सेवते, तर्हि ज्ञानी अपि गुणातीतो भवति, नान्यथा । अनन्य-भक्तस् तु निर्गुणो मद्-अपाश्रयः इत्य् एकादशोक्तेर् गुणातीतो भवत्य् एव । अत्र इदं तत्त्वं वेऋषे इत्य् अत्रासङ्गिनः कर्मिणो ज्ञानिनो वा सात्त्विकत्वेनैव साधकत्वावगतेस् तत्-साहचर्यात् निर्गुणो मद्-अपाश्रयः इति भक्तः साधक एवावगम्यते । ततश् च ज्ञानी ज्ञान-सिद्धः सन्न् एव सात्त्विकत्वं परित्यज्य गुणातीतो भवति । भक्तस् तु साधक-दशाम् आरभ्यैव गुणातीतो भवतीत्य् अर्थो लभ्यते । अत्र च-कारो ऽवधारणार्थः इति स्वामि-चरणाः । माम् एवेश्वरं नारायणम् अव्यभिचारेण भक्ति-योगेन द्वादशाद्यायोक्तेन यः सेवत इति मधुसूदन-सरस्वती-पादाश् च व्याचक्षते ॥२६॥
बलदेवः : कथं चैतांस् त्रीन् गुणान् अतिवर्तत इति तृतीय-प्रश्नस्योत्तरम् आह मां चेति । चो ऽवधारणे । नान्यं गुणेभ्यः करारम् इत्य् आद्य्-उक्त्या यो गुण-पुरुष-विवेक-ख्यातिम् अवाप तयैव तस्या गुणात्ययो न संसिध्यति, किन्तु तद्वान् अपि यो मां कृष्णम् एव माया-गुणास्पृष्टं माया-नियन्तारं नायायणादि-रूपेण बहुधाविर्भूतं चिद्-आनन्द-घनं सार्वज्ञ्य्-आदि-गुण-रत्नालयम् अव्यभिचारेणैकान्तिकेन भक्ति-योगेन सेवते श्रयति स एतान् दुरत्ययान् अपि गुणान् अतीत्याक्रम्य ब्रह्म-भूयाय कल्पते गुणाष्ट-विशिष्टत्वाय[*एन्द्नोते] निज-धर्माय योग्यो भवति । तं धर्मं लभत इत्य् अर्थः । जीवे ब्रह्म-शब्दस् तूक्त एव प्र्क्, तथा च भक्ति-शिरस्कयैव तद्-विवेक-ख्यात्या जीवस्य स्वरूप-लाभो, न तु केवलया तयेत्य् उक्तम् । यत् तु ब्रह्म-भूयाय इत्य् अनेन मद्-रूपतां
स यातीति पार्थ-सारथिनोपदिष्टम् इति व्याचष्टे । तन्-निरवधानम् एव तेनैवेदं ज्ञानम् इत्य् आदिना मोक्षे ऽपि । स्वरूप-भेदस्याभिहितत्वात् निरञ्जनः परमं साम्यम् उपैति इत्य् आदि श्रुतिष्व् अपि तत्र तस्य दृष्टत्वाद् अणुत्व-विभुत्वादि-नित्य-धर्म-कृतत्वेन नित्यत्वाच् च तद्-भेदस्य तस्माद् गुणाष्टक-विशिष्टत्वम् एव ब्रहैव सन् ब्रह्माप्य् एति इति श्रुत्यौ तु ब्रह्म-सदृशः सन् ब्रमाप्य् एति प्राप्नोतीत्य् अर्थः । एवौपम्ये ऽवधारणे इति विश्व-प्रकाशात् । ववा यथा तथैवेवं साम्ये इत्य् अमर-कोषाच् च । अन्यथा ब्रह्म-भावोत्तरो ब्रह्माप्ययो न सङ्गच्छेत । ॥२६॥
१४।२७
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७॥
श्रीधरः : तत्र हेतुम् आह ब्रह्मणो हीति । हि यस्माद् ब्रह्मणो ऽहं प्रतिष्ठा प्रतिमा । घनीभूतं ब्रह्मैवाहम् । यथा घनीभूतः प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः । तथाव्ययस्य नित्यस्य । अमृतस्य मोक्षस्य च नित्य-मुक्तत्वात् । तथा तत्-साधनस्य शाश्वतस्य धर्मस्य च शिद्द्ज-सत्त्वात्मकत्वात् । तथैकान्तिकस्य अखण्डितस्य सुखस्य च प्रतिष्ठाहम् । परमानन्दैक्-रूपत्वात् । अतो मत्-सेविनो मद्-भावस्यावश्यम्भावित्वाद् युक्तम् एवोक्तं ब्रह्म-भूयाय कल्पत इति ॥
कृष्णाधीन-गुणासङ्ग-प्रसञ्जित-भवाम्बुधिम् ।
सुखं तरति मद्-भक्त इत्य् अभाषि चतुर्दशे ॥
इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
गुण-त्रय-विभाग-योगो नाम
चतुर्दशो ऽध्यायः
॥१४॥
मधुसूदनः : अत्र हेतुम् आह ब्रह्मण इति । ब्रह्मणस् तत्-पद-वाच्यस्य सोपाधिकस्य जगद्-उत्पत्ति-स्थिति-लय-हेतोः प्रतिष्ठा पारमार्थिकं निर्विकल्पल्पकं सच्-चिद्-आनन्दात्मकं निरुपाधिकं तत्-पद-लक्ष्यम् अहं निविकल्पको वासुदेवः प्रतितिष्ठत्य् अत्रेति प्रतिष्ठा कल्पित-रूप-रहितम् अकल्पितं रूपम् । अतो यो माम् उपाधिकं ब्रह्म सेवते स ब्रह्म-भूयाय कल्पत इति युक्तम् एव ।
कीदृशस्य ब्रह्मणः प्रतिष्ठाहम् इत्य् आकाङ्क्षायां विशेषणानि अमृतस्य विनाश-रहितस्य, अव्ययस्य विपरिणाम-रहितस्य च, शाश्वतस्यापक्षय-रहितस्य च, धर्मस्य ज्ञान-निष्ठा-लक्षण-धर्म-प्राप्यस्य, सुखस्य परमानन्द-रूपस्य । सुखस्य विषयेन्द्रिय-संयोगजत्वं वारयति ऐकान्तिकस्याव्यभिचारिणः सर्वस्मिन् देशे काले च विद्यमानस्यैकान्तिक-सुख-रूपस्येत्य् अर्थः । एतादृशस्य ब्रह्मणो यस्माद् अहं वास्तवं स्वरूपं तस्मान् मद्-भक्तः संसारान् मुच्यत इति भावः । तथा चोक्तं ब्रह्मणा भगवन्तं श्री-कृष्णं प्रति -
एकस् त्वम् आत्मा पुरुषः पुराणः
सत्यः स्वयं ज्योतिर् अनन्त आद्यः ।
नित्यो ऽक्षरो ऽजस्र-सुखो निरञ्जनः
पूर्णो ऽद्वयो मुक्त उपाधितो ऽमृतः ॥ [१०।१४।२३] इति ।
अत्र सर्वोपाधि-शून्य आत्मा ब्रह्म त्वम् इत्य् अर्थः । शुकेनापि स्तुतिम् अन्तरेणैवोक्तम् -
सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः ।
तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् ॥ [भ्प् १०।१४।५७] इति ।
सर्वेषाम् एव कार्य-वस्तूनां भावार्थः सत्ता-रूपः परमार्थो भवति कार्याकारेण जायमाने सोपाधिके ब्रह्मणि स्थितः कारण-सत्तातिरिक्तायाः कार्य-सत्ताया अनभ्युपगमात् । तस्यापि भवतः कारणस्य सोपाधिकस्य ब्रह्मणो भावार्थः सत्ता-रूपो ऽर्थो भगवान् कृष्णः सोपाधिकस्य निरुपाधिके कल्पितत्वात् कल्पितस्य चाधिष्ठानान् अतिरेकात्, भगवतः कृष्णस्य च सर्व-कल्पनाधिष्ठानत्वेन परमार्थ-सत्य-निरुपाधि-ब्रह्म-रूपत्वात् । अतः किम् अतद्-वस्तु तस्माच् छ्री-कृष्णाद् अन्यद् वस्तु परमार्थिकं किं निरूप्यतां तद् एवैकं परमार्थिकं नान्यत् किम् अपीत्य् अर्थः । तद् एतद् इहाप्य् उक्तं ब्रह्मणो हि प्रतिष्ठाहम् इति ।
अथवा त्वद्-भक्तस् त्वद्-भावम् आप्नोतु नाम कथं नु ब्रह्म-भावाय कल्प्यते ब्रह्मणः सकाशात् तवान्यत्वाद् इत्य् आशङ्क्याह ब्रह्मणो हीति । ब्रह्मणः परमात्मनः प्रतिष्ठा पर्याप्तिर् अहम् एव न तु मद्-भिन्नं ब्रह्मेत्य् अर्थः । तथामृतस्य अमृतत्वस्य मोक्षस्य चाव्ययस्य सर्वथानुच्छेद्यस्य च च प्रतिष्ठाहम् एव । मय्य् एव मोक्षः पर्यवस्तिओ मत्-प्राप्तिर् एव मोक्ष इत्य् अर्थः । तथा शाश्वतस्य नित्य-मोक्ष-फलस्य धर्मस्य ज्ञान-निष्ठा-लक्षणस्य च पर्याप्तिर् अहम् एव । ज्ञान-निष्ठा-लक्षणो धर्मो मय्य् एव पर्यवसितो न तेन मद्-भिन्नं किञ्चित् प्राप्यम् इत्य् अर्थः । तथैकान्तिकस्य सुखस्य च पर्याप्तिर् अहम् एव पर्मानन्द-रूपत्वान् न मद्-भिन्नं किञ्चित् सुखं प्राप्यम् अस्तीत्य् अर्थः । तस्माद् युक्तम् एवोक्तं मद्-भक्तो ब्रह्म-भूयाय कल्पत इति ॥२७॥
पराकृतन-मद्-बन्धं परं ब्रह्म नराकृति ।
सौन्दर्य-सार-सर्वस्वं वन्दे नन्दात्मजं महः ॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् गुण-त्रय-विभाग-योगो नाम चतुर्दशो ऽध्यायः
॥१४॥
विश्वनाथः : ननु मद्-भक्तानां कथं निर्गुण-ब्रह्मत्व-प्राप्तिः ? सा तु अद्वितीय-तद्-एकानुभवेनैव सम्भवेत् । तत्राह ब्रह्मणो हीति । हि यस्मात् परम-प्रतिष्ठात्वेन प्रसिद्धं यद् ब्रह्म तस्याप्य् अहं प्रतिष्ठा प्रतिष्ठीयते ऽस्मिन्न् इति प्रतिष्ठा आश्रयो ऽन्न-मयादिषु श्रुतिषु सर्वत्रैव प्रतिष्ठा-पदस्य तथार्थत्वात् । तथामृतस्य प्रतिष्ठा किं स्वर्गीय-सुधायाः ? न । अव्ययस्य नाश-रहितस्य मोक्षस्येत्य् अर्थः । तथा शाश्वतस्य धर्मस्य साधन-फल-दशयोर् अपि नित्य-स्थितस्य भक्त्य्-आख्यस्य परम-धर्मस्याहं प्रतिष्ठा, तथा तत्-प्राप्यस्यैकान्तिक-भक्त-सम्बन्धिनः सुखस्य प्रेम्णश् चाहं प्रतिष्ठा । अतः सर्वस्यापि मद्-अधीनत्वात् कैवल्य-कामनया कृतेन मद्-भजनेन ब्रह्मणि लीयमानो ब्रह्मत्वम् अपि प्राप्नोति ।
अत्र ब्रह्मणो ऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहं यथा घनीभूत-प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः इति स्वामि-चरणाः । सूर्यस्य तेजो-रूपत्वे ऽपि यथा तेजस आश्रयत्वम् अप्य् उच्यते । एवं मे कृष्णस्य ब्रह्म-रूपत्वे ऽपि ब्रह्मणः प्रतिष्ठात्वम् अपि । अत्र श्री-विष्णु-पुराणम् अपि प्रमाणम् – शुभाश्रयः स चित्तस्य सर्वगस्य तथात्मनः [विप् ६।७।७६] इति व्याख्यातं च तत्रापि स्वामि-चरणैः । सर्वगस्यात्मनः पर-ब्रह्मणो ऽपि आश्रयः प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् इति । तथा विष्णु-धर्मे ऽपि नरक-द्वादशी-प्रसङ्गे -
प्रकृतौ पुरुषे चैव ब्रह्मण्य् अपि स प्रभुः ।
यथैक एव पुरुषो वासुदेवो व्यवस्थितः ॥ इति ।
तत्रैव मासर्क्ष-पूजा-प्रसङे –
यथाच्युतस् त्वं परतः परस्मात्
स ब्रह्म-भूतात् परतः परात्मा । इति ।
तथा हरि-वंशे ऽपि विप्र-कुमारानयन-प्रसङ्गे अर्जुनं प्रति श्री-भगवद्-वाक्यं –
तत्-परं परमं ब्रह्म सर्वं विभजते जगत् ।
ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ (ह्व् २।११४।११-१२)
ब्रह्म-संहितायाम् अपि (५।४०) –
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटीष्व् अशेष-वसुधादि-विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ।
अष्टम-स्कन्धे च (८।२४।३८) –
मदीयं महिमानञ्च् च पर-ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ इति भगवद्-उक्तिश् च ।
मधुसूदन-सरस्वती-पादाश् च व्याचक्षते स्म यथा – ननु त्वद्-भक्तस् त्वद्-भावम् आप्नोतु नाम कथं ब्रह्म-भूयाय कल्पते ब्रह्मणः सकाशात् तवान्यत्वाद् इत्य् आशङ्क्याह ब्रह्मणो हीति । प्रतिष्ठा पर्याप्तिर् अहम् एवेति । पर्याप्तिः परिपूर्णता इत्य् अमरः ।
पराकृत-मनो-द्वन्द्वं
परं ब्रह्म नराकृति ।
सौन्दर्य-सार-सर्वस्वं
वन्दे नन्दात्मजं महः ॥ इत्य् उपश्लोकयामासुश् च ॥२७॥
अनर्थ एव त्रैगुण्यं निस्त्रैगुण्यं कृतार्थता ।
तच् च भक्त्यैव भवतीत्य् अध्यायार्थो निरूपितः ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्दशो ऽयं गीतासु सङ्गतः सङ्गतः सताम् ॥१४॥
बलदेवः : ननु तद्-विवेक-ख्यात्या त्वद्-एक-भक्त्या च गुणातीतो लब्ध-स्वरूपो ब्रह्म-शब्दितो मुक्तः कथं तिष्ठेद् इति चेत् तत्राह ब्रह्मणो हीति । हिर् निश्चये । ब्रह्मणस् तत्-पूर्वकया तया सत्त्वाद्यावरणात्ययाद् आविर्भावित-स्वगुणाष्टकस्यामृतस्य मृइतिर् निर्गतस्याव्ययस्य ताद्रूप्यणैकरसस्य मुक्तस्य मद्-अतिप्रियस्याहम् एव विज्ञानानन्द-मूर्तिर् अनन्त-गुणो निरवद्यः सुहृततमः सर्वेश्वरः । प्रतिष्ठा प्रतिष्ठीयते ऽत्र इति निरुक्तेः परमाश्रयो ऽतिप्रियो भवामीति तादृशं मां परया भक्त्यानुभवंस् तिष्ठतीति । न मत्तो विश्लेष-लेशो न च पुनर् आवर्तते, यद् गत्वा न निवर्तन्ते मुक्तानां परमा गतिः इति स्मृतिभ्यः ।
ननु मुक्तस् त्वां कथं श्रयेत श्रवण-फलस्य मुक्तेर् लाभाद् इति चेद् अस्त्य् अतिशयितं फलम् इति भावेनाह शाश्वतस्य साधारणस्य सुखस्य च विचित्र-लीला-रसस्याहम् एव प्रतिष्ठेति । तीव्रानन्द-रूप-तद्-विभूति-मल्-लीलानुभवाय माम् एव समाश्रयतीत्य् एवम् आह श्रुतिः रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति [तैत्तु २।७।१] इति ॥२७॥
संसारो गुण-योगः स्याद् विमोक्षस् तु गुणात्ययः ।
तत्-सिद्धिर् हरि-भक्त्यैवेत्य् एतद् बुद्धं चतुर्दशात् ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये चतुर्दशो ऽध्यायः
॥१४॥
[*एन्द्नोते] थे एइघ्त् क़ुअलितिएस् अरे लिस्तेद् इन् थे छन्दोग्य उपनिसद्: अत्मपहत-पप्म विजरो विम्र्त्युर् विज़ोको विजिघत्सो ऽपिपसह् सत्य-कमह् सत्य-सग्कल्पह् सो ऽन्वेस्तव्यह् ।
भगवद्-गीता - चतुर्दशो ऽध्यायः