12

१२।१

अर्जुन उवाच
एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते ।
ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥१॥

श्रीधरः -
निर्गुणोपासनस्यैवं स-गुणोपासनस्य च ।
श्रेयः कतरद् इत्य् एतन् निर्णेतुं द्वादशोद्यमः ॥

पूर्वाध्यायान्ते मत्-कर्म-कृन् मत्-परम [गीता ११।५५] इत्य् एवं भक्ति-निष्ठस्य श्रेष्ठत्वम् उक्तम् । कौन्तेय प्रतिजानीहीत्य् [गीता ९।३१] आदिना च तत्र तत्र तस्यैव श्रेष्ठत्वं निर्णीतम् । तथा तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यत [गीता ७।१७] इत्य् आदिना सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि [गीता ४।३६] इत्य् आदिना च ज्ञान-निष्ठस्य श्रेष्ठत्वम् उक्तम् । एवम् उभयोः श्रैष्ठ्ये ऽपि विशेष-जिज्ञासया श्री-भगवन्तं प्रत्य् अर्जुन उवाच एवम् इति । एवं सर्व-कर्मार्पणादिना सतत-युक्तास् त्वन्-निष्ठाः सन्तो ये भक्तास् त्वां विश्व-रूपं सर्वज्ञं सर्व-शक्तिं पर्युपासते ध्यायन्ति । ये चाप्य् अक्षरं ब्रह्माव्यक्तं निर्विशेषम् उपासते । तेषाम् उभयेषां मध्ये के ऽतिशयेन योग-विदो ऽतिश्रेष्ठा इत्य् अर्थः ॥१॥

मधुसूदनः - पूर्वाध्यायान्ते -

मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥ [गीता ११।५५] इत्य् उक्तम् ।

तत्र मच्-छब्दार्थे सन्देहः किं निराकारम् एव सर्व-स्वरूपं वस्तु मद्-छब्देनोक्तं भगवता किं वा साकारम् इति । उभयत्रापि प्रयोग-दर्शनात् ।

बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ [गीता ७।१९]

इत्य् आदौ निराकारं वस्तु व्यपदिष्टम् । विश्व-रूप-दर्शनानन्तरं च -

नाहं वेदैर् न तपसा न दानेन न चेज्यया ।
शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥ [गीता ११।५३]

इति साकारं वस्तु । उभयोश् च भगवद्-उपदेशयोर् अधिकारि-भेदेनैव व्यवस्थया भवितव्यम् अन्यथा विरोधात् । तत्रैवं सति मया मुमुक्षुणा किं निराकारम् एव वस्तु चिन्तनीयं किं वा साकारम् इति स्वाधिकार-निश्चयाय स-गुण-निर्गुण-विद्ययोर् विशेष-बुभुत्सया अर्जुन उवाच एवम् इति ।

एवं मत्-कर्म-कृद् [गीता ११।५५] इत्य्-आद्य्-अनन्तरोक्त-प्रकारेण सतत-युक्ता नैरन्तर्येण भगवत्-कर्मादौ सावधानतया प्रवृत्ता भक्ताः साकार-वस्त्व्-एक-शरणाः सन्तस् त्वाम् एवं-विधं साकारं ये पर्युपासते सततं चिन्तयन्ति । ये चापि सर्वतो विरक्तास् त्यक्त-सर्व-कर्माणो ऽक्षरं न क्षरत्य् अश्नुते वेत्य् अक्षरम् एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् [बउ ३।८।९] इत्य् आदि-श्रुति-प्रतिषिद्ध-सर्वोपाधि निर्गुणं ब्रह्म । अतएवाव्यक्तं सर्व-करणागोचरं निराकारं त्वां पर्युपासते तेषाम् उभयेषां मध्ये के योग-वित्तमाः अतिशयेन योग-विदः । योगं समाधिं विन्दन्ति विदन्तीति वा योग-विद उभये ऽपि । तेषां मध्ये के श्रेष्ठा योगिनः केषां ज्ञानं मयानुसरणीयम् इत्य् अर्थः ॥१॥

विश्वनाथः —
द्वादशे सर्व-भक्तानां ज्ञानिभ्यः श्रैष्ठ्यम् उच्यते ।
भक्तेष्व् अपि प्रशस्यन्ते ये ऽद्वेषादि-गुणान्विताः ॥

भक्ति-प्रकरणस्योपक्रमे -

योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६।४७]

इति भक्तेः सर्वोत्कर्षो यथा श्रुतेः । तथैवोपसंहारे ऽपि तस्या एवं सर्वोत्कर्षं श्रोतु-कामः पृच्छति । एवं सतत-युक्ता मत्-कर्म-कृन् मत्-परमः [गीता ११।५५] इति त्वद्-उक्त-लक्षणा भक्तास् त्वां श्यामसुन्दराकारं ये च अव्यक्तं निर्विशेषम् अक्षरं एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् [बउ ३।८।९] इत्य् आदि-श्रुत्य्-उक्तं ब्रह्म उपासते । तेषाम् उभयेषां योग-विदां मध्ये के ऽतिशयेन योगविदश् च त्व-प्रान्तौ श्रेष्ठम् उपायं जानन्ति न लभन्ते वा । ते योग-वित्तरा इति वक्तव्ये योग-वित्तमा इत्य् उक्तिर् योग-वित्तराणाम् अपि बहूनां मध्ये के योगवित्तमा इत्य् अर्थं बोधयति ॥१॥

बलदेवः -
उपायेषु समस्तेषु शुद्धा भक्तिर् महा-बला ।
प्रापयेत् त्वरया यन् माम् इत्य् आह द्वादशे हरिः ॥

जीवात्मानं यथावज् ज्ञात्वा विज्ञाय च तद्-अंशी हरिर् ध्येय इति अविनाशि तु तद् विद्धि [गीता २।१७] इत्य् आदिभिर् द्वितीयादिष्व् एकः पन्था वर्णितः । जीवात्मानं हरेर् अंशं ज्ञात्वैव तद्-अंशी हरिस् तच्-छ्रवणादि-भक्तिभिर् ध्येय इति मय्य् आसक्त-मनाः पार्थ [गीता ७।१] इत्य् आदिभिः सप्तमादिषु द्वितीय-पन्थाः प्रदर्शितः । तेष्व् एव प्रयाण-काले [गीता ८।१०] इत्य् आदिना योगोपसृष्टा । ज्ञान-यज्ञेन चाप्य् अन्ये [गीता ९।१५] इत्य् अनेन ज्ञानोपसृष्टा च भक्तिर् उक्ता । भक्ति-षट्कात् प्राक् षष्ठान्ते केवलां भक्तिम् उपदेक्ष्यता योगिनाम् अपि सर्वेषां [गीता ६।४७] इत्य् आदि-पद्येन स्वैकान्तिनाम् युक्ततमतां चाभिहिता । तत्रार्जुनः पृच्छति एवम् इति । एवं मय्य् आसक्त-मनाः पार्थ [गीता ७।१] इत्य् आदि-त्वद्-उक्त-विधया सतत-युक्ता ये त्वां श्यामसुन्दरं कृष्णं
परितः कायादि-व्यापारैर् उपासते, ये चाक्षरं जीव-स्वरूपं चक्षुर्-आदिभिर् अव्यक्तं पर्युपासते धारणाध्यान-समाधिभिः साक्षात्-कर्तुम् ईहन्ते परमात्म-कामास् तेषाम् उभयेषां मध्ये योग-वित्तमाः शीघ्रोपायिनः के भवन्ति ? अयं भावः । स्वानुभव-पूर्वकस्य हरि-ध्यानस्य बन्ध-मूलत्वात् तेन निर्विघ्ना तत्-प्राप्तिर् इत्य् एके । नीरूपस्यातिसूक्ष्मस्य जीवात्मनो दुर्ध्यानत्वात् किं तद्-ध्यानेन ? किन्तु हरि-भक्तिर् एव सर्व-विघ्न-विमर्दिनी हरि-प्रापणीत्य् एके । तस्याम् एव निरतास् तेषाम् उभयेषाम् उपायेषु कः श्रेयान् उपाय इति तं भणेति ॥१॥


१२।२

श्री-भगवान् उवाच
मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥२॥

श्रीधरः - तत्र प्रथमाः श्रेष्ठा इत्य् उत्तरं श्री-भगवान् उवाच मयीति । मयि परमेश्वरे सर्वज्ञादि-गुण-विशिष्टे । मन आवेश्यैकाग्रं कृत्वा । नित्य-युक्ता मद्-अर्थ-कर्मानुष्ठानादिना मन्-निष्ठाः सन्तः श्रेष्ठया श्रद्धया युक्ता ये माम् आराधयन्ति ते युक्ततमा ममाभिमताः ॥२॥

मधुसूदनः -

विश्वनाथः — तत्र मद्-भक्ताः श्रेष्ठा इत्य् आह मयि श्यामसुन्दराकारे मम आवेश्याविष्टं कृत्वा नित्य-युक्ता मन्-नित्य-योग-काङ्क्षिणः परया गुणातीतया श्रद्धया । यद् उक्तं -

सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी ।
तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [भ्प् ११।२५।२७] इति ।

ते मे मदीया अनन्य-भक्ता युक्ततमा योग-वित्तमा इत्य् अर्थः । तेनानन्य-भक्तेभ्यो न्यूना अन्ये ज्ञान-कर्मादि-मिश्र-भक्तिमन्तो योग-वित्तरा इत्य् अर्थो ऽभिव्यञ्जितो भवति । ततश् च ज्ञानाद् भक्तिः श्रेष्ठा भक्ताव् अप्य् अनन्य-भक्तिः श्रेष्ठेत्य् उपपादितम् ॥२॥

बलदेवः - एवं पृष्ठो भगवान् उवाच मयीति । ये भक्ता मयि नीलोत्पल-श्यामलत्वादि-धर्मिणि स्वयं भगवति देवकी-सूनौ मन आवेश्य निरतं कृत्वा परया दृढया श्रद्धयोपेताः सन्तो माम् उक्त-लक्षणम् उपासते । श्रवणादि-लक्षणाम् उपासनां मम कुर्वन्ति । नित्य-युक्ता नित्यं मद्-योगम् इच्छन्तस् ते मम मतेन युक्ततमा मताः । शीघ्र-मत्-प्रापकोपायिनस् ते ॥२॥


१२।३-४

ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
सर्वत्र-गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥३॥
सन्नियम्येन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः ।
ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥४॥

श्रीधरः - तर्हीतरे किं न श्रेष्ठा इति ? अत आह ये त्व् इति द्वाभ्याम् । ये त्व् अक्षरम् पर्युपासते ध्यायन्ति ते ऽपि माम् एव प्राप्नुवन्तीति द्वयोर् अन्वयः । अक्षरस्य लक्षणम् अनिर्देश्यम् इत्य् आदि । अनिर्देश्यं शब्देन निर्देष्टुम् अशक्यम् । यतो ऽव्यक्तं रूपादि-हीनम् । सर्वत्र-गं सर्व-व्यापि । अव्यक्तत्वाद् एवाचिन्त्यम् । कूटस्थं कूटे माया-प्रपञ्चे ऽधिष्ठानत्वेनावस्थितम् । अचलं स्पन्दन-रहितम् । अतएव ध्रुवं नित्यं वृद्ध्य्-आदि-रहितम् । स्पष्टम् अन्यत् ॥३-४॥

मधुसूदनः - निर्गुण-ब्रह्म-विद्-अपेक्षया सगुण-ब्रह्म-विदां को ऽतिशयो येन त एव युक्तत्मास् तवाभिमता इत्य् अपेक्षायां तम् अतिशयं वक्तुं तन् निरूपकान् निर्गुण-ब्रह्म-विदः प्रस्तौति ये त्व् इति द्वाभ्याम् । ये ऽक्षरम् माम् उपासते ते ऽपि माम् एव प्राप्नुवन्तीति द्वितीय-गतेनान्वयः । पूर्वेभ्यो वैलक्षण्य-द्योतनाय तु-शब्दः । अक्षरं निर्विशेषं ब्रह्म वाचक्नवी-ब्राह्मणे प्रसिद्धं तस्य समर्पणाय सप्त विशेषणानि । अनिर्देश्यं शब्देन व्यपदेष्टुम् अशक्यं यतो ऽव्यक्तं शब्द-प्रवृत्तेर् निर्विशेषे प्रवृत्त्य्-अयोगात् । कुतो जात्यादि-राहित्यम् अत आह सर्वत्र-गं सर्व-व्यापि सर्व-कारणम् । अतो जात्यादि-शून्यं परिच्छिन्नस्य कार्यस्यैव जात्यादि-योग-दर्शनात् । आकाशादीनाम् अपि कार्यत्वाभ्युपगमाच् च । अतएवाचिन्त्यं शब्द-वृत्तेर् इव मनो-वृत्तेर् अपि न
विषयः । तस्या अपि परिच्छिन्न-विषयत्वात् । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह इति श्रुतेः ।

तर्हि कथं तं त्व् औपनिषदं पुरुषं पृच्छामि इति । दृश्यते त्व् अग्र्यया बुद्ध्या इति च श्रुतिः । शास्त्र-योनित्वात् इति सूत्रं च । उच्यते, अविद्या-कल्पित-सम्बन्धेन शब्द-जन्यायां बुद्धि-वृत्तौ चरमायां परमानन्द-बोध-रूपे शुद्धे वस्तुनि प्रतिबिम्बिते ऽविद्या-तत्-कार्ययोः कल्पितयोर् निवृत्त्य्-उपपत्तेर् उपचारेण विषयत्वाभिधानात् । अतस् तत्र कल्पितम् ऐव्द्या-सम्बन्धं प्रतिपादयितुम् आह कूटस्थम्, यन् मिथ्या-भूतं सत्यतया प्रतीयते तत्-कूटम् इति लोकैर् उच्यते । यथा कूट-कार्षा-पणः कूट-साक्षित्वम् इत्य् आदौ । अज्ञानम् अपि मायाख्यं सह कार्य-प्रपञ्चेन मिथ्या-भूतम् अपि लौकिकैः सत्यतया प्रतीयमानं कूटं तस्मिन्न् आध्यासिकेन सम्बन्धेनाधिष्ठानतया तिष्ठतीति कूटस्थम् अज्ञान-तत्-कार्याधिष्ठानम् इत्य् अर्थः । एतेन सर्वानुपपत्ति-परिहारः
कृतः । अतएव सर्व-विकाराणाम् अविद्या-कल्पितत्वात् तद्-अधिष्ठानम् साक्षि-चैतन्यं निर्विकारम् इत्य् आह अचलं चलनं विकारः । अचलत्वाद् एव ध्रुवम् अपरिणामि नित्यम् । एतादृशं शुद्धं ब्रह्म मां पर्युपासते श्रवणेन प्रमाण-गताम् असम्भावनाम् अपोह्य मननेन च प्रमेय-गताम् अनन्तरं विपरीत-भावना-निवृत्तये ध्यायन्ति विजातीय-प्रत्यय-तिरस्कारेण तैल-धारावद् अविच्छिन्न-समान-प्रत्यय-तिरस्कारेण तैल-धारावद् अविच्छिन्न-समान-प्रत्यय-प्रवाहेण निदिध्यासन-सञ्ज्ञकेन ध्यानेन विषयीकुर्वन्तित्य् अर्थः ॥३॥

कथं पुनर् विषयेन्द्रिय-संयोगे सति विजातीय-प्रत्यय-तिरस्कारो ऽत आह सन्नियम्य स्व-विषयेभ्य उपसंहृत्येन्द्रिय-ग्रामं करण-समुदायम् । एतेन शम-दमादि-सम्पत्तिर् उक्ता ।

विषय-भोग-वासनायां सत्यां कुत इन्द्रियाणां ततो निवृत्तिस् तत्राह सर्वत्र विषये समा तुल्या हर्ष-विषादाभ्यां राग-द्वेषाभ्यां च रहिता मतिर् येषां सम्यग्-ज्ञानेन तत्-कारणस्याज्ञानस्यापनीतत्वाद् विषयेषु दोष-दर्शनाभ्यासेन स्पृहाया निरसनाच् च ते सर्वत्र सम-बुद्धयः । एतेन वशीकार-सञ्ज्ञा वैराग्यम् उक्तम् । अतएव सर्वत्रात्म-दृष्ट्या हिंसा-कारण-द्वेष-रहितत्वात् सर्व-भूत-हिते रताः अभयं सर्व-भूतेभ्यो मत्तः स्वहा इति मन्त्रेण दत्त-सर्व-भूताभय-दक्षिणाः कृत-सन्न्यासा इति यावत् अभयं सर्व-भूतेभ्यो दत्त्वा सन्न्यासम् आचरेत् इति स्मृतेः । एवंविधाः सर्व-साधन-सम्पन्नाः सन्तः स्वयं ब्रह्म-भूता निर्विचिकित्सेन साक्षात्कारेण सर्व-साधन-फल-भूतेन माम् अक्षरं ब्रह्मैव ते प्राप्नुवन्ति
। पूर्वम् अपि मद्-रूपा एव सन्तो ऽविद्या-निवृत्त्या मद्-रूपा एव तिष्ठन्तीत्य् अर्थः । ब्रह्मैव सन् ब्रह्माप्य् एति, ब्रह्म वेद ब्रह्मैव भवति इत्य्-आदि-श्रुतिभ्यः । इहापि च ज्ञानी त्व् आत्मैव मे मतम् [गीता ७।१४] इत्य् उक्तम् ॥३-४॥

विश्वनाथः — मदीय-निर्विशेष-ब्रह्म-स्वरूपोपासकास् तु दुःखितत्वात् ततो न्यूना इत्य् आह ये त्व् इति द्वाभ्याम् । अक्षरं ब्रह्म अनिर्देश्य-शब्देन व्यपदेष्टुम् अशक्यम् । यतो ऽव्यक्तं रूपादि-हीनम् । सर्वत्र-गं सर्व-देश-व्यापि । अचिन्त्यं तर्कागम्यम् । कूटस्थं सर्व-काल-व्यापि । एक-रूपतया तु यः काल-व्यापि स कूटस्थः इत्य् अमरः । अचलं वृद्ध्य्-आदि-रहितम् । ध्रुवं नित्यम् । माम् एवेत्य् अक्षरस्य तस्य मत्तो भेदाभावात् ॥३-४॥

बलदेवः - ये तु स्व-साक्षात्-कृति-पूर्विकां मद्-उपासनां न कुर्वन्ति, तेषाम् अपि मत्-प्राप्तिः स्याद् एव किन्त्व् अतिक्लेशेनातिचिरेणैवान्तस् तेभ्यो ऽपकृष्टास् त इत्य् आह ये त्व् इति त्रिभिः । ये त्व् अक्षर-स्वात्म-चैतन्यम् एव पूर्वम् उपासते । तेषाम् अधिकतरः क्लेश इति सम्बन्धः । अक्षरं विशिनष्टि अनिर्देश्यं देहाद् भिन्नत्वेन देहाभिधायिभिर् देव-मानवादि-शब्दैर् निर्देष्टुम् अशक्यम् । अव्यक्तं चक्षुर्-आद्य्-अगोचरं प्रत्यक् सर्वत्र-गं देहेन्द्रिय-प्राण-व्यापि । अचिन्त्यं तर्कागम्यं श्रुति-मात्र-वेद्यम् ज्ञान-स्वरूपम् एव ज्ञातृ-स्वरूपम् अचलं ज्ञानत्वाद् अपि चलन-रहितम् । ध्रुवं परमात्मैक-शेषतायां सर्वदा स्थिरम् । अक्षरोपासने विधिम् आह सन्नियम्येति । करण-ग्रामं श्रोत्रादीन्द्रिय-वृन्दं सन्नियम्य शब्दादि-सञ्चारेभ्यस् तद्-व्यापारेभ्यः प्रत्याहृत्य
सर्वत्र सुहृन्-मित्रार्य्-उदासीनादिषु सम-बुद्धयस् तुल्य-दृष्टयः । यद् वा, सर्वेषु चेतनाचेतनेषु वस्तुषु स्थिते समे ब्रह्मणि बुद्धिर् येषां भूतानां हिते उपकारे रताः सर्वेषां शं भूयाद् इति यथायथं यतमानाः एवं स्वात्म-साक्षात्कृति-पूर्विकायां मद्-भक्तौ मद्-अर्पित-कर्म-लक्षणायां ये प्रवर्तन्ते, ते ऽपि माम् एव पारमैश्वर्य-प्रधानं प्रापुनुवन्तीति नास्ति संशयः ॥३-४॥


१२।५

क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥५॥

श्रीधरः - ननु च ते ऽपि चेत् त्वाम् एव प्राप्नुवन्ति तर्हीतरेषां युक्ततमत्वं कुत इत्य् अपेक्षायां क्लेशाक्लेश-कृतं विशेषम् आह क्लेश इति त्रिभिः । अव्यक्ते निर्विशेषे ऽक्षर आसक्तं चेतो येषां तेषां क्लेशो ऽधिकतरः । हि यस्माद् अव्यक्त-विषया गतिर् निष्ठा देहाभिमानिभिर् दुःखं यथा भवत्य् एवम् अवाप्यते । देहाभिमानिनां नित्यं प्रत्यक्-प्रवणत्वस्य दुर्घटत्वाद् इति ॥५॥

मधुसूदनः - इदानीम् एतेभ्यः पूर्वेषाम् अतिशयं दर्शयन्न् आह क्लेश इति । पूर्वेषाम् अपि विषयेभ्य आहृत्य सगुणे मन-आवेशे सततं तत्-कर्म-परायणत्वे च पर-श्रद्धोपेतत्वे च क्लेशो ऽधिको भवत्य् एव । किन्तु अव्यक्तासक्त-चेतसां निर्गुण-ब्रह्म-चिन्तन-पराणां तेषां पूर्वोक्त-साधनवतां क्लेश आयासो ऽधिकतरो ऽतिशयेनाधिकः ।

अत्र स्वयम् एव हेतुम् आह भगवान् – अव्यक्ता हि गतिः । हि यस्माद् अक्षरात्मकं गन्तव्यं फल-भूतं ब्रह्म दुःखं यथा स्यात् तथा कृच्छ्रेण देहवद्भिर् देह-मानिभिर् अवाप्यते । सर्व-कर्म-सन्न्यासं कृत्वा गुरुम् उपसृत्य वेदान्त-वाक्यानां तेन तेन विचारेण तत्-तद्-भ्रम-निराकरणे महान् प्रयासः । प्रत्यक्ष-सिद्धस् ततः क्लेशो ऽधिकतरस् तेषाम् इत्य् उक्तम् । यद्यप्य् एकम् एव फलं तथापि ये दुष्करेणोपायेन प्राप्नुवन्तो भवन्ति श्रेष्ठा इत्य् अभिप्रायः ॥५॥

विश्वनाथः — तर्हि केनांशेन तेषाम् अपकर्षस् तत्राह क्लेश इति । न केनापि व्यज्यत इत्य् अव्यक्तं ब्रह्म तत्रैवासक्त-चेतसां तद् एवानुबुभूषूणां तेषां तत्-प्रान्तौ क्लेशो ऽधिकतरः । हि यस्माद् अव्यक्ता गतिः केनापि प्रकारेण व्यक्तीभवतिसा गतिर् देहवद्भिर् जीवैर् दुःखं यथा भवत्य् एवम् अवाप्यते । तथा हीन्द्रियाणां शब्दादि-ज्ञान-विशेष एव शक्तिः । न तु विशेषतर-ज्ञानम् इति । अत इन्द्रिय-निरोधस् तेषां निर्विशेष-ज्ञानम् इच्छताम् अवश्य-कर्तव्य एव । इन्द्रियाणां निरोधस् तु स्रोतस्वतीनाम् इव स्रोतो-निरोधो दुष्कर एव । यद् उक्तं सनत्कुमारेण -

यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयो ।पि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ [भ्प् ४।२२।३९]

क्लेशो महान् इह भवार्णवम् अप्लवेशां
षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति ।
तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं
कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ [भ्प् ४।२२।४०] इति ।

तावता क्लेशेनापि सा गतिर् यद्यप्य् अवाप्यते । तद् अपि भक्ति-मिश्रेणैव । भगवति भक्तिं विना केवल-ब्रह्मोपासकानां तु केवल-क्लेश एव लाभो न तु ब्रह्म-प्राप्तिः । यद् उक्तं ब्रह्मणा -

तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् । [भ्प् १०।१४।४] इति ॥५॥

बलदेवः - ननु ते ऽपि चेत् त्वाम् एव प्राप्नुयुस् तर्हि पूर्वेषां युक्ततमत्वं किं निबन्धनम् ? तत्राह क्लेशो ऽधिकेति । अव्यक्तासक्त-चेतसाम् अतिसूक्ष्म-नीरूप-जीवात्म-समाधि-निरत-मनसां तेषाम् अधिकतरः क्लेशः । यद्यपि पूर्वेषाम् अपि तत्-तन्-मद्-भक्त्य्-असङ्ग-समाचारो मद्-अन्य-विषयेभ्यः करणानां प्रत्याहारश् च क्लेशो ऽस्त्य् एव, तथाइ तत्रानन्द-मूर्तेर् मम स्फुरणान् न क्लेशतया विभाति । कुतो ऽधिकतरत्वं सुदुरापास्तम् ? हि यस्माद् अव्यक्ता गतिर् अव्यक्ताक्षर-विषया मनो-वृत्तिर् देहवद्भिर् देहाभिमानिभिर् जनैर् दुःखं यथा स्यात् तथावाप्यते । देहवन्तः खलु स्थूल-देहम् एव सुचिराद् आत्मत्वेनानुशीलितवन्तः कथम् अणु-चैतन्यं सुचिरोज्झित-विमर्शम् आत्मत्वेनानुशीलितुं प्रभवेयुर् इति भावः ।

यत् त्व् अत्र व्याचक्षते । स-गुणं निर्गुणं चेति द्विरूपं ब्रह्म । तत्र सगुणोपासनम् आकारवद्-विषयत्वात् सुकरम् अप्रमादं च । निर्गुणोपासनं तु तत्त्वाभावाद् दुःख-करं स-प्रमादं च । तच् च निर्गुणं ब्रह्माक्षर-शब्देनोच्यते । नैर्गुण्य-प्रतिपत्तये सप्त विशेषणानि अनिर्देश्यं वेदागोचरम्, यतो ऽव्यक्तं जात्यादि-शून्यम् । सर्वत्र-गं व्यापि । अचिन्त्यं मनसाप्य् अगम्यम् । श्रुतिश् च - यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तैत्तु २।४।१] इत्य् आद्या । कूटस्थं मिथा-भूतम् अपि सत्यवत् प्रतीतं जगत् कूटम् उच्यते । यथा कूतकार्षापणादि । तस्मिन्न् आध्यासिक-सम्बन्धेनाधिष्ठानतया स्थितम् । अचरम् अविकारम् अतो ध्रुवं नित्यम् इति । तद्-विदां खलु गुरूपसत्ति-पूर्वकोपनिषद्-विचार-तद्-अर्थ-मनन-तन्-निदिध्यासनैर् महान् क्लेशः ।

पूर्वेषां तु तैर् विनैव गुरूक्त-भगवत्-प्रसादाविर्भूतेनाज्ञान-तत्-कार्य-विमर्दिना विज्ञानेन भगवत्-स्वरूप-भूत-निर्गुणाक्षरात्मैक्य-लक्षणा मुक्तिर् इति फलैक्ये ऽपि क्लेशाक्लेशाभ्याम् अपकर्षोत्कर्षाव् इति । तद् इदं मन्दं गति-सामान्यात् इति सूत्रे ब्रह्मणो द्वैरूप्य-निरासात् । यथा तद् अक्षरम् अधिगम्यते इति तस्य वेद-वेद्यत्व-श्रवणात् । यतो वाचः इत्य् आदे कार्त्स्न्यागोचरत्वार्थत्वात् । प्रवृत्ति-निमित्ताभावेन निर्गुणस्याप्रमाणत्वात् तौच्छ्याच् च लक्ष्यत्वं तु न, सर्व-शब्द-वाच्यत्व-स्वीकारात् । सदैकावस्थस्य वस्तुनः कूटस्थत्वेनाभिधानान् न च जगत् कूटम् ।

 कविर् मनीषी परिभूः स्वयम्भुर्   

याथातथ्यतो ऽर्थान् व्यदधाच् छाश्वतीभ्यः समाभ्यः [ईशोपनिषद् ८]

इत्य् आदौ तस्य सत्यत्व-श्रवणात् । यशोदा-स्तनन्धय-विभु-चिद्-विग्रहस्य पर-ब्रह्मत्व-श्रवणेन तद्-अन्त-स्थ-निर्गुणाक्षर-कल्पनस्य श्रद्धा-जाड्य-कृतत्वात् ॥५॥


वेर्सेस्६-७

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्-पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥६॥
तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् ।
भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥७॥

श्रीधरः - मद्-भक्तानां तु मत्-प्रसादाद् अनायासेनैव सिद्धिर् भवतीत्य् आह ये त्व् इति द्वाभ्याम् । ये मयि परमेश्वरे सर्वाणि कर्माणि सन्न्यस्य समर्प्य मत्-परा भूत्वा । मां ध्यायन्तः । अनन्येन न विद्यते ऽन्यो भजनीयो यस्मिंस् तेनैव । एकान्त-भक्ति-योगेनोपासत इत्य् अर्थः ॥६॥

तेषाम् इति । एवं मय्य् आवेशितं चेतो यैस् तेषाम् । मृत्यु-युक्तात् संसार-सागराद् अहं सम्यग् उद्धर्ताचिरेण भवामि ॥७॥

मधुसूदनः - ननु फलैक्ये क्लेशाल्पत्वाधिक्याभ्यासम् उत्कर्ष-निकर्षौ स्याताम्, तद् एव तु नास्ति निर्गुण-ब्रह्म-विदां हि फलम् अविद्या-तत्-कार्य-निवृत्त्या निर्विशेष-परमानन्द-बोध-ब्रह्म-रूपता । सगुण-ब्रह्म-विदां त्व् अधिष्ठान-प्रमाया अभावेनाविद्या-निवृत्त्य्-अभावाद् ऐश्वर्य-विशेषः कार्य-ब्रह्म-लोक-गतानां फलम् । अतः फलाधिक्यार्थम् आयासाधिक्यं न न्यूनताम् आपादयतीइत् चेत्, न सुगुणोपासनया निरस्त-सर्व-प्रतिबन्धानां विना गुरूपदेशं विना च श्रवण-मनन-निदिध्यासनाद्य्-आवृत्ति-क्लेशं स्वयम् आविर्भूतेन वेदान्त-वाक्येनेश्वर-प्रसाद-सहकृतेन तत्त्व-ज्ञानोदयाद् अविद्या-तत्-कार्य-निवृत्त्या ब्रह्म-लोक एवैश्वर्य-भोगान्ते निर्गुण-ब्रह्म-विद्या-फल-परम-कैवल्योपपत्तेः । स एतस्माज् जीव-घनात् परात्परं पुरिशयं पुरुषम्
ईक्षते इति श्रुतेः स प्राप्त-हिरण्यगर्भैश्वर्यो भोगान्त एतस्माज् जीव-घनात् सर्व-जीव-समष्टि-रूपात् पराच् छ्रेष्ठाद् धिरण्यगर्भात् परं विलक्षणं श्रेष्ठं च पुरिशयं स्व-हृदय-गुहा-निविष्टं पुरुषं पूर्णं प्रत्यग्-अभिन्नम् अद्वितीयं परमात्मानम् ईक्षते स्वयम् आविर्भूतेन वेदान्त-प्रमाणेन साक्षात्करोति, तावता च मुक्तो भवतीत्य् अर्थः । तथा च विनापि प्राग्-उक्त-क्लेशेन सगुण-ब्रह्म-विदाम् ईश्वर-प्रसादेन निर्गुण-ब्रह्म-विद्या-फल-प्राप्तिर् इतीमम् अर्थम् आह ये त्व् इति द्व्याभ्याम् ।

तु-शब्द उक्ताशङ्का-निवृत्त्य्-अर्थः । ये सर्वाणि कर्माणि मयि सन्न्यस्य सगुणे वासुदेवे समर्प्य मत्-परा अहं भगवान् वासुदेव एव परः प्रकृष्टः प्रीति-विषयो येषां ते तथा सन्तो ऽनन्येनैव योगेन न विद्यते मां भगवन्तं मुक्त्वान्यद्-आलम्बनं यस्य तादृशेनैव योगेन समाधिनैकान्त-भक्ति-योगापर-नाम्ना मां भगवन्तं वासुदेवं सकल-सौन्दर्य-सार-निधानम् आनन्द-घन-विग्रहं द्विभुजं चतुर्भुजं वा समस्त-जन-मनो-मोहिनीं मुरलीम् अन्तिमनोहरैः सप्तभिः स्वरैर् आपूरयन्तं वा दर-कमल-कौमोदकी-रथाङ्ग-सङ्गि-पाणि-पल्लवं वा नरसिंह-राघवादि-रूपं वा यथा-दर्शित-विश्व-रूपं वा ध्यायन्त उपासते समानाकारम् अविच्छिन्नं चित्त-वृत्ति-प्रवाहं सन्तन्वते समीप-वर्तितया ऽसते तिस्ठन्ति वा तेसां मय्य् आवेशित-चेतसां
मयि यथोक्त आवेशितम् एकाग्रतया प्रवेशितं चेतो यैस् तेषाम् अहं सततोपासितो भगवान् मृत्यु-संसार-सागराम् मृत्यु-युक्तो यः संसारो मिथ्या-ज्ञान-तत्-कार्य-प्रपञ्चः स एव सागरा इव दुरुत्तरस् तस्मात् समुद्धर्ता सम्यग् अनायसेनोर्ध्वे सर्व-बाधाव् अधिभूते शुद्धे ब्रह्मणि धर्ता धारयिता ज्ञानावष्टम्भ-दानेन भवामि न चिरात् क्षिप्रम् एव तस्मिन्न् एव जन्मनि । हे पार्थेति सम्बोधनम् आश्वासार्थम् ॥६-७॥

विश्वनाथः — भक्तानां तु ज्ञानं विनैव केवलया भक्त्यैव सुखेन संसारान् मुक्तिर् इत्य् आह ये त्व् इति । मयि यत् प्रान्त्य् अर्थं सन्न्यस्य त्यक्त्वा सन्न्यास-शब्दस्य त्यागार्थत्वात् । अनन्येनैव ज्ञान-कर्म-तपस्यादि-रहितेनैव योगेन भक्ति-योगेन यद् उक्तं यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [भ्प् ११।२०।३२] इत्य् अनन्तरम् ।

सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भ्प् ११।२०।३३] इति ।

ननु तद् अपि तेषां संसार-तरणे कः प्रकार इति चेत् ? सत्यं । तेषां संसार-तरण-प्रकारे जिज्ञासा नैव ज्ञायते । यतस् तत्-प्रकारं विनैवाहम् एव तांस् तारयिष्यामीत्य् आह तेषाम् इति । तेन भगवतो भक्तेष्व् एव वात्सल्यं न तु ज्ञानिष्व् इति ध्वनिः ॥६-७॥

बलदेवः - तथात्म-याथात्म्यं श्रुत्वैवात्मांशिनो मम केवलां भक्तिं ये कुर्वन्ति, न त्व् आत्म-साक्षात्कृतये प्रयतन्ते, तेषां तु केवलया मद्-भक्त्यैव मत्-प्राप्तिर् अचिरेणैव स्याद् इत्य् आह ये त्व् इति द्वाभ्याम् । ये मद्-एकान्तिनो मयि मत्-प्राप्त्य्-अर्थं सर्वाणि स्व-विहितान्य् अपि कर्माणि सन्न्यस्य भक्ति-विक्षेपकत्व-बुद्ध्या परित्यज्य मत्-परा मद्-एक-पुरुषार्थाः सन्तो ऽनन्येन केवलेन मच्-छ्रवणादि-लक्षणेन योगेनोपायेन मां कृष्णम् उपासते । तल्-लक्षणां मद्-उपासनां कुर्वन्ति ध्यायन्तः श्रवणादि-काले ऽपि मन्-निविष्ट-मनसः । तेषां मय्य् आवेशित-चेतसां मद्-एकानुरक्त-मनसां भक्तानाम् अहम् एव मृत्यु-युक्तात् संसारात् सागरवद् दुस्तरात् समुद्धर्ता भवामि । न चिरात् त्वरया तत्-प्राप्ति-विलम्बासहमानस् तान् अहं गरुड-स्कन्धम् आरोप्य स्व-धाम
प्रापयामीत्य् अर्चिर्-आदि-निरपेक्षा तेषां मद्-धाम-प्राप्तिः -

 नयामि परमं स्थानम् अर्चिर् आदि-गतिं विना ।  
 गरुड-स्कन्धम् आरोप्य यथेच्छम् अनिवारितः ॥ इति वाराह-वचनात् ।  

कर्मादि-निरपेक्षापि भक्तिर् अभीष्ट-साधिका-

 या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।  

तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति नारायणीयात् ।

 सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकाः ।   
 सुखेन यां गतिं यान्ति न तां सर्वे ऽपि धार्मिकाः ॥ इति पाद्माच् च ॥६-७॥  

१२।८

मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥८॥

श्रीधरः - यस्माद् एवं तस्मात् मय्य् एवेति । मय्य् एव सङ्कल्प-विकल्पात्मकं मन आधत्स्व स्थिरीकुरु । बुद्धिम् अपि व्यवसायात्मिकां मय्य् एव निवेशय । एवं कुर्वन् मत्-प्रसादेन लब्ध-ज्ञानः सन् अत अत ऊर्ध्वं देहान्ते मय्य् एव निवसिष्यसि निवत्स्यसि । यद् आत्मना वासं करिष्यसि । नात्र संशयः । यथा च श्रुतिः देहान्ते देवः परं ब्रह्मा तारकं व्यचष्टे इति ॥८॥

मधुसूदनः - तद् एवम् इयता प्रबन्धेन सगुणोपासनां स्तुत्वेदानीं विधत्ते मय्य् एवेति । मय्य् एव सगुणे ब्रह्मणि मनः सङ्कल्प-विकल्पात्मकम् आधत्स्व स्थापय सर्वा मनोवृत्तीर् मद्-विषया एव कुरु । एव-कारानुषङ्गेन मय्य् एव बुद्धिम् अध्यवसाय-लक्षणां निवेशय । सर्वा बुद्धि-वृत्तीर् मद्-विषया एव कुरु, विषयान्तर-परित्यागेन सर्वदा मां चिन्तयेत्य् अर्थः । ततः किं स्याद् इत्य् अत आह निवसिष्यसि निवत्स्यसि लब्ध-ज्ञानः सन् मद्-आत्मना मय्य् एव शुद्ध अत ऊर्ध्वम् एतद्-देहान्ते न संशयो नात्र प्रतिबन्ध-शङ्का कर्तव्येत्य् अर्थः । एव अत ऊर्ध्वम् इत्य् अत्र सन्ध्य्-अभावः श्लोक-पूरणार्थः ॥८॥

विश्वनाथः — यस्मान् मद्-भक्तिर् एव श्रेष्ठा तस्मात् त्वं भक्तिम् एव कुर्व् इति ताम् उपदिशति मय्य् एवेति त्रिभिः । एव-कारेण निर्विशेष-व्यावृत्तिः । मयि श्यामसुन्दरे पीताम्बरे वनमालिनि मन आधत्स्व मत्-स्मरणं कुर्व् इत्य् अर्थः । तथा बुद्धिं विवेकवतीं निवेशय मन्-मननं कुर्व् इत्य् अर्थः । तच् च मननं ध्यान-प्रतिपादक-शास्त्र-वाक्यानुशीलनम् । ततश् च मय्य् एव निवसिष्यसीति छान्दसम् । मत्-समीप एव निवासं प्राप्नोषीत्य् अर्थः ॥८॥

बलदेवः – यस्माद् एवं तस्मात् त्वं मय्य् एव न तु स्वात्मनि मन आधत्स्व समाहितं कुरु । बुद्धिं मयि निवेशयार्पय । एवं कुर्वाणस् त्वं मय्य् एव मम कृष्णस्य सन्निधाव् एव निवत्स्यसि, न तु स-निष्ठवत् सर्गादिकम् अनुभवन्न् ऐश्वर्य-प्रधानं मां प्राप्स्यसीत्य् अर्थः ॥८॥


१२।९

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यास-योगेन ततो माम् इच्छाप्तुं धनञ्जय ॥९॥

श्रीधरः - अत्राशक्तं प्रति सुगमोपायम् आह अथेति । स्थिरं यथा भवत्य् एवं मयि चित्तं धारयितुं यदि शक्तो न भवसि तर्हि विक्षिप्तं चित्तं पुनः पुनः प्रत्याहृत्य मद्-अनुस्मरण-लक्षणो यो ऽभ्यास-योगस् तेन मां प्राप्तुम् इच्छ । प्रयत्नं कुरु ॥९॥

मधुसूदनः - इदानीं सगुण-ब्रह्म-ध्यानाशक्तानाम् अशक्ति-तारताम्येन प्रथमं प्रतिमादौ बाह्ये भगवद्-ध्यानाभ्यासस् तद्-अशक्तौ भागवत-धर्मानुष्ठानं तद्-अशक्तौ सर्व-कर्म-फल-त्याग इति त्रीणि साधनानि त्रिभिः श्लोकैर् विधत्ते अथेति । अथ पक्षान्तरे स्थिरं यथा स्यात् तथा चित्तं समाधातुं स्थापयितुं मयि न शक्नोषि चेत् तत एकस्मिन् प्रतिमादाव् आलम्बने सर्वतः समाहृत्य चेतसः पुनः पुनः स्थापनम् अभ्यासस् तत्-पूर्वको योगः समाधिस् तेनाभ्यास-योगेन माम् आप्तुम् इच्छ यतस्व । हे धनञ्जय ! बहून् शत्रून् जित्वा धनम् आहृतवान् असि राजसूयाद्य्-अर्थम् एकं मनः-शत्रुं जित्वा तत्व-ज्ञान-धनम् आहरिष्यसीति न तवाश्चर्यम् इति सम्बोधनार्थः ॥९॥

विश्वनाथः — साक्षात् स्मरणासमर्थं प्रति तत्-प्राप्त्य्-उपायम् आह अथेति । अभ्यास-योगेनान्यत्रान्यत्र गतम् अपि मनः पुनः प्रत्याहृत्य मद्-रूप एव स्थापनम् अभ्यासः । स एव योगस् तेन । प्राकृतत्वाद् इति कुत्सित-रूप-रसादिषु चलन्त्या मनोनद्यास् तेषु चलनं निरुध्य अतिसुभद्रेषु मदीय-रूप-रसादिषु तच्-चलनं शनैः शनैः सम्पादयेत्य् अर्थः । हे धनञ्जयेति बहून् शत्रून् जित्वा धनम् आहृतवता त्वया मनो ऽपि जित्वा ध्यान-धनं ग्रहीतुं शक्यम् एवेति भावः ॥९॥

बलदेवः - ननु गङ्गेव येषां मनो-वृत्ति-रोधवती तेषां त्वत्-प्राप्तिस् त्वरया स्यान् मम तु तादृशी न तद्-वृत्तिस् ततः कथं सेति चेत् तत्राह अथेति । स्थिरं यथा स्यात् तथा मयि चित्तं सम्यग् अनायासेनाधातुम् अर्पयितुं न शक्नोषि चेत् ततो ऽभ्यास-योगेन माम् आप्तुम् इच्छ यतस्व । ततो ऽन्यत्र गतस्य मनसः प्रत्याहृत्य शनैः शनैर् मयि स्थापनम् अभ्यासस् तेन मनसि मत्-प्रवणे सति मत्-प्राप्तिः सुलभा स्याद् इति भावः ॥९॥


१२।१०

अभ्यासे ऽप्य् असमर्थो ऽसि मत्-कर्म-परमो भव ।
मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥१०॥

श्रीधरः - यदि पुनर् नैवं तत्राह अभ्यास इति । यदि पुनर् अभ्यासे ऽप्य् अशक्तो ऽसि तर्हि मत्-प्रीत्य्-अर्थानि यानि कर्माणि एकादश्य्-उपवास-व्रत-चर्या-पूजा-नाम-सङ्कीर्तनादीनि तद्-अनुष्ठानम् एव परमं यस्य तादृशो भव । एवं-भूतानि कर्माण्य् अपि मद्-अर्थं कुर्वन् मोक्षं प्राप्स्यसि ॥१०॥

मधुसूदनः - मत्-प्रीणनार्थं कर्म मत्-कर्म श्रवण-कीर्तनादि-भागवत-धर्मस् तत्-परमस् तद्-एक-निष्ठो भव । अभ्यासासमर्थ्ये मद्-अर्थं भागवत-धर्म-सञ्ज्ञकानि कर्माण्य् अपि कुर्वन् सिद्धिं ब्रह्म-भाव-लक्षणां सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेणावाप्स्यसि ॥१०॥

विश्वनाथः — अभ्यासे ऽपीति यथा पित्त-दूषिता रसना मत्स्यण्डिकां नेच्छति । तथैवाविद्या-दूषितं मनस् तद्-रूपादिकं मधुरम् अपि न गृह्णातीत्य् अतस् तेन दुर्ग्रहेण महा-प्रबलेन मनसा सह योद्धुं मया नैव शक्यत इति मन्यसे चेद् इति भावः । मत्-कर्माणि परमाणि यस्य सः । कर्माणि मदीय-श्रवण-कीर्तन-वन्दनार्चन-मन्-मन्दिर-मार्जनाभ्युक्षण-पुष्पाहरणादि-परिचरणादि कुर्वन् विनापि मत्-स्मरणं सिद्धिं प्रेमवत्-पार्षदत्व-लक्षणां प्राप्स्यतीति ॥१०॥
बलदेवः - ननु वायोर् इव मनसो ऽतिचापल्यात् तस्य प्रत्याहारे मम न शक्तिर् इति चेत् तत्राह अभ्यासे ऽपीति । उक्त-लक्षणे ऽभ्यासे ऽपि चेत् त्वम् असमर्थस् तर्हि मत्-कर्माणि परमाणि पुमर्थ-भूतानि यस्य तादृशो भव । तानि च मन्-निकेत-निर्माण-मत्-पुष्प-बाटी-सेचनादीनि पूर्वम् उक्तानि । एवं सुकराणि मद्-अर्थानि कर्माणि कुर्वाणस् त्वं तत्र तराति-मनोज्ञ-मन्-मूर्त्य्-उद्देश-महिम्ना तादृशे मयि निरत-मनाः संसिद्धिं मत्-सामीप्य-लक्षणाम् अवाप्स्यसीत्य् अतिसुगमो ऽयम् उपायः ॥१०॥


१२।११

अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्-योगम् आश्रितः ।
सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥११॥

श्रीधरः - अत्यन्तं भगवद्-धर्म-परिनिष्ठायाम् अशक्तस्य पक्षान्तरम् आह अथेति । यद्य् एतद् अपि कर्तुं न शक्नोषि तर्हि मद्-अयोगं मद्-एक-शरणत्वम् आश्रितः सन् सर्वेषां दृष्टादृष्टार्थानाम् आवश्यकानां चाग्निहोत्रादि-कर्मणां फलानि नियत-चित्तं भूस् त्वा परित्यज । एतद् उक्तं भवति मया तावद् ईश्वराज्ञया यथा-शक्ति कर्माणि कर्तव्यानि । फलं तावद् दृष्टम् अदृष्टं वा परमेश्वराधीनम् इत्य् एवं मयि भारम् आरोप्य फलासक्तिं परित्यज्य वर्तमानो मत्-प्रसादेन कृतार्थो भविष्यसीति ॥११॥

मधुसूदनः - अथ बहिर्-विषयाकृष्ट-चेतस्त्वाद् एतन्-मत्-कर्म-परत्वम् अपि कर्तुं न शक्नोषि, ततो मद्-योगं मद्-एक-शरणत्वम् आश्रितो मयि सर्व-कर्म-समर्पणं मद्-योगस् तं वाश्रितः सन् यतात्मवान् यतः संयत-सर्वेन्द्रिय आत्मवान् विवेकी च सन् सर्व-कर्म-फल-त्यागं कुरु फलाभिसन्धिं त्यजेत्य् अर्थः ॥११॥
विश्वनाथः — एतद् अपि कर्तुम् अशक्तश् चेत् तर्हि मद्-योगम् आश्रितो मयि सर्व-कर्म-समर्पणम् । मद्-योगस् तम् आश्रितः सन् सर्व-कर्म-फल-त्यागं प्रथम-षट्कोक्तं कुरु । अयम् अर्थः – प्रथम-षट्के भगवद्-अर्पित-निष्काम-कर्म-योग एव मोक्षोपाय उक्तः । द्वितीय-षट्के ऽस्मिन् भक्ति-योग एव भगवत्-प्राप्त्य्-उपाय उक्तः । स च भक्ति-योगो द्विविधः - भगवन्-निष्ठो ऽन्तः-करण-व्यापारो, बहिष्करण-व्यापारश् च । तत्र प्रथमस् त्रिविधः - स्मरणात्मको, मननात्मकश् चाखण्ड-स्मरणासामर्थ्ये तद्-अनुरागिनां तद्-अभ्यास-रूपं चेति त्रिक एवायं मन्द-धियां दुर्गमः । सुधियां निरपराधानां तु सुगम एव । द्वितीयः श्रवण-कीर्तनात्मकं तु सर्वेषां सुगम एवोपायः । एवम् उभयोपाय-वन्तो ऽधिकारिणः सर्वतः प्रकृष्टा द्वितीय-षट्के
ऽस्मिन्न् उक्ताः । एतत्-कृत्य-समर्था इन्द्रियाणां भगवन्-निष्ठीकृताव् अश्रद्धालवश् च भगवद्-अर्पित-निष्काम-कर्मिणः प्रथम-षट्कोताधिकारिणो ऽस्मान् निकृष्टा एवेति ॥११॥

बलदेवः - अथ महाकुलीनत्व-लोक-मुख्यत्वादिना प्रतिबन्धेन बाधितस् त्वम् अन्यो वै तन्-मन्-निकेत-विमार्जनादि-मत्-प्रीतिकर-मति-सुकरम् अपि कर्म चेत् कर्तुम् अशक्तो ऽसि ततो मद्-योगं मच्-छरणताम् आश्रितः सन् सर्वेषाम् अनुष्ठीयमानानां कर्मणां फल-त्यागं कुरु यतात्मवान् विजित-मना भूत्वा, तथा च फलाभिसन्धि-शून्यैर् अग्निहोत्र-दर्श-पौर्णमास्य्-आदिभिर् मद्-आराधन-रूपैः कर्मभिर् विष-तन्तुवद्-अन्तर्-अभ्युदितेन ज्ञानेन स्व-परात्मनोः शेष-शेषि-भावे ऽभ्युदिते स्व-शेषिणि सर्वोत्तमत्वेन विदिते शनैः शनैः परापि भक्तिः स्याद् इति । एवम् एव वक्ष्यति यतः प्रवृत्तिर् भूतानां इत्य् आदिना मद्-भक्तिं लभते पराम् इत्य् अनेन ॥११॥


१२।१२

श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात् कर्म-फल-त्यागस् त्यागाच् छान्तिर् अनन्तरम् ॥१२॥

श्रीधरः - तम् इमं फल-त्यागं स्तौति श्रेय इति । सम्यग्-ज्ञान-रहिताद् अभ्यासात् युक्ति-सहितोपदेश-पूर्वकं ज्ञानं श्रेष्ठम् । तस्माद् अपि तत्-पूर्वं ध्यानं विशिष्टम् । ततस् तु तं पश्यति निष्कलं ध्यायमान इति श्रुतेः । तस्माद् अप्य् उक्त-लक्षणः कर्म-फल-त्यागः श्रेष्ठः । तस्माद् एवम्भूतात् कर्म-फल-त्यागात् कर्मसु तत्-फलेषु चासक्ति-निवृत्त्या मत्-प्रसादेन च समनन्तरम् एव संसार-शान्तिर् भवति ॥१२॥

मधुसूदनः - इदानीम् अत्रैव साधन-विधान-प्रयवसानाद् इमं सर्व-फल-त्यागं स्तौति श्रेय इति । श्रेयः प्रशस्यतरं हि एव ज्ञानं शब्द-युक्तिभ्याम् आत्म-निश्चयो ऽभ्यासा ज्ञानार्थ-श्रवणाभ्यासात् । ज्ञानाच् छ्रवण-मनन-परिनिष्पन्नाद् अपि ध्यानं निदिध्यासन-सञ्ज्ञं विशिष्यते ऽतिशयितं भवति साक्षात्काराव्यवहित-हेतुत्वात् । तद् एवं सर्व-साधन-श्रेष्ठं ध्यानं ततो ऽप्य् अतिशयितत्वेनाज्ञ-कृतः कर्म-फल-त्यागः स्तूयते ।

ध्यानात् कर्म-फल-त्यागो विशिष्यत इत्य् अनुषज्यते । त्यागान् नियत-चित्तेन पुंसा कृतात् सर्व-कर्म-फल-त्यागाच् छान्तिर् उपशमः स-हेतुकस्य संसारस्यानन्तरम् अप्य् अवधानेन न तु कालान्तरम् अपेक्षते । अत्र -

यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि स्थिताः ।
अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥

इत्य् आदि श्रुतिषु प्रजहाति यदा कामान् सर्वान् इत्य् आदि-स्थित-प्रज्ञ-लक्षणेषु च सर्व-काम-त्यागस्यामृतत्व-साधनत्वम् अवगतम् । कर्म-फलानि च कामास् तत्-त्यागो ऽपि काम-त्यागत्व-सामान्यात् सर्व-काम-त्याग-फलेन स्तूयते । यथागस्त्येन ब्राह्मणेन समुद्रः पीत इति, यथा वा जामदग्न्येन ब्राह्मणेन निःक्षत्रा पृथिवी कृतेति बाह्मणत्व-सामान्याद् इदानीन्तना अपि ब्राह्मणा अपरिमेय-पराक्रमत्वेन स्तूयन्ते तद्वत् ॥१२॥

विश्वनाथः — अथोक्तानां स्मरण-मननाभ्यासानां यथा-पूर्वं श्रैष्ठ्यं स्पष्टीकृयाह श्रेयो हीति । अभ्यासाज् ज्ञानं मयि बुद्धिं निवेशयेत्य् उक्तं मन्-मननं श्रेयः श्रेष्ठम् । अभ्यासे सत्य् आयासत एव ध्यानं स्यात् । मनने सति त्व् अनायासत एव ध्यानम् इति विशेषात् तस्मात् ज्ञानाद् अपि ध्यानं विशिष्यते श्रेष्ठम् इत्य् अर्थः । कुत इत्य् अत आह - ध्यानात् कर्म-फलानां स्वर्गादि-सुखानां निष्काम-कर्म-फलस्य मोक्षस्य च त्यागस् तत्-स्पृहा-राहित्यं स्यात् । स्वतः प्राप्तस्यापि तस्योपेक्षा । निश्चल-ध्यानात् पूर्वं तु भक्तानाम् अजात-रतीनां मोक्ष-त्यागेच्छैव भवेत् । निश्चल-ध्यानवतां तु मोक्षोपेक्षा । सैव मोक्ष-लघुता-कारिणी । यद् उक्तं भक्ति-रसामृत-सिन्धौ - क्लेश-घ्नी शुभदा [ब्र्स् १।१।७] इत्य् अत्र षड्भिः
पदैर् एतन्-माहात्म्यं कीर्तितम् इति । यद् उक्तं -

न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ [भ्प् ११।१४।१४] इति ।

मय्य् अर्पितात्मा मद्-ध्यान-निष्ठः । त्यागाद् वैतृष्ण्याद् अनन्तरम् एव शान्तिर् मद्-रूप-गुणादिकं विना सर्व-विषयेष्व् एवेन्द्रियाणाम् उपरतिः । अत्र पूर्वार्धे श्रेयः इति विशिष्यते इति पद-द्वयेनान्वयाद् उत्तरार्धे तु अनन्तरम् इत्य् अनेनैवान्वयाद् एषैव व्याख्या सम्यग् उपपद्यते नान्येत्य् अवधेयम् ॥१२॥

बलदेवः - सुकरत्वाद् अप्रमादत्वाज् ज्ञान-गर्भत्वाच् चानिभिसंहितं फलं कर्म-योगं स्तौति श्रेयो हीति । अभ्यासान् मत्-स्मृति-सातत्य-रूपाद् अनिष्पन्नाज् ज्ञानं स्वात्म-साक्षात्कृति-रूपं श्रेयः प्रशस्ततरम् । परमात्मोपलब्धि-द्वारत्वात् ज्ञानाच् च तस्माद् अनिष्पन्नात् साधन-भूतं ध्यानं स्वात्म-चिन्तन-लक्षणं विशिष्यते स्व-हितत्वे श्रेयो भवति । ध्यानाच् च तस्माद् अनिष्पन्नात् कर्म-फल-त्यागाद् अनन्तरं शान्तिस् त्यक्त-फलाद् अनुष्ठिता कर्मणो ऽनन्तरं मनः-शुद्धिर् इत्य् अर्थः । तथा च शुद्धे मनसि ध्यानं निष्पद्यते । निष्पन्ने ध्याने स्व-साक्षात्कृति-रूपं ज्ञानं । ज्ञाने निष्पन्ने तत्-फल-भूतं परमात्म-ज्ञानम् । तेन परा भक्तिस् तयिश्वर्य-प्रधानस्य मम प्राप्तिर् इति दुर्गमो ऽयम् उपाय इति भावः । न चायम् अर्जुनं प्रत्य् उपदेशस्
तस्यैकान्तित्वात् । सन्-निष्ठा निष्काम-कर्म-रता हरि-ध्यायिनश् च स्वात्मानम् अनुभूय ततो ऽभ्युदितया हरि-विषयकत्या पारमैश्वर्य-गुणया परया भक्त्या हरिं प्रेमास्पदम् अनुभवन्तो विमुच्यन्त इति गीता-शास्त्रार्थ-पद्धतिः । किन्त्व् एकान्तित्वासक्तं प्रतीति-बोध्यम् ॥१२॥


१२।१३-१४

अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः सम-दुःख-सुखः क्षमी ॥१३॥
सन्तुष्टः सततं योगी यतात्मा दृढ-निश्चयः ।
मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ॥१४॥

श्रीधरः - एवं-भूतस्य भक्तस्य क्षिप्रम् एव परमेश्वर-प्रसाद-हेतून् धर्मान् आह अद्वेष्टेत्य् अष्टभिः । सर्व-भूतानां यथायथम् अद्वेष्टा मैत्रः करुणश् च । उत्तमेषु द्वेष-शून्यः । समेषु मित्रतया वर्तत इति मैत्रः । हीनेषु कृपालुर् इत्य् अर्थः । निर्ममो निरहङ्कारश् च कृपालुत्वाद् एव अन्यैः सह समे दुःख-सुखे यस्य सः । क्षमी क्षमाशीलः ॥१३॥

सन्तुष्ट इति । सततं लाभे ऽलाभे च सन्तुष्टः सुप्रसन्न-चित्तः । योगी अप्रमत्तः यतात्मा संयत-स्वभावः । दृढो मद्-विषयो यस्य । मय्य् अर्पिते मनो-बुद्धी येन । एवम्भूतो यो मद्-भक्तः स मे प्रियः ॥१४॥

मधुसूदनः - तद् एवं मन्दम् अधिकारिणं प्रत्यतिदुष्करत्वेनाक्षरोपासन-निन्दया सुकरं सगुणोपासनं विधायाशक्ति-तारतम्यानुवादेनान्यान्य् अपि साधनानि विदधौ भगवान् वासुदेवः कथं नु नाम सर्व-प्रतिबन्ध-रहितः सन्न् उत्तमाधिकारितया फल-भूतायाम् अक्षर-विद्यायाम् अवतरेद् इत्य् अभिप्रायेण साधन-विधानस्य फलार्थत्वात् । तद् उक्तम् -

निर्विशेषं परं ब्रह्म साक्षात्कर्तुम् अनीश्वराः ।
ये मन्दास् ते ऽनुकम्प्यन्ते सविशेष-निरूपणैः ॥
वशीकृते मनस्य् एषां सगुण-ब्रह्म-शीलनात् ।
तद् एवाविर्भवेत् साक्षाद् अपेतोपाधि-कल्पनम् ॥ इति ।

भगवता पतञ्जलिना चोक्तं समाधि-सिद्धिर् ईश्वर-प्रणिधानात् इति । ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च इति च । तत इतीश्वर-प्रणिधानाद् इत्य् अर्थः । तद् एवम् अक्षरोपासन-निन्दा सगुणोपासन-स्तुतये न तु हेयतया, उदित-होम-विधावनुदित-होम-निन्दावत् । न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते ऽपि तु विधेयं स्तोतुम् इति न्यायात् । तस्माद् अक्षरोपासका एव परमार्थतो योग-वित्तमाः ।

प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ।
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ॥ [गीता ७।१७-१८]

इत्य् आदिना पुनः पुनः प्रशस्ततमतयोक्तास् तेषाम् एव ज्ञानं धर्म-जातं चानुसरणीयम् अधिकारम् आसाद्य त्वयेत्य् अर्जुनं बुबोधयिषुः परम-हितैषी भगवान् अभेद-दर्शिनः कृत-कृत्यानक्षरोपासकान् प्रस्तौति अद्वेष्टेति सप्तभिः ।

सर्वाणि भूतान्य् आत्मत्वेन पश्यन्न् आत्मनो दुःख-हेताव् अपि प्रतिकूल-बुद्ध्य्-अभावान् न द्वेष्टा सर्व-भूतानां किन्तु मैत्री स्निग्धता तद्वान् । यतः करुणः करुणा दुःखितेषु दया तद्वान् सर्व-भूताभय-दाता परमहंस-परिव्राजक इत्य् अर्थः । निर्ममो देहे ऽपि ममेति प्रत्यय-रहितः । निरहङ्कारो वृत्त-स्वाध्यायादि-कृताहङ्कारान् निष्क्रान्तः । द्वेष-रागयोर् अप्रवर्तकत्वेन समे दुःख-सुखे यस्य सः । अतएव क्षमी आक्रोशन-ताडनादिनापि न विक्रियाम् आपद्यते ॥१३॥

तस्यैव विशेषणान्तराणि सन्तुष्ट इति । सततं शरीर-स्थिति-कारणस्य लाभे ऽलाभे च सन्तुष्टः उत्पन्नालं-प्रत्ययः । तथा गुणवल्-लाभे विपर्यये च । सततम् इति सर्वत्र सम्बध्यते । योगी समाहित-चित्तः । यतात्मा संयत-शरीरेन्द्रियादि-सङ्घातः । दृढः कुतार्किकैर् अभिभवितुम् अशक्यतया स्थिरो निश्चयो ऽहम् अस्म्य् अकअर्त्र-भ्लोक्तृ-सच्चिदानन्दाद्वितीयं ब्रह्मेत्य् अध्यवसायो यस्य स दृढ-निश्चयः स्थित-प्रज्ञ इत्य् अर्थः । मयि भगवति वासुदेवे शुद्धे ब्रह्मणि अर्पित-मनो-बुद्धिः समर्पितान्तः-करणः । ईदृशो यो मद्-भक्तः शुद्धाक्षर-ब्रह्मवित् स मे प्रियः, मद्-आत्मत्वात् ॥१४॥

विश्वनाथः — एतादृश्याः शान्त्या भक्तः कीदृशो भवतीत्य् अपेक्षायां बहुविध-भक्तानां स्वभाव-भेदान् आह अद्वेष्टेत्य् अष्टभिः । अद्वेष्टा द्विषत्स्व् अपि द्वेषं न करोति प्रत्युत मित्रो मित्रतया वर्तते । करुण एषाम् असद्-गतिर् मा भवत्व् इति बुद्ध्या तेषु कृपालुः । ननु कीदृशेन विवेकेन द्विषत्स्व् अपि मैत्री-कारुण्ये स्याताम् । तत्र विवेकं विनैवेत्य् आह निर्ममो निरहङ्कार इति पुत्र-कलत्रादिषु ममत्वाभावाद् देहे चाहङ्काराभावात् तस्य मद्-भक्तस्य क्वापि द्वेष एव नैव फलति । कुतः पुनर् द्वेष-जनित-दुःख-शान्त्य्-अर्थं तेन विवेकः स्वीकर्तव्य इति भावः ।

ननु तद् अप्य् अन्य-कृत-पादुक-मुष्टि-प्रहारादिभिर् देह-व्यथादीनं दुःखं किञ्चिद् भवत्य् एव ? तत्राह सम-दुःख-सुखम् । यद् उक्तं भगवता चन्द्रार्ध-शेखरेण -

नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ [भ्प् ६।१७।२८] इति ।

सुख-दुःखयोः साम्यं सम-दर्शित्वम् । तच् च मम प्रारब्ध-फलम् इदम् अव्श्य-भोग्यम् इति भावना-मयम् । साम्ये ऽपि सहिष्णुवैव दुःखं सह्यत इत्य् आह क्षमी क्षमवान् । क्षम् सहने धातुः ।

नन्व् एतादृशस्य भक्तस्य जीविका कथं सिध्येत् ? तत्राह सन्तुष्टः । यदृच्छोपस्थिते किञ्चिद् यत्नोपस्थिते वा भक्ष्य-वस्तुनि सन्तुष्टः ।

ननु सम-दुःख-सुखम् इत्य् उक्तम् । तत् कथं स्वभक्षम् आलक्ष्य सन्तुष्ट इति तत्राह सततं योगी भक्ति-योग-युक्तो भक्ति-सिद्धार्थम् इति भावः । यद् उक्तम्-

 आहारार्थं यततैव युक्तं तत्-प्राण-धारणम् ।  
 तत्त्वं विमृश्यते तेन तद् विज्ञाय परं व्रजेत् ॥ इति ।  

किं च देइवाद् अप्राप्त-भैक्ष्यो ऽपि यतात्मा संयत-चित्तः क्षोभ-रहित इत्य् अर्थः । दैवाच् चित्त-क्षोभे सत्य् अपि तद्-उपशमार्थम् अष्टाङ्ग-योगाभ्यासादिकं नैव करोतीत्य् आह दृढ-निश्चयो ऽनन्य-भक्तिर् एव मे कर्तव्येति निश्चयस् तस्य न शिथिलीभवतीत्य् अर्थः । सर्वत्र हेतुः मय्य् अर्पित-मनो-बुद्धिर् मत्-स्मरण-मनन-परायण इत्य् अर्थः । ईदृशो भक्तस् तु मे प्रियो माम् अतिप्रीणयतीत्य् अर्थः ॥१३-१४॥

बलदेवः - एवम् एकान्ति-भक्तान् परिनिष्ठितादीन् अनेकान्ति-भक्तान् सनिष्ठांश् च तत्-तत्-साधन-भेदैर् उपवर्ण्य तेषां सर्वोपरञ्जकान् गुणान् विदधाति अद्वेष्टेति सप्तभिः । सर्व-भूतानाम् अद्वेष्टा द्वेषं कुर्वत्स्व् अपि तेषु मत्-प्रारभ्दानुगुण-परेश-प्रेरितान्य् अमूनि मह्यं द्विषन्तीति द्वेष-शून्यः । परेशाधिष्ठानान्य् अमूनीति तेषु मैत्रः स्निग्धः । केनचिन् निमित्तेन खिन्नेषु माभूद् एषां खेद इति करुणः । देहादिषु निर्ममः प्रकृतेर् अमी विकारा न ममेति तेषु ममता-शून्यः । निरहङ्कारस् तेष्व् आत्माभिमान-रहितः । सम-दुःख-सुखः सुखे सति हर्षेण दुःखे सति उद्वेगेन चाव्याकुलः । यतः क्षमी तत्-तत्-सहिष्णुः । सततं सन्तुष्टो लाभे ऽलाभे च प्रसन्न-चित्तः । यतो योगी गुरूपदिष्टोपाय-निष्ठः
। यतात्मा विजितेन्द्रिय-वर्गः । दृढ-निश्चयो दृढः कुतर्कैर् अभिभवितुम् अशक्यतया स्थिरो निश्चयो हरेः किङ्करो ऽस्मीति अध्यवसायो यस्य सः । अतो मय्य् अर्पित-मनो-बुद्धिः । एवं-भूतो यो मद्-भक्तः स मे प्रियः प्रीति-कर्ता ॥१३-१४॥


१२।१५

यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः ।
हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥१५॥

श्रीधरः - किं च यस्माद् इति । यस्मात् सकाशाल् लोको जनो नोद्विजते भय-शङ्कया सङ्क्षोभं न प्राप्नोति । यश् च लोकान् नोद्विजते । यश् च स्वाभाविकैर् हर्षादिभिर् युक्तः । तत्र हर्षः स्वस्येष्ट-लाभ उत्साहः । अमर्षः परस्य लाभे ऽसहनम् । भयं त्रासः । उद्वेगो भयादि-निमित्तश् चित्त-क्षोभः । एतैर् विमुक्तो यो मद्-भक्तः स च मे प्रियः ॥१५॥

मधुसूदनः - पुनस् तस्यैव विशेषणानि यस्माद् इति । यस्मात् सर्व-भूताभय-दायिनः सन्न्यासिनो हेतोर् नोद्विजते न सन्तप्यते लोको यः कश्चिद् अपि जनः । तथा लोकान् निरपराधोद्वेजनैक-व्रतात् खल-जनान् नोद्विजते च यः । अद्वैत-दर्शित्वात् परम-कारुणिकत्वेन क्षमा-शीलत्वाच् च । किं च हर्षः स्वस्य प्रिय-लाभे रोमाञ्चाश्रु-पातादि-हेतुर् आनन्दाभिव्यञ्जकश् चित्त-वृत्ति-विशेषः । अमर्षः परोत्कर्षासहन-रूपश् चित्त-वृत्ति-विशेषः । भयं व्याघ्रादि-दर्शनाधीनश् चित्त-वृत्ति-विशेषस् त्रासः । उद्वेग एकाकी कथं विजने सर्व-परिग्रह-शून्यो जीविष्यामीत्य् एवंविधो व्याकुलता-रूपश् चित्त-वृत्ति-विशेषस् तैर् हर्षामर्ष-भयोद्वेगैर् मुक्तो यः । अद्वैत-दर्शितया तद्-अयोग्यत्वेन तैर् एव स्वयं परित्यक्तो न तु तेषां त्यागाय स्वयं व्यापृत इति यावत्
। तेन मद्-भक्त इत्य् अनुकृष्यते । ईदृशो मद्-भक्तो यः स मे प्रिय इति पूर्ववत् ॥१५॥

विश्वनाथः — किं च यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भ्प् ५।१८।१२] इत्य्-आद्य्-उक्तेर् मत्-प्रीति-जनका अन्ये ऽपि गुणा मद्-भक्त्या मुहुर् अभ्यस्तया स्वत एवोत्पद्यन्ते, तान् अपि त्वं शृण्व् इत्य् आह । यस्माद् इति पञ्चभिः । हर्षादिभिः प्राकृतैर् हर्षामर्ष-भयोद्वेगैर् मुक्त इत्य् आदिनोक्तान् अपि कांश्चिद् गुणान् दुर्लभत्व-ज्ञापनार्थं पुनर् आह यो न हृष्यतीति ॥१५॥

बलदेवः - यस्माल् लोकः को ऽपि जनो नोद्विजते भय-शङ्कया क्षोभं न लभते । यः कारुणिकत्वाज् जनोद्वेजकं कर्म न करोति । लोकाच् च यो नोद्विजते सर्वाविरोधित्व-विनिश्चयाद् यद्-उद्वेजकं कर्म लोको न करोति । यश् च हर्षादिभिः कर्तृभिर् मुक्तो, न तु तेषां मोचने स्वयं व्यापारी । अतिगम्भीरात्म-रति-निमग्नत्वात् तत्-स्पर्शेनापि रहित इत्य् अर्थः । तत्र स्व-भोग्यागमोत्साहो हर्षः, पर-भोग्यागमासहनम् अमर्षः । दुष्ट-सत्त्व-दर्शनाधीनो वित्रासः भयम् । कथं निरुद्यमस्य मम जीवनम् इति विक्षोभस् तूद्वेगः । एताश् चतस्रश् चित्त-वृत्तयः ॥१५॥


१२।१६

अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः ।
सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥१६॥

श्रीधरः - किं च अनपेक्ष इति । अनपेक्षो यदृच्छयोपस्थिते ऽप्य् अर्थे निस्पृहः । शुचिर् बाह्याभ्यन्तर-शौच-सम्पन्नः । दक्षो ऽनलसः । उदासीनः पक्षपात-रहितः । गत-व्यथ आधि-शून्यः । सर्वान् दृष्टादृष्टार्थान् आरम्भानुद्यमान् परित्यक्तुं शीलं यस्य सः । एवं-भूतः सन् यो मद्-भक्तः स मे प्रियः ॥१६॥

मधुसूदनः - किं च अनपेक्ष इति । निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनीतेष्व् अपि निःस्पृहः । शुचि-बाह्याभ्यन्तर-शौच-सम्पन्नः । दक्ष उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्य एव ज्ञातुं कर्तुं च समर्थः । उदासीनो न कस्यचिन् मित्रादेः पक्षं भजते यः । गत-व्यथः परैस् ताड्यमानस्यापि गता नोत्पन्ना व्यथा पीडा यस्य सः । उत्पन्नायाम् अपि व्यथायाम् अपकरृष्व् अनपकर्तृत्वं क्षमित्वम् । व्यथा-कारणेषु सत्स्व् अप्य् अनुत्पन्न-व्यथत्वं गत-गत-व्यथत्वम् इति भेदः । ऐहिकामुष्मिक-फलानि सर्वाणि कर्माणि सर्वारम्भास् तान् परित्यक्तुं शीलं यस्य स सर्वारम्भ-परित्यागी सन्न्यासी यो मद्-भक्तः स मे प्रियः ॥१६॥

विश्वनाथः — अनपेक्षो व्यवहारिक-कार्यापेक्षा-रहित उदासीनो व्यवहारिक-लोकेष्व् अनासक्तः । सर्वान् व्यवहारिकान् दृष्टादृष्टार्थांस् तथा पारमार्थिकान् अपि कांश्चित् शास्त्राध्यापनादीन् आरम्भान् उद्यमान् परिहर्तुं शीलं यस्य सः ॥१६॥

बलदेवः - अनपेक्षः स्वयम् आगते ऽपि भोग्ये निस्पृहः । शुचिर् बाह्याभ्यन्तर-पावित्र्यवान् । दक्षः स्व-शास्त्रार्थ-विमर्श-समर्थः । उदासीनम्उ पर-पक्षाग्राही । गत-व्यथो ऽपकृतो ऽप्य् आधि-शून्यः । सर्वारम्भ-परित्यागी स्व-भक्ति-प्रतीपाखिलोद्यम-रहितः ॥१६॥


१२।१७

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥

श्रीधरः - किं च य इति । प्रियं प्राप्य यो न हृष्यति । अप्रियं प्राप्य यो न द्वेष्टि । इष्टार्थ-नाशे सति यो न शोचति । अप्राप्तम् अर्थं यो न काङ्क्षति । शुभाशुभे पुण्य-पापे परित्यक्तुं शीलं यस्य सः । एवं-भूतो भूत्वा यो मद्-भक्तिमान् स मे प्रियः ॥१७॥

मधुसूदनः - किं च य इति । सम-दुःख-सुख इत्य् एतद् विवृणोति । यो न हृष्यतीष्ट-प्राप्तौ, न द्वेष्टि अनिष्ट-प्राप्तौ न शोचति प्राप्तेष्ट-वियोगे । न काङ्क्षति अप्राप्तेष्ट-योगे । सर्वारम्भ-परित्यागीत्य् एतद् विवृणोति शुभाशुभे सुख-साधन-दुःख-साधने कर्मणी परित्यक्तुं शीलम् अस्येति शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥

विश्वनाथः — नोथिन्ग्।

बलदेवः - यः प्रियं पुत्र-शिष्यादि प्राप्य न हृष्यति । अप्रियं तत् प्राप्य तत्र न द्वेष्टि । प्रिये तस्मिन् विनष्टे न शोचति । अप्राप्तम् तन् नाकाङ्क्षति । शुभं पुण्यम् अशुभं पापं तद्-उभयं प्रतिबन्धकत्व-साम्यात् परित्यक्तुं शीलं यस्य सः ॥१७॥


१२।१८-१९

समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥१८॥
तुल्य-निन्दा-स्तुतिर् मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ॥१९॥

श्रीधरः - किं च सम इति । शत्रौ च मित्रे च सम एक-रूपः । मानापमानयोर् अपि तथा सम एव । हर्ष-विषाद-शून्य इत्य् अर्थः । शीतोष्णयोः सुख-दुःखयोश् च समः । सङ्ग-विवर्जितः क्वचिद् अप्य् अनासक्तः ॥१८॥

किं च तुल्य-निन्दा-स्तुतिर् इति । तुल्या निन्दा-स्तुतिश् च यस्य सः । मौनी संयत-वाक् । येन केनचित् यथा-लब्धेन सन्तुष्टः । अनिकेतो नियतावास-शून्यः । स्थिर-मतिर् व्यवस्थित-चित्तः । एवं-भूतो भक्तिमान् यः स नरो मम प्रियः ॥१९॥

मधुसूदनः - किं च सम इति । पूर्वस्यैव प्रपञ्चः । सङ्ग-विवर्जितश् चेतनाचेतन-सर्व-विषय-शोभनाध्यास-रहितः । सर्वदा हर्ष-विषाद-शून्य इत्य् अर्थः । स्पष्टम् ॥१८॥

किं च तुल्य-निन्दा-स्तुतिर् इति । निन्दा दोष-कथनम् । स्तुतिर् गुण-कथनम् । ते दुःख-सुखाजनकतया तुल्ये यस्य स तथा । मौनी संयत-वाक् । ननु शरीर-यात्रा-निर्वाहाय वाग्-व्यापारो ऽपेक्षित एव नेत्य् आह सन्तुष्टो निवृत्त-स्पृहः । किं च – अनिकेतो नियत-निवास-रहितः । स्थिरा परमार्थ-वस्तु-विषया मतिर् यस्य स स्थिर-मतिः । ईदृशो यो भक्तिमान् स मे प्रियो नरः । अत्र पुनः पुनर् भक्तेर् उपादानं भक्तिर् एवापवर्गस्य पुष्कलं कारणम् इति द्रढयितुम् ॥१९॥

विश्वनाथः — अनिकेतः प्राकृत-स्वास्पदासक्ति-शून्यः ॥१८-१९॥

बलदेवः - समः शत्रौ चेति स्फुटार्थः । सङ्ग-वर्जितः कुसङ्ग-शून्यः । तुल्येति निन्दया दुःखं स्तुत्या सुखं च यो न विन्दति । मौनी यत-वाक् स्वेष्ट-मनन-शीलो वा । येन केनचिद् अदृष्टाकृष्टेन रुक्षेण स्निग्धेन वान्नादिना सन्तुष्टः । अनिकेतो नियत-निवास-रहितो निकेत-मोह-शून्यो वा । स्थिर-मतिर् निश्चित-ज्ञानः । एष्व् अद्वेष्टेत्य् आदिषु सप्तसु येषु गुणानां पुनर् अप्य् अभिधानं तत् तेषाम् अतिदौर्लभ्य-ज्ञापनार्थम् इत्य् अदोषः । सन्-निष्ठादीनां त्रि-विधानां भक्तानां सम्भूय स्थिता एते ऽद्वेष्टृत्वादयो धर्मा यथा-सम्भव-तारतम्येनैव सुधीभिः सङ्गमनीयाः ॥१८-१९॥


१२।२०

ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्-परमा भक्तास् ते ऽतीव मे प्रियाः ॥२०॥

श्रीधरः : उक्तं धर्म-जातं सपहलम् उपसंहरति ये त्व् इति । यथोक्तम् उक्त-प्रकारम् । धर्म एवामृतम् । अमृतत्व-साधनत्वात् । धर्म्यामृतम् इति केचित् पठन्ति । ये तद् उपासते ऽनुतिष्ठन्ति श्रद्धां कुर्वन्तः । मत्-पराश् च सन्तः । मद्-भक्तास् ते ऽतीव मे प्रिया इति ॥२०॥

दुःखम् अव्यक्त-वर्त्मैव तद्-बहु-विघ्नम् अतो बुधः ।
सुखं कृष्ण-पदाम्भोजं भक्ति-सत्-पथवान् भजेत् ॥

इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
भक्ति-योगो नाम द्वादशो ऽध्यायः ॥
॥१२॥

मधुसूदनः : अद्वेष्टेत्य् आदिनाक्षरोपासकादीनां जीवन्मुक्तानां सन्न्यासिनां लक्षण-भूतं स्वभाव-सिद्धं धर्म-जात-मुक्तम् । यथोक्तं वार्तिके -

उत्पन्नात्मावबोधस्य ह्य् अद्वेष्टृत्वादयो गुणाः ।
अयत्नतो भवन्त्य् एव न तु साधन-रूपिणः ॥ इति ।

एतद् एव च पुरा स्थित-प्रज्ञ-लक्षण-रूपेणाभिहितम् । तद् इदं धर्म-जातं प्रयत्नेन सम्पाद्यमानं मुमुक्षोर् मोक्ष-साधनं भवतीति प्रतिपादयन्न् उपसंहरति ये त्व् इति । ये तु सन्न्यासिनो मुमुक्षवो धर्मामृतं धर्म-रूपम् अमृत-साधनत्वाद् अमृतवद् आस्वाद्यत्वाद् वेदं यथोक्तम् अद्वेष्टा सर्व-भूतानाम् इत्य् आदिना प्रतिपादितं पर्युपासते ऽनुतिष्ठन्ति प्रयत्नेन श्रद्दधानाः सन्तो मत्-परमा अहं भगवान् अक्षरात्मा वासुदेव एव परमः प्राप्तव्यो निरतिशया गतिर् येषां ते मत्-परमा भक्ता मां निरुपाधिकं ब्रह्म भजमानास् ते ऽतीव मे प्रियाः । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः इति पूर्व-सूचितस्यायम् उपसंहारः ।

यस्माद् धर्मामृतम् इदं श्रद्धयानुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव प्रियो भवति तस्माद् इदं ज्ञानवतः स्वभाव-सिद्धतया लक्षणम् अपि मुमुक्षुणात्म-तत्त्व-जिज्ञासुनात्म-ज्ञानोपायत्वेन यत्नाद् अनुष्ठेयं विष्णोः परमं पदं जिगमिषुणेति वाक्यार्थः । तद् एवं सोपाधिक-ब्रह्माभिध्यान-परिपाकान् निरुपाधिकं ब्रह्मानुसन्दधानस्याद्वेष्टृत्वादि-धर्म-विशिष्टस्य मुख्यस्याधिकारिणः श्रवण-मनन-निदिध्यासनान्य् आवर्तयतो वेदान्त-वाक्यार्थ-तत्त्व-साक्षात्कार-सम्भवात् ततो मुक्त्य्-उपपतेर् मुक्ति-हेतु-वेदान्त-महावाक्यार्थान्वय-योग्यस् तत्-पदार्थो ऽनुसन्धेय इति मध्यमेन षट्केन सिद्धम् ॥२०॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-
शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् भक्ति-योगो नाम द्वादशो ऽध्यायः ॥
॥१२॥

विश्वनाथः : उक्तवान् बहुविध-स्वभक्त-निष्ठान् धर्मान् उपसंहरन् कार्त्स्न्येनैतल्-लिप्सूनां तच्-छ्रवण-विचारणादि-फलम् आह ये त्व् इति । एते भक्त्य्-उत्थ-शान्त्य्-उत्थ-धर्मा न प्राकृता गुणाः भक्त्या तुष्यति कृष्णो न गुणैः इत्य् उक्त-कोटितः । तु भिन्नोपक्रमे उक्त-लक्षणा भक्ता एकैक-सुस्वभाव-निष्ठाः । एते तु तत्-तत्-सर्व-सल्-लक्षणेप्सवः साधका अपि तेभ्यः सिद्धेभ्यो ऽपि श्रेष्ठाः । अतएवातेति पदम् ॥२०॥

सर्व-श्रेष्ठा सुख-मयी सर्व-साध्य-सुसाधिका ।
भक्तिर् एवाद्भुत-गुणेत्य् अध्यायार्थो निरूपितः ॥
निम्ब-द्राक्षे इव ज्ञान-भक्ती यद्यपि दर्शिते ।
आदीयेते तद् अप्य् एते तत्-तद्-आस्वाद-लोभिभिः ॥

इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतासु द्वादशो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥१२॥

बलदेवः : उक्त-भक्ति-योगम् उपसंहरन् तस्मिन् निष्ठा-फलम् आह ये त्व् इति । ये भक्ता यथोक्तं मय्य् आवेश्य मनो ये माम् इत्य् आदिभिर् यथा-गतम् इदं धर्मामृतं पर्युपासते । प्राप्यं माम् इव प्रापकं तत् समाश्रयन्ति । श्रद्दधाना भक्ति-श्रद्धा-लवो मत्-परमा मन्-निरतास् ते ममातीव प्रिया भवन्ति ॥२०॥

वशः स्वैक-जुषां कृष्णः स्व-भक्त्य्-एक-जुषां तु सः ।
प्रीत्यैवातिवशः श्रीमान् इति द्वादश-निर्णयः ॥

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये एकादशो ऽध्यायः
॥१२॥