13

१३।१

श्री-भगवान् उवाच
इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१॥

श्रीधरः :
भक्तानाम् अहम् उद्धर्ता संसाराद् इत्य् अवादि यत् ।
त्रदोशे ऽथ तत्-सिद्ध्यै तत्त्व-ज्ञानम् उदीर्यते ॥

तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात्, भवामि न चिरात् पार्थ [गीता १२।७] इति पूर्वं प्रतिज्ञातम् । न चात्म-ज्ञानं विना संसाराद् उद्धरणं सम्भवतीति तत्त्व-ज्ञानोपदेशार्थं प्रकृति-पुरुष-विवेकाध्याय आरभ्यते । तत्र यत् सप्तमे ऽध्याये अपरा परा चेति प्रकृति-द्वयम् उक्तं तयोर् अविवेकाज् जीव-भावम् आपन्नस्य चिद्-अंशस्यायं संसारः । याभ्यां च जीवोपभोगार्थम् ईश्वरस्य सृष्ट्य्-आदिषु प्रवृत्तिः । तद् एव प्रकृति-द्वयं क्षेत्र-क्षेत्रज्ञ-शब्द-वाच्यं परस्परं विविक्तं तत्त्वतो निरूपयिष्यन् भगवान् उवाच इदम् इति । इदं भोगायतनं शरीरं क्षेत्रम् इत्य् अभिधीयते । संसारस्य प्ररोह-भूमित्वात् । एतद् यो वेत्ति अहं ममेति मन्यते तं क्षेत्रज्ञ इति प्राहुः । कृषीबलवत् तत्-फल-भोक्तृत्वात् । तद्-विदः क्षेत्र-क्षेत्रज्ञयोर्
विवेकज्ञाः ॥१॥

मधुसूदनः :
ध्यानाभ्यास-वशीकृतेन मनसा तन् निर्गुणं निष्क्रियं
ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ।
अस्माकं तु तद् एव लोचन-चमत्काराय भूयाच् चिरं
कालिन्दी-पुलिनेषु यत् किम् अपि तन् नीलं महो धावति ॥

प्रथम-मध्यम-षट्कयोस् तत्-त्वं-पदार्थाव् उक्ताव् उत्तरस् तु षट्को वाक्यार्थ-निष्ठः सम्यग्-धी-प्रधानो ऽधुनारभ्यते । तत्र - तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागराद् भवामि [गीता १२।७] इति प्राग् उक्तम् । न चात्म-ज्ञान-लक्षणान् मृत्योर् आत्म-ज्ञानं विनोद्धरणं सम्भवति । अतो यादृशेनात्म-ज्ञानेन मृत्यु-संसार-निवृत्तिर् येन च तत्त्व-ज्ञानेन युक्ता अद्वेष्टृत्वादि-गुण-शालिनः सन्न्यासिनः प्राग्व्याख्यातास् तदात्म-तत्त्व-ज्ञानं वक्तव्यम् । तच् चाद्वितीयेन परमात्मना सह जीवस्याभेदम् एव विषयीकरोति । तद्-भेद-भ्रम-हेतुकत्वात् सर्वानर्थस्य ।

तत्र जीवानां संसारिणां प्रतिक्षेत्रं भिन्नानाम् असंसारिणैकेन परमात्मना कथम् अभेदः स्याद् इत्य् आशङ्कायां संसारस्य भिन्नत्वस्य चाविद्या-कल्पितानात्म-धर्मत्वान् न जीवस्य संसारित्वं भिन्नत्वं चेति वचनीयम् । तद् अर्थं देहेन्द्रियान्तः-करणेभ्यः क्षेत्रेभ्यो विवेकेन क्षेत्रज्ञः पुरुषो जीवः प्रतिक्षेत्रम् एक एव निर्विकार इति प्रतिपादनाय क्षेत्र-क्षेत्रज्ञ-विवेकः क्रियते ऽस्मिन्न् अध्याये । तत्र ये द्वे प्रकृती भूम्य्-आदि-क्षेत्र-रूपतया जीव-रूप-क्षेत्रज्ञतया चापर-पर-शब्द-वाच्ये सूचिते तद्-विवेकेन तत्त्वं निरूपयिष्यन् श्री-भगवान् उवाच इदं शरीरम् इति ।

इदम् इन्द्रियान्तः-करण-सहितं भोगायतनं शरीरं हे कौन्तेय ! क्षेत्रम् इत्य् अभिधीयते । सस्यस्येवास्मिन्न् असकृत् कर्मणः फलस्य निर्वृत्तेः । एतद् यो वेत्ति अहं ममेत्य् अभिमन्यते तं क्षेत्रज्ञ इति प्राहुः कृषीबलवत् तत्-फल-भोक्तृत्वात् । तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् विवेक-विदः । अत्र चाभिधीयत इति कर्मणि प्रयोगेण क्षेत्रस्य जडत्वात् कर्मत्वं क्षेत्रज्ञ-शब्दे च द्वित्यां विनवेति-शब्दम् आहरन् स्वप्रकाशत्वात् कर्मत्वाभावम् अविवेकिन एवाहुः स्थूल-दृशाम् अगोचरत्वाद् इति कथयितुं विलक्षण-वचन-व्यक्त्यैकत्र कर्तृ-पदोपादानेन च निर्दिशति भगवान् ॥१॥

विश्वनाथः :
नमो ऽस्तु भगवद्-भक्त्यै कृपया स्वांश-लेशतः ।
ज्ञानादिष्व् अपि तिष्ठेत् तत् सार्थकी-करणा यया ॥
षट्के तृतीये ऽत्र भक्त्–मिश्रं ज्ञानं निरूप्यते ।
तन्-मध्ये केवला भक्तिर् अपि भङ्ग्या प्रकृष्यते ॥
त्रयोदशे शरीरं च जीवात्म-परमात्मनोः ।
ज्ञानस्य साधनं जीवः प्रकृतिश् च विशिष्यते ॥

तद् एवं द्वितीयेन षट्केन केवलया भक्त्या भगवत्-प्राप्तिः । ततो ऽन्या अहङ्ग्रहोपासनाद्यास् तिस्र उपासनाश् चोक्ताः । अथ प्रथम-षत्कोदितानां निष्कामकर्म-योगिनां भक्ति-मिश्र-ज्ञाणाद् एव मोक्षस् तच् च ज्ञानं सङ्क्षेपाद् उक्तम् अपि पुनः क्षेत्र-क्षेत्रज्ञादि-विवेचनेन विवरितुं तृइतीयं षट्कम् आरभते ॥

तत्र किं क्षेत्रं कः क्षेत्रज्ञ इत्य् अपेक्षायाम् आह इदम् इति । इदं सेन्द्रियं भोगायतनं शरीरं क्षेत्रं संसारस्य प्ररोह-भूमित्वात् । तद् यो वेत्ति बन्ध-दशायाम् अहं-ममेत्य् अभिमन्यमानं स्व-सम्बन्धित्वेनैव जानाति, मोक्ष-दशायाम् अहं-ममेत्य्-अभिमान-रहितः स्व-सम्बन्ध-रहितम् एवयो जानाति, तम् उभयावस्थं जीवं क्षेत्रज्ञम् इति प्राहुः । कृषीबलवत् स एव क्षेत्रज्ञस् तत्-फल-भोक्ता च । यद् उक्तं भगवता –

अदन्ति चैकं फलम् अस्य गृध्ना
ग्रामेचरा एकम् अरण्य-वासाः ।
हंसा य एकं बहुरूपम् इज्यैर्
मायामयं वेद स वेद वेदम् ॥ इति । [भ्प् ११।१२।२३]

अस्यार्थः गृध्नन्तीति गृध्रा ग्रामेचरा बद्ध-जीवा अस्य वृक्षस्यकं फलं दुःखम् अदन्ति, परिणामतः स्वर्गादेर् अपि दुःख-रूपत्वात् । अरण्य-वासा हंसा मुक्त-जीवा एक-फलं सुखम् अदन्ति, सर्वथा सुख-रूपस्यापवर्गस्याप्य् एतज्-जन्यत्वात् । एवम् एकम् अपि संसार-वृक्षं बहुविध-नरक-स्वर्गापवर्ग-प्रापकत्वाद् बहु-रूपं माया-शक्ति-समुद्भूतत्वान् मायामयम् । इज्यैः पूज्यैर् गुरुभिः कृत्वा यो वेदेति तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् वेदितारः ॥१॥

बलदेवः :

कथिताः पूर्व-षट्काभ्याम् अर्थाज् जीवादयो ऽत्र ये ।
स्वरूपाणि विशोध्यन्ते तेषां षट्के ऽन्तिमे स्फुटम् ॥
भक्तौ पूर्वोपदिष्टायां ज्ञानं द्वारं भवत्य् अतः ।
देह-जीवेश-विज्ञानं तद् वक्तव्यं त्रयोदशे ॥

आद्य-षट्के निष्काम-कर्म-साध्यं ज्-ज्ञानोपयोगितया दर्शितम् । मध्य-षत्के तु भक्ति-शब्दितं परमात्मोपासनं तन्-महिम-निगद-पूर्वकम् उपदिष्टम् । तच् च केवलं तद्-वश्यताकरं सत् तत्-प्रापकम् । आर्तादीनां तु तम् उपासीनानाम् आर्ति-विनाशादि-करं तद्-एकान्ति-प्रसङ्गेन केवलं सत् तत्-प्रापकं च ।

योगेन ज्ञानेन चोपसृष्टं त्व् ऐश्वर्य-प्रधान-तद्-रूपोपलम्भकं मोचकं चेत्य् उक्तम् । तथास्मिन्न् अन्त्य-षत्के प्रकृति-पुरुष-तत्-संयोग-हेतुक-जगत् तद्-ईश्वर-स्वरूपाणि कर्म-ज्ञान-भक्ति-स्वरूपाणि च विविच्यन्ते । ज्ञान-वैशद्याय एतावत् त्रयोगशे ऽस्मिन्न् अध्याये देह-जीव-परेश-स्वरूपाणि विवेचनीयानि । देहादि-विविक्तस्यापि जीवात्मनो देह-सम्बन्ध-हेतुस् तद्-विवेकानुसन्धि-प्रकारश् च विमर्शनीयः । तद् इदम् अर्थजातम् अभिधातुं भगवान् उवाच इदम् इति । हे कौन्तेय इदं सेन्द्रिय-प्राणं शरीरं भोक्तुर् जीवस्य भोग्य-सुख-दुःखादि-प्ररोहकत्वात् क्षेत्रम् इत्य् अभिधीयते तत्त्व-ज्ञैः । एतच् छरीरं देवो ऽहं मानवो ऽहं स्थूलो ऽहम् इत्य् अज्ञैर् आत्म-भेदेन प्रतीयमानम् अपि यः शय्यासनादिवद्-आत्मनो भन्नम् आत्म-भोग-मोक्ष-साधनं च वेत्ति, तं वेद्याच् छरीरात्
तद्-वेदितृतया भिन्नं तद्-विदः क्षेत्र-क्षेत्रज्ञ-स्वरूप-ज्ञाः क्षेत्रज्ञम् इति प्राहुः । भोग-मोक्ष-साधनत्वं शरीरस्योक्तं श्री-भगवते -

अदन्ति चैकं फलम् अस्य गृध्ना
ग्रामेचरा एकम् अरण्य-वासाः ।
हंसा य एकं बहु-रूपम् इज्यैर्
माया-मयं वेद स वेद वेदम् ॥ इति । [भ्प् ११।१२।२३]

शरीरात्मवादी तु क्षेत्रज्ञो न, क्षेत्रत्वेम तज्-ज्ञानाभावात् ॥१॥


१३।२

क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥२॥

श्रीधरः : तद् एवं संसारिणः स्वरूपम् उक्तम् । इदानीं तस्यैव पारमार्थिकम् असंसारि-स्वरूपम् आह क्षेत्रज्ञम् इति । त च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्व-क्षेत्रेष्व् अनुगतं माम् एव विद्धि । तत्त्वम् असि इति श्रुत्या लक्षितेन चिद्-अंशेन मद्-रूपस्योक्तत्वात् आदरार्थम् एव तज्-ज्ञानं स्तौति । क्षेत्र-क्षेत्रज्ञयोर् यद् एवं वैलक्षणेयन् ज्ञानं तद् एव मोक्ष-हेतुत्वान् मम ज्ञनं मतम् । अन्यत् तु वृथा-पाण्डित्यम् । बन्ध-हेतुत्वाद् इत्य् अर्थः । तद् उक्तं –

तत् कर्म यन् न बन्धाय
सा विद्या या विमुक्तये ।
आयासायापरं कर्म
विद्यान्या शिल्प-नैपुणम् ॥ इति ।

मधुसूदनः : एवं देहेन्द्रियादि-विलक्षणं स्व-प्रकाशं क्षेत्रज्ञम् अभिधाय तस्य पारमार्थिकं तत्त्वम् असंसारि-परमात्मनैक्यम् आह क्षेत्रज्ञम् अपीति ।

सर्व-क्षेत्रेषु य एकः क्षेत्रज्ञः स्वप्रकाश-चैतन्य-रूपो नित्यो विभुश् च तम् अविद्याध्यारोपित-कर्तृत्व-भोक्तृत्वादि-संसार-धर्मं क्षेत्रज्ञम् अविद्यक-रूप-परित्यागेन माम् ईश्वरम् असंसारिणम् अद्वितीय-ब्रह्मानन्द-रूपं विद्धि जानीहि । हे भारत ! एवं च क्षेत्रं माया-कल्पितं मिथ्या । क्षेत्रज्ञश् च परमार्थ-सत्यस् तद्-भ्रमाधिष्ठानम् इति क्षेत्र-क्षेत्रज्ञयोर् यज् ज्ञानं तद् एव मोक्ष-साधनत्वाज् ज्ञानम् अविद्या-विरोधि-प्रकाश-रूपं मम मतम् अन्यत् त्व् अज्ञानम् एव तद्-विरोधित्वाद् इत्य् अभिप्रायः ।

अत्र जीवेश्वरयोर् आविद्यको भेदः पारमार्थिकस् त्व् अभेद इत्य् अत्र युक्तयो भाष्य-कृद्भिर् वर्णिताः । अस्माभिस् तु ग्रन्थ-विस्तर-भयात् प्राग् एव बहुधोक्तत्वाच् च नोपन्यस्ताः ॥२॥

विश्वनाथः : एवं क्षेत्र-ज्ञानात् जीवात्मनः क्षेत्रज्ञत्वम् उक्तम्, परमात्मनस् तु ततो ऽपि कार्त्स्न्येन सर्व-क्षेत्रज्ञत्वात् क्षेत्रज्ञत्वम् आह क्षेत्रज्ञम् इति । सर्व-क्षेत्रेषु नियन्तृत्वेन स्थितं मां परमात्मानं क्षेत्रज्ञं विद्धि । जीवानां प्रत्येकम् अकैक-क्षेत्र-ज्ञ्नानां तद् अपि न कृत्स्नम् । मम त्व् एकस्यैव सर्व-क्षेत्रज्ञत्वं कृत्स्नम् एवेति विशेषो ज्ञेयः । किं ज्ञानम् इत्य् अपेक्षायाम् आह क्षेत्रेण सह क्षेत्रज्ञयोर् जीवात्म-परमातनोर् यज् ज्ञानं क्षेत्र-जीवात्म-परमात्मनां यज् ज्ञानम् इत्य् अर्थः । तद् एव ज्ञानं मम मतं सम्मतं च । तत्र -ग्रन्थ-विरोधाद् व्याख्यान्तरेण एकात्मवाद-पक्षो नानुकर्तव्यः ॥२॥

बलदेवः : क्षेत्र-ज्ञानाज् जीवात्मनः क्षेत्रज्ञत्वम् उक्तम् । अथ परमात्मनस् तद् आह क्षेत्रज्ञं चापि माम् इति । हे भारत् सर्व-क्षेत्रेषु मां च क्षेत्रज्ञं विद्धि । अपिर् अवधारणे । जीवाः स्वं स्वं क्षेत्रं स्वभोग-मोक्ष-साधनं जानन्तः क्षेत्रज्ञाः प्रजावत् । अहं तु सर्वेश्वर एक एव सर्वाणि तानि भर्तव्यानि च जानन् तत्-सर्व-क्षेत्रज्ञो राजवद् इत्य् अर्थः । सर्वेश्वर्स्यापि क्षेत्रेश्वरस्यापि क्षेत्रज्ञत्वं –

क्षेत्राणि हि शरीराणि
बीजं चापि शुभाशुभे ।
तानि वेत्ति स योगात्मा
ततः क्षेत्रज्ञ उच्यते ॥ इत्य् आदि स्मृतिभ्यः ।

किं ज्ञानम् इत्य् अपेक्षायाम् आह क्षेत्रेति । क्षेत्रेण सहितौ क्षेत्रज्ञौ जीव-परौ क्षेत्र-क्षेत्रज्ञौ । तत्-सहितयोस् तयोर् मिथो विवेकेन यज्-ज्ञानं तद् एव ज्ञानं मम मतम् । ततो ऽन्यथा त्व् अज्ञानम् इत्य् अर्थः ।

इदम् अत्र बोध्यम् –प्रकृति-जीवेश्वराणां भोग्यत्व-भोक्तृत्व-नियन्तृत्व-धर्मकत्वान् मिथः-सम्पृक्तानाम् अपि तेषां न तत् तद्-धर्म-साङ्कर्यं चित्राम्बर-रूपवद् इत्य् एवम् आह सूत्रकारः – न तु दृष्टान्त-भावात् इति । श्रुतयश् च प्रकृत्य्-आदीनां विविक्त-तद्-धर्मकताम् आहुः[*एन्द्नोते] –

पृथग् आत्मानं प्रेरितारं च मत्वा
जुष्टस् ततस् तेनामृतत्वम् एति । [श्वेतु १।६]

ज्ञाज्ञौ द्वाव् अजाव् ईशानीशानाव् अजा
ह्य् एका भोक्तृ-भोगार्थ-युक्तौ । [श्वेतु १।९]

क्षरं प्रधानम् अमृताक्षरं हरः
क्षरात्मानाव् ईशते देव एकः । [श्वेतु १।१०]

भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् । [श्वेतु १।१२]

अजाम् एकाम् लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्य् एको जुषमाणो ऽनुशेते
जहात्य् एनां भुक्त-भोगां अजो ऽन्यः ॥ [श्वेतु ४।५]

प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः । [श्वेतु ६।१६] इत्य् आदयः ।

अत्रापि क्षराक्षर-शब्द-बोध्यात् क्षेत्र-क्षेत्रज्ञ-रूपाद् युगलात् स्वस्य पुरुषोत्तमस्यान्यत्वं वक्ष्यति द्वाव् इमौ पुरुषौ इत्य् आदिभिस् तस्मान् मिथः सम्पृक्तानाम् अपि प्रकृत्य्-आदीनां विविक्ततया ज्ञानं तात्त्विकम् इति ।

यत् त्व् एकात्म-वादिनः क्षेत्रज्ञं चापि मां विद्धि इत्य् अत्र सामानाधिकरण्य-प्रतीत्या सर्वेश्वरस्यैव सतो ऽस्या विद्ययैव क्षेत्रज्ञ-भावो रज्जोर् इव भुजङ्गमत्वम् । तन्-निवृत्तये हरेर् आप्ततमस्येदं वाक्यं क्षेत्रज्ञं चापि माम् इति रज्जुर् इयं न भुजङ्ग इत्य् आप्त-वाक्याद् भुजङ्गत्व-भ्रान्तिर् इव क्षेत्रज्ञत्व-भ्रान्तिर् अस्माद् वाक्याद् विनश्यतीत्य् आहुस् तत् किलोपदेश्यासम्भवाद् एव निरस्तम् इति देहिनो ऽस्मिन् इत्य् अस्य भाष्ये द्रष्टव्यम् । एवं तु व्याख्यातं युज्यते । च-शब्दः क्षेत्र-समुच्चयार्थः । क्षेत्रं क्षेत्रज्ञं च माम् एव विद्धि । मद्-अधीन-स्थिति-प्रवृत्तिकत्वान् मद्-व्याप्यत्वाच् च मद्-आत्मकं जानीहीति । एवम् एवोक्तं क्षेत्र-क्सेत्रज्ञयोर् इति । तयोर् मद्-अधीन-प्रवृत्तिकत्वादिभिर् मद्-आत्मकतया यज्-ज्ञानं तज् ज्ञानं मम मतम् इतो ऽन्यथा त्व् अमतम् इति ।


१३।३

तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् ।
स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ॥३॥

श्रीधरः : तत्र यद्य् अपि चतुर्विंशत्या भेदैर् भिन्ना प्रकृतिः क्षेत्रम् इत्य् आभिप्रेतं तथापि देह-रूपेण परिणतायाम् एव तस्याम् अहं-भावेन अविवेकः स्फुट इति । तद्-विवेकार्थम् इदं शरीरं क्षेत्रम् इत्य् आद्य् उक्तम् । तद् एतत् प्रपञ्चयिष्यन् प्रतिजानीते तद् इति । यद् उक्तं मया क्षेत्रं तत् क्षेत्रं यत् स्वरूपतो जडं दृश्यादि-स्वभावाम् । यादृग् यादृशं च इच्छादि-धर्मकम् । यद्-विकारि यैर् इन्द्रियादि-विकारैर् युक्तम् । यतश् च प्रकृति-पुरुष-संयोगाद् भवति । यद् इति यैः प्रकारैः स्थावर-जङ्गमादि-भेदैः, भिन्नम् इत्य् अर्थः । स च क्षेत्रज्ञो यत्-स्वरूपो यत्-प्रभावश् च अचिन्त्यैश्वर्य-योगेन यैः प्रभावैः सम्पन्नः तं सर्वं सङ्क्षेपेतो मत्तः शृणु ॥३॥

मधुसूदनः : सङ्क्षेपेणोक्तम् अर्थं विवरीतुम् आरभते तत् क्षेत्रम् इति । तद् इदं शरीरम् इति प्राग् उक्तं जड-वर्ग-रूपं क्षेत्रं यच् च स्वरूपेण जड-दृश्य-परिच्छिन्नादि-स्वभावं यादृक् चेच्छादि-धर्मकं यद्-विकारि यैर् इन्द्रियादि-विकारैर् युक्तम् । यतश् च कारणाद् यत् कार्यम् उत्पद्यत इति शेषः । अथवा यतः प्रकृति-पुरुष-संयोगाद् भवति । यद् इति यैः स्थावर-जङ्गमादि-भेदैर् भिन्नम् इत्य् अर्थः । अत्रानियमेन च-कार-प्रयोगात् सर्व-समुच्चयो द्रष्टव्यः । स च क्षेत्रज्ञयोर् यः स्वरूपतः स्व-प्रकाश-चैतन्यानन्द-स्वभावः । यत्-प्रभावश् च ये प्रभावा उपाधि-कृताः शक्तयो यस्य तत्-क्षेत्र-क्षेत्रज्ञ-याथात्म्यं सर्व-विशेषण-विशिष्टं समासेन सङ्क्षेपेण मे मम वचनाच् छृणु । श्रुत्वावधारयेत्य् अर्थः ॥१३।३॥

विश्वनाथः : सङ्क्षेपेणोक्तम् अर्थं विवरितुम् आरभते तत् क्षेत्रं शरीरं यच् च महाभूत-प्राणेन्द्रियादि-सङ्घात-रूपम् । यादृक् यादृशेच्छादि-धर्मकम् । यद् विकारि वैरि-प्रियादि-विकारैर् युक्तम् । यतश् च प्रकृति-पुरुष-संयोगाद् उद्भूतम् । यद् इति यैः स्थावर-जङ्गमादि-भेदैर् भिन्नम् इत्य् अर्थः । स क्षेत्रज्ञो जीवात्मा परमात्मा च । यत् तद् इति नपुंसकम् अनपुंसकेन्नैकवच् चेति एक-शेषः । समासेन सङ्क्षेपेण ॥३॥

बलदेवः : सङ्क्षेपेणोक्तम् अर्थं विशदयितुम् आह तद् इति । तत् क्षेत्रं शरीरं यच् च यद् द्रव्यं यादृक् यद्-आश्रय-भूतं यद्-विकारि यैर् विकारैर् उपेतं । यतश् च हेतोर् उद्भूतं यत् प्रयोजनकं च । यद् इति यत् स्वरूपं । स च क्षेत्रज्ञो जीव-लक्षणः परेश-लक्षणश् च यो यत् स्वरूपो य-प्रभावो यच्-छक्तिकश् च । नपुंसकम् अनपुंसकेनैकव् चास्यान्यत्रस्याम् इति सूत्रात् ॥३॥


१३।४

ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् ।
ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥४॥

श्रीधरः : कैर् विस्तरेणोक्तस्यायं सङ्क्षेप इत्य् अपेक्षायाम् आह ऋषिभिर् इति । ऋषिभिर् वशिष्ठादिभिः । योग-शास्त्रेषु ध्यान-धारणादि-विषयत्वेन विराजादिरूपेण बहुधा गीतं निरूपितम् । विविधैर् विचित्रैर् नित्य-नैमित्तैक-काम्य-कर्मादि-विषयैः । छन्दोभिर् वेदैः । नाना-यजनीय-देवतादि-रूपेण बहुधा गीतम् । ब्रह्मणः सूत्रैः पदैश् च । ब्रह्म सूत्र्यते सूच्यते एभिर् इति ब्रह्म-सूत्राणि । यतो वा इमानि भूतानि जायन्ते [तैत्तु ३।१।१] इत्य् आदीनि तटस्थ-लक्षण-पराण्य् उपनिषद्-वाक्यानि । तथा च ब्रह्म पद्यते गम्यते साक्षाज् ज्ञायत एभिर् इति पदानि स्वरूप-लक्षण-पराणि सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदीनि । तैश् च बहुधा गीतम् । किं च हेतुमद्भिः सद् एव सौम्येदम् अग्र आसीत् कथम् असतः सज् जायेत [छा ६।२।१] इति । तथा को ह्य् एवान्यात्
कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् एष ह्य् एवानन्दयति [तैत्तु २।७।१] इत्य् आदि युक्तिमद्भिः । अन्याद् अपान-चेष्टां कः कुर्यात् । प्राण्यात् प्राण-व्यापारं वा कः कुर्यात् इति श्रुति-पदयोर् अर्थः । विनिश्चितैर् उपक्रमोपसंहारैक-वाक्यतया ऽसन्दिग्धार्थ-प्रतिपादकैर् इत्य् अर्थः । तद् एवम् एतैर् विस्तरेणोक्तं दुःसङ्ग्रहं सङ्क्षेपतस् तुभ्यं कथयिष्यामि । तच् छृण्व् इत्य् अर्थः । यद् वा अथातो ब्रह्म-जिज्ञासा [व्स्। १।१।१] इत्य् आदीनि ब्रह्म-सूत्राणि गृह्यन्ते । तान्य् एव ब्रह्म पद्यते निश्चीयते एभिर् इति पदानि । तैर् हेतुमद्भिः ईक्षतेर् नाशब्दम् [व्स्। १।१।५], आनन्दमयो ऽभ्यासात् [व्स् १।१।१३] इत्य् आदिभिर् युक्तिमद्भिर् विनिश्चितैर् इत्य् अर्थः । शेषं समानम् ॥४॥

मधुसूदनः : कैर् विस्तरेणोक्तस्यायं सङ्क्षेप इत्य् अपेक्षायां श्रोतृ-बुद्धि-प्ररोचनार्थं स्तुवन्न् आह ऋषिभिर् इति । ऋषिभिर् वसिष्ठादिभिर् योग-शास्त्रेषु धारणा-ध्यान-विषयत्वेन बहुधा गीतं निरूपितम् । एतेन योग-शास्त्र-प्रतिपाद्यत्वम् उक्तम् । विविधैर् नित्य-नैमित्तिक-काम्य-कर्मादि-विषयैश् छन्दोभिर् ऋग्-आदि-मन्त्रैर् ब्राह्मणैश् च पृथग् विवेकतो गीतम् । एतेन कर्म-काण्ड-प्रतिपाद्यत्वम् उक्तम् । ब्रह्म-सूत्र-पदैश् च ब्रह्म सूत्र्यते सूच्यते किञ्चिद् व्यवधानेन प्रतिपाद्यत एभिर् इति ब्रह्म-सूत्राणि – यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत् प्रयन्त्य् अभिसंविशन्ति । [तैत्तु ३।१।१] इत्य् आदीनि तटस्थ-लक्षण-पराण्य् उपनिषद्-वाक्यानि तथा पद्यते ब्रह्म साक्षात् प्रतिपाद्यत एभिर् इति पदानि स्वरूप-लक्षण-पराणि सत्यं ज्ञानम् अनन्तं ब्रह्म
इत्य् आदीनि तैर् ब्रह्म-सूत्रैः पदैश् च । हेतुमद्भिः – सद् एव सौम्येदम् अग्र आसीद्॥ एकम् एवाद्वितीयम् [छा ६।२।१] इत्य् उपक्रम्य तद् धैक आहुर् असद् एवेदम् अग्र आसीद् एकम् एवाद्वितीयं तस्माद् असतः सज् जायते इति नास्तिक-मतम् उपन्यस्य कुतस् तु खलु सोम्यैवं स्याद् इति होवाच कथम् असतः सज् जायते इत्य् आदि-युक्तीः प्रतिपादयद्भिर् विनिश्चितैर् उपक्रमोपसंहारैक-वाक्यतया सन्देह-शून्यार्थ-प्रतिपादकैर् बहुधा गीतं च । एतेन ज्ञान-काण्ड-प्रतिपाद्यत्वम् उक्तम् । एवम् एतैर् अतिवस्तरेणोक्तं क्षेत्र-क्षेत्रज्ञ-याथात्म्यं सङ्क्षेपेण तुभ्यं कथयिष्यामि तच् छृण्व् इत्य् अर्थः । अथवा ब्रह्म-सूत्राणि तानि पदानि चेति कर्म-धारयः । तत्र विद्या-सूत्राणि आत्मेत्य् एवोपासीत इत्य् आदीनि अविद्या-सूत्राणि न स वेद यथा पशुः इत्य् आदीनि तैर् गीतम् इति ॥४॥

विश्वनाथः : कैर् विस्तरेणोक्तस्यायं सङ्क्षेप इत्य् अपेक्षायाम् आह ऋषिभिर् वशिष्ठादिभिर् योग-शास्त्रेषु । छन्दोभिर् वेदैः । ब्रह्म-सूत्राणि अथातो ब्रह्म-जिज्ञासा [व्स्। १।१।१] इत्य् आदीनि तान्य् एव सूत्राणि । ब्रह्म पद्यते ज्ञायते एभिर् इति तानि । तथा तैः कीदृशैर् हेतुमद्भिः । ईक्षतेर् नाशब्दम् [व्स्। १।१।५], आनन्दमयो ऽभ्यासात् [व्स्। १।१।१३] इति युक्तिमद्भिर् विनिश्चितैर् विशेषतो निश्चितार्थैः ।

बलदेवः : इदं क्षेत्र-क्षेत्रज्ञ-याथात्म्यं कैर् विस्तरेणोक्तं यत् समासेन ब्रूष इत्य् अपेक्षायाम् आह ऋषिभिर् इति । ऋषिभिः पराशरादिभिर् एतत् क्षेत्रादि-स्वरूपं बहुधा गीतम् -

अहं त्वं च तथान्ये भूतैर् उह्याम पार्थिव ।
गुण-प्रवाह-पतितो भूत-वर्गो ऽपि यात्य् अयम् ॥
कर्म-वश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवी-पते ।
अविद्या-सञ्चितं कर्म तच् चाशेषेषु जन्तुषु ॥
आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।
प्रवृद्ध्य्-अपचयौ नास्य एकस्याखिल-जन्तुषु ॥ [विप् २।१३।६९]

इत्य् आदिभिः । तथा छन्दोभिर् वेदैर् विविधैर् सर्वैर् बहुधा तद् गीतं यजुः-शाखायां तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तैत्तु २।१।३] इत्य् आदिना ब्रह्म पुच्छं प्रतिष्ठा [तैत्तु २।५।१] इत्य् अन्तेनान्नमय-प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयाः पञ्च पुरुषाः पठितास् तेष्व् अन्न-मयादि-त्रयं जडं क्षेत्र-स्वरूपम्, ततो भिन्नो विज्ञान-मयो जीवस् तस्य भोक्तेति जीव-क्षेत्रज्ञ-स्वरूपं । तस्माच् च भिन्नः सर्वान्तर आनन्द-मय इतीश्वर-क्षेत्रज्ञ-स्वरूपम् उक्तम् । एवं वेदान्तरेषु मृग्यम् । ब्रह्म-सूत्र-रूपैः पदैर् वाक्यैश् च तद्-याथात्म्यं गीतम् । तेषु न वियद् अश्रुतेः [व्स्। २।३।१] इत्य् आदिना क्षेत्र-स्वरूपम्, नात्मा श्रुतेः [व्स्। २।३।१८] इत्य् आदिना जीव-स्वरूपम्, परात् तु तच् छ्रुतेः [व्स्। २।३।३९] इत्य् आदिनेश्वर-स्वरूपम् । स्फुटम् अन्यत् ॥


१३।५-६

महा-भूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥५॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश् चेतना धृतिः ।
एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् ॥६॥

श्रीधरः : तत्र क्षेत्र-स्वरूपम् आह महाभूतानीति द्वाभ्याम् । महा-भूतानि भूम्य्-आदीनि पञ्च । अहङ्कारस् तत्-कारण-भूतः । बुद्धिर् विज्ञानात्मकं महत्-तत्त्वम् । अव्यक्तं मूल-प्रकृतिः । इन्द्रियाणि दश बाह्यानि ज्ञान-कर्मेन्द्रियाणि । एकं च मनः । इन्द्रिय-गोच्चराश् च पञ्च तन्-मात्र-रूपा एव शब्दादय आकाशादि-विशेष-गुणतया व्यक्ताः सन्त इन्द्रिय-विषयाः पञ्च तद् एवं चतुर्विंशति-तत्त्वानि उक्तानि ॥५॥

इच्छेति । इच्छादयः प्रसिद्धाः । सङ्घातः शरीरम् । चेतना ज्ञानात्मिका मनो-वृत्तिः । धृतिर् धैर्यम् । एते चेद्धादयो दृश्यत्वान् नात्म-धर्माः, अपि तु मनो-धर्मा एव । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत् सङ्कल्पादीनाम् । तथा च श्रुतिः – कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [बउ १।५।३] इति । अनेन च यादृग् इति प्रतिज्ञाताः क्षेत्र-धर्मा दर्शिताः । एतत् क्षेत्रं सविकारम् इन्द्रियादि-विकार-सहितं सङ्क्षेपेण तुभ्यं मयोक्तम् इति क्षेत्रोपसंहारः ॥६॥

मधुसूदनः : एवं प्ररोचितायार्जुनाय क्षेत्र-स्वरूपं तावद् आह द्वाभ्याम् । महान्ति भूतानि भूम्य्-आदीनि पञ्च । अहङ्कारस् तत्-कारण-भूतो ऽभिमान-लक्षणः । बुद्धिर् अहङ्कार-कारणं महत्-तत्त्वम् अध्यवसाय-लक्षणम् । अव्यक्तं तत्-कारणं सत्त्व-रजस्-तमो-गुणात्मकं प्रधानं सर्व-कारणं न कस्यापि कार्यम् । एव-कारः प्रकृत्य्-अवधारणार्थः । एतावत्य् एवाष्टधा प्रकृतिः । च-शब्दो भेद-समुच्चयार्थः । तद् एवं साङ्ख्य-मतेन व्याख्यातम् । औपनिषदानां तु अव्यक्तम् अव्याकृतम् अनिर्वचनीयं मायाख्या पारमेश्वरी शक्तिः । मम माया दुरत्यया इत्य् उक्तम् । बुद्धिः सर्गादौ तद्-विषयम् ईक्षणम् । अहङ्कार ईक्षणानन्तरम् अहं बहु स्याम् इति सङ्कल्पः । तत आकाशादि-क्रमेण पञ्च-भूतोत्पत्तिर् इति । न
ह्य् अव्यक्त-महद्-अहङ्काराः साङ्ख्य-सिद्धा औपनिषदैर् उपगम्यन्ते ऽशब्दत्वादि-हेतुभिर् इति स्थितम् । मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [श्वेतु ४।१०] ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिं स्व-गुणैर् निगूढाम् [श्वेतु १।३] इति श्रुति-प्रतिपादितम् अव्यक्तम् । तद् ऐक्षत इतीक्षण-रूपा बुद्धिः । बहु स्यां प्रजायेय [छाउ ६।२।३] इति बहु-भवन-सङ्कल्प-रूपो ऽहङ्कारः । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी [तैत्तु १।१] इति पञ्च भूतानि श्रौतानि । अयम् एव पक्षः साधीयान् ।

इन्द्रियाणि दशैकं च श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि पञ्च बुद्धीन्द्रियाणि वाक्-पाणि-पाद-पायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणीति तानि । एकं च मनः सङ्कल्प-विकल्पात्मकम् । पञ्च चेन्द्रिय-गोच्चराः शब्द-स्पर्श-रूप-रस-गन्धास् ते बुद्धीन्द्रियाणां ज्ञाप्यत्वेन विषयाः कर्मेन्द्रियाणां तु कार्यत्वेन । तान्य् एतानि साङ्ख्याश् चतुर्विंशति-तत्त्वान्य् आचक्षन्ते ॥५॥

इच्छा सुखे तत्-साधने चेदं मे भूयाद् इति स्पृहात्मा चित्त-वृत्तिः काम इति राग इति चोच्यते । द्वेषो दुःखे तत्-साधने चेदं मे मा भूद् इति स्पृहा-विरोधिनी चित्त-वृत्तिः क्रोध इतीर्ष्येति चोच्यते । सुखं निरुपाधीच्छा-विषयीभूता धर्मासाधारण-कारणिका चित्त-वृत्तिः परमात्म-सुख-व्यञ्जिका । दुःखं निरुपाधि-द्वेष-विषयीभूता चित्त-वृत्तिर् अधर्मासाधारण-कारणिका । सङ्घातः पञ्च-महा-भूत-परिणामः सेन्द्रियं शरीरम् । चेतना स्वरूप-ज्ञान-व्यञ्जिका प्रमाण-साधारण-कारणिका चित्त-वृत्तिर् ज्ञानाख्या । धृतिर् अवसन्नानां देहेन्द्रियाणाम् अवष्टम्भ-हेतुः प्रयत्नः । उपलक्षणम् एतद् इच्छादि-ग्रहणम् सर्वान्तः-करण-धर्माणाम् । तथा च श्रुतिः - कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर्
भीर् इत्य् एतत् सर्वं मन एव [बउ १।५।३] इति मृद्-घट इतिवद् उपादानाभेदेन कार्याणां कामादीनां मनो-धर्मत्वम् आह । एतत् परिदृश्यमानं सर्वं महा-भूतादि-धृत्य्-अन्तं जडं क्षेत्रज्ञेन साक्षिणावभास्यमानत्वात् तद्-अनात्मकं क्षेत्रं भास्यम् अचेतनं समासेनोदाहृतम् उक्तम् ।

ननु शरीरेन्द्रिय-सङ्घात एव चेतनः क्षेत्रज्ञ इति लोकायतिकाः । चेतना क्षणिकं ज्ञानम् एवात्मेति सुगताः । इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्य् आत्मनो लिङ्गम् इति नैयायिकाः । तत् कथं क्षेत्रम् एवैतत् सर्वम् इति ? तत्राह स-विकारम् इति । विकारो जन्मादिर् नाशान्तः परिणामो नैरुक्तैः पठितः । तत्-सहितं स-विकारम् इदं महा-भूतादि-धृत्य्-अन्तम् अतो न विकार-साक्षि स्वोत्पत्ति-विनाशयोः स्वेन द्रष्टुम् अशक्यत्वात् । अन्येषाम् अपि स्व-धर्माणां स्व-दर्शनम् अन्तरेण दर्शनानुपपत्तेः स्वेनैव स्व-दर्शने च कर्तृ-कर्म-विरोधान् निर्विकार एव सर्व-विकार-साक्षी । तद् उक्तं -

 न र्ते स्याद् विक्रियां दुःखी साक्षिता का विकारिणः ।  

धी-विक्रिया-सहस्राणां साक्ष्यतो ऽहम् अविक्रियः ॥ इति ।

तेन विकारित्वम् एव क्षेत्र-चिह्नं न तु परिगणनम् इत्य् अर्थः ॥६॥

विश्वनाथः : तत्र क्षेत्रस्य स्वरूपम् आह महाभूतान्य् आकाशादीन्य् अहङ्कारस् तत्-कारणम् । बुद्धिर् विज्ञानात्मकं महत्-तत्त्व, अहङ्कार-कारणम् । अव्यक्तं प्रकृतिर् महत्-तत्त्व-कारणम् । इन्द्रियाणि श्रोत्रादीनि दशैकं च मनः । इन्द्रिय-गोचराः पञ्च शब्दादयो विषयास् तद् एवं चतुर्विंशति-तत्त्वात्मकम् इति । इच्छादयः प्रसिद्धाः । सङ्घातः पञ्च-महाभूत-परिणामो देहः । चेतना ज्ञानात्मिका मनो-वृत्तिर् धृतिर् धैर्यम् इच्छादयश् चैते मनो-धर्मा एव न त्व् आत्म-धर्माः । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत् सङ्कल्पादीनाम् । तथा च श्रुतिः – कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [बउ १।५।३] इति । अनेन यादृग् इति प्रतिज्ञाताः क्षेत्र-धर्मा दर्शिताः । एतत् क्षेत्रं स-विकारं
जन्मादि-षड्-विकार-सहितम् ॥५-६॥

बलदेवः : तत् क्षेत्रं यच् च इत्य् आद्यार्धकेन वक्तुं प्रतिज्ञातं क्षेत्र-स्वरूपम् आह – महाभूतानीति द्वाभ्याम् । महाभूतानि पञ्च खादीन्य् अहङ्कारस् तद्-धेतुस् तामसो भूतादि-सञ्ज्ञो बुद्धिस् तद्-धेउत्र् ज्ञान-प्रधानो महान् अव्यक्तं तद्-धेतुः । त्रिगुणावस्थं प्रधानम् इन्द्रियाणि श्रोत्रादीनि पञ्च वाग्-आदीनि च पञ्चेति भूतादि-खाद्य्-अन्तरालिकाः सूक्ष्माः शब्दादि-तन्मात्राः खादि-विशेष-गुणतया व्यक्ताः सन्तः स्थूलाः श्रोत्रादि-पञ्चक-ग्राह्या विषया इत्य् अर्थः । एवं चतुर्विंशति-तत्त्वात्मकं क्षेत्रं ज्ञेयम् । इच्छादयश् चत्वारः प्रसिद्धाः सङ्कल्पादीनाम् उपलक्षणम् एतत् । एते मनोधर्माः कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर् भीर् इति श्रुतेः । यद्यप्य् आत्म-धर्मा इच्छादयो य आत्मा इत्य् आदौ
सत्य-कामः सत्य-सङ्कल्पः इति श्रवणात्, पठेद् य इच्छेत् पुरुषः इति सहस्रनाम-स्तोत्रात्, पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उछ्यते इति वक्ष्यमाणाच् च, तथापि मनो-द्वाराभिव्यक्तेर् मनोधर्मत्वम् । अतः क्षेत्रान्तःपातः । सङ्घातो भूत-परिणामो देहः । स च चेतना धृइत्र् भोगाय मोक्षाय च यतमानस्य चेतनस्य जीवस्याधारतयोत्पन्न इत्य् अर्थः । अत्र प्रधानादि-द्रव्याणि क्षेत्रारम्भकाणिति, य चेत्य् अस्य श्रोत्रादीन्दिरियाणि श्रोत्राश्रितानीति यादृग् इत्य् अस्येन्च्छादीनि क्षेत्र-कार्याणीति । यद्-विकारीत्य् अस्य चेतना धृतिर् इति । यतश् चेत्य् अस्य सङ्घात इति । यद् इत्य् असोत्तरम् उक्तम् । एतत् क्षेत्रं सविकारं जन्मादि-षड्-विकारोपेतम् उदाहृतम् उक्तम् ॥५-६॥


१३।७-११

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् ।
आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ॥७॥
इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च ।
जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥८॥
असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु ।
नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु ॥९॥
मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी ।
विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ॥१०॥
अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् ।
एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥११॥

श्रीधरः : इदानीम् उक्त-लक्षणात् क्षेत्रात् अतिरिक्ततया ज्ञेयं शुद्धं क्षेत्रज्ञं विस्तरेण वर्णयिष्यन् शुद्ध-ज्ञान-साधनान्य् आह अमानित्वम् इति पञ्चभिः । अमानित्वं स्व-गुण-श्लाघा-राहित्यम् । अदम्भित्वं दम्भ-राहित्यम् । अहिंसा पर-पीडा-वर्जनम् । क्षान्तिः सहिष्णुत्वम् । आर्जवम् अवक्रता । आचार्योपासनं सद्-गुरु-सेवा । शौचं बाह्म आभ्यन्तरं च । तत्र बाह्यं मृज्-जलादिना, आभ्यन्तरं च रागादि-मल-क्षालनम् । तथा च श्रुतिः –

शौचं च द्विविधं प्रोक्तं
बाह्यम् अभ्यन्तरं तथा ।
मृज्-जलाभ्यां स्मृतं बाह्यं
भाव-शुद्धिस् तथान्तरम् ॥ इति ।

धैर्यं सन्-मार्गे प्रवृत्तस्य तद्-एक-निष्ठता । आत्म-विनिग्रहः शरीर-संयमः । एतज् ज्ञानम् इति प्रोक्तम् इति पञ्चमेनान्वयः ॥ किं च मयीति । मयि परमेश्वरे । अनन्य-योगेन सर्वात्म-दृष्ट्या । अव्याभिचारिण्य् एकान्ता भक्तिः । विविक्तः शुद्ध-चित्त-प्रसाद-करः । तं देशं सेवितुं शीलं यस्य तस्य भावस् तत्त्वम् । प्राकृतानां जनानां संसदि सभायाम् अरती रत्य्-अभावः । किं च अध्यात्मेति । आत्मानम् अधिकृत्य वर्तमानं ज्ञानम् अध्यात्म-ज्ञानम् । तस्मिन् नित्यत्वं नित्य-भावः । तत्त्वं पदार्थ-बुद्धि-निष्ठत्वम् इत्य् अर्थः । तत्त्व-ज्ञानस्यार्थः प्रयोजनं मोक्षस् तस्य दर्शनं मोक्षस्य सर्वोत्कृष्टत्वालोचनम् इत्य् अर्थः । एतद् अमानित्वम् अदम्भित्वम् इत्य् आदि विंशति-सङ्ख्यकं यद् उक्तम् एतज् ज्ञानम् इति प्रोक्तं वशिष्ठादिभिः ज्ञान-साधनत्वात्
।अतो ऽन्यथास्माद् विपरीतं मानित्वादि यत् तद् अज्ञानम् इति प्रोक्तम् । ज्ञान-विरोधित्वात् अतः सर्वथा त्याज्यम् इत्य् अर्थः ॥७-११॥

मधुसूदनः : एवं क्षेत्रं प्रतिपाद्य तत्-साक्षिणं क्षेत्रज्ञं क्षेत्राद् विवेकेन विस्तरात् प्रतिपादयितुं तज्-ज्ञान-योग्यत्वायामानित्वादि-साधनान्य् आह ज्ञेयं यत् तद् इत्य् अतः प्राक्तनैः पञ्चभिः अमानित्वम् इति । विद्यमानैर् अविद्यमानैर् वा गुणैर् आत्मनः श्लाघनं मानित्वम्, लाभ-पूजाख्यात्यर्थं स्वधर्म-प्रकटी-करणं दाम्भित्वम्, काय-वाङ्-मनोभिः प्राणिनां पीडनं हिंसा, तेषां वर्जनम् अमानित्वम् अदम्भित्वम् अहिंसेत्य् उक्तम् । परापराधे चित्त-विकार-हेतौ प्राप्ते ऽपि निर्विकार-चित्ततया तद्-अपराध-सहनं क्षान्तिः । आर्जवम् अकौटिल्यं यथा-हृदयं व्यवहरणं पर-प्रतारणा-राहित्यम् इति यावत् । आचार्यो मोक्ष-साधनस्योपदेष्टात्र विवक्षितो न तु मनूक्त उपनीयाध्यापकः । तस्य शुश्रूषानमस्कारादि-प्रयोगेण
सेवनम् आचार्योपासनम् । शौचं बाह्यं काय-मलानां मृज्-जलाभ्यां क्षालनम् आभ्यन्तरं च मनो-मलानां रागादीनां विषय-दोष-दर्शन-रूप-प्रतिपक्ष-भावनयापनयनम् । स्थैर्यं मोक्ष-साधने प्रवृत्तस्यानेक-विध-विघ्न-प्राप्ताव् अपि तद्-अपरित्यागेन पुनः पुनर् यत्राधिक्यम् । आत्म-विनिग्रह आत्मनो देहेन्द्रिय-सङ्घातस्य स्वभाव-प्राप्तां मोक्ष-प्रतिकूले प्रवृत्तिं निरुध्य मोक्ष-साधन एव व्यवस्थापनम् ॥७॥
किं च - इन्द्रियार्थेषु शब्दादिषु दृष्टेष्व् आनुश्रविकेषु वा भोगेषु राग-विरोधिन्य् अस्पृहात्मिका चित्त-वृत्तिर् वैराग्यम् । आत्म-श्लाघनाभावे ऽपि मनसि प्रादुर्भूतो ऽहं सर्वोत्कृष्ट इति गर्वो ऽहङ्कारस् तद्-अभावो ऽनहङ्कारः । अयोग-व्यवच्छेदार्थम् एव-कारः । समुच्चयार्थश् च-कारः । तेनामानित्वादीनां विंशति-सङ्ख्याकानां समुचितो योग एव ज्ञानम् इति प्रोक्तं न त्व् एकस्याप्य् अभाव इत्य् अर्थः । जन्मनो गर्भ-वास-योनि-द्वार-निःसरण-रूपस्य मृत्योः सर्व-मर्म-च्छेदन-रूपस्य जरायाः प्रज्ञा-शक्ति-तेजो-निरोध-पर-परिभवादि-रूपाया व्याधीनां ज्वरातिसारादि-रूपाणां दुःखानाम् इष्ट-वियोगानिष्ट-संयोगानिष्ट-संयोगानिष्ट-संयोग-जानाम् अध्यात्माधिभूताधिदैव-निमित्तानां दोषस्य वात-पित्त-श्लेष्म-मल-मूत्रादि-परिपूर्णत्वेन
काय-जुगुप्सितत्वस्य चानुदर्शनं पुनः पुनर् आलोचनं जन्मादि-दुःखान्तेषु दोषस्यानुदर्शनं जन्मादि-व्याध्य्-अन्तेषु दुःख-रूप-दोषस्यानुदर्शनम् इति वा । इदं च विषय-वैराग्य-हेतुत्वेनात्म-दर्शनस्योपकरोति ॥८॥

किं च । सक्तिर् ममेदम् इत्य् एतावन्-मात्रेण प्रीतिः । अभिष्वङ्गस् त्व् अहम् एवायम् इत्य् अनन्यत्व-भावनया प्रीत्य्-अतिशयो ऽन्यस्मिन् सुखिनि दुःखिनि वाहम् एव सुखी दुःखी चेति । तद्-राहित्यम् असक्तिर् अनभिष्वङ्ग इति चोक्तम् । कुत्र सक्त्य्-अभिष्वङ्गौ वर्जनीयाव् अत आह पुत्र-दार-गृहादिषु पुत्रेषु दारेषु गृहेषु । आदि-ग्रहणाद् अन्येष्व् अपि भृत्यादिषु सर्वेषु स्नेह-विषयेष्व् इत्य् अर्थः । नित्यं च सर्वदा च सम-चित्तत्वं हर्ष-विषाद-शून्य-मनस्त्वम् इष्टानिष्टोपपत्तिषु । उपपत्तिः प्राप्तिः । इष्टोपपत्तिषु हर्षाभावो ऽनिष्टोपपत्तिषु विषादाभाव इत्य् अर्थः । चः समुच्चये ॥९॥

किं च । मयि च भगवति वासुदेवे परमेश्वरे भक्तिः सर्वोत्कृष्टत्व-ज्ञान-पूर्विका प्रीतिः । अनन्य-योगेन नान्यो भगवतो वासुदेवात् परो ऽस्त्य् अतः स एव नो गतिर् इत्य् एवं निश्चयेनाप्य् अव्यभिचारिणी केनापि प्रतिकूलेन हेतुना निवारयितुम् अशक्या । सापि ज्ञान-हेतुः प्रीतिर् न यावन् मयि वासुदेव न मुच्यते देह-योगेन तावत् [भ्प् ५।५।६] इत्य् उक्तेः ।

विविक्तः स्वभावतः संस्कारतो वा शुद्धो ऽशुचिभिः सर्प-व्याघ्रादिभिश् च रहितः सुरधुनी-पुलिनादि-श्रित-प्रसाद-करो देशस् तत्-सेवन-शीलत्वं विविक्त-देश-सेवित्वम् । तथा च श्रुतिः -

समे शुचौ शर्करा-वह्नि-बालुका-
विवर्जिते शब्द-जलाश्रयादिभिः ।
मनो ऽनुकूले न तु चक्षु-पीडने
गुहा-निवाताश्रयणे प्रयोजयेत् ॥ [श्वेतु २।१०] इति ।

जनानाम् आत्म-ज्ञान-विमुखानां विषय-भोग-लम्पटतोपदेशकानां संसदि समवाये तत्त्व-ज्ञान-प्रतिकूलायाम् अरतिर् अरमणं साधूनां तु संसदि तत्त्व-ज्ञानानुकूलायां रतिर् उचितैव । तथा चोक्तम् -

 सङ्गः सर्वात्मना हेयः स चेत्य् उक्तं न शक्यते ।  
 स सद्भिः सह कर्तव्यः सतः सङ्गो हि भेषजम् ॥ इति ॥१०॥  

किं च । अध्यात्म-ज्ञानम् आत्मानम् अधिकृत्य प्रवृत्तम् आत्मानात्म-विवेक-ज्ञानम् अध्यात्म-ज्ञानं तस्मिन् नित्यत्वं तत्रैव निष्ठावत्त्वम् । विवेक-निष्ठो हि वाक्यार्थ-ज्ञान-समर्थो भवति । तत्त्व-ज्ञानस्याहं ब्रह्मास्मीति साक्षात्कारस्य वेदान्त-वाक्य-करणकस्यामानित्यत्वादि-सर्व-साधन-परिपाक-फलस्यार्थः प्रयोजनम् अविद्या-तत्-कार्यात्मक-निखिल-दुःख-निवृत्ति-रूपः परमानन्दात्मावाप्ति-रूपश् च मोक्षस् तस्य दर्शनम् आलोचनम् । तत्त्व-ज्ञान-फलालोचने हि तत्-साधने प्रवृत्तिः स्यात् । एतद् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तं विंशति-सङ्ख्याकं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अतो ऽन्यथास्माद् विपरीतं मानित्वादि यत् तद् अज्ञानम् इति प्रोक्तं ज्ञान-विरोधित्वात् । तस्माद् अज्ञान-परित्यागेन ज्ञानम् एवोपादेयम् इति भावः ॥११॥

विश्वनाथः : उक्त-लक्षणात् क्षेत्राद् विविक्ततया ज्ञेयौ जीवात्म-परमात्मानौ क्षेत्रज्ञौ विस्तरेण वर्णयिष्यन् तज्-ज्ञानस्य साधनान्य् अमानित्वादीनि विंशतिम् आह पञ्चभिः । अत्राष्टदश भक्तानां ज्ञानिनां च साधारणानि किन्तु भक्तैः मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी इत्य् एकम् एव भगवद्-अनुभव-साधनत्वेन यत्नतः क्रियते । अन्यानि स्पतदशोक्ताभ्यासवतां तेषां स्वत एवोत्पद्यन्ते न तु तेषु यत्न इति साम्प्रदायिकाः । अन्तिमे द्वे तु ज्ञानिनाम् असाधारण एव ।

अत्रामानित्वादीनि विस्पष्टार्थानि । शौचं बाह्यम् अभ्यन्तरं च तथा च स्मृतिः –

शौचं च द्विविधं प्रोक्तं
बाह्यम् अभ्यन्तरं तथा ।
मृज्-जलाभ्यां स्मृतं बाह्यं
भाव-शुद्धिस् तथान्तरम् ॥ इति ।

आत्म-विनिग्रहः शरीर-संयमः । जन्मादिषु दुःख-रूपस्य दोषस्यानुदर्शनं पुनः पुनः पर्यालोचनम् । असक्तिः पुत्रादिषु प्रीत्-त्यागो ऽनभिष्वङ्गः पुत्रादीनां सुखे दुःखे चाहम् एव सुखी दुःखीत्य् अध्यासाभाव इष्टानिष्टयोर् व्यवहारिकयोर् उपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वम् । मयि श्यामसुन्दराकारे ऽनन्य-योगेन ज्ञान-कर्म-तपो-योगाद्य्-अमिश्रणेन भक्तिश् च-काराद् ज्ञानादि-मिश्रण-प्राधान्येन च । आद्या भक्तैर् अनुष्ठेया द्वितीया ज्ञानिभिर् इति केचिद्, अन्ये त्व् अनन्या भक्तिर् यथा-प्रेम्णः साधनं तथा परमात्मानुभवस्यापीति ज्ञापनार्थम् अत्र षट्के ऽप्य् उक्तिर् इति भक्ता व्याचक्षते । ज्ञानिनस् त्व् अनन्येनैव योगेन सर्वात्म-दृष्ट्येति । अव्यभिचारिणी प्रतिदिनम् एव कर्तव्या । केनापि निवारयितुम् अशक्या इति मधुसूदन-सरस्वती-पादाः
। आत्मानम् अधिकृत्य वर्तमाणं ज्ञानम् अध्यात्म-ज्ञानम् । तस्य नित्यत्वं नित्यानुष्ठेयत्वं पदार्थ-शुद्धि-निष्ठत्वम् इत्य् अर्थः । तत्त्व-ज्ञानस्यार्थः प्रयोजनं मोक्षस् तस्य दर्शनं स्वाभीष्टत्वेनालोचनम् इत्य् अर्थः । एतद् विंशतिकं ज्ञानं साधारण्येन जीवात्म-परमात्मनोर् ज्ञानस्य साधनम् । असाधारणं परमात्म-ज्ञानं त्व् अग्रे वक्तव्यम् । ततो ऽन्यथास्माद् विपरीतं मानित्वादिकम् ॥७-११॥

बलदेवः : अथोक्तात् क्षेत्राद् विभिन्नत्वेन ज्ञेयं क्षेत्रज्ञ-द्वयं विस्तरेण निरूपयिष्यन् तज्-ज्ञान-साधनान्य् अमानित्वादीनि विंशतिम् आह पञ्चभिः । अमानित्वं स्व-सत्कारानपेक्षत्वम् । अदम्भित्वं धार्मिकत्व-खाति-फलक-धर्माचरण-विरहः । अहिंसा परापीडनम् । क्षान्तिर् अपमान-सहिष्णुता । आर्जवम् च्छद्मिष्व् अपि सारल्यम् । आचार्योपासनं ज्ञान-प्रदस्य गुरोर् अकैतवेन संसेवनम् । शौचं बाह्याभ्यन्तर-पावित्र्यम् ।

शौचं च द्विविधं प्रोक्तं
बाह्यम् अभ्यन्तरं तथा ।
मृज्-जलाभ्यां स्मृतं बाह्यं
भाव-शुद्धिस् तथान्तरम् ॥ इति स्मृतेः ।

स्थैर्यं सद्-वर्त्मैक-निष्ठत्वम् । आत्म-विनिग्रहः आत्मानुसन्धि-प्रतीपाद् विषयान् मनसो नियमनम् । इन्द्रियार्थेषु शब्दादि-विषयेषु प्रतीपेषु वैराग्यं रुच्य्-अभावः । अनहङ्कारो देहादिष्व् आत्माभिमान-त्यागः । जन्मादिषु दुःख-रूपस्य दोषस्यानुदर्शनं पुनः पुनश् चिन्तनम् । पुत्रादिषु परमार्थ-प्रतीपेष्व् असक्तिः पीति-त्यागः । अनभिष्वङ्गस् तेषु सुखिषु दुःखिषु च सत्सु तत्-सुख-दुःखानभिनिवेशः । इष्टानिष्टानाम् अनुकूल-प्रतिकूलानाम् अर्थानाम् उपपत्तिषु प्राप्तिषु समचित्तत्वं हर्ष-विषाद-विरहः । नित्यं सर्वदा ।

मयि परमेशे ऽव्याभिचारिणी स्थिरा भक्तिः श्रवणाद्या । अनन्य-योगेनैकान्तित्वेन मद्-भक्त-सेवा । तथा विविक्त-देश-सेवित्वं निर्जन-स्थान-प्रियता जनानां ग्राम्याणां संसदि रति-त्यागः । अध्यात्मम् आत्मनि यज् ज्ञानं तस्य नित्यत्वं सर्वदा विमृश्यत्वम् । तत्त्वं त्व् अहं परं ब्रह्म वदन्ति तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् इत्य् आदि स्मृतेः । तज् ज्ञानस्य यो ऽर्थस् तत्-प्राप्ति-लक्षणस् तस्य दर्शनं हृदि स्मरणम् । एतद् अमानित्वादिकं ज्ञानं परम्परया साक्षाच् च तद्-उपलब्धि-साधनं प्रोक्तम् । ज्ञायते उपलभ्यते ऽनेन इति व्युत्पत्तेः । यत् ततो ऽन्यथा विपरीतं मानित्वादि तद् अज्ञानं तद्-उपलब्धि-विरोधीति ॥७-११॥


१३।१२

ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते ।
अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥१२॥

श्रीधरः : एभिः साधनैर् यज् ज्ञेयं तद् आह ज्ञेयम् इति षड्भिः । यज् ज्ञेयं तत् प्रवक्ष्यामि । श्रोतुर् आदर-सिद्धये ज्ञान-फलं दर्शयति । यद् वक्ष्यमाणं ज्ञात्वामृतं मोक्षं प्राप्नोति । किं तत् अनादिमत् । आदिमन् न भवति इति अनादिमत् । परं निरतिशयं ब्रह्म । अनादि इत्य् एतावतैव बहुव्रीहिणानादिमत्त्वे सिद्धे ऽपि पुनर् मतुपः प्रयोगश् छान्दसः । यद् वा अनादीति मत्-परम् इति च पद-द्वयम् । मम् विष्णोः परं निर्विशेषं रूपं ब्रह्मेत्य् अर्थः । तद् एवाह न सन् तन् नासद् उच्यते । विधि-मुखेन प्रमाणस्य विषयः सच्-छब्देनोच्यते । निषेधय्स विषयस् त्व् असच्-छब्देनोच्यते । इदं तु तद्-उभय-विलक्षणम् । अविषयत्वाद् इत्य् अर्थः ॥१२॥

मधुसूदनः : एभिः साधनैर् ज्ञान-शब्दितैः किं ज्ञेयम् इत्य् अपेक्षायाम् आह ज्ञेयं यत् तद् इत्य् आदि षड्भिः । यज् ज्ञेयं मुमुक्षुणा तत् प्रवक्ष्यामि प्रकर्षेण स्पष्टतया वक्ष्यामि । श्रोतुर् अभिमुखीकरणाय फलेन स्तुवन्न् आह यद् वक्ष्यमाणं ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते संसारान् मुच्यत इत्य् अर्थः । किं तत् ? अनादिमत् आदिमन् न भवतीत्य् अनादिमत् । परं निरतिशयं ब्रह्म सर्वतो ऽनवच्छिन्नं परमात्म-वस्तु । अत्रानादीत्य् एतावतैव बहु-व्रीहिणार्थ-लाभे ऽप्य् अतिशायने नित्य-योगे वा मतुपः प्रयोगः । अनादीति च मत्-परम् इति च पदं केचिद् इच्छन्ति । मत् सगुणाद् ब्रह्मणः परं निर्विशेष-रूपं ब्रह्मेत्य् अर्थः । अहं वासुदेवाख्या परा शक्तिर् यस्येति त्व् अपव्याख्यानम् । निर्विशेषस्य ब्रह्मणः प्रतिपाद्यत्वेन तत्र शक्तिमत्त्वस्य
अवक्तव्यत्वात् ।

निर्विशेषत्वम् एवाह न सत् तन् नासद् उच्यते । विधि-मुखेन प्रमाणस्य विषयः सच्-छब्देनोच्यते । निषेध-मुखेन प्रमाणस्य विषयस् त्व् असच्-छब्देन । इदं तु तद्-उभय-विलक्षणं निर्विशेषत्वात् स्व-प्रकाश-चैतन्य-रूपत्वाच् च यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तैत्तु २।४।१] इत्य् आदि श्रुतेः । यस्मात् तद् ब्रह्म न सद्-भावत्वाश्रयः । अतो नोच्यते केनापि शब्देन मुख्यया वृत्त्या शब्द-प्रवृत्ति-हेतूनां तत्रासम्भवात् । तद् यथा गौरश् च इति वा जातितः । पचति पठतीति वा क्रियातः । शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा सम्बन्धतो ऽर्थं प्रत्यायति शब्दः । अत्र क्रिया-गुण-सम्बन्धेभ्यो विलक्षणः सर्वो ऽपि धर्मो जाति-रूप उपाधि-रूपो वा जाति-पदेन सङ्गृहीतः । यदृच्छा-शब्दो ऽपि डित्थ-डपित्थादिर् यं कञ्चिद् धर्मं स्वात्मानं वा
प्रवृत्तिं निमित्तीकृत्य प्रवर्तत इति सो ऽपि जाति-शब्दः । एवम् आकाश-शब्दो ऽपि तार्किकाणां शब्दाश्रयत्वादि-रूपं यं कञ्चिद् धर्मं पुरस्कृत्य प्रवर्तते । स्व-मते तु पृथिव्यादिवद् आकाश-व्यक्तीनां जन्यानाम् अनेकत्वाद् आकाशत्वम् अपि जातिर् एवेति सो ऽपि जाति-शब्दः । आकाशातिरिक्ता च दिङ् नास्त्य् एव । कालश् च नेश्वराद् अतिरिच्यते । अतिरेके वा दिक्-काल-शब्दाव् अप्य् उपाधि-विशेष-प्रवृत्ति-निमित्तकाव् इति जाति-शब्दाव् एव । तस्मात् प्रवृत्ति-निमित्त-चातुर्विध्याच् चतुर्विध एव शब्दः । तत्र न सत् तन् नासत् इति जाति-निषेधः क्रिया-गुण-सम्बन्धानाम् अपि निषेधोपलक्षणार्थः । एकम् एवाद्वितीयम् इति जाति-निषेधस् तस्या अनेक-व्यक्ति-वृत्तेर् एकस्मिन्न् असम्भवात् । निर्गुणं निष्क्रियं शान्तम् [श्वेतु ६।१९] इति गुण-क्रिया-सम्बन्धानां क्रमेण निषेधः । असङ्गो ह्य् अयं पुरुषः
[बउ ४।३।१५] इति च । अथातो आदेशो नेति नेति [बउ २।३।६] इति च सर्व-निषेधः । तस्माद् ब्रह्म न केनचिच् छब्देनोच्यत इति युक्तम् । तर्हि कथं प्रवक्ष्यामीत्य् उक्तं कथं वा शास्त्र-योनित्वात् इति सूत्रम् [व्स् १।१।३] । यथा कथञ्चिल् लक्षणया शब्देन प्रतिपादनाद् इइ गृहाण । प्रतिपादन-प्रकारश् च आश्चर्यवत् पश्यति कश्चिद् एनम् [गीता २।२८] इत्य् अत्र व्याख्यातः । विस्तरस् तु भाष्ये द्रष्टव्यः ॥१२॥

विश्वनाथः : एवं साधनैर् ज्ञेयो जीवात्मा परमात्मा च । तत्र परमात्मैव सर्वगतो ब्रह्म-शब्देनोच्यते । तच् च ब्रह्म निर्विशेषं सविशेषं च क्रमेण ज्ञानि-भक्तयोर् उपास्यम् । देह-गतो ऽपि चतुर्भुजत्वेन ध्येयः परमात्म-शब्देनोच्यते । तत्र प्रथमं ब्रह्माह ज्ञेयम् इति । अनादि न विद्यते आदिर् यस्य मत्-स्वरूपत्वान् नित्यम् इत्य् अर्थः । मत्-परम् अहम् एव पर उत्कृष्ट आश्रयो यस्य तत् । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४।२७] इति मद्-अग्रिमोक्तेः । तद् एव किम् इत्य् अपेक्षायाम् आह । तद् ब्रह्म न सत् नाप्य् असत्, कार्य-कारणातीतम् इत्य् अर्थः ॥१२॥

बलदेवः : एवं ज्ञान-साधनान्य् उपदिश्य तैर् ज्ञेयम् उपदिशति ज्ञेयं यत् तद् इति । उक्तैः साधनैर् यज् ज्ञेयम् उपलभ्यं जीवात्मवस्तु च तद् अहं प्रकर्षेण सुबोधतया वक्ष्यामि यज् ज्ञात्वा जनो ऽमृतं मोक्षम् अश्नुते लभते । तत्र जीवात्म-वस्तूपदिशति अनादीत्य्-अर्धकेन । नास्त्य् आदिर् यस्य तत् जीवस्याद्य्-उत्पत्तिर् नास्त्य् अतो ऽनोत् ऽपि नेति नित्यासाव् इत्य् अर्थः । एवम् आह श्रुतिः – न जायते म्रियते वा विपश्चित् [कठु १।२।१८] इत्य् आद्या । अहम् एव परः स्वामी यस्य तत् प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः [श्वेतु ६।१६] इति श्रुतेः । दासभूतो हरेर् एव नान्यस्यैव कदाचन इति स्मृतेश् च । अपहत-पाप्मत्वादिना ब्रह्म बृहता गुणाष्टकेन विशिष्टम् । श्रुतिश् चैवम् आह य आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विज्घित्सो ऽपिपासः सत्य-सङ्कल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः
इति । जीवे ब्रह्म-शब्दस् तु विज्ञानं ब्रह्म चेद् वेद [तैत्तु २।५।१] इत्य् आदि श्रुतेः । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते [गीता १४।२६] । ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति [गीता १८।५५] इति वक्ष्यमाणाच् च । न सद् इति तद् विशुद्धं जीवात्म-वस्तु कार्य-कारणात्मकावस्था-द्वय-विरहात् सच् चासच् च नोच्यते । किन्तु परमाणु-चैतन्यं गुणाष्टक-विशिष्टम् उच्यते - विभक्त-नाम-रूपं कार्यावस्थं सद्-उपमृदित-नाम-रूपं कारणावस्थं त्व् असद् इत्य् अर्थः ॥१२॥

 __________________________________________________________  

१३।१३

सर्वतः पाणि-पादं तत् सर्वतो ऽक्षि-शिरो-मुखम् ।
सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥१३॥

श्रीधरः : नन्व् एवं ब्रह्मणः सद्-असद्-विलक्षणत्वे सति – सर्वं खल्व् इदं ब्रह्म ब्रह्मैवेदं सर्वम् इत्य् आदि-श्रुतिभिर् विरुध्येत इत्य् आशङ्क्य परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इत्य् आदि श्रुति-प्रसिद्धयाचिन्त्य-शक्त्या सर्वात्मतां तस्य दर्शयन्न् आह सर्वत इति पञ्चभिः । सर्वतः सर्वत्र पाणयः पादाश् च यस्य तत् । सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य तत् । सर्वतः श्रुतिमत् श्रवणेन्द्रियैर् युक्तं सल्-लोके सर्वम् आवृत्य व्याप्य तिष्ठति । सर्व-प्राणि-वृत्तिभिः पाण्य्-आदिभिर् उपाधिभिः सर्व-व्यवहारास्पदत्वेन तिष्ठतीत्य् अर्थः ॥१३॥

मधुसूदनः : एवं निरुपाधिकस्य ब्रह्मणः सच्-छब्द-प्रत्ययाविषयत्वाद् असत्त्वाशङ्कायां नासद् इत्य् अनेनापास्तायाम् अपि विस्तरेण तद्-आशङ्का-निवृत्त्य्-अर्थं सर्व-प्राणि-करणोपाधि-द्वारेण चेतन-क्षेत्रज्ञ-रूपतया तद्-अस्तित्वं प्रतिपादयन्न् आह सर्वत इति ।

सर्वतः सर्वेषु देहेषु पाणयः पादाश् चाचेतनाः स्व-स्व-व्यापारेषु प्रवर्तनीया य्सय्स् चेतनस्य क्षेत्रज्णस्य तत् सर्वतः पाणि-पादं ज्ञेयं ब्रह्म । सर्वाचेतन-प्रवृत्तीनां चेतनाधिष्ठान-पूर्वकत्वात् तस्मिन् क्षेत्रज्ञे चेतने ब्रह्मणि ज्ञेये सर्वाचेतन-वर्ग-प्रवृत्ति-हेतौ नास्ति नास्तिताशङ्केत्य् अर्थः । एवं सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य प्रवर्तनीयानि सन्ति तत् सर्वतो ऽक्षि-शिरो-मुखं । एवं सर्वतः श्रुतयः श्रवणेन्द्रियाणि यस्य प्रवर्तनीयत्वेन सन्त तत् सर्वतः श्रुतिमत् । लोके सर्व-प्राणि-निकाये । एकम् एव नित्यं विभु च सर्वम् अचेतनवर्गम् आवृत्य स्व-सत्तया स्फूर्त्या चाध्यासिकेन सम्बन्धेन व्याप्य तिष्ठति निर्विकारम् एव स्थितिं लभते, न तु स्वाध्यस्तस्य जड-प्रपञ्चस्य दोषेण गुणेन वाणु-मात्रेणापि सम्बध्यत इत्य् अर्थः । यथा
च सर्वेषु देहेष्व् एकम् एव चेतनं नित्यं विभु च न प्रतिदेहं भिन्नं तथा प्रपञ्चितं प्राक् ॥१३॥

विश्वनाथः : नन्व् एवं ब्रह्मणः सद्-असद्-विलक्षणत्वे सति – सर्वं खल्व् इदं ब्रह्म ब्रह्मैवेदं सर्वम् इत्य् आदि-श्रुतिर् विरुध्येत इत्य् आशङ्क्य स्वरूपतः कार्य-कारणातीतत्वे ऽपि शक्ति-शक्तिमतोर् अभेदात् कार्य-कारणात्मकम् अपि तद् इत्य् आह सर्वत एव पाणयः पादाश् च यस्य तत् । ब्रह्मादि-पिपीलिकान्तानां पाणि-पाद-वृन्दैः सर्वत्र दृष्टैर् एव तद् ब्रह्मैवासङ्ख्य-पाणि-पादैर् युक्त्म् इत्य् अर्थः । एवम् एव सर्वतो ऽक्षीत्य् आदि ।१३॥

बलदेवः : अथ परमात्म-वस्तूपदिशति सर्वतः पाणीति । तत् परमात्मवस्तु । सर्वतः पाणि-पादम् इत्य् आदि विस्फुटार्थम् ॥१३॥


१३।१४

सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् ।
असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च ॥१४॥

श्रीधरः : किं चसर्वेन्द्रियेति । सर्वेषां चक्षुर्-आदीनां गुणेषु रूपाद्य्-आकारासु वृत्तिषु तत्-तद्-आकारेण भासते इति तथा । सर्वेन्द्रियाणि गुणांश् च तत्-तद्-विषयान् आभासयतीति वा । सर्वैः इन्द्रियैर् विवर्जितं च । तथा च श्रुतिः – अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः इत्य् आदिः । असक्तं सङ्ग-शून्यम् । तथापि सर्वं बिभर्तीति सर्वस्याधारभूतम् । तद् एव निर्गुणं सत्त्वादि-गुण-रहितं । गुण-भोक्तृ च गुणानां सत्त्वादीनां भोक्तृ पालकम् ॥१४॥

मधुसूदनः : अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति न्यायम् अनुसृत्य सर्व-प्रपञ्चाध्यारोपेणानादि-मत् परं ब्रह्मेति व्याख्यातम् अधुना तद्-अपवादेन न सत् तन् नासद् उच्यते इति व्याख्यातुम् आरभते निरुपाधि-स्वरूप-ज्ञानाय सर्वेन्द्रियेति ।
परमार्थतः सर्वेन्द्रिय-विवर्जितं तन्-मायया सर्वेन्द्रिय-गुणाभासं सर्वेषां बहिष्करणानां श्रोत्रादीनाम् अन्तःकरणयोश् च बुद्धि-मनसोर् गुणैर् अध्यवसाय-सङ्कल्प-श्रवण-वचनादिभिस् तत्-तद्-विषय-रूपतयावभासत इव सर्वेन्द्रिय-व्यापारैर् व्यापृतम् इव तज् ज्ञेयं ब्रह्म ध्यायतीव लेलायतीव [बउ ४।३।७] इति श्रुतेः । अत्र ध्यानं बुद्धीन्द्रिय-व्यापारोपलक्षणम् । लेलायनं चलनं कर्मेन्द्रिय-व्यापारोपलक्षणार्थम् ।

तथा परमार्थतो ऽसक्तं सर्व-सम्बन्ध-शून्यम् एव, मायया सर्व-भृच् च सदात्मना सर्वं कल्पितं धारयतीव पोषयतीति च सर्व-भृत्, निरधिष्ठान-भ्रमायोगात् । तथा परमार्थतो निर्गुणं सत्त्व-रजस्-तमो-गुण-रहितम् एव । गुण-भोक्तृ च गुणानां सत्त्व-रजस्-तमसां शब्दादि-द्वारा सुख-दुःख-मोहाकारेण परिणतानां भोक्तृ उपलब्धृ च तज् ज्ञेयं ब्रह्मेत्य् अर्थः ॥१४॥

विश्वनाथः : किं च सर्वाणि इन्द्रियाणि गुणान् इन्द्रिय-विषयांश् च आभासयतीति तच् चक्षुषश् चक्षुः इत्य् आदि श्रुतेः । यद् वा सर्वेन्द्रियैर् गुणैः शब्दादिभिश् चाभासते विराजतीति तत् । तद् अपि सर्वेन्द्रिय-विवर्जितं प्राकृतेन्द्रियादि-रहितम् । तथा च श्रुतिः - अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः इत्य् आदि । परास्य शक्तिर् बहुधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इति श्रुति-प्रसिद्ध-स्वरूप-शक्त्यास्पदत्वाद् इति भावः । असक्तं आसक्ति-शून्यं सर्वभृत् श्री-विष्णु-स्वरूपेण सर्व-पालकम् । निर्गुणं सत्त्वादि-गुण-रहिताकारम् । किं च गुण-भोक्तृ त्रिगुणातीत-भग-शब्द-वाचा षड्-गुणास्वादकम् ॥१४॥

बलदेवः : किं च सर्वेति सर्वैर् इन्द्रियैर् गुणैश् च तद्-वृत्तिभिर् आभासते दीप्यत इति तथा सर्वैर् इन्द्रियैर् जीवेन्द्रियवत् स्वरूप-भिन्नैर् विवर्जितं सन्त्यक्तं प्राकृतैः करणैः शून्यः स्वरूपानुबन्धिभिस् तैर् विशिष्टो हरिर् इति स्वीकार्यम् । अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । यद् आत्मको भगवांस् तद्-आत्मिका व्यक्तिः किम् आत्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकश् चेति बुद्धिमनो ऽङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे बुद्धिमान् मनो-बाणङ्ग-प्रत्यङ्गवान् इति श्रुतेः । सर्वभृत् सर्व-तत्त्व-धारकम् अप्य् असक्तं सङ्कल्पेनैव तद्-धारणात् तत्-स्पर्श-रहितं निर्गुणं साक्षी चेताः केवलो निर्गुणश् च इति श्रुतेर् माया-गुण-स्पृष्टम् एव सद्-गुण-भोक्तृ-नियम्यतया गुणनुभवि-विकार-जननीम् अज्ञाम्
इत्य् आरभ्य

एकस् तु पिबते देवः
स्वच्छन्दो ऽत्र वशानुगाम् ।
ध्यान-क्रियाभ्यां भगवान्
भुङ्क्ते ऽसौ प्रसभं विभुः ॥ इति श्रवणात् ॥१४॥

 __________________________________________________________  

१३।१५

बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च ।
सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत् ॥१५॥

श्रीधरः : किं च बहिर् इति । भूतानां चराचराणां स्वकार्याणां बहिश् चान्तश् च तद् एव सुवर्णम् इव कटक-कुन्तलादीनाम् । जल-तरङ्गाणाम् अन्तर्-बहिश् च जलम् इव । अचरं स्थावरं चरं जङ्गमं च भूत-जातं तद् एव । कारणात्मत्वात् कार्यस्य । एवम् अपि सूक्ष्मत्वाद् रूपादि-हीनत्वाद् तद् अविज्ञेयम् इदं तद् इति स्पष्टं ज्ञानार्हं न भवति । अतएवाविदुषां योजन-लक्षान्तरितम् इव दूरस्थं च । सविकारायाः प्रकृतेः परत्वात् । विदुषां पुनः प्रत्यग्-आत्मत्वाद् अन्तिके च तन् नित्यं सन्निहितम् । तथा च मन्त्रः –

तद् एजति तन् नैजति
तद्-दूरे तद् वान्तिके ।
तद्-अन्तरस्य सर्वस्य
तद् उ सर्वस्यास्य बाह्यतः ॥ [ईशोपनिषद् ५] इति ।

एजति चलति नैजति न चलति । तद् उ अन्तिके इति च्छेदः ॥१५॥

मधुसूदनः : भूतानां भवन-धर्माणां सर्वेषां कार्याणां कल्पितानाम् अकल्पितम् अधिष्ठानम् एकम् एव बहिर् अन्तश् च रज्जुर् इव स्व-कल्पितानां सर्प-धारादीनां सर्वात्मना व्यापकम् इत्य् अर्थः । अत एवाचरं स्थावरं चरं च जञ्गमं भूत-जातं तद् एवाधिष्ठानात्मकत्वात् । कल्पितानां न ततः किञ्चिद् व्यतिरिच्यत इत्य् अर्थः । एवं सर्वात्मक्त्वे ऽपि सूक्ष्न्त्वाद् रूपादि-हीनत्वात् तद्-अविज्ञेयम् इदम् एवम् इति स्पष्ट-ज्ञानार्हं न भवति । अत एवात्म-ज्ञान-साधन-शून्यानां वर्ष-सहस्र-कोट्याप्य् अप्राप्यत्वाद् दूरस्थं च योजन-लक्ष-कोट्य्-अन्तरितम् इव तत् । ज्ञान-साधन-सम्पन्नानां तु अन्तिके च तद् अत्यव्यवहितम् एवात्मत्वात् । दूरात् सुदूरे तद् इहान्तिके पशत्स्व् इहैव निहितं गुहायाम् [मुण्डु ३।१।७] इत्य् आदि श्रुतिभ्यः ॥१५॥

विश्वनाथः : भूतानां स्वकार्याणां बहिश् चान्तश् च यथा देहानाम् आकाशादिकम् । अचरं स्थावरं चरं जङ्गमं च भूत-जातं तद् एव । कार्यस्य कारणात्मकत्वात् । एवम् अपि रूपादिभिन्नत्वात् तद्-अविज्ञेयम् इदं तद् इति स्पष्टं ज्ञानार्हं न भवतीत्य् अत एवाविदुषां योजन-कोट्य्-अन्तरम् इव दूरस्थं विदुषां पुनः स्व-गृह-स्थितम् एवान्तिके च तत् स्वदेह एवान्तर्यामित्वात् दूरात् सुदूरे तद् इहान्तिके च पश्यत्स्व् इहैव निहितं गुहायाम् [मुण्डु ३।१।७] इत्य् आदि श्रुतिभ्यः ॥१५॥

बलदेवः : बहिर् इति । भूतानां चिज्-जडात्मकानां तत्त्वानां बहिर् अन्तश् च स्थितम् । अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः [म्नाउ १३।५] इति श्रवणात् । अचरम् अचलं चरं चलं च आसीनो दूरं व्रजति शयानो याति सर्वतः [कठु १।२।२१] इति श्रुतेः । सूक्ष्मत्वात् प्रत्यक्त्वाच् चित्-सुख-मूर्तित्वाद् अविज्ञेयं देवतान्तरवज् ज्ञातुम् अशक्यम् । अतो दूरस्थं चेति यन् मनसा न मनुते न चक्षुषा पश्यति कश्चनैनम् [श्वेतु ४।२०] इति श्रुतेः । गान्धर्व-वासितेन श्रोत्रेण षड्-जादिवद् भक्ति-भावितेन करणेन तु शक्यं तज् ज्ञातुम् इत्य् आह अन्तिके च तद् इति । मनसीवानुद्रष्टव्यम्, कश्चिद् धीरः प्रत्यग्-आत्मानम् ऐक्षत । भक्ति-योगे हि तिष्ठति [ग्तु २।७८] इत्य् आदि श्रवणात् । भक्त्या त्व् अनन्यया शक्यः [गीता ११।५५] इत्य् आदि स्मृतेश् च ॥१५॥

 __________________________________________________________  

१३।१६

अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् ।
भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१६॥

श्रीधरः : किं च – अविभक्तम् इति । भूतेषु स्थावर-जङ्गमात्मकेषु अविभक्तं कारणात्मनाभिन्नं कार्यात्मना विभक्तं भिन्नम् इवावस्थितं च समुद्राज् जातं फेनादि समुद्राद् अन्यन् न भवति । तत्-स्वरूपम् एवोक्तं ज्ञेयं भूतानां भर्तृ च पोषकं स्थिति-काले । प्रलय-काले च ग्रसिष्णु ग्रसन-शीलं सृष्टि-काले च प्रभविष्णु नाना-कार्यात्मना प्रभवन-शीलम् ॥१६॥

मधुसूदनः : यद् उक्तम् एकम् एव सर्वम् आवृत्य तिष्ठतीति तद् विवृणोति प्रतिदेहम् आत्म-भेद-वादिनां निरासाय अविभक्तम् इति । भूतेषु सर्व-प्राणिषु अविभक्तम् अभिन्नम् एकम् एव तत् । न तु प्रतिदेहं भिन्नं व्योमवत् सर्व-व्यापकत्वात् । तथापि देह-तादात्म्येन प्रतीयमानत्वात् प्रतिदेहं विभक्तम् इव च स्थितम् । औपादिकत्वेनापारमार्थिको व्योम्नीव तत्र भेदावभास इत्य् अर्थः ।

ननु भवतु क्षेत्रज्ञः सर्व-व्यापक एकः, ब्रह्म तु जगत्-कारणं ततो भिन्नम् एवेति । नेत्य् आह भूत-भर्तृ च भूतानि सर्वाणि स्थिति-काले बिभर्तीति तथा प्रलय-काले ग्रसिष्णु ग्रसन-शीलम् उत्पत्ति-काले प्रभविष्णु च प्रभवन-शीलं सर्वस्य । यथा रज्ज्व्-आदिः सर्पादेर् माया-कल्पितस्य । तस्माद् यज् जगतः स्थिति-लयोत्पत्ति-कारणं ब्रह्म तद् एव क्षेत्रज्ञं प्रतिदेहम् एकं ज्ञेयं न ततो ऽन्यद् इत्य् अर्थः ॥१६॥

विश्वनाथः : भूतेषु स्थावर-जङ्गमात्मकेषु अविभक्तं कारणात्मना अभिन्नं कार्यात्मना विभक्तं भिन्नम् इवा स्थितं । तद् एव श्री-नारायण-स्वरूपं सत् । भूतानां भर्तृ स्थिति-काले पालकं । प्रलय-काले ग्रसिष्णु संहारकम् । सृष्टिकाले प्रभविष्णु च नाना-कार्यात्मना प्रभवन-शीलम् ॥१६॥

बलदेवः : अविभक्तम् इति । विभक्तेषु मिथो भिन्नेषु जीवेष्व् अविभक्तम् एकं तद् ब्रह्म विभक्तम् इव प्रति-जीवं भिन्नम् इव स्थितम् । एकं सन्तं बहुधा दृश्यमानम् इति श्रुतेः ।

एक एव परो विष्णुः
सर्वत्रापि न संशयः ।
ऐश्वर्याद् रूपम् एकं च
सूर्यवद् बहुधेयते ॥ इति स्मृतेश् च ।

तच् च भूत-भर्तृ-स्थितौ भूतानां पालकं प्रलये तेषां ग्रसिष्णु काल-शक्त्या संहारकम्, सर्गे प्रभविष्णु प्रधान-जीव-शक्तिभ्यां नाना-कार्यात्मना प्रभवन-शीलं । श्रुतिश् च यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति तद् ब्रह्म तद् विजिज्ञासस्व [तैत्तु ३।१।१] इति ॥१६॥

 __________________________________________________________  

१३।१७

ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते ।
ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥१७॥

श्रीधरः : किं च ज्योतिषाम् अपीति । ज्योतिषां सूर्यादीनाम् अपि ज्योतिः प्रकाशकं तत् । येन सूर्यस् तपति तेजसेन्धः ।

न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः ।
तद् एव भान्तम् अनुभाति सर्वं
तस्य भासा सर्वम् इदं विभाति ॥ [कठु २।५।१५] इत्य् आदि-श्रुतेः ।

अतएव तमसो ऽज्ञानात् परं तेनासंसृष्टम् उच्यते । आदित्य-वर्णं तम्ससः परस्तात् इत्य् आदि-श्रुतेः । ज्ञानं च तद् एव बुद्धि-वृत्तौ अभिव्यक्तम् । तद् एव रूपाद्य्-आकारेण ज्ञेयं च ज्ञान-गम्यं च । अमानित्वादि-लक्षणेन पूर्वोक्त-ज्ञान-साधनेन प्राप्यम् इत्य् अर्थः । ज्ञान-गम्यं विशिनष्टि सर्वस्य प्राणिमात्रस्य हृदि विष्ठितं विशेषेणाप्रच्युत-स्वरूपेण नियन्तृतया स्थितम् । धिष्ठितम् इति पाठे अधिष्टाय स्थितिम् इत्य् अर्थः ।

मधुसूदनः : ननु सर्वत्र विद्यमानम् अपि तन् नोपलभ्यते चेत् तर्हि जडम् एव स्यात्, न स्यात् स्वयञ्ज्योतिषो ऽपि तस्य रूपादि-हीनत्वेनेन्द्रियाद्य्-अग्राह्यत्वोपपत्तेर् इत्य् आह ज्योतिषाम् इति । तज् ज्ञेयं ब्रह्म ज्योतिषाम् अवभासकानाम् आदित्यादीनां बुद्ध्य्-आदीनां च बाह्यानाम् आन्तराणाम् अपि ज्योतिर् अवभासकं चैत्यन्य-ज्योतिषो जड-ज्योतिर्-अवभासकत्वोपपत्तेः । येन सूर्यस् तपति तेजसेन्धः । तस्य भासा सर्वम् इदं विभाति [कठु २।५।१५] इत्य् आदि-श्रुतेश् च । वक्ष्यति च यद् आदित्य-गतं तेजः [गीता १५।८] इत्य् आदि ।

स्वयं जडत्वाभावे ऽपि जड-संसृष्टं स्याद् इति नेत्य् आह तमसो जड-वर्गात् परम् अविद्या-तत्-कार्याभ्याम् अपारमार्थिकाभ्याम् असंस्पृष्टं पारमार्थिकं तद् ब्रह्म सद्-असतोः सम्बन्धायोगात् । उच्यते अक्षरात् परतः परः इत्य् आदि-श्रुतिभिर् ब्रह्म-वादिभिश् च । तद् उक्तम् -

निःसङ्गस्य स-सङ्गेन कूटस्थस्य विकारिणा ।
आत्मनो ऽनात्मना योगो वास्तवो नोपपद्यते ॥

आदित्य-वर्णं तमसः परस्तात् इति श्रुतेश् च । आदित्य-वर्णम् इति स्व-भाने प्रकाशान्तरानपेक्षं सर्वस्य प्रकाशकम् इत्य् अर्थः । यस्मात् तत् स्वयं ज्योतिर् जडासंस्पृष्टम् अत एव तज् ज्ञानं प्रमाण-जन्य-चेतो-वृत्त्य्-अभिव्यक्त-संविद्-रूपम् । अत एव तद् एव ज्ञेयं जातुम् अर्हम् अज्ञातत्वाज् जडस्याज्ञातत्वाभावेन ज्ञातुम् अनर्हत्वात् । कथं तर्हि सर्वैर् न ज्ञायते तत्राह ज्ञान-गम्यं पूर्वोक्तेनामानित्वादिना तत्त्व-ज्ञानार्थ-दर्शनान्तेन साधन-कलापेन ज्ञान-हेतुतया ज्ञान-शब्दितेन गम्यं प्राप्यं न तु तद् विनेत्य् अर्थः ।

ननु साधनेन गम्यं चेत् तत् किं देशान्तर-व्यवहितम् ? नेत्य् आह हृदि सर्वस्य विष्ठितं सर्वस्य प्राणि-जातस्य हृदि बुद्धौ विष्ठितं सर्वत्र सामान्येन स्थितम् अपि विशेष-रूपेण तत्र स्थितम् अभिव्यक्तं जीव-रूपेणान्तर्यामि-रूपेण च । सौरं तेज इवादर्श-सूर्य-कान्तादौ । अव्यवहितम् एव वस्तुतो भ्रान्त्या व्यवहितम् इव सर्व-भ्रम-कारणाज्ञान-निवृत्त्या प्राप्यत इवेत्य् अर्थः ॥१७॥

विश्वनाथः : ज्योतिषां चन्द्रादित्यानाम् अपि तज् ज्योतिः प्रकाशकं । येन सूर्यस् तपति तेजसेन्धः ।

न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः ।
तद् एव भान्तम् अनुभाति सर्वं
तस्य भासा सर्वम् इदं विभाति ॥ [कठु २।५।१५] इत्य् आदि-श्रुतेः ।

अत एव तमसो ऽज्ञानात् परं तेनासंसृष्टम् उच्यते । आदित्य-वर्णं तम्ससः परस्तात् इत्य् आदि-श्रुतेः । ज्ञानं तद् एव बुद्धि-वृत्तौ अभिव्यक्तं सत् ज्ञानम् उच्यते । तद् एव रूपाद्य्-आकारेण परिणतं ज्ञेयं च । तद् एव ज्ञान-गम्यं पूर्वोक्तेनामानित्वादि-ज्ञान-साधनेन प्राप्यम् इत्य् अर्थः । तद् एव परमात्म-स्वरूपं सत् सर्वस्य प्राणिमात्रस्य हृदि धिष्ठितं नियन्तृतयाध्बिष्ठाय स्थितम् इत्य् अर्थः ॥१७॥

बलदेवः : ज्योतिषां सूर्य्दीनाम् अपि तद् ब्रह्म ज्योतिः प्रकाशकं ।

न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः ।
तद् एव भान्तम् अनुभाति सर्वं
तस्य भासा सर्वम् इदं विभाति ॥ [कठु २।५।१५]

इत्य् आदि-श्रुतेस् तद् ब्रह्म । तद् ब्रह्म तमसः प्रकृतेः परं तेनास्पृष्टम् उच्यते आदित्य-वर्णं तमसः परस्तात् [श्वेतु ३।८] इत्य् श्रुत्या । ज्ञानं चिद्-एक-रसम् उच्यते विज्ञानम् आनन्द-घनं ब्रह्म [ग्तु २।७९?] इति श्रुत्या । ज्ञानं मुमुक्षोः शरणत्वेन ज्ञातुम् अर्हम् उच्यते तं ह देवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये [ग्तु १।२५] इति श्रुत्या । ज्ञान-गम्यम् उच्यते तम् एव विदित्वातिमृत्युम् एति [श्वेतु ३।८] इति श्रुत्या । सर्वस्य प्राणि-मात्रस्य हृदि धिष्ठितं नियन्तृतयाधिष्ठाय स्थितम् इत्य् उच्यते अन्तः-प्रविष्टः शास्ता जनानाम् [तैत्ता ३।११।१०] इति श्रुत्या । न च सर्वतः पाणीत्य् आदि पञ्चकं जीव-परतयैव नेयं तत्-प्रकरणत्वादि-वाच्यं जीववद् ईश्वरस्यापि क्षेत्रज्ञत्वेन प्रकृतत्वात् । सर्वतः पाणीत्य् आदि-सार्धकस्य ब्रह्मैवोपक्रम्य
श्वेताश्वतरैः पठित्वात् प्रकरण-शावल्यस्योपनिषत्सु वीक्षणाच् च ॥१७॥


१३।१८

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥१८॥

श्रीधरः : उक्तं क्षेत्रादिकम् अधिकारि-फल-सहितम् उपसंहरति इतीति । इत्य् एनं क्षेत्रं महा-भूतादि-धृत्य्-अन्तम् । तथा ज्ञानं चामानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् । ज्ञेयं चानादिमत् परं ब्रह्मेत्य् आदि विष्ठितम् इत्य् अन्तम् । वसिष्ठादिभिर् विस्तरेणोक्तं सर्वम् अपि मया सङ्क्षेपेणोक्तम् । एतच् च कथम् । पूर्वाध्यायोक्त-लक्षणो मद्-भक्तो विज्ञाय मद्-भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति ॥१८॥

मधुसूदनः : उक्तं क्षेत्रादिकम् अधिकारिणं फलं च वदन्न् उपसंहरति इतीति । इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महा-भूतादि-धृत्य्-अन्तम्, तथा ज्ञानम् अमानित्वादि तत्त्व-ज्ञानार्थ-दर्शन-पर्यन्तम्, ज्ञेयं चानादिमत् परं ब्रह्म विष्ठितम् इत्य् अन्तं श्रुतिभ्यः स्मृतिभ्यश् चाकृष्य त्रयम् अपि मन्द-बुद्ध्य्-अनुग्रहाय मया सङ्क्षेपेनोक्तम् । एतावान् एव हि सर्वो वेदार्थो गीतार्थश् च । अस्मिंश् च पूर्वाध्यायोक्त-लक्षणो मद्-भक्त एवाधिकारीत्य् आह – मद्-भक्तो मयि भगवति वासुदेवे परम-गुरौ समर्पित-सर्वात्म-भावो मद्-एक-शरणः स एतद् यथोक्तं क्षेत्रं ज्ञानं च ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्-भावाय सर्वानर्थ-शून्य-परमानन्द-भावाय मोक्षायोपपद्यते मोक्षं प्राप्तुं योग्यो भवति ।

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतु ६।२३] इति श्रुतेः ।

तस्मात् सर्वदा मद्-एक-शरणः सन्न् आत्म-ज्ञान-साधनान्य् एव परम-पुरुषार्थ-लिप्सुर् अनुवर्तते तुच्छ-विषय-भोग-स्पृहां हित्वेत्य् अभिप्रायः ॥१८॥

विश्वनाथः : उक्तं क्षेत्रादिकम् अधिकारि-फल-सहितम् उपसंहरति इतीति । क्षेत्रं महा-भूतादि धृत्य्-अन्तम् । ज्ञानम् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् । ज्ञेयं ज्ञान-गम्यं च अनादीत्य् आदि धिष्ठितम् इत्य् अन्तम् । एकम् एव तत्त्वं ब्रह्म भगवत्-परमात्म-शब्द-वाच्यं च सङ्क्षेपेणोक्तम् । मद्-भक्तो भक्तिमज् ज्ञानी मद्-भावाय मत्-सायुज्याय । यद् वा मद्-भक्तो ममैकान्तिको दास एतद् विज्ञाय मत्-प्रभोर् एतावद् ऐश्वर्यम् इति ज्ञात्वा मयि भावाय प्रेम्ण उपपद्यत उपपन्नो भवति ॥१८॥

बलदेवः : उक्तं क्षेत्रादिकं तज्-ज्ञान-फल-सहितम् उपसंहरति इति क्षेत्रम् इति । महा-भूतानि इत्य् आदिना चेतना धृतिर् इत्य् अन्तेन क्षेत्र-स्वरूपम् उक्तम् । अमानित्वम् इत्य् आदिना तत्त्व-ज्ञानार्थ-दर्शनम् इत्य् अन्तेन ज्ञेयस्य क्षेत्र-द्वयस्य ज्ञानं तत्-साधनम् उक्तम् । अनादि मत्-परम् इत्य् आदिना हृदि सर्वस्य विष्ठितम् इत्य् अन्तेन ज्ञेयं क्षेत्रज्ञ-द्वयं चोक्तं मया । एतत् त्रयं विज्ञाय मिथो विवेकेनावगत्य मद्-भावाय मत्-प्रेम्णे मत्-स्वभावाय वासंसारित्वाय कल्पते योग्ये भवति मद्-भक्तः ॥१८॥


१३।१९

प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ।
विकारांश् च गुणांश् चैव विद्धि प्रकृति-सम्भवान् ॥१९॥

श्रीधरः : तद् एवं तत् क्षेत्रं यच् च यादृक् चेत्य् एतावत् प्रपञ्चितम् । इदानीं तु यद् विकारि यतश् च यत् स च यो यत्-प्रभावश् चेत्य् एतत् पूर्वं प्रतिज्ञातम् एव प्रकृति-पुरुषयोः संसार-हेतुकत्व-कथनेन प्रपञ्चयति प्रकृतिम् इति पञ्चभिः । तत्र प्रकृति-पुरुषयोर् आदिमत्वे तयोर् अपि प्रकृत्य्-अन्तरेण भाव्यम् इत्य् अनवस्थापत्तिः स्यात् । अतस् ताव् उभाव् अनादी विद्धि । अनादेर् ईश्वरस्य शक्तित्वात् प्रकृतेर् अनादित्वम् । पुरुषे ऽपि तद्-अंशत्वाद् अनादिर् एव । अत्र च परमेश्वरस्य तच्-छक्तीनाम् अनादित्वं नित्यत्वं च श्रीमच्-छङ्कर-भगवद्-भाष्य-कृद्भिर् अतिप्रबन्धेनोपपादितम् इति ग्रन्थ-बाहुल्यान् नास्माभिः प्रतन्यते । विकारांश् च देहेन्द्रियादीन् गुणांश् च गुण-परिणामान् सुख-दुःख-मोहादीन् प्रकृतेः सम्भूतान् विद्धि ॥१९॥

मधुसूदनः : तद् अनेन ग्रन्थेन तत् क्षेत्रं यच् च यादृक् च इत्य् एतद् व्याख्यातम् । इदानीं यद्-विकारि यतश् च यत् स च यो यत्-प्रभावश् च इत्य् एतावद् व्याख्यातव्यम् । तत्र प्रकृति-पुरुषयोः संसार-हेतुत्व-कथनेन यद्-विकारि यतश् च यद् इति प्रकृतिम् इत्य् आदि द्वाभ्यां प्रपञ्च्यते । स च यो यत् प्रभावश् च इति तु पुरुष इत्य् आदि द्व्याभ्याम् इति विवेकः । तत्र सप्तम ईश्वरस्य द्वे प्रकृती परापरे क्षेत्र-क्षेत्रज्ञ-लक्षणे उपन्यस्य एतद्-योनीनि भूतानि [गीता ७।७] इत्य् उक्तम् । तत्रापरा प्रकृतिः क्षेत्र-लक्षणा परा तु जीव-लक्षणेति तयोर् अनादित्वम् उक्त्वा तद्-उभय-योनित्वं भूतानाम् उच्यते प्रकृतिम् इति ।

प्रकृतिर् मायाख्या त्रिगुणात्मिका पारमेश्वरी शक्तिः क्षेत्र-लक्षणा या प्राग् अपरा प्रकृतिर् इत्य् उक्ता । या तु परा प्रकृतिर् जीवाख्या प्राग् उक्ता स इह पुरुष इत्य् उक्त इति न पूर्वापर-विरोधः । प्रकृतिं पुरुषं चोभाव् अपि अनादी एव विद्धि । न विद्यते आदिः कारणं ययोस् तौ । तथा प्रकृतेर् अनादित्वं सर्व-जगत्-कारणत्वात् । तस्या अपि कारण-सापेक्षत्वे ऽनवस्था-प्रसङ्गात् । पुरुषस्यानादित्वं तद्-धर्माधर्म-प्रयुक्तत्वात् कृत्स्नस्य जगतः जातस्य हर्ष-शोक-भय-सम्प्रतिपत्तेः । अन्यथा कृत-हान्य-कृताभ्यागम-प्रसङ्गात् । यतः प्रकृतिर् अनादिर् अतस् तस्या भूत-योनित्वम् उक्तं प्राग् उपपद्यत इत्य् आह विकारांश् च षोडश पञ्च महा-भूतान्य् एकादशेन्द्रियाणि च गुणांश् च सत्त्व-रजस्-तमो-रूपान् सुख-दुःख-मोहान् प्रकृति-सम्भवान् एव
प्रकृति-कारणकान् एव विद्धि जानीहि ॥१९॥

विश्वनाथः : परमात्मानम् उक्त्वा क्षेत्र-ज्ञ-शब्द-वाच्यं जीवात्मानं वक्तुं कुतस् तस्य माया-संस्लेषः, कदा तद्-आरम्भो ऽभूद् इत्य् अपेक्षायाम् आह प्रकृतिं मायां पुरुषं जीवं चोभाव् अप्य् अनादी न विद्यते आदि कारणं ययोस् तथाभूतौ विद्धि अनादेर् ईश्वरस्य मम शक्तित्वात् ।
भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महाबाहो ययेदं धार्यते जगत् ॥ [गीता ७।४-५]

इति मद्-उक्तेर् माया-जीवयोर् अपि मच्-छक्तित्वेन अनादित्वात् तयोः संश्लेषो ऽपि अनादिर् इति भावः । तत्र मिथः संश्लिष्टयोर् अपि तयोर् वस्तुतः पार्थक्यम् अस्ति एव इत्य् आह विकारांश् च देहेन्द्रियादीन् गुणांश् च गुण-परिणामान् सुख-दुःख-शोक-मोहादीन् प्रकृति-सम्भूतान् प्रकृत्य्-उद्भूतान् विद्धीति क्षेत्राकार-परिणतायाः प्रकृतेः सकाशाद् भिन्नम् एव जीवं विद्धीति भावः ॥१९॥

बलदेवः : एवं मिथो विविक्त-स्वभावयोर् अनाद्योः प्रकृति-जीवयोः संसर्गस्यानादि-कालिकत्वं संसृष्टयोस् तयोः कार्य-भेदस् तत्-संसर्गस्यानादि-कालिकस्य हेतुश् च निरूप्यते प्रकृतिम् इत्य् आदिभिः । अपिर् अवधृतौ । मिथः सम्पृक्तौ प्रकृति-पुरुषाव् उभाव् अनाद्येव विद्धि मदीय-शक्तित्वान् नित्याव् एव जानीहि । तयोर् मच्-छक्तित्वं तु पुरैवोक्तं भूमिर् आपः इत्य् आदिना । अनादि-संसृष्टयोर् अपि तयोः स्वरूप-भेदो ऽस्तीत्य् आशयेनाह् विकारान् देहेन्द्रियादीन् । गुणांश् सुख-दुःखानि प्रकृति-सम्भवान् प्राकृतान् न तु जैवान् विद्धीति क्षेत्रात्मना परिणतायाः प्रकृतेर् अन्यो जीव इति दर्शितम् ॥१९॥


१३।२०

कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते ।
पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥२०॥

श्रीधरः : विकाराणां प्रकृति-सम्भवत्वं दर्शयन् पुरुषस्य संसार-हेतुत्वं दर्शयति कार्येति । कार्यं शरीरम् । कारणानि सुख-दुःख-साधनानीन्द्रियाणि । तेषां कर्तृत्वे तद्-आकार-परिणामे प्रकृतिर् हेतुर् उच्यते कपिलादिभिः । पुरुषो जीवस् तु तत्-कृत-सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते । अयं भावः यद्यपि अचेतनायाः प्रकृतेः स्वतः-कर्तृत्वं न सम्भवति तथा पुरुषस्याप्य् अविकारिणो भोक्तृत्वं न सम्भवति । तथापि कर्तृत्वं नाम क्रिया-निर्वर्तकत्वम् । तच् चाचेतनस्यापि चेतनादृष्ट-वशात् चैतन्याधिष्ठितत्वात् सम्भवति यथा वह्नेर् ऊर्ध्व-ज्वलनं वयोस् तिर्यग् गमनं वत्सादृष्ट-वशात् गोस्तन्य-पयसः क्षरणम् इत्य् आदि । अतः पुरुष-सन्निधानात् प्रकृतेः कर्तृत्वम् उच्यते भोक्तृत्वं च सुख-दुःख-संवेदनम्,
तच् च चेतन-धर्म एवेति प्रकृति-सन्निधानात् पुरुषस्य भोक्तृत्वम् उच्यते इति ॥२०॥

मधुसूदनः : विकाराणां प्रकृति-सम्भवत्त्वं विवेचयन् पुरुषस्य संसार-हेतुत्वं दर्शयति कार्येति । कार्यं शरीरं करणानीन्द्रियाणि तत्-स्थानि त्रयोदश देहारम्भकाणि भूतानि विषयाश् चेह कार्य-ग्रहणेन गृह्यन्ते । गुणाश् च सुख-दुःख-मोहात्मकाः करणाश्रयत्वात् करण-ग्रहणेन गृह्यन्ते । तेषां कार्य-करणानां कर्तृत्वे तद्-आकार-परिणामे हेतुः कारणम् प्रकृतिर् उच्यते महर्षिभिः । कार्य-करणेति दीर्घ-पाठे ऽपि स एवार्थः । एवं प्रकृतेः संसार-कारणत्वं व्याख्याय पुरुषस्यापि यादृशं तत् तद् आह पुरुषो क्षेत्रज्ञः परा प्रकृतिर् इति प्राग् व्याख्यातः । स सुख-दुःखानां सुख-दुःख-मोहानां भोग्यानां सर्वेषाम् अपि भोक्तृत्वे वृत्त्य्-उपरक्तोपलम्भे हेतुर् उच्यते ॥२०॥

विश्वनाथः : तस्य माया-संश्लेषं दर्शयति । कार्यं शरीरम् । कारणानि सुख-दुःख-साधनानीन्द्रियाणि । कर्तार इन्द्रियाधिष्ठातारो देवास् तत्र तथाध्यासेन पुरुष-संसर्गात् कार्यादि-रूपेण परिणता स्याद् अविद्याख्यया स्व-वृत्त्या तद्-अध्यास-प्रदा च स्याद् इत्य् अर्थः । तत्-कृत-सुख-दुःखानां भोक्तृत्वे पुरुषो जीव एव हेतुः । अयं भावः यद्यपि कार्यत्व-कारणत्व-कर्तृत्व-भोक्तृत्वानि प्रकृति-धर्मा एव स्युस् तद् अपि कार्यत्वादिषु जडांश-प्राधान्यात्, सुख-दुःख-संवेदन-रूपे भोगे तु चैतन्यांश-प्राधान्यात् । प्राधान्येन व्यपदेशा भवन्तीति न्यायात् कार्यत्वादिषु प्रकृतिर् हेतुः । भोक्तृत्वे पुरुषो हेतुर् इत्य् उच्यते इति ॥२०॥

बलदेवः : अथ संसृष्टयोस् तयोः कार्य-भेदम् आह कार्येति शरीरं कार्यं ज्ञान-कर्म-साधकत्वाद् इन्द्रियाणि कारणानि तेषां कर्तृत्वे तत्-तद्-आकार-स्व-परिणामे प्रकृतिर् हेतुः । पुरुषः प्रकृतिस्थो हि इत्य् अग्रिमात् स्व-संसर्गेण सचेतनां प्रकृतिं पुरुषो ऽधितिष्ठति । तद्-अधिष्ठिता तु सा तत्-कर्माणु-गुण्येन परिणममाना तत्-तद्-देहादीनां स्रष्ट्रीति प्रकृत्यार्पितानां सुखादीनां भोक्तृत्वे पुरुषो हेतुस् तेषां भोगे स एव कर्तेय् अर्थः । प्रकृत्य्-अधिष्ठातृत्वं सुखादि-भोक्तृत्वं च पुरुषस्य कार्यम् । तच् च शरीरादि-कर्तृत्वं तु तद्-अधिष्ठातायाः प्रकृतेर् इति पुरुषस्यैव कर्तृत्वं मुख्यम् । एवम् आह सूत्रकारः कर्ता शास्त्रार्थवत्त्वात् इत्य् आदिभिः । परेशस्य हरेर् अधिष्ठातृत्वं तु सर्वत्रावर्जनीयम्
इत्य् उक्तं वक्ष्यते च ॥२०॥


१३।२१

पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ॥२१॥

श्रीधरः : तथाप्य् अविकारिणो जन्म-रहितस्य च भोक्तृत्वं कथम् इति । अत आह पुरुष इति । हि यस्मात् । प्रकृति-स्थस् तत्-कार्ये देहे तादात्म्येन स्थितः पुरुषः । अतस् तज्-जनितान् सुख-दुःखादीन् भुङ्क्ते । अस्य च पुरुषस्य सतीषु देवादि-योनिषु असतीषु तिर्यग्-आदि-योनिषु यानि जन्मानि तेषु गुण-सङ्गो गुणैः शुभाशुभ-कर्म-कारिभिर् इन्द्रियैः सङ्गः कारणम् इत्य् अर्थः ॥२१॥

मधुसूदनः : यत् पुरुषस्य सुख-दुःख-भोक्तृत्वं तादात्म्येनोपगतः प्रकृति-स्थो ह्य् एव पुरुषो भुङ्क्ते उपलभते प्रकृति-जान् गुणान् । अतः प्रकृति-ज-गुणोपलम्भ-हेतुषु सद्-असद्-योनि-जन्मसु सद्-योनयो देवाद्यास् तेषु हि सात्त्विकम् इषतं फलं भुज्यते । असद्-योनयः पश्व्-आद्यास् तेषु हि तामसम् अनिष्टं फलं भुज्यते । अतस् तन् नास्य पुरुषस्य गुण-सङ्गः सत्त्व-रजस्-तमो-गुणात्मक-प्रकृति-तादात्म्याभिमान एव कारणम् । न त्व् असङ्गस्य तस्य स्वतः संसार इत्य् अर्थः । अथवा गुण-सङ्गो गुणेषु शब्दादिषु सुख-दुःख-मोहात्मकेषु सङ्गो ऽभिलाषः काम इति यावत् । स एवास्य सद्-असद्-योनि-जन्मसु कारणम् स यथा-कामो भवति तत् क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद् अभिसम्पद्यते [बउ ४।४।५] इति श्रुतेः । अस्मिन्न् अपि पक्षे मूल-कारणत्वेन
प्रकृति-तादात्म्याभिमानो द्रष्टव्यः ॥२१॥

विश्वनाथः : किन्तु तत्र अनाद्य्-अविद्या-कृतेनाध्यासेन एव कर्ट्र्व-भोक्तृत्वादिकं तदीयम् अपि धर्मं स्वीयं मन्यते । तत एवास्य संसार इत्य् आह पुरुष इति । प्रकृतिस्थः प्रकृति-कार्य-देहे तादात्म्येन हि स्थितः । प्रकृतिजान् अन्तःकरण-धर्मान् शोक-मोह-सुख-दुःखादीन् गुणान् स्वीयान् एव अभिमन्यमानो भुङ्क्ते । तत्र कारणं गुण-सङ्गः । गुणमय-देहेषु अस्यासङ्गस्याप्य् आत्मनः सङ्गो ऽविद्या-कल्पितः । क्व भुङ्क्ते इत्य् अपेक्षायाम् आह सतीषु देवादि-योनिषु असतीषु तिर्यग्-आदि-योनिषु शुभाशुभ-कर्म-कृतासु यानि जन्मानि तेषु ॥२१॥

बलदेवः : प्रकृत्य्-अधिष्ठाने सिखादिभोगे च पुरुषस्यैव कर्तृत्वम् इत्य् एतत् स्फुटयति तस्य प्रकृति-संसर्गे हेतुं च दर्शयति पुरुष इति । चित्-सुखैक-रसो ऽपि पुरुषो ऽनादिकर्म-वासनया प्रकृतिस्थस् ताम् अधिष्ठित-तत्-कृत-देहेन्द्रियः प्रान-विशिष्टः सन्न् एव तत्-कृतान् गुणान् सुखादीन् भुङ्क्ते ऽनुभवति क्वेत्य् आह सद् इति । सतीषु देव-मानवादिष्व् असतीषु पशु-पक्ष्य्-आदिषु च साध्व्-असाधु-रचितासु योनिषु यानि जन्मादीनि तेष्व् इति तत्र तत्र पुरुषस्यैव कर्तृत्वम् ।

तत्-संसर्गे हेतुम् आह कारणम् इति । गुणो ऽसङ्गो ऽनादि-गुण-मय-विसय-स्पृहा । अयम् अर्थः अनादिर् जीवः कर्म-रूपाणादिवासनारक्तः । स च भोक्तृत्वाद् भोग्यान् विषयान् स्पृहयंस् तद्-अर्पित-कामनादि-सन्निहितां प्रकृतिम् आश्रयिष्यति यावत् सत्-प्रसङ्गात् तत्-तद्-वासना क्षीयते । तत्-क्षये तु परात्म-धाम-सुखानि भुङ्क्ते सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्य् आदि श्रुतिभ्य इति । यत् तु प्रकृतेर् इत्य् आदेः कार्य-कारणेत्य् आदेः प्रकृत्यैव चेत्य् आदेर् नान्यं गुणेभ्यः इत्य् आदेश् चापाततार्थ-ग्राहिभिः साङ्ख्यैः प्रकृतेर् एव कर्तृत्वम् उक्तम्, तत् किल रभसाभिधानम् एव लोष्ट्र-काष्ठवद् अचेतनायास् तस्यास् तत्त्व-सम्भावात् । उपादानापरोक्ष-चिकीर्षाकृतिमत्त्वं खलु कर्तृत्वम्, तच् च चेतनस्यैवेति श्रुतिर् आह - विज्ञानं यज्ञं
तनुते कर्माणि तनुते ऽपि च । एष हि द्रष्टा स्प्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता निज्ञानात्मा पुरुषः इत्य् आदिकम् ।

यच् च पुरुष-सन्निधानाच् चैतन्याध्यासात् तस्यास् तत्त्वम् इत्य् आहुस् तन् न । यत् सन्निध्यधस्त-चैतन्यात् तस्याः कर्तृत्वं तत् तस्यैव सन्निहितस्येति सुवचत्वात् । न खलु तपायसो दग्धृत्वम् अयो-हेतुकम् अपि तु वह्नि-हेतुकम् एव दृष्टम् । न च चलति जलं फलति तरुर् इतिवज् जडायास् तस्यास् तत्त्व-सिद्धिर् जलादिष्व् अन्तर्याम्य्-अधिष्ठितत्वेनेष्टासिद्धेर् विधायक-श्रुति-व्याकोपाच् चैतेद् एवम् । न हि जड-प्रकृतिम् उद्दिश्य स्वर्गादि-फलकं ज्योतिष्टोमादि-मोक्ष-फलकं ध्यानं च स्मृतिर् विधत्ते ऽपि तु चेतनम् एव भोक्तारम् उद्दिश्येति पुरुषस्यैव कर्तृत्वम् । तच् च प्रकृतेर् इति यद् उक्तं तत् तु तद्-वृत्ति-प्राचुर्याद् एव यथा करेण बिभ्रति पुरुषे करो बिभर्तीति व्यपदेशस् तथा प्रकृत्या कुर्वति पुरुषे प्रकृतिः करोतीति स भवेद् इत्य् एके, प्राकृतैर् देहादिभिर् युक्तस्यैव पुरुषस्य यज्ञ-युद्धादि-कर्म-कर्तृत्वम्,
न तु तैर् वियुक्तस्य शुद्धस्येत्य् अतः प्रकृतेस् तद् इत्य् अपरे ॥२१।


१३।२२

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥२२॥

श्रीधरः : तद् अनेन प्रकारेण प्रकृत्य्-अविवेकाद् एव पुरुषस्य संसारः । न तु स्वरूपतः । इत्य् आशयेन तस्य स्वरूपम् आह उपद्रष्टेति । अस्मिन् प्रकृति-कार्ये देहे वर्तमानो ऽपि पुरुषः परो भिन्न एव । न तद्-गुणैर् युज्यत इत्य् अर्थः । तत्र हेतवः यस्माद् उपद्रष्टा पृथग्-भूत एव समीपे स्थित्वा द्रष्टा साक्षीत्य् अर्थः । तथा अनुमन्ता अनुमोदितैव सन्निधि-मात्रेणानुग्राहकः । साक्षी चेताः केवलो निर्गुणश् च [ग्तु २।९६, पुरुष-बोधिनी] इत्य् आदि श्रुतेः । तथा ऐश्वर्येण रूपेण भर्ता विधायक इति चोक्तः । भोक्ता पालक इति च । महांश् चासौ ईश्वरश् च स ब्रह्मादीनाम् अपि पतिर् इति च परमात्मा वान्तर्यामीति चोक्तः श्रुत्या । तथा च श्रुतिः एष सर्वेश्वर एव्स भूताधिपतिर् लोक-पालः इत्य् आदि ॥२२॥

मधुसूदनः : तद् एवं प्रकृति-मिथ्या-तादात्म्यात् पुरुषस्य संसारो न स्वरूपेणेत्य् उक्तम् । कीदृशं पुनस् तस्य स्वरूपं यत्र न सम्भवति संसारः ? इत्य् आकाङ्क्षायां तस्य स्वरूपं साक्षान् निर्दिशन्न् आह उपद्रष्टेति । अस्मिन् प्रकृति-परिणामे देहे जीव-रूपेण वर्तमानो ऽपि पुरुषः परः प्रकृति-गुणासंसृष्टः परमार्थतो ऽसंसारी स्वेन रूपेणेत्य् अर्तह्ः । यत उपद्रष्टा यथ ऋत्विग्-यजमानेषु यज्ञ-कर्म-व्यापृतेषु तत्-समीपस्थो ऽन्यः स्वयम् अव्यापृतो यज्ञ-विद्या-कुशलत्वाद् ऋत्विग्-यजमान-व्यापार-गुण-दोषाणाम् ईक्षिता, तद्वत् कार्य-करण-व्यापारेषु स्वयम् अव्यापृतो विलक्षणस् तेषां कार्य-करणानां स-व्यापराणां समीपस्थो द्रष्टा न तु कर्ता पुरुषः । स यत् तत्र किञ्चित् पश्यत्य् अनन्वाग् अतस्
तेन भवत्य् असङ्गो ह्य् अयं पुरुषः [बउ ४।३।१५] इति श्रुतेः ।

अथवा, देह-चक्षुर्-मनो-बुद्ध्य्-आत्मानो द्रष्टृषु मध्ये बाह्यान् देहादीन् अपेक्ष्यात्यव्यवहितो द्रष्टात्मा पुरुष उपद्रष्टा । उप-शब्दस्य सामीप्यार्थत्वात् तस्य चाव्यवधान-रूपस्य प्रत्यग्-आत्मन्य् एव पर्यवसानात् ।

अनुमन्ता च कार्य-करण-प्रवृत्तिषु स्वयम् अप्रवृत्तो ऽपि प्रवृत्त इव सन्निधि-मात्रेण तद्-अनुकूलत्वाद् अनुमन्ता । अथवा, स्व-व्यापारेषु प्रवृत्तान् देहेन्द्रियादीन् न निवारयति कदाचिद् अपि तत्-साक्षि-भूतः पुरुष इत्य् अनुमन्ता । साक्षी चेता [ग्तु २।९६, पुरुष-बोधिनी] इति श्रुतेः । भर्ता

भर्ता देहेन्द्रिय-मनो-बुद्धीनां संहतानां चैतन्याभास-विशिष्टानां स्व-सत्तया स्फुरणेन च धारयिता पोषयिता च । भोक्ता बुद्धेः सुख-दुःख-मोहात्मकान् प्रत्ययान् स्वरूप-चैतन्येन प्रकाशयतीति निर्विकार एवोपलब्धा । महेश्वरः सर्वात्मत्वात् स्वतन्त्रत्वाच् च महान् ईश्वरश् चेति महेश्वरः । परमात्मा देहादि-बुद्ध्य्-अन्तानां अविद्ययात्मत्वेन कल्पितानाम् परमः प्रकृष्ट उपद्रष्टृत्वादि-पूर्वोक्त-विशेषण-विशिष्ट आत्मा परमात्मा । इत्य् अनेन शब्देनापि उक्तः कथितः श्रुतौ । च-काराद् उपद्रष्टेत्य्-आदि-शब्दैर् अपि स एव पुरुषः परः । उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः [गीता १५।१७] इत्य् अग्रे वक्ष्यते ॥२२॥

विश्वनाथः : जीवात्मानम् उक्त्वा परमात्मानम् आह उपद्रष्टेति । यद्यपि अनादि मत्-परं ब्रह्म इत्य् आदिना हृदि सर्वस्य विष्ठितम् इत्य् अनेन च सामान्यतः पशेषतश् च परमात्मा प्रोक्त एव, तद् अपि तस्य जीवात्म-साहित्येनापि पृथग् एव स्पष्टतया देहस्थत्व-ज्ञापनार्थम् इयम् उक्तिर् ज्ञेया । अस्मिन् देहे परो ऽन्यः पुरुषो यो महेश्वर्ः स परमात्मेति चाप्य् उक्तः । परमात्मेति च नाम्नाप्य् उक्तो भवतीत्य् अर्थः । तत्र परम-शब्द एकात्मवाद-पक्षे स्वाम्श इति द्योतनार्थो जीवस्य उप समीपे पृथक्-स्थित एव द्रष्टा साक्षी । अनुमन्तानुमोदन-कर्ता सन्निधि-मात्रेणानुग्राहकः । साक्षी चेताः केवलो निर्गुणश् च [ग्तु २।९६, पुरुष-बोधिनी] इति श्रुतेः । तथा भर्ता धारको भोक्ता पालकः ।

बलदेवः : देहे सुखादिभोक्ट्रयावस्थितं जीवम् उक्त्वा नियन्तृतया तत्रावस्थितम् ईश्वरम् आह उपद्रष्टेति । अस्मिन् देहे परो जीवाद् अन्यः पुरुषो ऽस्ति यो महेश्वरः परमात्मेति प्रोक्तः । उपद्रष्टा सन्निधौ पृथक्-स्थित एव साक्षी । अनुमन्तानुमति-दाता तद्-अनुमतिं विना जीवः किञ्चिद् अपि कर्तुं न क्षम इत्य् अर्थः । भर्ता धारकः । भोक्ता पालकः । सर्वतः पाणि इत्य् आदिभिर् उक्तस्यापीशस्य जीवेन सह स्थितिं वक्तुं पुनर् उक्तिः ॥२२॥


१३।२३

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥२३॥

श्रीधरः : एवं प्रकृति-पुरुष-विवेक-ज्ञानिनं स्तौति य एवम् इति । एवम् उपद्रष्टृत्वादि-रूपेण पुरुषं यो वेत्ति प्रकृतिं च गुणैः सह सुख-दुःखादि-परिणामैः सहितां यो वेत्ति स पुरुषः सर्वथा विधिम् अतिलङ्घ्येह वर्तमानो ऽपि पुनर् नाभिजायते । मुच्यते एवेत्य् अर्थः ॥२३॥

मधुसूदनः : तद् एवं स च यो यत् प्रभावश् च [गीता १३।४] इति व्याख्यातम् इदानीं यज् ज्ञात्वामृतम् अश्नुते इत्य् उक्तम् उपसंहरति य एवम् इति । य एवम् उक्तेन प्रकारेण वेत्ति पुरुषम् अयम् अहम् अस्मीति साक्षात्करोति प्रकृतिं चाविद्यां गुणैः स्व-विकारैः सह मिथ्या-भूताम् आत्म-विद्यया बाधितां वेत्ति निवृत्ते ममाज्ञान-तात्-कार्ये इति, स सर्वथा प्रारब्ध-कर्म-वशाद् इन्द्रवद् विधिम् अतिक्रम्य वर्तमानो ऽपि भूयो न जायते पतिते ऽस्मिन् विद्वच्-छरीरे पुनर् देह-ग्रहणं न करोति । अविद्यायां विद्यया नाशितायां तत्-कार्यासम्भवस्य बहुधोक्तत्वात् तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [व्स् ४।१।१३] इति न्यायात् । अपि-शब्दाद् विधिम् अनतिक्रम्य वर्तमानः स्व-वृत्तस्थो भूयो न जायत इति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥२३॥

विश्वनाथः : एतज्-ज्ञान-फलम् आह य इति । पुरुषं परमात्मानं प्रकृतिं माया-शक्तिं । च-काराज् जीव-शक्तिं च । सर्वथा वर्तमानो ऽपि लय-विक्षेपादि-पराभूतो ऽपि ॥२३॥

बलदेवः : एतज्-ज्ञान-फलम् आह य इति । एवं मद्-उक्त-विधया मिथो विविक्ततया यः पुरुषं महेश्वर-प्रकृतिं च जीवं च वेत्ति ! सर्वथा व्यवहार-सम्पर्केण वर्तमानो ऽपि भूयो नाभिजायते देहान्ते विमुच्यत इत्य् अर्थः ॥२३॥


१३।२४

ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना ।
अन्ये साङ्ख्येन योगेन कर्म-योगेन चापरे ॥२४॥

श्रीधरः : एवम्भूत-विविक्तात्म-ज्ञान-साधन-विकल्पान् आह ध्यानेनेति द्वाभ्याम् । ध्यानेनात्माकारप्रत्ययावृत्त्या । आत्मनि देह एव आत्मना मनसा एवम् आत्मानं केचित् पश्यन्ति । अन्ये तु साङ्ख्येन प्रकृति-पुरुष-वैलक्षण्यालोचनेन योगेनाष्टाङ्गेन । अपरे च कर्म-योगेन । पश्यन्तीति सर्वत्रानुषङ्गः । एतेषां च ध्यानादीनां यथा-योग्यं क्रम-समुच्चये सत्य् अपि तत्-तन्-निष्ठा-भेदाभिप्रायेण विकल्पोक्तिः ॥२४॥

मधुसूदनः : अत्रात्म-दर्शने साधन-विकल्पा इमे कथ्यन्ते ध्यानेनेति । इह हि चतुर्विधा जनाः, केचिद् उत्तमाः केचिन् मध्यमाः केचिन् मन्दाः केचिन् मन्दतरा इति । तत्रोत्तमानाम् आत्म-ज्ञान-साधनम् आह । ध्यानेन विजातीय-प्रत्ययानन्तरितेन सजातीय-प्रत्यय-प्रवाहेण श्रवण-मनन-फल-भूतेनात्म-चिन्तनेन निदिध्यासन-शब्देनोदितेनात्मनि बुद्धौ पश्यन्ति साक्षात्कुर्वन्ति आत्मानं प्रत्यक्-चेतनम् आत्मना ध्यान-संस्कृतेनान्तः-करणेन केचिद् उत्तमा योगिनः ।

मध्यमानाम् आत्म-ज्ञान-साधनम् आह – अन्ये मध्यमाः साङ्ख्येन योगेन निदिध्यासन-पूर्व-भाविना श्रवण-मनन-रूपेण नित्यानित्य-विवेकादि-पूर्वकेणेमे गुण-त्रय-परिणामा अनात्मनः सर्वे मिथ्या-भूतास् तत्-साक्षि-भूतो नित्यो विभुर् निर्विकारः सत्यः समस्त-जड-सम्बन्ध-शून्य आत्माहम् इत्य् एवं वेदान्त-वाक्य-विचार-जन्येन चिन्तनेन पश्यन्ति आत्मानम् आत्मनिति वर्तते । ध्यानेनोत्पत्ति-द्वारेणेत्य् अर्थः ।

मन्दानाम् ज्ञान-साधनम् आह – कर्म-योगेनेश्वरार्पण-बुद्ध्या क्रियमाणेन फलाभिसन्धि-रहितेन तत्-तद्-वर्णाश्रमोचितेन वेद-विहितेन कर्म-कलापेन चापरे मन्दाः पश्यन्ति आत्मानम् आत्मनिति वर्तते । सत्त्व-शुद्ध्या श्रवण-मनन-ध्यानोत्पत्ति-द्वारेणेत्य् अर्थः ॥२४॥

विश्वनाथः : अत्र साधन-विकल्पम् आह ध्यानेति द्वाभ्याम् । केचिद् भक्ता ध्यानेन भगवच्-चिन्तनेनैव । भक्त्या माम् अभिजानाति [गीता १८।५५] इत्य् अग्रिमोक्तेर् आत्मनि मन्स्य् आत्मना स्वयम् एव न त्व् अन्येन केनाप्य् उपकारेकेणेत्य् अर्थः । अन्ये ज्ञानिनः साङ्ख्यम् आत्मानात्म-विवेकस् तेन । अपरे योगिनो योगेनाष्टाङ्गेन कर्म-योगेन निष्काम-कर्मणा च । अत्र साङ्ख्याष्टाङ्ग-योग-निष्काम-कर्म-योगाः परमात्म-दर्शने परस्परयैव हेतवो न तु साक्षाद् धेतवस् तेषां सात्त्विकत्वात् परमात्मनस् तु गुणातीतत्वात् । किं च ज्ञानं च मयि सन्न्यसेत् [भ्प् ११।१९।१] इति भगवद्-उक्तेर् ज्ञानादि-सन्न्यासानन्तरम् एव भक्त्याहम् एकया ग्राह्यः [भ्प् ११।१४।११] इत्य् उक्तेर् ज्ञानं विमुच्य तया भक्त्यैव पश्यन्ति ॥२४॥

बलदेवः : महेश्वरस्य प्राप्तौ साधन-विकल्पान् आह ध्यानेनेति द्वाभ्याम् । केचिद् विशुद्ध-चित्ता आत्मनि मनसि स्थितम् आत्मानं महेश्वरं मां ध्यानेनोपसर्जनी-भूत-ज्ञानेन पश्यन्ति साक्षात् कुर्वन्त्य् आत्मना स्वयम् एव, न त्व् अन्येनोपकारकेण । अन्ये साङ्ख्येनोपसर्जनी-भूत-ध्यानेन ज्ञानेन पश्यन्ति । अन्य-योगेनोपसर्जनी-भूत-ज्ञानेनाष्टाङ्गेन पश्यन्ति । अपरे तु कर्म-योगेनान्तर्गत-ध्यान-ज्ञानेन निष्कामेण कर्मणा ॥२४॥


१३।२५

अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते ।
ते ऽपि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥२५॥

श्रीधरः : अति-मन्दाधिकारिणां निस्तारोपायम् आह अन्य इति । अन्ये तु साङ्ख्य-योगादि-मार्गेण एवम्भूतम् उपद्रष्टृत्वादि-लक्षणम् आत्मानम् साक्षात्कर्तुम् अजानन्तो ऽन्येभ्य आचार्येभ्य उपदेशतः श्रुत्वा उपासन्ते ध्यायन्ति । ते ऽपि च श्रद्धयोपदेश-श्रवण-परायणाः सन्तो मृत्युं संसारं शनैर् अतितरन्त्य् एव ॥२५॥

मधुसूदनः : मन्दतराणां ज्ञान-साधनम् आह अन्य इति । अन्ये तु मन्दतराः । तु-शब्दः पूर्व-श्लोकोक्त-त्रिविधाधिकारि-वैलक्षण्य-द्योतनार्थः । एषूपायेष्व् अन्यतरेणाप्य् एवं यथोक्तम् आत्मानम् अजानन्तो ऽन्येभ्यः कारुणिकेभ्य आचार्येभ्यः श्रुत्वा “इदम् एव चिन्तयत” इत्य् उक्ता उपासते श्रद्दधानाः सन्तश् चिन्तयन्ति । ते ऽपि चातितरन्त्य् एव मृत्युम् संसारम् श्रुति-परायणाः स्वयं विचारासमर्था अपि श्रद्दधानतया गुरूपदेश-श्रवण-मात्र-परायणाः । ते ऽपीत्य् अपि-शब्दाद्ये स्वयं विचार-समर्थास् ते मृत्युम् अतितरन्तीति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥२५॥

विश्वनाथः : अन्ये इतस् ततः कथा-श्रोतारः ॥२५॥

बलदेवः : अन्ये त्व् एवम् ईदृशानुपायान् अजानन्तः श्रुति-परायणास् तत्-तत्-कथा-श्रवणादि-निष्ठाः साम्प्रतिका अन्येभ्यस् तद्-वक्तृभ्यस् तान् उपायान् श्रुत्वा तं महेश्वरम् उपासते । ते ऽपि चात् त-सङ्गिनश् च क्रमेण तान् उपलभ्यानुष्ठाय च मृत्युम् अतितरन्त्य् एवेति तत्-कथा-श्रुति-महिमातिशयो दर्शितः ॥२५॥


१३।२६

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् ।
क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥२६॥

श्रीधरः : अथ कर्म-योगस्य तृतीय-चतुर्थ-पञ्चमेषु प्रपञ्चितत्वाद् ध्यान-योगस्य च षष्ठाष्ठमयोः प्रपञ्चितत्वाद् ध्यानादेश् च साङ्ख्य-विविक्तात्म-विषयत्वात् साङ्ख्यम् एव प्रपञ्चयन्न् आह यावद् इत्य् आदि यावद् अध्यायान्तम् । यावत् किञ्चित् वस्तु-मात्रं सत्त्वम् उत्पद्यते तत् सर्वं क्षेत्र-क्षेत्रज्ञयोर् योगाद् अविवेक-कृत-तादात्म्याध्यासाद् भवतीति जानीहि ॥२६॥

मधुसूदनः : संसारस्याविद्यकत्वाद् विद्यया मोक्ष उपपद्यत इत्य् एतस्यार्थस्यावधारणाय संसार-तन्-निवर्तक-ज्ञानयोः प्रपञ्चः क्रियते यावद् अध्याय-समाप्ति । तत्र कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मस्व् [गीता १३।२१] इत्य् एतत् प्राग् उक्तं विवृणोति यावद् इति । यावत् किम् अपि सत्त्वं वस्तु सञ्जायते स्थावरं जङ्गमं वा तत् सर्वं क्षेत्र-क्षेत्रज्ञ-संयोगाद् अविद्या-तत्-कार्यात्मकं जडम् अनिर्वचनीयं सद्-असत्त्वं दृश्य-जातं क्षेत्रं तद्-विलक्षणं तद्-भासकं स्व-प्रकाश-परमार्थ-सच्-चैतन्यम् असङ्गोदासीनं निर्धर्मकम् अद्वितीयं क्षेत्रज्ञं तयोः संयोगो माया-वशा इतरेतराविवेक-निमित्तो मिथ्या-तादात्म्याध्यासः सत्यानृत-मिथुनीकरणात्मकः । तस्माद् एव सञ्जायते तत् सर्वं कार्य-जातम् इति विद्धि हे भरतर्षभ । अतः स्वरूपाज्ञान-निबन्धनः
संसारः स्वरूप-ज्ञानाद् विनंष्टुम् अर्हति स्वप्नादिवद् इत्य् अभिप्रायः ॥२६॥

विश्वनाथः : उक्तम् एवार्थं प्रपञ्चयति यावद् अध्याय-समाप्ति । यावद् इति यत्-प्रमाणकं निकृष्टम् उत्कृष्टं वा । सत्त्वं प्राणि-मात्रम् ॥२६॥

बलदेवः : अथानादि-संयुक्तयोः प्रकृति-जीवयोर् योगानुसन्धानाय तयोः संयोगेन सृष्टिं तावद् आह यावद् इति । स्थावर-जङ्गमं किञ्चित् सत्त्वं प्राणि-जातं यावद् यत्-प्रमाणकम् उत्कृष्टम् अपकृष्टं च सञ्जायते तत् क्षेत्र-क्षेत्रज्ञ-संयोगाद् विद्धि । क्षेत्रेण प्रकृत्या सह क्षेत्रज्ञयोः सम्बन्धाज् जानीहीत्य् अर्थः । ईश्वरः प्रकृति-जीवौ नियमयन् प्रवर्तयति, तौ तु मिथः सम्बध्नीत । ततो देहोत्पत्ति-द्वारा प्राणि-सृष्टिर् इत्य् अर्थः ॥२६॥


१३।२७

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥२७॥

श्रीधरः : अविवेक-कृतं संसारोद्भवम् उक्त्वा तन्-निवृत्तये विव्क्तात्म-विषयं सम्यग्-दर्शनम् आह समम् इति । स्थावर-जङ्गमात्मकेषु भूतेषु निर्विशेषं सद्-रूपेण समं यथा भवत्य् एवं तिष्ठन्तं परमात्मानं यः पश्यति अतएव तेषु विनश्यत्स्व् अपि अविनश्यन्तं यः पश्यति स एव सम्यक् पश्यति ॥२७॥

मधुसूदनः : एवं संसारम् अविद्यात्मकम् उक्त्वा तन् निवर्तक-विद्या-कथनाय य एवं वेत्ति पुरुषम् इति प्राग् उक्तं विवृणोति समम् इति । सर्वेषु भूतेषु भवन-धर्मकेषु स्थावर-जङ्गमात्मकेषु प्राणिषु अनेक-विध-जन्मादि-परिणाम-शीलतया गुण-प्रधान-भावापत्त्या च विषमेषु अतएव चञ्चलेषु प्रतिक्षण-परिणामिनो हि भावा नापरिणम्य क्षणम् अपि स्थातुम् ईशते । अत एव परस्पर-बाध्य-बाधक-भावापन्नेषु एवम् अपि विनश्यत्सु दृष्ट-नष्ट-स्वभावेषु माया-गन्धर्व-नगरादि-प्रायेषु समं सर्वत्रैक-रूपं प्रतिदेहम् एकं जन्मादि-परिणाम-शून्यतया च तिष्ठन्तम् अपरिणममानं परमेश्वरं सर्व-जड-वर्ग-सत्ता-स्फूर्ति-प्रदत्वेन बाध्य-बाधक-भाव-शून्यं सर्वदोपानास्कन्दितम् अविनश्यन्तं दृष्ट-नष्ट-प्राय-सर्व-द्वैत-बाधे
ऽप्य् अबाधितम् । एवं सर्व-प्रकारेण जड-प्रपञ्च-विलक्षणम् आत्मानं विवेकेन यः शास्त्र-चक्षुषा पश्यति स एव पश्यत्य् आत्मानं जाग्रद्-बोधेन स्वप्न-भ्रमं बाधमान इव ।

अज्ञस् तु स्वप्न-दर्शीव भ्रान्त्या विपरीतं पश्यन् न पश्यत्य् एव । अदर्शनात्मकत्वाद् भ्रमस्य । न हि रज्जुं सर्पतया पश्यन् पश्यतीति व्यपदिश्यते । रज्ज्व्-अदर्शनात्मकत्वात् सर्प-दर्शनस्य । एवम्-भूतान्य् आनुपरक्त-शुद्धात्म-दर्शनात् तद्-दर्शर्नात्मिकाया अविद्याया निवृत्तिस् ततस् तत्-कार्य-संसार-निवृत्तिर् इत्य् अभिप्रायः । अत्रात्मानम् इति विशेष्य-लाभो विशेषण-मर्यादया । परमेश्वरम् इत्य् एव वा विशेष्य-पदम् । विषमत्व-चञ्चलत्व-बाध्य-बाधक-रूपत्व-लक्षणं जड-गतं वैधर्म्यं समत्व-तिष्ठत्त्व-परमेश्वरत्व-रूपात्म-विशेषण-वशाद् अर्थात् प्राप्तम् अन्यत् कण्ठोक्तम् इति विवेकः ॥२७॥

विश्वनाथः : परमात्मानं त्व् एवं जानीयाद् इत्य् आह समम् इति । विनश्यत्स्व् अपि देहेषु यः पश्यति, स एव ज्ञानीत्य् अर्थः ॥२७॥

बलदेवः : अथ प्रकृतौ तत्-संयुक्तेषु च जीवेषु स्थितम् अपीश्वरं तेभ्यो विविक्तं पश्येद् इत्य् आह समम् इति । यस् त्व् अतत्त्ववित् प्रसङ्गी सर्वेषु स्थावर-जङ्गम-देहवत्सु भूतेषु जीवेषु समम् एकरसं यथा स्यात् तथा तिष्ठन्तं परमेश्वरं विनश्यत्सु तत्-तद्-देह-विमर्देन विनाशं गच्छत्सु तेष्व् अविनश्यन्तं तद्-वैक्षणं पश्यति स एव पश्यति तद्-याथात्म्य-दर्शी भवति । तथा च वैविध्य-विनाश-धर्मिभ्यः प्रकृति-संयोगिभ्यो जीवेभ्य ऐकरस्याविनाश-धर्मा परेशो विविक्त इति ॥२७॥


१३।२८

समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ।
न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥२८॥

श्रीधरः : कुत इति । अत आह समम् इति । सर्वत्र भूतमात्रे समं सम्यग् अप्रच्युत-स्वरूपेणावस्थितं परमात्मानं पश्यन् । हि यस्माद् आत्मना स्वेनैवात्मानं न हिनस्ति । अविद्यया सच्-चिद्-आनन्द-रूपम् आत्मानं तिरस्कृत्य न विनाशयति । ततश् च परां गतिं मोक्षं प्राप्नोति । यत् त्व् एवं न पश्यति स हि देहात्म-दर्शी देहेन सहात्मानं हिनस्ति । तथा च श्रुतिः -

असूर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशउ ३] इति ॥२८।

मधुसूदनः : तद् एतद् आत्म-दर्शनं फलेन स्तौति रुच्य्-उत्पत्तये समम् इति । समवस्थितं जन्मादि-विनाशान्त-भाव-विकार-शून्यतया सम्यक्तयावस्थित-विनाशित्व-लाभः । अन्यत् प्राग् व्याख्यातम् । एवं पूर्वोक्त-विशेषणम् आत्मानं पश्यन्न् अयम् अहम् अस्मीति शास्त्र-दृष्ट्या साक्षात्कुर्वन् न हिनस्त्य् आत्मनात्मानम् । सर्वो ह्य् अज्ञः परमार्थ-सन्तम् एकम् अकर्त्र्-अभोक्तृ-परमानन्द-रूपम् आत्मानम् अविद्यया सति भात्य् अपि वस्तुनि नास्ति न भातीति प्रतीति-जनन-समर्थया स्वयम् एव तिरस्कुर्वन्न् असन्तम् इव करोतीति हिनस्त्य् एव तम् । तथाविद्ययात्मत्वेन परित्गृहीतं देहेन्द्रिय-सङ्घातम् आत्मानं पुरातनं हत्वा नवम् आदत्ते कर्म-वशाद् इति हिनस्त्य् एव तम् । अत उभयथाप्य् आत्महैव सर्वो ऽप्य् अज्ञः । यम् अधिकृत्येयं शकुन्तला-वचन-रूपा स्मृतिः -

 किं तेन न कृतं पापं चोरेणात्मापहारिणा ।  
 यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते ॥ इति ।  

श्रुतिश् च -

असूर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशउ ३] इति

असूर्या असुरस्य स्व-भूता आसुर्या सम्पदा भोग्या इत्य् अर्थः । आत्म-हन इत्य् अनात्मन्य् आत्माभिमानिन इत्य् अर्थः । अतो य आत्मज्ञः सो ऽनात्मन्य् आत्माभिमानं शुद्धात्म-दर्शनेन बाधते । अतः स्वरूप-लाभाच् च हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् । तत आत्म-हननाभावाद् अविद्या-तत्-कार्य-निवृत्ति-लक्षणां मुक्तिम् अधिगच्छतीत्य् अर्थः ॥२८।

विश्वनाथः : आत्मना मनसा कुपथ-गामिना आत्मानं जीवं न हिनस्ति नाधः-पातयति ॥२८॥

बलदेवः : अथोक्त-विषया तेभ्यो विविक्तम् ईश्वरं पश्यन् तद्-दर्शन-महिम्ना च प्रकृति-विकारेभ्यः स्व-विवेकं च लभत इत्य् आशयेनाह समं पश्यन् हीति । सर्वत्र भूतेषु समं यथा भवत्य् एवं सम्यग्-अप्रच्युत-स्वरूप-गुणतयावस्थितम् ईश्वरं पश्यन्न् आत्मानं स्वम् आत्मना प्रकृति-विकार-विवेक-ग्राहिणा विषय-रस-गृध्नुना मनसा न हिनस्ति नाधःपातयति, स तद्-रस-विरक्तेन तेन पराम् उत्कृष्टां गतिं तद्-विकारेभ्यः स्वैवेक-ख्यातिं याति ॥२८॥


१३।२९

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥२९॥

श्रीधरः : ननु शुभाशुभ-कर्म-कर्तृत्वेन वैषम्ये दृश्यमाने कथम् आत्मनः समत्वम् इत्य् आशङ्क्याह प्रकृत्यैवेति । प्रकृत्यैव देहेन्द्रियाकारेण परिणतया । सर्वशः प्रकारैः । क्रियमाणानि कर्माणि यः पश्यति । तथात्मानं चाकर्तारं देहाभिमानेनैव आत्मनः कर्तृत्वं न स्वतः । इत्य् एवं यः पश्यति स एव सम्यक् पश्यति । नान्य इत्य् अर्थः ।

मधुसूदनः : ननु शुभाशुभ-कर्म-कर्तारः प्रतिदेहं भिन्ना आत्मनो विषमाश् च तत्-तद्-विचित्र-फल-भोक्तृत्वेनेति कथं सर्व-भूत-स्थम् एकम् आत्मानं समं पश्यन् न हिनस्त्य् आत्मनात्मानम् इत्य् उक्तम् अत आह प्रकृत्यैवेति । कर्माणि वाङ्-मनः-कायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रिय-सङ्घाताकार-परिणतया सर्व-विकार-कारण-भूतया त्रिगुणात्मिकया भगवन्-माययैव क्रियमाणानि न तु पुरुषेण सर्व-विकार-शून्येन यो विवेकी पश्यति, एवं क्षेत्रेण क्रियमाणेष्व् अपि कर्मसु आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधि-विवर्जितम् असङ्गम् एकं सर्वत्र समं यः पश्यति, तथा-शब्दः पश्यतीति-क्रिया-कर्षणार्थः, स पश्यति स परमार्थ-दर्शीति पूर्ववत् । स-विकारस्य क्षेत्रस्य तत्-तद्-विचित्र-कर्म-कर्तृत्वेन प्रति-देहं
भेदे ऽपि वैषम्ये ऽपि न निर्विशेषस्याकर्तुर् आकाशस्येव न भेदे प्रमाणं किञ्चिद् आत्मन इत्य् उपपादितं प्राक् ॥२९॥

विश्वनाथः : प्रकृत्यैव देहेन्द्रियाद्याकारेण परिणतया सर्वशः सर्वाण्य् आत्मानं जीवं देहाभिमानेनैव आत्मनः कर्तृत्वम्, न तु स्वतः । इत्य् एवं यः पश्यतीत्य् अर्थः ॥२९॥

बलदेवः : प्रकृतेः स्व-विवेकं कथं यातीत्य् अपेक्षायां तत्र प्रकारम् आह - प्रकृत्यैवेति द्वाभ्याम् । यः सर्वाणि कर्माणि प्रकृत्यैव चान् मद्-अधिष्ठितयेश्वर-प्रेरितया क्रियमाणानि पश्यति, तथात्मानं तेषां कर्मणाम् अकर्तारं पश्यति, स एव पश्यति स्व-याथाट्म्य-दर्शी भवति । अयम् अर्थः न खलु विज्ञानानन्द-स्वभावो ऽहं युद्ध-यज्ञादीनि दुःख-मयानि कर्माणि करोमि, किन्त्व् अनादिभोगवासनेनाविवेकिना मयाधिष्ठिता मद्-भोग-सिद्धये मद्-देहादि-द्वारा तानि करोतीति तद्-धेतुकत्वात् सैव तत्-कर्तृईति करम्-कारिण्याः प्रकृतेस् तद्-अकर्ता शुद्धो जीवो विविक्तः । शुद्धस्यापि कर्तृत्वं तु पश्यतीत्य् अनेन व्यक्तम् इति ॥


१३।३०

यदा भूत-पृथग्-भावम् एकस्थम् अनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥३०॥

श्रीधरः : इदानीं तु भूतानाम् अपि प्रकृतिस् तावन्-मात्रत्वेनाभेदाद् भूत-भेद-कृतम् अप्य् आत्मनो भेदम् अपश्यन् ब्रह्मत्वम् उपैतीत्य् आह यदेति । यदा भूतानां स्थावर-जङ्गमानां पृथग्-भावं भेदं पृथक्त्वम् एकस्थम् एकस्याम् एवेश्र-शक्ति-रूपायां प्रकृतौ प्रलये स्थितम् अनुपश्यति आलोचयति । अतएव तस्या एव प्रकृतेः सकाशाद् भूतानां विस्तारं सृष्टि-समये ऽनुपश्यति । तदा प्रकृति-तावन्-मात्रत्वेन भूतानाम् अप्य् अभेदं पश्यन् परिपूर्णं ब्रह्म सम्पद्यते । ब्रह्मैव भवतीत्य् अर्थः ॥३०॥

मधुसूदनः : तद् एवम् आपाततः क्षेत्र-भेद-दर्शनम् अनभ्यनुज्ञाय क्षेत्र-भेद-दर्शनम् अपाकृतम् इदानीं तु क्षेत्र-भेद-दर्शनम् अपि मायिकत्वेनापाकरोति यदेति । यदा यस्मिन् काले भूतानां स्थावर-जङ्गमानां सर्वेषाम् अपि जड-वर्गाणां पृथग्-भावं पृथक्त्वम् परस्पर-भिन्नत्वम् एक-स्थम् एकस्मिन्न् एवात्मनि सद्-रूपे स्थितं कल्पितं कल्पितस्याधिष्ठानाद् अनतिरेकात् सद्-रूपात्म-स्वरूपाद् अनतिरिक्तम् अनुपश्यति शास्त्राचार्योपदेशम् अनु स्वयम् आलोचयति आत्मैवेदं सर्वम् [छाउ ७।२५।२] इति । एवम् अपि मायाव्-वशात् तत एकस्माद् आत्मन एव विस्तारं भूतानां पृथग्-भावं च स्वप्न-मायावद् अनुपश्यति ब्रह्म सम्पद्यते तदा सजातीय-विजातीय-भेद-दर्शनाभावाद् ब्रह्मैव सर्वानर्थ-शून्यं भवति तस्मिन् काले ।

यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ॥ [ईशउ ७] इति श्रुतेः ।

प्रकृत्यैव चेत्य् अत्रात्म-भेदो निराकृतः । यदा भूत-पृथग्-भावम् इत्य् अत्र त्व् अनात्म-भेदो ऽपीति विशेषः ॥३०॥

विश्वनाथः : यदा भूतानां स्थावर-जङ्गमानां पृथग्-भावं तत्-तद्-आकार-गतं पार्थक्यम् एकस्थम् एकस्यां प्रकृताव् एव स्थितं प्रलय-काले अनुपश्यत्य् आलोचयति । ततः प्रकृतेः सकाशाद् एव भूतानां विस्तारं सृष्टि-समये ऽनुपश्यति तदा ब्रह्म सम्पद्यते ब्रह्मैव भवतीत्य् अर्थः ॥३०॥

बलदेवः : यदेति । अयं जीवो यदा भूतानां देव-मानवादीनां पृथग्-भावं तत्-तद्-आकार-गतं देवत्व-मानवत्व-दीर्घत्व-ह्रस्वत्वादि-रूप-पार्थक्यम् एकस्थं प्रकृति-गतम् एव प्रलये ऽनुपश्यति ततः प्रकृतित एव सर्गे तेषां देवत्वादीनां विस्तारं च पश्यति, न त्व् आत्मस्थं तत् पृथग्-भावं न चाट्मनस् तद्-विस्तारं च पश्यति । स्व-प्रकृति-विविक्तात्म-दर्शी । तदा तद् ब्रह्म सम्पद्यते तद्-विविक्तम् अभिव्यक्तापहत-पाप्मत्वादि-बृहद्-गुणाष्टकम् स्वम् अनुभवतीत्य् अर्थः ॥३०॥


१३।३१

अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः ।
शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते ॥३१॥

श्रीधरः : तथापि परमेश्वरस्य संसारावस्थायां देह-सम्बन्ध-निमित्तैः कर्मभिस् तत्-फलैश् च सुख-दुःखादिभिर् वैषम्यं दुष्परिहरम् इति कुतः सम-दर्शनं । तत्राह अनादित्वाद् इति । यद् उत्पत्तिमत् तद् एव हि व्येति विनाशम् एति । यच् च गुणवद् वस्तु तस्य हि गुण-नाशे व्ययो भवति । अयं तु परमात्मा अनादि निर्गुणश् च । अतो ऽव्ययो ऽविकारीत्य् अर्थः । तस्मात् शरीरे स्थितो ऽपि न किञ्चित् करोति । न च कर्म-फलैर् लिप्यते ॥३१॥

मधुसूदनः : आत्मनः स्वतो ऽकर्तृत्वे ऽपि शरीर-सम्बन्धोपाधिकं कर्तृत्वं स्याद् इत्य् आशङ्काम् अपनुदन् यः पश्यति तथात्मानम् अकर्तारं स पश्यतीत्य् एतद् विवृणोति अनादिर्वाद् इति । अयम् अपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यग्-आत्माव्ययो न व्येतीत्य् अव्ययः सर्व-विकार-शून्य इत्य् अर्थः । तत्र व्ययो द्वेधा धर्मि-स्वरूपस्यैवोत्पत्तिमत्तया वा धर्मि-स्वरूपस्यानुत्पाद्यत्वे ऽपि धर्माणाम् एवोत्पत्त्य्-आदिमत्तया वा । तत्राद्यम् अपाकरोति अनादित्वाद् इति । आदिः प्राग् असत्त्वावस्था । सा च नास्ति सर्वदा सत आत्मनः । अतस् तस्य कारणाभावाज् जन्माभावः । न ह्य् अनादेर् जन्म सम्भवति । तद्-अभावे च तद्-उत्तर-भाविनो भाव-विकारा न सम्भवन्त्य् एव । अतो न स्वरूपेण व्येतीत्य् अर्थः ।

द्वितीयं निराकरोति निर्गुणत्वाद् इति । निर्धर्मकत्वाद् इत्य् अर्थः । न हि धर्मिणम् अविकृत्य कश्चिद् धर्म उपैत्य् अपैति वा धर्म-धर्मिणोस् तादात्म्याद् अयं तु निर्धर्मको ऽतो न धर्म-द्वारापि व्येतीत्य् अर्थः । अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा [बउ ४।५।१४] इति श्रुतेः । यस्माद् एष जायते ऽस्ति वर्धते विपरिणमते ऽपक्षीयते विनश्यतीत्य् एवं षड्-भाव-विकार-शून्य आध्यासिकेन सम्बन्धेन शरीर-स्थो ऽपि तस्मिन् कुर्वत्य् अयम् आत्मा न करोति । यथाध्यासिकेन सम्बन्धेन जल-स्थः सविता तस्मिंश् चलत्य् अपि न चलत्य् एव तद्वत् । यतो न लिप्यते न त्व् अयम् अकर्तृत्वाद् इत्य् अर्थः । इच्छा द्वेषः सुखं दुःखम् इत्य् आदीनां क्षेत्र-धर्मत्व-कथनात् । प्रकृत्यैव च कर्माणि क्रियमाणानीति माया-कार्यत्व-व्यपदेशाच् च । अतएव परमार्थ-दर्शिनां सर्व-कर्माधिकार-निवृत्तिर् इति
प्राग्-व्याख्यातम् । एतेनात्मनो निर्धर्मकत्व-कथनात् स्वगत-भेदो ऽपि निरस्तः । प्रकृत्यैव च कर्माणि [गीता १३।२९] इत्य् अत्र सजातीय-भेदो निवारितः । यदा भूत-पृथग्-भावम् [गीता १३।३०] इत्य् अत्र विजातीय-भेदः । अनादित्वान् निर्गुणत्वाद् [गीता १३।३१] इत्य् अत्र स्वगतो भेद इत्य् अद्वितीयं ब्रह्मैवात्मेति सिद्धम् ॥३१॥

विश्वनाथः : ननु कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तम् । तत्र देह-गतत्वेन तुल्यत्वे ऽपि जीवात्मैव गुण-लिप्तः संसरति न तु परमात्मेति । कुत इत्य् अत आह अनादित्वाद् इति । न विद्यते आदिः कारणं यतः स अनादिः । यथा पञ्चम्य्-अन्त-पदार्थेनानुत्तम-शब्देन परमोत्तम उच्यते तथैव अनादि-शब्देन परम-कारणम् उच्यते । ततश् चानादित्वात् परम-कारणत्वात् निर्गुणत्वान् निर्गता गुणः सृष्ट्यादयो यतस् तस्य भावस् तत्त्वं तस्माच् च जीवात्मनो विलक्षणो ऽयं परमात्मा । अव्ययः सर्वदैव सर्वथैव स्वीय-ज्ञानानन्दादि-व्यय-रहितः । शरीर-स्थो ऽपि तद्-धर्माग्रहणात् न करोति जीववत् न कर्ता, न भोक्ता भवति, न च लिप्यते शरीर-गुण-लिप्तश् च न भवति ॥३१॥

बलदेवः : ननु परेशम् आत्मानं च विविक्तं पश्यति कृतार्थो भवतीत्य् उक्तिर् अयुक्ता एतेभ्य एव भूतेभ्यः समुत्थाय तान्य् एवानु विनश्यति न प्रेत्य् असञ्ज्ञास्ति इति जीवस्य देहेन सहोत्पत्ति-विनाश-श्रवणाद् इति चेत् तत्राह अनादित्वाद् इति । अयम् आत्मा जीवः शरीरस्थो ऽप्य् अनादित्वात् परम्-अव्ययो ऽव्ययत्व-प्रधान-धर्मत्वाद् विनाश-शून्यो निर्गुणत्वाद् विशुद्ध-ज्ञानानन्दत्वान् न युद्ध-यज्ञादि-कर्म करोति । अतः शरीरेन्द्रिय-स्वभावेनोत्पत्ति-विनाश-लक्षणेन न लिप्यते । श्रुत्य्-अर्थस् त्व् औपचारिकतया नेयः ॥३१॥


१३।३२

यथा सर्व-गतं सौक्ष्म्याद् आकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥३२॥

श्रीधरः : तत्र हेतुं स-दृष्टान्तम् आह यथेति । यथा सर्व-गतं पङ्कादिष्व् अपि स्थितम् आकाशं सौक्ष्म्याद् असङ्गत्वात् पङ्कादिभिर् नोपलिप्यते तथा सर्वत्र उत्तमे मध्यमे अधमे वा देहे ऽवस्थितो ऽपि आत्मा नोपलिप्यते ॥३२॥

मधुसूदनः : शरीर-स्थो ऽपि तत्-कर्मणा न लिप्यते स्वयम् असङ्गत्वाद् इत्य् अत्र दृष्टान्तम् आह यथेति । सौक्ष्म्याद् असङ्ग-स्वभावत्वाद् आकाशं सर्व-गतम् अपि नोपलिप्यते पङ्कादिभिर् यथेति दृष्टान्तार्थः । स्पष्टम् इतरत् ॥३२॥

विश्वनाथः : अथ दृष्टान्तम् आह यथा सर्वत्र पङ्कादिष्व् अपि स्थितम् अप्य् आकाशं सौक्ष्म्याद् असङ्गत्वात् पङ्कादिभिर् न लिप्यते, तथैव परमात्मा दैहिकैर् गुणैर् दोषैश् च न युज्यत इत्य् अर्थः ॥३२॥

बलदेवः : ननु शरीरे स्थितस् तद्-धर्मैः कुतो न लिप्यते इत्य् अत्राह यथेति । यथा सर्वत्र पङ्कादौ गतं प्रविष्टम् अप्य् आकाशं सौक्ष्म्यात् तत्-तद्-धर्मैर् न लिप्यते, तथात्मा जीवः सर्वत्र देव-मानवादाव् उच्चावचे देहे स्थितो ऽपि तद्-धर्मैर् न लिप्यते सौक्ष्म्याद् एव ॥३२॥


१३।३३

यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥३३॥

श्रीधरः : असङ्गत्वाल् लेपो नास्तीत्य् आकाश-दृष्टान्तेन दर्शितम् । प्रकाशकत्वाच् च प्रकाश्य-धर्मैर् न युज्यत इति रवि-दृष्टान्तेनाह यथा प्रकाशयतीति । स्पष्टो ऽर्थः ॥

मधुसूदनः : न केवलम् असङ्ग-स्वभावाद् आत्मा नोपलिप्यते प्रकाशकत्वाद् अपि पर्काश्य-धर्मैर् न लिप्यते इति स-दृष्टान्तम् आह यथेति । यथा रविर् एक एव कृत्स्नं सर्वम् इमं लोकं देहेन्द्रिय-सङ्घातं रूपवद् वस्तु-मात्रम् इति यावत् प्रकाशयति न च प्रकाश्य-धर्मैर् लिप्यते न वा प्रकाश्य-भेदाद् भिद्यते तथा क्षेत्री क्षेत्रज्ञ एक एव कृत्स्नं क्षेत्रं प्रकाशयति । हे भारत ! अतएव न प्रकाश्य-धर्मैर् लिप्यते न वा प्रकाश्य-भेदाद् भिद्यत इत्य् अर्थः ।

सूर्यो यथा सर्व-लोकस्य चक्षुः
न लिप्यते चाक्षुषैर् बाह्य-दोषैः ।
एकस् तथा सर्व-भूतान्तरात्मा
न लिप्यते लोक-दुःखेन बाह्यः ॥ इति [कठु २।२।११] श्रुतेः ॥

विश्वनाथः : प्रकाशकत्वात् प्रकाश्य-धर्मैर् न युज्यत इति स-दृष्टान्तम् आह यथेति । रविर् यथा प्रकाशकः प्रकाश्य-धर्मैर् न युज्यते, तथा क्षेत्री परमात्मा ।

सूर्यो यथा सर्व-लोकस्य चक्षुर्
न लिप्यते चाक्षुषैर् बाह्य-दोषैः ।
एकस् तथा सर्व-भूतान्तरात्मा
न लिप्यते शोक-दुःखेन बाह्यः ॥ इति [कठु २।२।११] श्रुतेः ॥

बलदेवः : देह-धर्मेणालिप्त एवात्मा स्व-धर्मेण देहं पुष्णातीत्य् आह यथेति । यथैको रविर् इमं कृत्स्नं लोकं प्रकाशयति प्रभया तथैकः क्षेत्री जीवः कृत्स्नम् आपाद-मस्तकम् इदं क्षेत्रं देहं प्रकाशयति चेतयति चेतनयेत्य् एवम् आह गुणाद् वा लोकवद् [व्स् २।३।२६] इति ॥


१३।३४

क्षेत्र-क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा ।
भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ॥३४॥

श्रीधरः : अध्यायार्थम् उपसंहरति क्षेत्र-क्षेत्रज्ञयोर् इति । एवम् उक्त-प्रकारेण क्षेत्र-क्सेत्रज्ञयोर् अन्तरं भेदं विवेक-ज्ञान-लक्षणेन चक्षुषा ये विदुः तथा xएxअम् उक्ता भूतानां प्रकृतिस् तस्याः सकाशान् मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुः ते परं पदं यान्ति ॥३४॥

विविक्तौ येन तत्त्वेन मिश्रौ प्रकृति-पुरुषौ ।
तं वन्दे परमानन्दं नन्द-नन्दनम् ईश्वरम् ॥

इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
प्रकृति-पुरुष-विवेक-योगो नाम त्रयोदशो ऽध्यायः ॥१३॥

मधुसूदनः : इदानीम् अध्यायार्थं सफलम् उपसंहरति क्षेत्रेति । क्षेत्र-क्षेत्रज्ञयोर् प्राग्-व्याख्यातयोर् एवम् उक्तेन प्रकारेणान्तरम् परस्पर-वैलक्षण्यं जाड्य-चैतन्य-विकारित्व-निर्विकारित्वादि-रूपं ज्ञान-चक्षुषा शास्त्राचार्योपदेश-जनितात्म-ज्ञान-रूपेण चक्षुषा ये विदुर् भूत-प्रकृति-मोक्षं च भूतानां सर्वेषां प्रकृतिर् अविद्या मायाख्या तस्याः परमार्थात्म-विद्यया मोक्षम् अभाव-गमनं च ये विदुर् जानन्ति यान्ति ते परं परमार्थात्म-वस्तु-स्वरूपं कैवल्यम्, न पुनर् देहं आददत इत्य् अर्थः । तद् एवम् अमानित्वादि-साधन-निष्ठस्य क्षेत्र-क्षेत्रज्ञ-विवेक-विज्ञानवतः सर्वानर्थ-निवृत्त्या परम-पुरुषार्थ-सिद्धिर् इति सिद्धम् ॥३४॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् क्षेत्र-क्षेत्रज्ञ-विवेको नाम त्रयोदशो ऽध्यायः
॥१३॥

विश्वनाथः : अध्यायम् उपसंहरति क्षेत्रेण सह क्षेत्रज्ञयोर् जीवात्म-परमात्मनोर् अन्तरं भेदं तथा भूतानां प्राणिनां प्रकृतेः सकाशान् मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुस् ते परं पदं यान्ति ॥३४॥

द्वयोः क्षेत्रज्ञयोर् मध्ये जीवात्मा क्षेत्र-धर्म-भाक् ।
बध्यते मुच्यते ज्ञानाद् इत्य् अध्यायार्थ ईरितः ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोदशो ऽयं गीतासु सङ्गतः सङ्गतः सताम् ॥
॥१३॥

बलदेवः : अध्यायार्थम् उपसंहरन् तज्-ज्ञान-फलम् आह क्षेत्रेति । क्षेत्रेण सहितयोः क्षेत्रज्ञयोर् जीवेशयोर् एवं मद्-उक्ति-विधयान्तरं भेदं ज्ञान-चक्षुषा वैधर्म्य-विषयक-प्रज्ञा-नेत्रेण ये विदुस् तथाभूतानां प्रकृतेः सकाशान् मोक्षं च तत्-साधनम् अमानित्वादिकं ये विदुस् ते प्रकृतेः परं सर्वोत्कृष्टं पर-व्योमाख्यं मत्-पदं यान्तीति ॥३४॥

जीवेशौ देह-मध्यस्थौ तत्राद्यो देह-धर्म-युक् ।
बध्यते मुच्यते बोधाद् इति ज्ञानं त्रयोदशात् ॥

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये त्रयोदशो ऽध्यायः ॥१३॥


[*एन्द्नोते] अल्ल् थे वेर्सेस् क़ुओतेद् हेरे अरे फ़ोउन्द् इन् रामानुज ऽस् चोम्मेन्तर्य्।

भगवद्-गीता - त्रयोदशो ऽध्यायः