११।१
अर्जुन उवाच
मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-सञ्ज्ञितम् ।
यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम ॥१॥
श्रीधरः :
विभूति-वैभवं प्रोच्य कृपया परया हरिः ।
दिदृक्षोर् अर्जुनस्याथ विश्व-रूपम् अदर्शयत् ॥
पूर्वाध्यायान्ते विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति विश्वात्मकं पारमेश्वरं रूपम् उत्क्षिप्तम् । तद्-दिदृक्षुः पूर्वोक्तम् अभिनन्दन्न् अर्जुन उवाच मद्-अनुग्रहायेति चतुर्भिः । मद्-अनुग्रहाय शोक-निवृत्तये । परमं परमात्म-निष्ठं गुह्यं गोप्यम् अपि अध्यात्म-सञ्ज्ञितम् आत्मानात्म-विवेक-विषयम् । यत् त्वयोक्तं वचः अशोच्यान् अन्वशोचस् त्वम् इत्य् आदि षष्ठाध्याय-पर्यन्तं यद् वाक्यम् । तेन ममायं मोहः - अहं हन्ता एते हन्यन्ते इत्य् आदि लक्षणो भ्रमः । विगतो विनष्टः । आत्मनः कर्तृत्वाद्य्-अभावोक्तेः ॥१॥
मधुसूदनः : पूर्वाध्याये नाना-विभूतीर् उक्त्वा विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति विश्वात्मकं पारमेश्वरं रूपं भगवताभिहितं श्रुत्वा परमोत्कण्ठितस् तत्-साक्षात्कर्तुम् इच्छन् पूर्वोक्तम् अभिनन्दन् मद् इति । मद्-अनुग्रहाय शोक-निवृत्त्य्-उपकाराय परमं निरतिशय-पुरुषार्थ-पर्यवसायि गुह्यं गोप्यं यस्मै कस्मैचिद् वक्तुम् अनर्हम् अपि । अध्यात्म-सञ्ज्ञितम् अध्यात्मम् इति शब्दितम् आत्मानात्म-विवेक-विषयम् अशोच्यान् अन्वशोचस् त्वम् इत्य् आदि-षष्ठाध्याय-पर्यन्तं त्व् अपदार्थ-प्रधानं यत् त्वया परम-कारुणिकेन सर्वज्ञेनोक्तं वचो वाक्यं तेन वाक्येनाहम् एषां हन्ता मयैते हन्यन्त इत्य् आदिविविध-विपर्यास-लक्षणो मोहो ऽयम् अनुभव-साक्षिको विगतो विनष्टो मम । तत्रासकृद् आत्मनः सर्व-विक्रिया-शून्यत्वोक्तेः ॥१॥
विश्वनाथः :
एकादशे विश्वरूपं दृष्ट्वा सम्भ्रान्त-धीः स्तुवन् ।
पार्थ आनन्दितो दर्शयित्वा स्वं हरिणा पुनः ॥
पूर्वाध्यायान्ते विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति सर्व-विभूत्य्-आश्रयम् आदि-पुरुषं स्व-प्रिय-सखस्यांशं श्रुत्वा परमानन्द-निमग्नस् तद्-रूपं दिदृक्षमाणो भगवद्-उक्तम् अभिनन्दति मद्-अनुग्रहायेति त्रिभिः । अध्यात्मं इति सप्तम्य्-अर्थे अव्ययीभावाद् आत्मनीत्य् अर्थः । आत्मनि या या सञ्ज्ञा विभूति-लक्षणा सा सञ्जाता यस्य तद्-वचः । मोहस् तद्-ऐश्वर्याज्ञानम् ॥१॥
बलदेवः :
एकादशे विश्व-रूपं विलोक्य त्रस्त-धीः स्तुवन् ।
दर्शयित्वा स्वकं रूपं हरिणा हर्षितो ऽर्जुनः ॥
पूर्वत्र अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः इति विभूति-कथनोपक्रमे विष्टभ्याहम् इदं कृत्स्नम् इति तद्-उपसंहारे च निखिल-विभूत्य्-आश्रयो महत्-स्रष्टा पुरुषः स्वस्य कृष्णस्यावतारः, स तु महत्-स्रष्टादि-सर्वावतारीति तन्-मुखात् प्रतीत्य सख्यानन्द-सिन्धु-निमग्नो ऽर्जुनस् तत्-पुरुष-रूपं दिदृक्षुः कृष्णोक्तम् अनुवदति मद् इति । मद्-अनुग्रहायाध्यात्म-सञ्ज्ञितम् विभूति-विषयकं यद् वचस् त्वयोक्तं तेन मम मोहः कथं विद्याम् इत्य्-आद्य्-उक्तो विगतो नष्टः । अध्यात्मम् आत्मनि परमात्मनि त्वयि या विभूति-लक्षणा सञ्ज्ञा सा जाता । यस्य तद्-वचः विभक्त्य्-अर्थे ऽव्ययीभावः । परमं गुह्यम् अतिरहस्यं त्वद्-अन्यागम्यम् इत्य् अर्थः ॥१॥
११।२
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥२॥
श्रीधरः : किं च भवाप्ययाव् इति । भूतानां भवाप्ययौ सृष्टि-प्रलयौ त्वत्तः सकाशाद् एव भवतः । इति श्रुतं मया । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा इत्य् आदौ । विस्तरशः पुनः पुनः । कमलस्य पत्रे इव सुप्रसन्ने विशाले अक्षिणी यस्य तव हे कमल-पत्राक्ष ! माहात्म्यम् अपि चाव्ययम् अक्षयं श्रुतम् । विश्व-सृष्ट्य्-आदि-कर्तृत्वे ऽपि सर्व-नियन्तृत्वे ऽपि शुभाशुभ-कर्म-कारयितृत्वे ऽपि बन्ध-मोक्षादि-विचित्र-फल-दातृत्वे ऽपि अविकारावैधर्म्यासङ्गौदासीन्यादि-लक्षणम् अपरिमितं महत्त्वं च श्रुतम् - अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः इति । मया ततम् इदं सर्वम् इति । न च मां तानि कर्माणि निबध्नन्ति इति । समो ऽहं सर्व-भूतेषु इत्य् आदिना । अतस् त्वत्-परतन्त्रत्वाद् अपि जीवानाम् अहं कर्तेत्य् आदिर् मदीयो मोहो विगत
इति भावः ॥२॥
मधुसूदनः : तथा सप्तमाद् आरभ्य दशम-पर्यन्तं तत्-पदार्थ-निर्णय-प्रधानम् अपि भगवतो वचनं मया श्रुतम् इत्य् आह भवाप्ययाव् इति । भूतानां भवाप्ययाव् उत्पत्ति-प्रलयौ त्वत्त एव भवन्तौ त्वत्त एव विस्तरशो मया श्रुतौ न तु सङ्क्षेपेणासकृद् इत्य् अर्थः । कमलस्य पत्रे इव दीर्घे रक्तान्ते परम-मनोरमे अक्षिणी यस्य तव स त्वं हे कमल-पत्राक्ष ! अतिसौन्दर्यातिशयोल्लेखो ऽयं प्रेमातिशयात् । न केवलं भवाप्ययौ त्वत्तः श्रुतौ महात्मनस् तव भावो माहात्म्यम् अतिशयैश्वर्यं विश्व-सृष्ट्य्-आदि-कर्तृत्वे ऽप्य् अविकारे त्वं शुभाशुभ-कर्म-कारयितृत्वे ऽप्य् अवैषम्यं बन्ध-मोक्षादि-विचित्र-फल-दातृत्वे ऽप्य् असङ्गौदासीन्यम् अन्यद् अपि सर्वात्मत्वादि सोपाधिकं निरुपाधिकम् अपि चाव्ययम् अक्षयं मया श्रुतम् इति परिणतम् अनुवर्तते च-कारात् ॥२॥
विश्वनाथः : अस्मिन् षट्के तु भवाप्ययौ सृष्टि-संहारौ त्वत्त इति अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा इत्य् आदिनाव्ययं माहात्म्यं सृष्ट्य्-आदि-कर्तृत्वे ऽप्य् अधिकारासङ्गादि-लक्षणं मया ततम् इदं सर्वम् इति न च मां तानि कर्माणि निबध्नन्ति इत्य् आदिना ॥२॥
बलदेवः : किं च भवेति । हे कमल-पत्राक्ष ! कमल-पत्रे इवातिरम्ये दीर्घ-रक्तान्ते चाक्षिणी यस्येति प्रेमातिशयात् सौन्दर्यातिशयोल्लेखः । त्वत्तस् त्वद्-धेतुकौ भूतानां भवाप्ययौ सर्ग-प्रलयौ मया त्वत्तः सकाशाद् विस्तरशो ऽसकृत् श्रुतौ अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा इत्य् आदिनाव्ययं नित्यं माहात्म्यम् ऐश्वर्यं च तव सर्व-कर्तृत्वे ऽपि निर्विकारत्वं सर्व-नियन्तृते ऽप्य् असङ्गत्वम् इत्य् एवम् आदि त्वत्त एव मया विस्तरशः श्रुतम् मया ततम् इदं सर्वम् इत्य् आदिभिः ॥२॥
११।३
एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर ।
द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥३॥
श्रीधरः : किं च एवम् एतद् इति । भवाप्ययौ हि भूतानाम् इत्य् आदि मया श्रुतम् । यथा चेदानीम् आत्मानं त्वम् आत्थ विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इत्य् एवं कथयसि हे परमेश्वर । एवम् एव तत् । अत्राप्य् अविश्वासो मम नास्ति । तथापि हे पुरुषोत्तम तवैश्वर्य-शक्ति-वीर्य-तेजोभिः सम्पन्नं तद्-रूपं कौतूहलाद् अहं द्रष्टुम् इच्छामि ॥३॥
मधुसूदनः : हे परमेश्वर यथा येन प्रकारेण सोपाधिकेन निरुपाधिकेन च निरतिशैश्वर्येणात्मानं त्वम् आत्थ कथयसि त्वम् एवम् एतन् नान्यथा । त्वद्-वचसि कुत्रापि ममाविश्वास-शङ्का नास्त्य् एवेत्य् अर्थः । यद्यप्य् एवं तथापि कृतार्थी-बुभूषया द्रष्टुम् इच्छामि ते तव रूपम् ऐश्वरं ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सम्पन्नम् अद्भुतं हे पुरुषोत्तम । सम्बोधनेन त्वद्-वचस्य् अविश्वासो मम नास्ति दिदृक्षा च महती वर्तत इति सर्वज्ञत्वात् त्वं जानासि सर्वान्तर्यामित्वाच् चेति सूचयति ॥३॥
विश्वनाथः : इदानीम् आत्मानं त्वम् यथात्थ विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति, तच् चैवम् एव मम नात्र को ऽप्य् अविश्वासो ऽस्तीति भावः । किन्तु तद् अपि संहृतार्थो बुभूषया तवैश्वरं तद्-रूपं द्रष्टुम् इच्छामि येनैकांशेनेश्वर-रूपेण त्वं जगत् विष्टभ्य वर्तसे । तस्यैव ते रूपम् अहम् इदानीं चक्षुर्भ्यां द्रष्टुम् इच्छामीत्य् अर्थः ॥३॥
बलदेवः : एवम् इति विष्टभ्याहम् इदं इत्य् आदिना यथा तम् आत्मानं स्वम् आत्थ ब्रवीषि, तद् एतद् एवम् एव न तव मे संशय-लेशो ऽपि तथापि तवैश्वरं सर्व-प्रशास्तृ तद्-रूपम् अहं कौतुकाद् द्रष्टुम् इच्छामि । हे परमेश्वर हे पुरुषोत्तमेति सम्बोधयन् मम तद्-दिदृक्षां जानास्य् एव । तां पूरयेति व्यञ्जयति । मधुर-रसास्वादिनः कटु-रस-जिघृक्षावत्-त्वन्-माधुर्यानुभविनो मे त्वद्-ऐश्वर्यानु-बुभी᳡उषाभ्युदेतीति भावः ॥३॥
११।४
मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥४॥
श्रीधरः : न चाहं द्रष्टुम् इच्छामीत्य् एतावतैव त्वया तद्-रूपं दर्शयितव्यम् । किं तर्हि ? मन्यस इति । योगिन एव योगाः । तेषाम् ईश्वरः । मयार्जुनेन तद्-रूपं द्रष्टुं शक्त्यम् इति यदि मन्यसे । ततस् तर्हि तद्-रूपवन्तम् आत्मानम् अव्ययं नित्यं मम दर्शय ॥४॥
मधुसूदनः : द्रष्टुम् अयोग्ये कुतस् ते दिदृक्षेत्य् आसङ्कयाह मन्यस इति । प्रभवति सृष्टि-स्थिति-संहार-प्रवेश-प्रशासनेष्व् इति प्रभुः । हे प्रभो सर्व-स्वामिन् ! तत् तवैश्वरं रूपं मयार्जुनेन द्रष्टुम् शक्यम् इति यदि मन्यसे जानासीच्छसि वा । हे योगेश्वर सर्वेषाम् अणिमादि-सिद्धि-शालिनां योगानां योगिनाम् ईश्वर ततस् त्वद्-इच्छा-वशाद् एव मे मह्यम् अत्यर्थम् अर्थिते त्वं परम-कारुणिको दर्शय चाक्षुष-ज्ञान-विषयी-कारय आत्मानम् ऐश्वर-रूप-विशिष्टम् अव्ययम् अक्षयम् ॥४॥
विश्वनाथः : योगेश्वरेति अयोग्यस्यापि मम तद्-दर्शन-योग्यतायां तव योगैश्वर्यम् एव कारणम् इति भावः ॥४॥
बलदेवः : ऐश्वर्य-दर्शने भगवन्-सम्मतिं गृह्णाति मन्यसे यदीति । जानासीच्छसि वेत्य् अर्थः । हे प्रभो सर्व-स्वामिन् ! योगेश्वरेति सम्बोधयन्न् अयोग्यस्य मे त्वद्-दर्शने त्वच्-छक्तिर् एव हेतुर् इति व्यञ्जयति ॥४॥
११।५
श्री-भगवान् उवाच
पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः ।
नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च ॥५॥
श्रीधरः : एवं प्रार्थितः सन्न् अत्यद्भुतं रूपं दर्शयियन् सावधानो भवेत्य् एवम् अर्जुनम् अभिमुखीकरोति श्री-भगवान् उवाच पश्येति चतुर्भिः । रूपस्यैकत्वे ऽपि नाना-विधत्वात् रूपाणीति बहु-वचनम् । अपरिमितान्य् अनेक-प्रकाराणि । दिव्यान्य् अलौकिकानि मम रूपाणि पश्य । वर्णाः शुक्ल-कृष्णादयः । आकृतयो ऽवयव-विशेषाः । नाना अनेके वर्णा आकृतयश् च येषां तानि नाना-वर्णाकृतीनि ॥५॥
मधुसूदनः : एवम् अत्यन्त-भक्तेनार्जुनेन प्रार्थितः सन् श्री-भगवान् उवाच पश्येति । अत्र क्रमेण श्लोक-चतुष्टये ऽपि पश्येत्य् आवृत्त्यात्यद्भुत-रूपाणि दर्शयिष्यामि त्वं सावधानो भवेत्य् अर्जुनम् अभिमुखीकरोति भगवान् । शतशो ऽथ सहस्रश इत्य् अपरिमितानि तानि च नाना-विधान्य् अनेक-प्रकाराणि दिव्यान्य् अत्यद्भुतानि नाना विलक्षणा वर्णा नील-पीत-दिव्य-प्रकारास् तथाकृतयश् चावयव-संस्थान-विशेषा येषां तानि नाना-वर्णाकृतीनि च मे मम रूपाणि पश्य । अर्हे लोट् । द्रष्टुम् अर्हो भव हे पार्थ ॥५॥
विश्वनाथः : ततश् च स्वांशस्य प्रकृत्य्-अन्तर्यामिणः प्रथम-पुरुषस्य सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्रपात् इति पुरुष-सूक्त-प्रोक्तं रूपं प्रथमम् इदं दर्शयामि । पश्चात् प्रस्तुतोपयोगित्वेन तस्यैव काल-रूपत्वम् अपि ज्ञापयिष्यामीति मनसि विमृष्यार्जुनं प्रति सावधानो भव इत्य् अभिमुखीकरोति । पश्य इति रूपाणीति । एकस्मिन्न् अपि मत्-स्वरूपे शतशो मत्-स्वरूपाणि मद्-विभूतीः ॥५॥
बलदेवः : एवम् अभ्यर्थितो भगवान् प्रकृत्य्-अन्तर्यामिणं सहस्र-शिरसं प्रशास्तृत्व-प्रधानं देवाकारं स्वांशं प्रदर्शयितुं प्रकृतोपयोगित्वात् तत्रैव कालात्मकतां च बोधयितुम् अर्जुनम् अवधापयतीत्य् आह पश्येति चतुर्षु । पश्येति पदावृत्तिर् दर्शनीयानां रूपाणाम् अत्यद्भुतत्व-द्योतनार्था च बोध्या । मे मम सहस्र-शीर्षाकारेण भासमानस्यैकस्यैव शतानि सहस्राणि च विभूति-भूतानि रूपाणि पश्य अर्हे लोट् तानि प्रष्टुम् अर्हो भवेत्य् अर्थः ॥५॥
११।६
पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा ।
बहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत ॥६॥
श्रीधरः : तान्य् एव पश्येति । आदित्यादीन् मम देहे पश्य । मरुत एकोनपञ्चाशद्-देवता-विशेषान् । अदृष्ट-पूर्वाणि त्वया वान्येन वा पूर्वम् अदृष्टानि रूपाणि । आश्चर्याण्य् अद्भुतानि ॥६॥
मधुसूदनः : दिव्यानि रूपाणि पश्येत्य् उक्त्वा तान्य् एव लेशतो ऽनुक्रामति द्वाभ्याम् पश्येति । पश्यादित्यान् द्वादश वसून् अष्टौ रुद्रान् एकादश अश्विनौ द्वौ मरुतः सप्त-सप्तकान् एकोनपञ्चाशत् । तथान्यान् अपि देवान् इत्य् अर्थः । बहून्य् अन्यान्य् अदृष्ट-पूर्वाणि पूर्वम् अदृष्टानि मनुष्य-लोके त्वया त्वत्तो ऽन्येन वा केनचित् । पश्याश्चर्याण्य् अद्भुतानि हे भारत ! अत्र शतशो ऽथ सहस्रशः नाना-विधानीत्य् अस्य विवरणं बहूनीति आदित्यन्य् इत्य् आदि च । अदृष्ट-पूर्वाणीति दिव्यानीत्य् अस्य आश्चर्याणीति नाना-वर्णाकृतीनीत्य् अस्येति द्रष्टव्यम् ॥६॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : किं चेध मम देहे एकस्थम् एक-देश-स्थितं स-चराचरं कृत्स्नं जगत्त्वम् अद्याधुनैव पश्य । यत् तत्र तत्र परिभ्रमता त्वया वर्षायुतैर् अपि द्रष्टुम् अशक्यम् । तदैकदैवैकत्रैव मद्-अनुग्रहाद् अवलोकस्वेत्य् अर्थः । यच् च जगद्-आश्रय-भूतं प्रधान-महद्-आदि-कारण-स्वरूपं स्व-जय-पराजयादिकं चान्यद् द्रष्टुम् इच्छामि तद् अपि पश्य ॥६॥
११।७
इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् ।
मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ॥७॥
श्रीधरः : किं च इहैकस्थम् इति । तत्र तत्र परिभ्रमता वर्ष-कोटिभिर् अपि द्रष्टुम् अशक्यं कृत्स्नम् अपि चराचर-सहितं जगद् इहास्मिन् मम देहे ऽवयव-रूपेणैकत्रैव स्वितमद्याधुनैव पश्य । यच् चान्यज् जगद्-आश्रय-भूतं कारण-स्वरूपं जगतश् चावस्था-विशेषादिकं जय-पराजयादिकं च यद् अप्य् अन्यद् द्रष्टुम् इच्छसि तत् सर्वं पश्य ॥७॥
मधुसूदनः : न केवलम् एतावद् एव । समस्तं जगद् अपि मद्-देह-स्थं द्रष्टुम् अर्हसीत्य् आह इहैकस्थम् इति । इहास्मिन् मम देहे एक-स्थम् एकस्मिन्न् एवावयव-रूपेण स्थितं जगत् कृत्स्नं समस्तं स-चराचरम् जङ्गम-स्थावर-सहितं तत्र तत्र परिश्रमता वर्ष-कोटि-सहस्रेणापि द्रष्टुम् अशक्यम् अद्याधुनैव पश्य हे गुडाकेश ! यच् चान्यज् जय-पराजयादिकं द्रष्टुम् इच्छसि तद् अपि सन्देहोच्छेदाय पश्य ॥७॥
विश्वनाथः : परिभ्रमता त्वया वर्ष-कोटिभिर् अपि द्रष्टुम् अशक्यं कृत्स्नम् अपि जगत् । इह प्रस्ताव एकस्मिन्न् अपि मद्-देहावयवे तिष्ठत्य् एकस्थम् । यच् चान्यत् स्व-जय-पराजयादिकं च ममास्मिन् देहे जगद्-आश्रय-भूत-कारण-रूपे ॥७॥
बलदेवः : किं चेह मम देहे एक-स्थम् एक-देश-स्थितं स-चराचरं कृत्स्नं जगत् त्वम् अद्याधुनैव पश्य । यत् तत्र तत्र परिभ्रमता त्वया वर्षायुतैर् अपि द्रष्टुम् अशक्यं तदैकदैवैकत्रैव मद्-अनुग्रहाद् अवलोकस् त्वेत्य् अर्थः । यच् च जगद्-आश्रय-भूतं प्रधान-महद्-आदि-कारण-स्वरूपं स्व-जय-पराजयादिकं चान्यद् द्रष्टुम् इच्छसि तद् अपि पश्य ॥७॥
११।८
न तु मां शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥८॥
श्रीधरः : यद् उक्तम् अर्जुनेन मन्यसे यदि तच् छक्यम् इति तत्राह न तु माम् इति । अनेनैव तु स्वीयेन चर्म-चक्षुषा मां द्रष्टुम् न शक्यसे शक्तो न भविष्यसि । अतो ऽहं दिव्यम् अलौकिकं ज्ञानात्मकं चक्षुस् तुभ्यं ददामि । मम ऐश्वरम् असाधारणं योगम् युक्तिम् अघटन-घटना-सामर्थ्यं पश्य ॥८॥
मधुसूदनः : यत् तूक्तं मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति विशेषणम् आह न तु माम् इति । अनेनैव प्राकृतेन स्व-चक्षुषा स्वभाव-सिद्धेन चक्षुषा मां दिव्य-रूपं द्रष्टुम् न तु शक्यसे न शक्नोषि तु एव । शक्यस इति पाठे शक्तो न भविष्यसीत्य् अर्थः । सौवादिकस्यापि शक्नोतेर् दैवादिकः श्यंश् छान्दस् इति वा । दिवादौ पाठो वेत्य् एव साप्रदायिकम् ।
तर्हि त्वां द्रष्टुं कथं शक्नुयाम् अत आह दिव्यम् अप्राकृतं मम दिव्य-रूप-दर्शन-क्षमं ददामि ते तुभ्यं चक्षुस् तेन दिव्येन चक्षुषा पश्य मे योगम् अघटन-घटना-सामर्थ्यातिशयम् ऐश्वरम् ईश्वरस्य ममासाधरणम् ॥८॥
विश्वनाथः : इन्द्रम् इन्द्रजालं माया-मयं वा रूपम् इत्य् अर्जुन मा मन्यताम्, किन्तु सच्-चिद्-आनन्द-मयम् एव स्वरूपम् अन्तर्भूत-सर्व-जगत्कम् अतीन्द्रियत्वेनैव विश्वसितुम् इत्य् एतद् अर्थम् आह न त्व् इति । अनेनैव प्राकृतेन स्व-चक्षुषा मां चिद्-घनाकारं द्रष्टुं न शक्यसे न शक्नोषीत्य् अतस् तुभ्यं दिव्यम् अप्राकृतं चक्षुर् ददामि । तेनैव पश्येते प्राकृत-नर-मानिनम् अर्जुनं कम् अपि चमत्कारं प्रापयितुम् एव । यतो ह्य् अर्जुनो भगवत्-पार्षद-मुख्यत्वान् नरावतारत्वाच् च प्राकृत-नर इव न चर्म-चक्षुकः । किं च साक्षाद्-भगवन्-माधुर्यम् एव स स्व-चक्षुषा साक्षाद् अनुभवति सो ऽर्जुनो भगवद्-अंशं द्रष्टुं तेन अशक्नुवन् दिव्यं चक्षुर् गृह्णीयाद् इति कः खलु न्यायः ? एके त्व् एवम् आचक्षते भगवतो नर-लीलात्व-महामाधुर्यैक-ग्राहि
सर्वोत्कृष्टं यद् भवति । तच् चक्षुर् अनन्य-भक्त इव भगवतो देव-लीलात्व-सम्पदं नैव गृह्णाति न हि सितोपल-रसास्वादिनी रसना खण्डं गुडं वा स्वादयितुं शक्नोति । तस्माद् अर्जुनाय तत् प्रार्थित-चमत्कार-विशेषं दातुं देव-लीलत्वम् ऐश्वर्यं जिग्राहयिषुर् भगवान् प्रेम-रसान् अनुकूलं दिव्यम् अमानुषम् एव चक्षुर् ददाव् इति । तथा दिव्य-चक्षुर् दानाभिप्रायो ऽध्यायान्ते व्यक्तीभविष्यतीति ॥८॥
बलदेवः : मन्यसे यदि तच् छक्यम् इत्य् अर्जुन-प्रार्थितं सम्पादयन् निरतम्, विस्मितं कर्तुं तस्मै स्व-देवाकार-ग्राहि दिव्यं चक्षुर् भगवान् ददाव् इत्य् आह न तु माम् इति । अनेनैव मन्-माधुर्यैकान्तेन स्व-चक्षुषा युगपद्-विभात-सहस्र-सूर्य-प्रख्यं सहस्र-शिरस्कं मां द्रष्टुं न शक्यसे न शक्नोषि । अतस् ते दिव्यं चक्षुर् ददामि । यथाहम् आत्मानम् अतिप्रवाहाक्रान्तं व्यनद्मि तथा त्वच्-चक्षुश् चेति भावः । तेन ममैश्वरं योगं रूपं पश्य युज्यते ऽनेन इति व्युत्पत्तेर् योगो रूपं परमं रूपम् ऐश्वरम् इत्य् अग्रिमाच् च । अत्र दिव्यं चक्षुर् एव दत्तं न तु दिव्यं मनो ऽपीति बोध्यम् । तादृशे मनसि दत्ते, तस्य तद्-रूपे रुचि-प्रसङ्गाद् इह दिव्य-दृष्टि-दानेन लिङ्गेन पार्थ-सारथि-रूपात् सहस्र-शिरसो विश्व-रूपस्याधिक्यम् इति यद् वदन्ति तत् त्व् अग्रे निरस्यम् ॥८॥
११।९
सञ्जय उवाच
एवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः ।
दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥९॥
श्रीधरः : एवम् उक्त्वा भगवान् अर्जुनाय स्वरूपं दर्शितवान् । तच् च रूपं दृष्ट्वार्जुनः श्री-कृष्णं विज्ञापितवान् इतीमम् अर्थं षड्भिः श्लोकैर् धृतराष्ट्रं प्रति सञ्जय उवाच एवम् उक्त्वेति । हे राजन् धृतराष्ट्र ! महान् चासौ योगेश्वरश् च हरिः परमम् ऐश्वरं रूपम् दर्शितवान् ॥९॥
मधुसूदनः : भगवान् अर्जुनाय दिव्यं रूपं दर्शितवान् । स च तद् दृष्ट्वा विस्मयाविष्टो भगवन्तं विज्ञापितवान् इतीमं वृत्तान्तम् एवम् उक्त्वेत्य् आदिभिः षड्भिः श्लोकैर् धृतराष्ट्रं प्रति सञ्जय उवाचेति । एवम् न तु मां शक्यसे द्रष्टुम् अनेन चक्षुषा दिव्यं ददामि ते चक्षुर् इत्य् उक्त्वा ततो दिव्य-चक्षुः-प्रदानाद् अनन्तरं हे राजन् धृतराष्ट्र स्थिरो भव श्रवणाय । महान् सर्वोत्कृष्टश् चासौ योगेश्वरश् चेति महा-योगेश्वरो हरिर् भक्तानां सर्व-क्लेशापहारी भगवान् दर्शनायोग्यं अपि दर्शयामास पार्थायैकान्त-भक्ताय परमं दिव्यं रूपम् ऐश्वरम् ॥९॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : एवम् उक्त्वा हरिः पार्थाय विश्व-रूपं दर्शितवान् । तच् च रूपं वीक्ष्य पार्थो हरिम् एवं विज्ञापितवान् इतीमम् अर्थं सञ्जयः प्राह एवम् षड्भिः । ततो दिव्य-चक्षुर् दानानन्तरं हे राजन् धृतराष्ट्र ! महांश् चासौ योगेश्वरश् च हरिः ॥९॥
११।१०-११
अनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम् ।
अनेक-दिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१०॥
दिव्य-माल्याम्बर-धरं दिव्य-गन्धानुलेपनम् ।
सर्वाश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ॥११॥
श्रीधरः : कथम्भूतं तद् इति ? अत आह अनेक-वक्त्र-नयनम् इति । अनेकानि वक्त्राणि नयनानि च यस्मिंस् तत् । अनेकानाम् अद्भुतानां दर्शनम् यस्मिंस् तत् । अनेकानि दिव्याभरणानि यस्मिंस् तत् । दिव्यान्य् अनेकान्य् उद्यतान्य् आयुधानि यस्मिंस् तत् ॥१०॥
किं च दिव्येति । दिव्यानि माल्यानि अम्बराणि च धारयतीति तत् । तथा दिव्यो गन्धो यस्य तादृशं अनुलेपनं यस्य तत् । सर्वाश्चर्य-मयम् अनेकाश्चर्य-प्रायम् । देवम् द्योतनात्मकम् । अनन्तम् अपरिच्छिन्नम् । विश्वतः सर्वतो मुखानि यस्मिंस् तत् ॥११॥
मधुसूदनः : तद् एव रूपं विशिनष्टि अनेकेति । अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे । अनेकानाम् अद्भुतानां विस्मय-हेतूनां दर्शनम् यस्मिन् । अनेकानि दिव्यान्य् आभरणानि भूषणानि यस्मिन् । दिव्यान्य् अनेकान्य् उद्यतान्य् आयुधानि अस्त्राणि यस्मिंस् तत् तथारूपम् । दिव्यानि माल्यानि पुष्प-मयानि रत्नमयानि च तथा दिव्याम्बराणि वस्त्राणि च ध्रियन्ते येन तद्-दिव्य-माल्याम्बर-धरं । दिव्यो गन्धो ऽस्येति दिव्य-गन्धस् तद्-अनुलेपनम् यस्य तत् । सर्वाश्चर्य-मयम् अनेकाद्भुत-प्रचुरं । देवम् द्योतनात्मकम् । अनन्तम् अपरिच्छिन्नं विश्वतः सर्वतो मुखानि यस्मिंस् तद्-रूपं दर्शयामासेति पूर्वेण सम्बन्धः । अर्जुनो ददर्शेत्य् अध्याहारो वा ॥१०-११॥
विश्वनाथः : विश्वतः सर्वतो मुखानि यस्य तत् ॥११॥
बलदेवः : अनेकेति अनेकानि सहस्राणि वक्त्राणि नयनानि च यस्य तद्-रूपं सहस्र-बाहो भव विश्व-मूर्ते इत्य् अग्रिम-वाक्यात् । इहानेक-बहु-सहस्र-शब्दा असङ्ख्येयार्थ-वाचिनः । विश्वतश् चक्षुर् उत विश्वतोमुखः इत्य् आदि-ज्ञापकात् । अनेकानाम् अद्भुतानां दर्शनम् यत्र तत् दिव्यो गन्धो यत्र तादृग् अनुलेपनं यस्य तत् । देवं द्योतमानम् अनन्तम् अपारं विश्वतः सर्वतो मुखानि यस्य तत् ॥१०-११॥
११।१२
दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता ।
यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः ॥१२॥
श्रीधरः : विश्व-रूप-दीप्तेर् निरुपमत्वम् आह दिवीति । दिव्याकाशे । सूर्य-सहस्रस्य युगपद् उत्थितस्य यदि युगपद् उत्थिता भाः प्रभा भवेत् तर्हि सा तदा महात्मनो विश्वरूपस्य भासः प्रभाया कथञ्चित् सदृशी स्यात् । अन्योपमा नास्त्य् एवेत्य् अर्थः । तथाद्भुतं रूपं दर्शयामासेति पूर्वेणैवान्वयः ॥१२॥
मधुसूदनः : देवम् इत्य् उक्तं विवृणोति दिवीति । दिवि अन्तरिक्षे सूर्याणां सहस्रस्यापरिमित-सूर्य-समूहस्य युगपद् उदितस्य युगपद् उत्थिता भाः प्रभा यदि भवेत् तदा सा तस्य महात्मनो विश्वरूपस्य भासो दीप्तेः सदृशी तुल्या यदि स्याद् यदि वा न स्यात् ततो ऽपि नूनं विश्वरूपस्यैव भा अतिरिच्येतेत्य् अहं मन्ये । अन्या तूपमा नास्त्य् एवेत्य् अर्थः । अत्राविद्यमानाध्यवसायात् तद्-अभावेनोपमाभाव-पराद्भूतोपमा-रूपम् आरूपेयम् अतिशयोक्तिर् उत्प्रेक्षा व्यञ्जयन्ती सर्वथा निरुपमत्वम् एव व्यनक्ति उभौ यदि व्योम्नि पृथक्-प्रवाहाव् इत्य् आदिवत् ॥१२॥
विश्वनाथः : एकदैव यदि भाः कान्तिर् उत्थिता भवेत् तदा तस्य महात्मनो विश्वरूप-पुरुषस्य भासः प्रभायाः कान्तेः कथञ्चित् सदृशी भवेत् ॥१२॥
बलदेवः : तद्-दीप्तेर् नैरुपम्यम् आह दिवीति । दिवि आकाशे युगपद् उत्थितस्य सूर्य-सहस्रस्य भाः कान्तिश् चेद् युगपद् उत्थिता भवेत् तर्हि सा तस्य महात्मनो विश्व-रूपस्य हरेर् भास एकस्याः कान्तेः सदृशी स्यात् तदेति । सम्भावनायां लट् । अद्भूतोपमेयम् उच्यते तयोत्प्रेक्षा । व्यङ्गा सती सर्वथा तत्-कान्तेर् नैरुपम्यं व्यञ्जयति । तादृग्-रूपं दर्शयामासेति पूर्वेणान्वयः ॥१२॥
११।१३
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा ।
अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ॥१३॥
श्रीधरः : ततः किं वृत्तम् इत्य् अपेक्षायाम् आह सञ्जयः तत्रेति । अनेकधा प्रविभक्तं नाना-विभागेनावस्थितं कृत्स्नं जगद् देवदेवस्य शरीरे तद्-अवयवत्वेनैकत्रैवअ पृथग्-अवस्थितं तदा पाण्डवो ऽर्जुनो ऽपश्यत् ॥१३॥
मधुसूदनः : इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् इति भगवद्-आज्ञप्तम् अप्य् अनुभूतवान् अर्जुन इत्य् आह तत्रैकस्थम् इति । एकस्थम् एकत्र स्थितं जगत् कृत्स्नं प्रविभक्तम् अनेकधा । देव-पितृ-मनुष्यादि-नाना-प्रकारैर् अपश्यद् देवदेवस्य भगवतः तत्र विश्वरूपे शरीरे पाण्डवो ऽर्जुनस् तदा विश्वरूपाश्चर्य-दर्शन-दशायाम् ॥१३॥
विश्वनाथः : तत्र तस्मिन् युद्ध-भुमाव् एव देवदेवस्य शरीरे जगत् ब्रह्माण्डं कृत्स्नं सर्वम् एव गणयितुम् अशक्यम् इत्य् अर्थः । प्रविभक्तं पृथक् पृथक्तया स्थितम् एकस्थम् एकदेशस्थं प्रतिरोमकूपस्थं प्रतिकुक्षिस्थं वेत्य् अर्थः । अनेकधा मृन्मयं हिरण्मयं मणिमयं वा पञ्चाशत्-कोटि-योजन-प्रमाणं शत-कोटि-योजन-प्रमाणं लक्ष-कोट्य्-आदि-योजन-प्रमाणं वेत्य् अर्थः ॥१३॥
बलदेवः : ततः किम् अभूद् इत्य् अपेक्षायाम् आह तत्रेति । तत्र युद्ध-भूमौ देवदेवस्य कृष्णस्य व्यञ्जित-सहस्र-शिरस्के शरीरे श्री-विग्रहे कृत्स्नं निखिलं जगद् ब्रह्माण्डं तदा पाण्डवो ऽपश्यत् । प्रविभक्तं पृथक्-पृथग्-भूतम् एकस्थम् इति प्राग्वत् । अनेकधेति मृण्मयं स्वर्ण-मयं रत्न-मयं वा लघु-मध्ये बृहद्-भूतं वेत्य् अर्थः ॥१३॥
११।१४
ततः स विस्मयाविष्टो हृष्ट-रोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत ॥१४॥
श्रीधरः : एवं दृष्ट्वा किं कृतवान् इति ? तत्राह तत इति । ततो दर्शनान्तरम् । विसम्येनाविष्टो व्याप्तः सन् हृष्टान्य् उत्पुलकितानि रोमाणि यस्य स धनञ्जयः । तम् एव देवं शिरसा प्रणम्य कृताञ्जलिः सम्पुटाकृत-हस्तो भूत्वा । अभाषतोक्तवान् ॥१४॥
मधुसूदनः : एवम् अद्भुत-दर्शने ऽप्य् अर्जुनो न विभयाञ्चकार नापि नेत्रे सञ्चचार, नापि सम्भ्रमात् कर्तव्यं विसस्मार, नापि तस्माद् देशाद् अपससार, किन्त्व् अतिधीरत्वात् तत्-कालोचितम् एव व्यवजहार, महति चित्त-क्षोभे ऽपीत्य् आह तत इति । ततस् तद्-दर्शनाद् अनन्तरं विस्मयेनाद्भुत-दर्शन-प्रभावेनालौकिक-चित्त-चमत्कार-विशेषेणाविष्टो व्याप्तः । अतएव हृष्ट-रोमा पुलकितः सन् स प्रख्यात-महादेव-सङ्ग्रामादि-प्रभावो धनञ्जयो युधिष्ठिर-राजसूय उत्तर-गो-ग्रहे च सर्वात्राज्ञो जित्वा धनम् आहृतवान् इति प्रथित-महा-पराक्रमो ऽतिधीरः साक्षाद् अग्निर् इति वा महा-तेजस्वित्वात् । देवं तम् एव विश्वरूप-धरं नारायणं शिरसा भूमि-लग्नेन प्रणम्य प्रकर्षेण भक्ति-श्रद्धातिशयेन नत्वा नमस्कृत्य कृताञ्जलिः सम्पुटीकृत-हस्त-युगः सन्न्
अभाषतोक्तवान् ।
अत्र विस्मयाख्य-स्थायि-भावस्यार्जुन-गतस्यालम्बन-विभावेन भगवता विश्वरूपेणोद्दीपन-विभावेनासकृत्-तद्-दर्शनेनानुभावेन सात्त्विक-रोमहर्षेण नमस्कारेणाञ्जलि-करेण च व्यभिचारिणा चानुभावाक्षिप्तेन वा धृति-मति-हर्ष-वितर्कादिना परिपोषात् स-वासनानां श्रोतॄणां तादृशश् चित्त-चमत्कारो ऽपि तद्-भेदानध्यवसायात् परिपोषं गतः परमानन्दास्वाद-रूपेणाद्भुत-रसो भवतीति सूचितम् ॥१४॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : एवं कृष्ण-तत्त्वविद् अर्जुनस् तस्मिन् सत्त्वेन ज्ञातं सहस्र-शीर्षत्वम् अधुना वीक्ष्याद्भुतं रसम् अन्वभूद् इत्य् आह तत इति । तं व्यञ्जलित-तद्-रूपं कृष्णं विलोक्येत्य् अर्थः । धनञ्जयेति धीरो ऽपि विस्मयेनाविष्टो हृष्ट-रोमा पुलकितो देवं शिरसा भू-लग्नेन प्रणम्य कृताञ्जलिः सन्न् अभाषत । अत्र भय-नेत्र-संवरणादिकं तस्य नाभूत् किन्त्व् अद्भुतो रसो ऽभ्युदैद् इति व्यञ्जते । इह तादृशो हरिर् आलम्बनो मुहुर् मुहुस् तद्-वीक्षणम् उद्दीपनं प्रणति-पाणि-योगाव् अनुभावौ, रोमाञ्चः सात्त्विकस् तैर् आक्षिप्ता मतिर् धृति-हर्षादयः सञ्चारिणः । एतैर् आलम्बनाद्यैः पुष्टो विस्मय-स्थायि-भावो ऽद्भुत-रसः ॥१४॥
११।१५
अर्जुन उवाच
पश्यामि देवांस् तव देव देहे
सर्वांस् तथा भूत-विशेष-सङ्घान् ।
ब्रह्माणम् ईशं कमलासन-स्थम्
ऋषींश् च सर्वान् उरगांश् च दिव्यान् ॥१५॥
श्रीधरः : भाषणम् एवाह पश्यामीति सप्तदशभिः । हे देव ! तव देहे देवानाम् आदित्यादीन् पश्यामि । तथा सर्वान् भूत-विशेषाणां स्थावराणां जङ्गमानां च नाना-संस्थानानां सङ्घान् समूहान् । तथा ब्रह्माणम् चतुर्मुखम् ईशम् ईशितारं सर्वेषां कमलासन-स्थम् पृथ्वी-पद्म-मध्ये मेरु-कर्णिकासन-स्थं भगवन्-नाभि-कमलासनस्थम् इति वा । तथा ऋषींश् च सर्वान् वशिष्टादीन् ब्रह्म-पुत्रान् । उरगांश् च दिव्यान् प्राकृतान् वासुकि-प्रभृतीन् पश्यामीति सर्वत्रान्वयः ॥१५॥
मधुसूदनः : यद् भगवता दर्शितं विश्वरूपं तद् भगवद्-दत्तेन दिव्येन चक्षुषा सर्व-लोकादृश्यम् अपि पश्याम्य् अहो मम भाग्य-प्रकर्ष इति स्वानुभवम् आविष्कुर्वन् अर्जुन उवाच पश्यामीति । पश्यामि चाक्षुष-ज्ञान-विषयीकरोमि हे देव तव देहे विश्वरूपे देवान् वस्व्-आदीन् सर्वान् । तथा भूत-विशेषाणां स्थावराणां जङ्गमानां च नाना-संस्थानानां सङ्घान् समूहान् । तथा ब्रह्माणम् चतुर्मुखम् ईशम् ईशितारं सर्वेषां कमलासन-स्थम् पृथ्वी-पद्म-मध्ये मेरु-कर्णिकासन-स्थं भगवन्-नाभि-कमलासनस्थम् इति वा । तथा ऋषींश् च सर्वान् वशिष्टादीन् ब्रह्म-पुत्रान् । उरगांश् च दिव्यान् प्राकृतान् वासुकि-प्रभृतीन् पश्यामीति सर्वत्रान्वयः ॥१५॥
विश्वनाथः : भूत-विशेषाणां जरायुजादीनां सङ्घान् । कमलासन-स्थं पृथ्वी-पद्म-कर्णिकायां सुमेरौ स्थितं ब्रह्माणम् ॥१५॥
बलदेवः : किम् अभाषत तद् आह पश्यामीति सप्तदशभिः । तथा भूत-विशेषाणां जरायुजादीनां सङ्घान् पश्यामि । ब्रह्माणम् चतुर्मुखम् कमलासने चतुर्मुखे स्थितम् तद्-अन्तर्यामिणम् ईशम् गर्भोदक-शयम् उरुगान् वासुक्य्-आदीन् सर्पान् ॥१५॥
११।१६
अनेक-बाहूदर-वक्त्र-नेत्रं
पश्यामि त्वा सर्वतो ऽनन्त-रूपम् ।
नान्तं न मध्यं न पुनस् तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥१६॥
श्रीधरः : किं च अनेकेति । अनेकानि बाह्व्-आदीनि यस्य तादृशं त्वां पश्यामि । अनन्तानि रूपाणि यस्य तं त्वां सर्वतः पश्यामि । तव त्वं तं मध्यमादिं च न पश्यामि ॥१६॥
मधुसूदनः : यत्र भगवद्-देहे सर्वम् इदं दृष्टवान्, तम् एव विशिनष्टि अनेकेति । बाहव उदराणि वक्त्राणि नेत्राणि चानेकानि यस्य तम् अनेक-बाहूदर-वक्त्र-नेत्रं पश्यामि । त्वा त्वां सर्वतः सर्वत्रानन्तानि रूपाणि यस्येति तं । तव तु पुनर् नान्तम् अवसानं न मध्यं नाप्य् आदिं पश्यामि सर्व-गतत्वात् । हे विश्वेश्वर ! हे विश्व-रूप ! सम्बोधन-द्वयम् अतिसम्भ्रमात् ॥१६॥
विश्वनाथः : हे विश्वेश्वर आदि-पुरुष ॥१६॥
बलदेवः : यत्र देहे देवादीन् दृष्टवांस् तं विशिनष्टि अनेकेति । हे विश्वरूप प्रथम-पुरुष ! ॥१६॥
११।१७
किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्क-द्युतिम् अप्रमेयम् ॥१७॥
श्रीधरः : किं च किरीटिनम् इति । किरीटिनं मुकुटवन्तम् । गदिनं गदावन्तं । चक्रिणं चक्रवन्तं च । सर्वतो दीप्तिमन्तम् तेजः-पुञ्ज-रूपं तथा दुर्निरीक्ष्यं द्रष्टुम् अशक्यम् । तत्र हेतुः - दीप्तयोर् अनलार्कयोर् द्युतिर् इव द्युतिस् तेजो यस्य तम् । अतएवाप्रमेयम् एवम्भूत इति निश्चेतुम् अशक्यं त्वां समन्ततः पश्यामि ॥१७॥
मधुसूदनः : तम् एव विश्वरूपं भगवन्तं प्रकारानन्तरं विशिनष्टि किरीटिनम् इति । किरीट-गदा-चक्र-धारिणं च सर्वतो दीप्तिमन्तम् तेजो-राशिं च । अतएव दुर्निरीक्ष्यं दिव्येन चक्षुषा विना निरीक्षितुम् अशक्यम् । सयकार-पाठे दुःशब्दो ऽपह्नव-वचनः । अनिरीक्ष्यम् इति यावत् । दीप्तयोर् अनलार्कयोर् द्युतिर् इव द्युतिर् यस्य तम् अप्रमेयम् इति परिच्छेत्तुम् अशक्यं समन्तात् सर्वतः पश्यामि दिव्येन चक्षुषा । अतो ऽधिकारि-भेदाद् दुर्निरीक्षं पश्यामीति न विरोधः ॥१७॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : विधान्तरेण तम् एव विशिनष्टि किरीटिनम् इति । दुर्निरीक्ष्यम् अपि त्वाम् अहं पश्यामि तत्-प्रसादाद् दिव्य-चक्षुर्-लाभात् । दुर्निरीक्ष्यायां हेतुः - समन्ताद् दीप्तानलेति । अप्रमेयम् इदम् इत्थम् इति प्रमातुम् अशक्यम् ॥१७॥
११।१८
त्वम् अक्षरं परमं वेदितव्यं
त्वम् अस्य विश्वस्य परं निधानम् ।
त्वम् अव्ययः शाश्वत-धर्म-गोप्ता
सनातनस् त्वं पुरुषो मतो मे ॥१८॥
श्रीधरः : यस्माद् एवं तवातकैश्वर्यं तस्मात् त्वम् इति । त्वम् एवाक्षरं परमं ब्रह्म । कथम्भूतम् ? वेदितव्यं मुमुक्षुभिर् ज्ञातव्यम् । त्वम् एवास्य विश्वस्य परं निधानम् । निधीयते ऽस्मिन्न् इति निधानं प्रकृष्टाश्रयः । अतएव त्वम् अव्ययो नित्यः । शाश्वतस्य नित्यस्य धर्मस्य गोप्ता पालकः । सनातनश् चिरन्तनः पुरुषः । मतो मे सम्मतो ऽसि मम ॥१८॥
मधुसूदनः : एवं तवातर्क्य-निरतिशयिश्वर्य-दर्शनाद् अनुमिनोमि त्वम् इति । त्वम् एवाक्षरं परमं ब्रह्म वेदितव्यं मुमुक्षुभिर् वेदान्त-श्रवणादिना । त्वम् एवास्य विश्वस्य परं प्रकृष्टं निधीयते ऽस्मिन्न् इति निधानम् आश्रयः । अतएव त्वम् अव्ययो नित्यः । शाश्वतस्य नित्य-वेद-प्रतिपाद्यतयास्य धर्मस्य गोप्ता पालयिता । शाश्वतेति सम्बोधनं वा । तस्मिन् पक्षे ऽव्ययो विनाश-रहितः । अतएव सनातनश् चिरन्तनः पुरुषो यः परमात्मा स एव त्वं मे मतो विदितो ऽसि ॥१८॥
विश्वनाथः : वेदितव्यं मुक्तैर् ज्ञेयम् यद् अक्षरं ब्रह्म-तत्त्वम् । निधानं लय-स्थानम् ॥१८॥
बलदेवः : अचिन्त्य-महैश्वर्य-वीक्षणात् त्वम् अहम् एवं निश्चिनोमीत्य् आह त्वम् इति । अथ परा यया तद् अक्षरम् अधिगम्यते, यत् तद् अदृश्यम् [मुण्डु १।५-६] इत्य् आदि-वेदान्त-वाक्यैर् वेदितव्यं यत् परमं स-श्रीकम् अक्षरं तत्त्वम् एव निधानम् आश्रयो ऽव्ययस् त्वम् अविनाशी शाश्वत-धर्म-गोप्ता वेदोक्त-धर्म-पालकस् त्वम् । स कारणं कारणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [श्वेतु ६।९] इति मन्त्र-वर्णोक्तः सनातनः पुराणः पुरुषस् त्वम् एव ॥१८॥
११।१९
अनादि-मध्यान्तम् अनन्त-वीर्यम्
अनन्त-बाहुं शशि-सूर्य-नेत्रम् ।
पश्यामि त्वां दीप्त-हुताश-वक्त्रं
स्व-तेजसा विश्वम् इदं तपन्तम् ॥१९॥
श्रीधरः : किं च अनादीति । अनादि-मध्यान्तम् उत्पत्ति-स्थिति-लय-रहितम् । अनन्त-वीर्यम् अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्ता वीर्यवन्तो बाहवो यस्य तम् । शशि-सूर्यौ नेत्रे यस्य तादृशं त्वां पश्यामि । तथा दीप्तो हुताशो ऽग्निर् वक्त्रेषु यस्य तम् । स्वतेजसेदं विश्वं विश्वम् सन्तपन्तम् पश्यामि ॥१९॥
मधुसूदनः : किं च अनादीति । आदिर् उत्पत्तिर् मध्यं स्थितिर् अन्तो विनाशस् तद्-रहितम् अनादि-मध्यान्तम् । अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्ता बाहवो यस्य तम् । उपलक्षणम् एतन् मुखादीनाम् अपि । शशि-सूर्यौ नेत्रे यस्य तम् । दीप्तो हुताशो वक्त्रं यस्य वक्त्रेषु यस्येति वा तम् । स्वतेजसा विश्वं इदं तपन्तम् सन्तापयन्तं त्वा त्वां पश्यामि ॥१९॥
विश्वनाथः : किं च अनादीत्य् अत्र महा-विस्मय-रस-सिन्धु-निमग्नस्यार्जुनस्य वचसि पौनरुक्त्यं न दोषाय । यद् उक्तं प्रसादे विस्मये हर्षे द्वि-त्रिर्-उक्तं न दुष्यति ॥१९॥
बलदेवः : अनादीति । आदि-मध्यावसान-शून्यम् अनन्तानि वीर्याणि तद्-उपलक्षणानि समग्राण्य् ऐश्वर्याणि षट् यस्य तम् अनन्त-बाहुं सहस्र-भुजं शशि-सूर्योपमानि नेत्राणि यस्य तं । देवादिषु प्रणतेषु प्रसन्न-नेत्रं तद्-विपरीतेषु असुरादिषु क्रूर-नेत्रम् इत्य् अर्थः । दीप्त-हुताशोपमानि संहारानुगुणानि वक्त्राणि यस्य तम् । अर्जुनस्य वाक्ये क्वचित् पुनर्-उक्तिस् तस्य विस्मयाविष्टत्वान् न दोषाय । यद् उक्तं प्रसादे विस्मये हर्षे द्वि-त्रिर्-उक्तं न दुष्यति इति ॥१९॥
११।२०
द्याव्-आपृथिव्योर् इदम् अन्तरं हि
व्याप्तं त्वयैकेन दिशश् च सर्वाः ।
दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं
लोक-त्रयं प्रव्यथितं महात्मन् ॥२०॥
श्रीधरः : किं च द्याव्-आपृथिव्योर् इति । द्याव्-आपृथिव्योर् इदम् अन्तरम् अन्तरीक्षं त्वयैवैकेन व्याप्तम् । दिशश् च सर्वा व्याप्ताः । अद्भुतं अदृष्ट-पूर्वम् । त्वदीयम् इदम् उग्रं घोरं रूपं दृष्ट्वा लोक-त्रयं प्रव्यथितम् अतिभीतम् । पश्यामीति पूर्वस्यैवानुषङ्गः ॥२०॥
मधुसूदनः : प्रकृतस्य भगवद्-रूपस्य व्याप्तिम् आह द्याव्-आपृथिव्योर् इति । द्याव्-आपृथिव्योर् इदम् अन्तरम् अन्तरीक्षं हि त्वयैवैकेन व्याप्तम् । दिशश् च सर्वा व्याप्ताः । दृष्ट्वाद्भुतम् अत्यन्त-विस्मय-करम् इदम् उग्रं दुरधिगमं महातेजस्वित्वात् तव रूपम् उपलभ्य लोक-त्रयं प्रव्यथितम् अत्यन्त-भीतं जातं हे महात्मन् साधूनाम् अभय-दायक । इतः परम् इदम् उपसंहरेत्य् अभिप्रायः ॥२०॥
विश्वनाथः : अथ प्रस्तोपयोगित्वात् तस्यैव रूपस्य काल-रूपत्वं दर्शयामास द्यावेत्य् आदि दशभिः ॥२०॥
बलदेवः : अथ तस्यैव रूपस्य प्रकृत्योपयोगित्वेन काल-रूपतां दर्शितवान् इत्य् आह द्यावेति दशभिः । द्याव्-आपृथिव्योर् अन्तरम् अन्तरीक्षं तथा सर्वा दिशश् चैकेन त्वया व्याप्तम् । तवेदम् अपरिमितम् अद्भुतम् उग्रं च रूपं दृष्ट्वा लोक-त्रयं प्रव्यथितम् भीतं सञ्चलनं च भवति । हे महात्मन् सर्वाश्रय ! अत्रेदम् अवगम्यते तदा युद्ध-दर्शनाय ये त्रैलोक्यस्था मित्रोदासीना देवासुरा गन्धर्व-किन्नरादय्ः समागतास् तैर् अपि भक्तिमद्भिर् भगवद्-दत्त-दिव्य-नेत्रैस् तद्-रूपं दृष्टं न त्व् एकेनैवार्जुनेन स्वपतेव स्वाप्निक-रथादीनि निजैश्वर्यस्य बहु-साक्षिकतार्थम् एतत् ॥२०॥
११।२१
अमी हि त्वा सुर-सङ्घा विशन्ति
केचिद् भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-सङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥२१॥
श्रीधरः : किं च अमी हीति । अमी सुर-सङ्घा भीताः सन्तस् त्वां विशन्ति शरणं प्रविशन्ति । तेषाम् मध्ये केचिद् अतिभीता दूरत एव स्थित्वा कृत-सम्पुट-कर-युगलाः सन्तो गृणन्ति जय जय रक्ष रक्षेति प्रार्थयन्ते । स्पष्टम् अन्यत् ॥२१॥
मधुसूदनः : अधुना भू-भार-संहर-कारित्वम् आत्मनः प्रकटयन्तं भगवन्तं पश्यन्न् आह अमीति । अमी हि सुर-सङ्घा वस्व्-आदि-देव-गणा भू-भारावतारार्थं मनुष्य-रूपेणावतीर्णा युध्यमानाः सन्तस् त्वा त्वां विशन्ति प्रविशन्तो दृश्यन्ते । एवम् असुर-सङ्घा इति पद-च्छेदेन भू-भार-भूता दुर्योधनादयस् त्वां विशन्तीत्य् अपि वक्तव्यम् । एवम् उभयोर् अपि सेनयोः केचिद् भीताः पलायने ऽप्य् अशक्ताः सन्तः प्राञ्जलयो गृणन्ति स्तुवन्ति त्वाम् । एवं प्रत्युपस्थिते युद्ध उत्पातादि-निमित्तान्य् उपलक्ष्य स्वस्त्य् अस्तु सर्वस्य जगत इत्य् उक्त्वा महर्षि-सिद्ध-सङ्घा नारद-प्रभृतयो युद्ध-दर्शनार्थम् आगता विश्व-विनाश-परिहाराय स्तुवन्ति त्वां स्तुतिभिर् गुणोत्कर्ष-प्रतिपादिकाभिर् वाग्भिः पुष्कलाभिः परिपूर्णार्थाभिः ॥२१॥
विश्वनाथः : त्वा त्वाम् ॥२१॥
बलदेवः : अमी सुर-सङ्घास् त्वां शरणं विशन्ति । तेषु केचिद् भीता दूरतः स्थित्वा प्राञ्जलयः सन्तो गृणन्ति पाहि पाहि प्रभो अस्मान् इति प्रार्थयन्ते । महतीं भीतिम् आलक्ष्य महर्षि-सङ्घाः सिद्ध-सङ्घाश् च विश्वस्य स्वस्त्य् अस्तु इत्य् उक्त्वा स्तुवन्ति ॥२१॥
११।२२
रुद्रादित्या वसवो ये च साध्या
विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च ।
गन्धर्व-यक्षासुर-सिद्ध-सङ्घा
वीक्षन्ते त्वां विस्मिताश् चैव सर्वे ॥२२॥
श्रीधरः : किं चान्यत् रुद्रेति । रुद्रादित्या वसवो ये च साध्याः । रुद्रादयओ गणाः । विश्वे ऽश्विनौ । विश्वे देवाः । अश्विनौ च देवौ । मरुतश् च वायवः । ऊष्मपाश् च पितरः । उष्मभागा हि पितरः इति श्रुतेः । स्मृतेश् च यावद् उष्णं भवेद् अन्नं तावद् अश्नन्ति वाग्वताः । तावद् अश्नन्ति पितरो यावन् नोक्ता हविर् गुणाः ॥ इति । गन्धर्वाश् च यक्षाश् च असुराश् च विरोचनादयः । सिद्ध-सङ्घाः सिद्धानां सङ्घाश् च । सर्व एव विस्मिताः सन्त त्वां वीक्षन्त इत्य् अन्वयः ॥२२॥
मधुसूदनः : किं चान्यत् रुद्रेति । रुद्राश् चादित्याश् च वसवो ये च साध्या नाम देव-गणा विश्वे तुल्य-विभक्तिक-विश्वदेव-शब्दाभ्याम् उच्यमाना देव-गणा अश्विनौ नासत्य-दम्रौ मरुत एकोनपञ्चाशद्-देव-गणा ऊष्मपाश् च पितरो गन्धर्वाणां यक्षाणां असुराणां सिद्धानां च सङ्घाः समूहा वीक्षन्ते पश्यन्ति त्वा त्वां तादृशाद्भुत-दर्शनात् ते सर्व एव विस्मिताश् च विस्मयम् अलौकिक-चमत्कार-विशेषम् आपद्यन्ते च ॥२२॥
विश्वनाथः : उष्माणं पिबन्तीति उष्मपाः पितरः । उष्मभागा हि पितरः इति श्रुतेः ॥२२॥
बलदेवः : रुद्रेति स्फुटम् । उष्मपाः पितरः उष्माणं पिबन्ति इति निरुक्तेः । उष्मभागा हि पितरः इति श्रुतेश् च ॥२२॥
११।२३
रूपं महत् ते बहु-वक्त्र-नेत्रं
महाबाहो बहु-बाहूरु-पादम् ।
बहूदरं बहु-दंष्ट्रा-करालं
दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥२३॥
श्रीधरः : किं च रूपम् इति । हे महा-बाहो महद् अत्यूर्जितं तव रूपं दृष्ट्वा लोकाः सर्वे प्रव्यथिता अतिभीताः । तथाहं च प्रव्यथितो ऽस्मि । कीदृशं रूपं दृष्ट्वा । बहूनि वक्त्राणि नेत्राणि च यस्मिंस् तत् । बहवो बाहव ऊरवः पादाश् च यस्मिंस् तत् । बहून्य् उदराणि यस्मिंस् तत् । बह्वीभिर् दंष्ट्राभिः करालं विकृतम् । रौद्रम् इत्य् अर्थः ॥२३॥
मधुसूदनः : लोक-त्रयं प्रव्यथितम् इत्य् उक्तम् उपसंहरति रूपम् इति । हे महा-बाहो ते तव रूपं दृष्ट्वा लोकाः सर्वे ऽपि प्राणिनः प्रव्यथितास् तथाहं प्रव्यथितो भयेन । कीदृशं ते रूपं ? महद् अतिप्रमाणम् । बहूनि वक्त्राणि नेत्राणि च यस्मिंस् तत् । बहवो बाहव ऊरवः पादाश् च यस्मिंस् तत् । बहून्य् उदराणि यस्मिंस् तत् । बहुभिर् दंष्ट्राभिः करालम् अतिभयानकं दृष्ट्वैव मत्-सहिताः सर्वे लोका भयेन पीडिता इत्य् अर्थः ॥२३॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : लोक-त्रयं प्रव्यथितम् इत्य् उक्तम् उपसंहरति रूपं महद् इति । बहुभिर् दंष्ट्राभिः करालम् रौद्रम् । स्फुटम् अन्यत् । तथाहम् इत्य् अस्योत्तरेण सम्बन्धः ॥२३॥
११।२४
नभः-स्पृशं दीप्तम् अनेक-वर्णं
व्यात्ताननं दीप्त-विशाल-नेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ॥२४॥
श्रीधरः : न केवलं भीतो ऽहम् इत्य् एतावद् एव । अपि तु नभः-स्पृशम् इति । नभः स्पृशतीति नभः-स्पृक् तम् अन्तरीक्ष-व्यापिनम् इत्य् अर्थः । दीप्तं तेजो-युक्तम् । अनेके वर्णा यस्य तम् । व्यक्तानि विवृतानि आननानि यस्य तम् । दीप्तानि विशालानि नेत्राणि यस्य तम् । एवम्भूतं हि त्वां दृष्ट्वा प्रव्यथितान्तरात्मा मनो यस्य सो ऽहं धृतिं धैर्यम् उपशमं न लभे ॥२४॥
मधुसूदनः : भयानकत्वम् एव प्रपञ्चयति नभ इति । न केवलं प्रव्यथित एवाहं त्वां दृष्ट्वा किन्तु प्रव्यथितो ऽन्तरात्मा मनो यस्य सो ऽहं धृतिं धैर्यं देहेन्द्रियादि-धारण-सामर्थ्यं शमं च मनः-प्रसादं न विन्दामि न लभे । हे विष्णो ! त्वां कीदृशं ? नभः-स्पृशम् अन्तरीक्ष-व्यापिनम् । दीप्तं प्रज्वलितम् अनेक-वर्णं भयङ्कर-नाना-संस्थान-युक्तं व्यात्ताननं विवृत्त-मुखं दीप्त-विशाल-नेत्रं प्रज्वलित-विस्तीर्ण-चक्षुषं त्वां दृष्ट्वा प्रव्यथितान्तरात्माहं धृतिं शमं च न व्विन्दामीत्य् अन्वयः ॥२४॥
विश्वनाथः : शमम् उपशमम् ॥२४॥
बलदेवः : तथैतद्-रूपोपसंहार-फलकं दैन्यं प्रकाशयन्न् आह नभः-स्पृशम् इति द्वाभ्याम् । अहं च त्वां दृष्ट्वा प्रव्यथितान्तरात्मा भीतोद्विग्न-मनाः सन् धृतिम् उपशमं च न विन्दामि न लभे । हे विष्णो ! कीदृशं ? नभः-स्पृशम् अन्तरीक्ष-व्यापिनम् व्यात्ताननं विसृतास्यम् । व्यक्तार्थम् अन्यत् । अत्र काल-रूपत्व-दर्शन-हेतुको भयानक-रसः स्वस्योक्तः ॥२४॥
११।२५
दंष्ट्रा-करालानि च ते मुखानि
दृष्ट्वैव कालानल-सन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्-निवास ॥२५॥
श्रीधरः : दंष्ट्रेति । हे देवेश तव मुखानि दृष्ट्वा भयावेशेन दिशो न जानामि । शर्म सुखं च न लभे । भो जगन्-निवास प्रसन्नो भव । कीदृशानि मुखानि दृष्ट्वा ? दंष्ट्राभिः करालानि कालानलः विकृतत्वेन प्रलयाग्निः । तत्-सदृशानि ॥२५॥
मधुसूदनः : दंष्ट्राभिः करालानि विकृतत्वेन भयङ्कराणि प्रलय-कालानल-सदृशानि च ते मुखानि दृष्ट्वैव न तु तानि प्राप्य भय-वशेन दिशः पूर्वापरादि-विवेकेन न जाने । अतो न लभे च शर्म सुखं त्वद्-रूप-दर्शने ऽपि । अतो हे देवेश हे जगन्निवास प्रसीद प्रसन्नो भव मां प्रति । यथा भवाभावेन त्वद्-दर्शनजं सुखं प्राप्नुयाम् इति शेषः ॥२५॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : दंष्ट्रेति । कालानलः प्रलयाग्निस् तत्-सन्निभानि तत्-तुल्यानि । शर्म सुखम् ॥२५॥
११।२६-२७
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनि-पाल-सङ्घैः ।
भीष्मो द्रोणः सूत-पुत्रस् तथासौ
सहास्मदीयैर् अपि योध-मुख्यैः ॥२६॥
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद् विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ॥२७॥
श्रीधरः : यच् चान्यद् द्रष्टुम् इच्छसीत्य् अनेनास्मिन् सङ्ग्रामे भावि-जय-पराजयादिकं च मम देहे पश्येति यद् भगवतोक्तं तद् इदानीं पश्यन्न् आह अमी चेति पञ्चभिः । अमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयः सर्वे । अवनि-पालानां जयद्रथादीनां राज्ञां सङ्घैः समूहैः सहैव । तव वक्त्राणि विशन्तीत्य् उत्तरेणान्वयः । तथा भीष्मश् च द्रोणश् चासौ सूत-पुत्रः कर्णश् च । न केवलं त एव विशन्ति । अपि तु प्रतियोद्धारो ऽस्मदीया ये योध-मुख्याः शिखण्डि-धृष्टद्युम्नादयस् तैः सह ॥२६॥
वक्राणीति ये एते सर्वे त्वरमाणा धावन्तस् तव दंष्ट्राभिः करालानि विकृतानि भय्ङ्कराणि वक्त्राणि विशन्ति तेषां मध्ये केचिच् चूर्णीकृतैर् उत्तमाङ्गैः शिरोभिर् उपलक्षिता दन्त-सन्धिषु संश्लिष्टाः सन्दृश्यन्ते ॥२७॥
मधुसूदनः : अस्माकं जयं परेषां पराजयं च सर्वदा द्रष्टुम् इष्टं पश्य मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसीति भगवद्-आदिष्टम् अधुना पश्यामीत्य् आह अमीति पञ्चभिः । अमी च धृतराष्ट्रस्य पुत्रा दुर्योधन-प्रभृतयः शतं सोदरा युयुत्सुं विना सर्वे त्वां त्वरमाणा विशन्तीत्य् अग्रेतनेनान्वयः । अतिभय-सूचकत्वेन क्रिया-पद-न्यूनत्वम् अत्र गुण एव । सहैवावनिपालानां खल्व् आदीनां राज्ञां सङ्घैस् त्वां विशन्ति । न केवलं दुर्योधनादय एव विशन्ति किन्तु अजयत्वेन सर्वैः सम्भावितो ऽपि भीष्मो द्रोणः सूत-पुत्रः कर्णस् तथासौ सर्वदा मम विद्वेष्टा सहास्मदीयैर् अपि परकीयैर् इव धृष्टद्युम्न-प्रभृतिभिर् योध-मुख्यैस् त्वां विशन्तीति सम्बन्धः ॥२६॥
अमी धृतराष्ट्र-पुत्र-प्रभृतयः सर्वे ऽपि ते तव दंष्ट्रा-करालानि भयानकानि वक्त्राणि ते त्वरमाणा विशन्ति । तत्र च केचिच् चूर्णितैर् उत्तमाङ्गैः शिरोभिर् विशिष्टा दशनान्तरेषु विलग्ना विशेषेण संलग्ना दृश्यन्ते मया सम्यग् असन्देहेन ॥२७॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : यच् चान्यद् द्रष्टुम् इच्छसि इत्य् अनेनास्मिन् युद्धे भविष्यज्-जय-पराजयादिकं च मद्-देहे पश्येति यद् भगवतोक्तं तद् अधुना पश्यन्न् आह अमी चेति पञ्चभिः । अमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयः सर्वे ऽवनिपाल-सङ्घैः शल्य-जयद्रथादि-भूप-वृन्दैः सह त्वरमाणाः सन्तस् ते वक्त्राणि विशन्तीत्य् उत्तरेणान्वयः । अजेयत्वेन ख्याता ये भीष्मादयस् ते ऽपि । असाव् इति सर्वदैव मद्-विद्वेषीत्य् अर्थः । सूत-पुत्रः कर्णः । न केवलं त एव किन्त्व् अस्मदीया ये योध-मुख्या धृष्टद्युम्नादयः तैः सहेति ते ऽपि प्रविशन्तीति सहोक्तिर् अलङ्कारः । केचिद् इति तेषां मध्ये केचिच् चूर्णितैर् उत्तमाङ्गैर् मस्तकैः सहिता दशनान्तरेषु दन्त-सन्धिषु विलग्नाः सन्दृश्यन्ते मया ॥२६-२७॥
११।२८
यथा नदीनां बहवो ऽम्बुवेगाः
समुद्रम् एवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥२८॥
श्रीधरः : प्रवेशम् एव दृष्टान्तेनाह यथेति । नदीनाम् अनेक-मार्ग-प्रवृत्तानां बहवो ऽम्बूनां वारीणां वेगाः प्रवाहाः समुद्राभिमुखाः सन्तो यथा समुद्रम् एव द्रवन्ति विशन्ति । तथामी ये नर-लोक-वीरास् ते विशन्ति तथैव लोका एते जना अपि तव मुखानि प्रविशन्ति ॥२८॥
मधुसूदनः : राज्ञां भगवन्-मुख-प्रवेशने निदर्शनम् आह यथेति । यथा नदीनाम् अनेक-मार्ग-प्रवृत्तानां बहवो ऽम्बूनां जलानां वेगाः वेगवन्तः प्रवाहाः समुद्राभिमुखाः सन्तः समुद्रम् एव द्रवन्ति विशन्ति तथा तवामी नर-लोक-वीरा विशन्ति वक्त्राण्य् अभितः सर्वतो ज्वलन्ति अभिविज्वलन्तीति वा पाठः ॥२८॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : प्रवेशे दृष्टान्ताव् आह यथेति द्व्याभ्याम् । तत्र प्रथमो ऽधी-पूर्वके प्रवेशे । द्वितीयस् तु धी-पूर्वके बोध्यः ॥२८॥
११।२९
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्ध-वेगाः ।
तथैव नाशाय विशन्ति लोकास्
तवापि वक्त्राणि समृद्ध-वेगाः ॥२९॥
श्रीधरः : अवशत्वेन प्रवेशे नदी-वेगो दृष्टान्त उक्तः । बुद्धि-पूर्वक-प्रवेशे दृष्टान्तम् आह यथेति । प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः शलभा बुद्धि-पूर्वकं समृद्धो वेगो येषां ते यथा नाशाय मरणायैव विशन्ति तथैव लोका एते जना अपि तव मुखानि प्रविशन्ति ॥२९॥
मधुसूदनः : अबुद्धि-पूर्वक-प्रवेशे नदी-वेगं दृष्टान्तम् उक्त्वा बुद्धि-पूर्वक-प्रवेशे दृष्टान्तम् आह यथेति । यथा पतङ्गाः शलभाः समृद्ध-वेगाः सन्तो बुद्धि-पूर्वं प्रदीप्तं ज्वलनं विशन्ति नाशाय मरणायैव तथैव नाशाय विशन्ति लोका एते दुर्योधन-प्रभृतयः सर्वे ऽपि तव वक्त्राणि समृद्ध-वेगाः बुद्धि-पूर्वम् अनायत्या ॥२९॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : ज्वलनं वह्निम् ॥२९॥
११।३०
लेलिह्यसे ग्रसमानः समन्ताल्
लोकान् समग्रान् वदनैर् ज्वलद्भिः ।
तेजोभिर् आपूर्य जगत् समग्रं
भासस् तवोग्राः प्रतपन्ति विष्णो ॥३०॥
श्रीधरः : ततः समन्तात् किम् ? अत आह लेलिह्यस इति । ग्रसमानो गिलम् । समग्रान् लोकान् सर्वान् एतान् वीरान् । समन्तात् सर्वतः । लेलिह्यसे ऽतिशयेन भक्षयसि । कैः ? ज्वलद्भिर् वदनैः । किं च हे विष्णो तव भासो दीप्तयस् तेजोभिर् विस्फूरणैः समग्रं जगद् व्याप्य तीव्राः सत्यः प्रतपन्ति सन्तापयन्ति ॥३०॥
मधुसूदनः : योद्धु-कामानां राज्ञां भगवन्-मुख-प्रवेश-प्रकारम् उक्त्वा तदा भगवतस् तद्-भासां च प्रवृत्ति-प्रकारम् आह लेलिह्यस इति । एवं वेगेन प्रविशतो लोकान् दुर्योधनादीन् समग्रान् सर्वान् ग्रसमानो ऽन्तः प्रवेशयज् ज्वलद्भिर् वदनैः समन्तात् सर्वतस् त्वं लेलिह्यस आस्वादयसि तेजोभिर् भाभिर् आपूर्य जगत् समग्रं यस्मात् त्वं भाभिर् जगद् आपूरयसि तस्मात् तवोग्रास् तीव्रा भासो दीप्तयः प्रज्वलतो ज्वलनस्येव प्रतपन्ति सन्तापं जनयन्ति । विष्णो व्यापन-शील ॥३०॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : योद्धॄणां तन्-मुख-प्रवेशे प्रकारम् उक्त्वा तस्य तद्-भासां च तत्र प्रवृत्ति-प्रकारम् आह लेलिह्यस इति । वेगेन प्रविशतः समग्रान् लोकान् दुर्योधनादीन् ज्वलद्भिर् वदनैर् ग्रसमानो गिलन् समन्ताद् रोषावेशेन लेलिहस्ये तद्-रुधिरोक्षितम् ओष्ठादिकं मुहुर् मुहुर् लेक्षि । तवोग्रा भासो दीप्तयो ऽसह्यैस् तेजोभिः समग्रं जगद् आपूर्य प्रतपन्ति । हे विष्णो ! विश्व-व्यापिन् ! त्वत्तः पलायनं दुर्घटम् इत्य् अर्थः ॥३०॥
११।३१
आख्याहि मे को भवान् उग्र-रूपो
नमो ऽस्तु ते देववर प्रसीद ।
विज्ञातुम् इच्छामि भवन्तम् आद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥३१॥
श्रीधरः : यत एवं तस्माद् आख्याहीति । भवान् उग्र-रूपः कः ? इत्य् आख्याहि आख्याहि कथय । ते तुभ्यं नमो ऽस्तु । हे देव-वर प्रसीद प्रसन्नो भव । भवन्तम् आद्यं पुरुषं विशेषेण ज्ञातुम् इच्छामि । यतस् तव प्रवृत्तिम् चेष्टां किम् अर्थम् एवं प्रवृत्तो ऽसीति न जानामि । एवं भूतस्य तव प्रवृत्तिं वार्ताम् अपि न जानामीति ॥३१॥
मधुसूदनः : यस्माद् एवं तस्माद् आख्याहीति । एवम् उग्र-रूपः क्रूराकारः को भवान् इत्य् आख्याहि कथय मे मह्यम् अत्यन्तानुग्राह्याय । अतएव नमो ऽस्तु ते तुभ्यं सर्व-गुरवे हे देव-वर प्रसीद प्रसादं क्रौर्य-त्यागं कुरु । विज्ञातुम् विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यं सर्व-कारणम्, न हि यस्मात् तव सखापि सन् प्रजानामि तव प्रवृत्तिम् चेष्टाम् ॥३१॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : एवं विश्व-रूपं व्यञ्जित-काल-शक्तिं भगवन्तम् उपवर्ण्य तत्-तत्त्व-विद् अप्य् अर्जुनः स्व-ज्ञान-दार्ढ्याय पृच्छति आख्याहीति । दर्शयात्मानम् अव्ययम् इति सहस्र-शीर्षादि-लक्षणम् ऐश्वरं रूपं दर्शयितुम् अर्थितेन भगवता तद्-रूपं प्रदर्श्य तस्य पुनर् अतिघोरा संहर्तृता प्रदर्श्यते । तत्रोग्र-रूपो भवान् क इत्य् आख्याहि कथय । हे देव-वर ! ते नमो ऽस्तु । प्रसीद त्यजोग्र-रूपताम् । आद्यं भवन्तम् अहं विशेषेण ज्ञातुम् इच्छामि । तव प्रवृत्तिं चेष्टां च न हि प्रजानामि । किम् अर्थम् एवं प्रवृत्तो ऽसीति तत्-प्रयोजनं चाख्याहीति ॥३१॥
११।३२
श्री-भगवान् उवाच
कालो ऽस्मि लोक-क्षय-कृत् प्रवृद्धो
लोकान् समाहर्तुम् इह प्रवृत्तः ।
ऋते ऽपि त्वा न भविष्यन्ति सर्वे
ये ऽवस्थिताः प्रत्यनीकेषु योधाः ॥३२॥
श्रीधरः : एवम् प्रार्थितः सन् भगवान् उवाच काल इति त्रिभिः । लोकानां क्षय-कर्ता प्रवृद्धो ऽत्युत्कटः कालो ऽस्मि । लोकान् प्राणिनः संहर्तुम् इह लोके प्रवृत्तो ऽस्मि । अत ऋते ऽपि त्वां हन्तारं विनापि न भविष्यन्ति न जीविष्यन्ति । यद्यपि त्वया न हन्तव्या एते तथापि मया कालात्मना ग्रस्ताः सन्तो मरिष्यन्त्य् एव । के ते ? प्रत्यनीकेषु अनीकानि अनीकानि प्रति । भीष्म-द्रोणादीनां सर्वासु सेनासु ये योधारो ऽवस्थितास् ते सर्वे ऽपि ॥३२॥
मधुसूदनः : एवम् अर्जुनेन प्रार्थितो यः स्वयं यद्-अर्था च स्व-प्रवृत्तिस् तत् सर्वं त्रिभिर् श्लोकैः कालो ऽस्मीति । कालः क्रिया-शक्त्य्-उपहितः सर्वस्य संहर्ता परमेश्वरो ऽस्मि भवामीदानीं प्रवृद्धो वृद्धिं गतः । यद्-अर्थं प्रवृत्तस् तच् छृणु लोकान् समाहर्तुम् भक्षयितुं प्रवृत्तो ऽहम् इहास्मिन् काले । मत्-प्रवृत्तिं विना कथम् एवं स्याद् इति चेन् नेत्य् आह । ऋते ऽपि त्वा त्वाम् अर्जुनं योद्धारं विनापि त्वद्-व्यापारं विनापि मद्-व्यापारेणैव न भविष्यन्ति विनङ्क्ष्यन्ति सर्वे भीष्म-द्रोण-कर्ण-प्रभृतयो योद्धुम् अनर्हत्वेन सम्भाविता अन्ये ऽपि ये ऽवस्थिताः प्रत्यनीकेषु प्रतिपक्ष-सैन्येषु योधा योधारः सर्वे ऽपि मया हतत्वाद् एव न भविष्यन्ति । तत्र तव व्यापारो ऽकिञ्चित्कर इत्य् अर्थः ॥३२॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : एवम् अर्थितो भगवान् उवाच कालो ऽस्मीति । प्रवृद्धो व्यापी ।
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः ॥ [कठु १।२।२५]
इति श्रुत्या यः कीर्त्यते स कालो ऽहम् इत्य् अर्थः । इह समये लोकान् दुर्योधनादीन् समाहर्तुं ग्रसितुं प्रवृत्तं मां मत्-प्रवृत्ति-फलं च जानीहि । त्वाम् अपि युधिष्ठिरादींश् च ऋते सर्वे न भविष्यन्ति न जीविष्यन्ति । यद् वा, ननु रणान् निवृत्ते मयि तेषां कथं क्षयः स्याद् इति चेत् तत्राह ऋते ऽपीति । त्वां योधारम् ऋते त्वद्-युद्ध-व्यापारं विनापि सर्वे न भविष्यन्ति मरिष्यन्त्य् एव कालात्मना मया तेषां आयुर्-हरणात् । के ते सर्वे इत्य् आह प्रत्यनीकेषु परम्परयोर् ये भीष्मादयो ऽवस्थिताः । युद्धान् निवृत्तस्य तव तु स्वधर्म-च्युतिर् एव भवेद् इति ॥३२॥
११।३३
तस्मात् त्वम् उत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वम् एव
निमित्त-मात्रं भव सव्यसाचिन् ॥३३॥
श्रीधरः : तस्माद् इति । यस्माद् एवं तस्मात् त्वं युद्धायोत्तिष्ठ । देवैर् अपि दुर्जया भीष्मादयो ऽर्जुनेन निर्जिता इत्य् एवं भूतं यशो लभस्व प्राप्नुहि । अयत्नतश् च शत्रून् जित्वा समृद्धं राज्यम् भुङ्क्ष्व । एते च तव शत्रवस् त्वदीय-युद्धात् पूर्वम् एव मयैव कालात्मना निहत-प्रायाः । तथापि त्वं निमित्त-मात्रम् भव । हे सव्यसाचिन् ! सव्येन हस्तेन साचितुं शरान् सन्धातुं शीलं यस्येति व्युत्पत्त्या वामेनापि वाण-क्षेपात् सव्यसाचीत्य् उच्यते ॥३३॥
मधुसूदनः : यस्माद् एवं तस्माद् इति । तस्मात् त्वद्-व्यापारम् अन्तरेणापि यस्माद् एते विनङ्क्षन्त्य् एव तस्मात् त्वम् उत्तिष्ठोद्युक्तो भव युद्धाय देवैर् अपि दुर्जया भीष्म-द्रोणादयो ऽतिरथा झटित्य् एवार्जुनेन निर्जिता इत्य् एवम्भूतं यशो लभस्व । महद्भिः पुण्यैर् एव हि यशो लभ्यते । अयत्नतश् च जित्वा शत्रून् दुर्योधनादीन् भुङ्क्ष्व राज्यं स्वोपसर्जनत्वेन भोग्यतां प्रापय समृद्धं राज्यम् अकण्टकम् । एते च तव शत्रवो मयैव कालात्मना निहताः संहृतायुषस् त्वदीय-युद्धात् पूर्वम् एव केवलं तव यशो-लाभाय रथान् न पातिताः । अतस् त्वं निमित्त-मात्रम् अर्जुनेनैते निर्जिता इति सार्वलौकिक-कव्य्-अपदेशास्पदं भव हे सव्यसाचिन् सव्येन वामेन हस्तेनापि शरान् सचितुं सन्धातुं शीलं यस्य तादृशस्य तव भीष्म-द्रोणादि-जयो नासम्भावितस् तस्मात्
त्वद्-व्यापारानन्तरं मया रथात् पात्यमानेष्व् एतेषु तवैव कर्तृत्वं लोकाः कल्पयिष्यन्तीत्य् अभिप्रायः ॥३३॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : यस्माद् एवं तस्मात् त्वम् उत्तिष्ठ स्वधर्माय युद्धाय यशो लभस्व सुर-दुर्जया भीष्मादयो ऽर्जुनेन हेलयैव निर्जिता इति दुर्लभां कीर्तिं प्राप्नुहि । पूर्वं द्रौपद्याम् अपराध-समय एव मयैते निहतास् त्वद्-यशसे यन्त्र-प्रतिमावत् प्रवर्तन्ते । तस्मात् त्वं निमित्त-मात्रम् भव । हे सव्यसाचिन् ! सव्येनापि हस्तेन बाणान् सचितुं सन्धातुं शीलं अस्येति युद्ध-निर्भरे प्राप्ते हस्ताभ्याम् इषु-वर्षिन्न् इत्य् अर्थः ॥३३॥
११।३४
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यान् अपि योधवीरान् ।
मया हतांस् त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥३४॥
श्रीधरः : न चैते विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः इत्य् आशङ्का सापि न कार्येत्य् आह द्रोणम् इति । येभ्यस् त्वं शङ्कसे तान् द्रोणादीन् मयैव हतांस् त्वं जहि घातय । मा व्यथिष्ठा भयं मा कार्षीः । सपत्नान् शत्रून् रणे युद्धे निश्चितं जेतासि जेष्यसि ॥३४॥
मधुसूदनः : ननु द्रोणो ब्राह्मणोत्तमो धनुर्वेदाचार्यो मम गुरु विशेषेण च दिव्यास्त्र-सम्पन्नस् तथा भीष्मः स्वच्छन्द-मृत्युर् दिव्यास्त्र-सम्पन्नश् च पराशुरामेण द्वन्द्व-युद्धम् उपगम्यापि न पराजितस् तथा यस्य पिता वृद्ध-क्षत्रस् तपश् चरति मम पुत्रस्य शिरो यो भूमौ पातयिष्यति तस्यापि शिरस् तत्-कालं भूमौ पतिष्यतीति स जयद्रथो ऽपि जेतुम् अशक्यः स्वयम् अपि महादेवाराधन-परो दिव्यास्त्र-सम्पन्नश् च तथा कर्णो ऽपि स्वयं सूर्य-समस् तद्-आराधनेन दिव्यास्त्र-सम्पन्नश् च वासव-दत्तया चैक-पुरुष-घातिन्या मोघीकर्तुम् अशक्यया शक्त्या शक्त्या विशिष्टस् तथा कृपाश्वत्थाम-भूरिश्रवः-प्रभृतयो महानुभावाः सर्वथा दुर्जया एवैतेषु सत्सु कथं जित्वा शत्रून् राज्यं भोक्ष्ये कथं वा यशो लप्स्य इत्य् आशङ्काम् अर्जुनस्यापनेतुम्
आह तद् आशङ्का-विषयान् नामभिः कथयन् द्रोणम् इति ।
द्रोणादींस् त्वद्-आशङ्का-विषयी-भूतान् सर्वान् एव योध-वीरान् कालात्मना मया हतान् एव त्वं जहि । हतानां हनने को वा परिश्रमः । अतो मा व्यथिष्ठाः कथम् एवं शक्ष्यामीति व्यथां भय-निमित्तां पीडां मा गा भयं त्यक्त्वा युध्यस्व । जेतासि जेष्यस्य् अचिरेणैव रणे सङ्ग्रामे सपत्नान् सर्वान् अपि शत्रून् ।
अत्र द्रोणं च भीष्मं च जयद्रथं चेति च-कार-त्रयेण पूर्वोक्ताजेयत्व-शङ्कानूद्यते । तथा-शब्देन कर्णे ऽपि । अन्यान् अपि योध-वीरान् इत्य् अत्रापि-शब्देन । तस्मात् कुतो ऽपि स्वस्य पराजयं वध-निमित्तं पापं च मा शङ्किष्ठा इत्य् अभिप्रायः ।
कथं भीष्मम् अहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हौ इत्य् अत्रेवात्रापि समुदायान्वयान् अन्तरं प्रत्येकान्वयो द्रष्टव्यः ॥३४॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : यद् वा जयेम यदि वा नो जयेयुः इति स्व-विजये संशयम् आकार्षीर् इत्य् आशयेनाह द्रोणं चेति । मया हतान् हतायुषो द्रोणादींस् त्वं जहि मारय । मा व्यतिष्ठाः । कथम् एतान् दिव्यास्त्र-सम्पन्नान् एकः शक्नोम्य् अहं विजेतुम् इति भयं मा गाः । मृतानां मारणे कः श्रम इत्य् अर्थः । भयं हित्वा युध्यस्व रण सपत्नान् रिपून् जेतासि जेष्यसि ॥३४॥
११।३५
सञ्जय उवाच
एतच् छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर् वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
स-गद्गदं भीत-भीतः प्रणम्य ॥३५॥
श्रीधरः : ततो यद् वृत्तं तद् एव धृतराष्ट्रं प्रति सञ्जय उवाच एतद् इति । एतत् पूर्व-श्लोक-त्रयात्मकं केशवस्य वचनं श्रुत्वा वेपमानः कम्पमानः किरीट्य् अर्जुनः कृताञ्जलिः सम्पुटीकृत-हस्तः कृष्णं नमस्कृत्य पुनर् अप्य् आहोक्तवान् । कथम् आह ? हर्ष-भयाद्य्-आवेश-वशात् गद्गदेन कण्ठ-कम्पनेन सह वर्तते इति स-गद्गदं यथा स्यात् तथा । किं च भीताद् अपि भीतः सन् प्रणम्यावनतो भूत्वा ॥३५॥
मधुसूदनः : द्रोण-भीष्म-जयद्रथ-कर्णेषु जयाशा-विषयेषु हतेषु निराश्रयो दुर्योधनो हत एवेत्य् अनुसन्धाय जयाशां परित्यज्य यदि धृतराष्ट्रः सन्धिं कुर्यात् तदा शान्तिर् उभयेषां भवेद् इत्य् अभिप्रायवांस् ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जय उवाच एतद् इति । एतत् पूर्वोक्तं केशवस्य वचनं श्रुत्वा कृताञ्जलिः किरीटीन्द्र-दत्त-किरीटः परम-वीरत्वेन प्रसिद्धो वेपमानः परमाश्चर्य-दर्शन-जनितेन सम्भ्रमेण कम्पमानो ऽर्जुनः कृष्णं भक्ताघ-कर्षणं भगवन्तं नमस्कृत्वा नमस्कृत्य भूयः पुनर् अप्य् आहोक्तवान् स-गद्गदं भयेन हर्षेण चाश्रु-पूर्ण-नेत्रत्वे सति कफ-रुद्ध-कण्ठतया वाचो मन्दत्व-सकम्पत्वादिर् विकारः स-गद्गदस् तद्-युक्तं यथा स्यात् । भीत-भीतो ऽतिशयेन भीतः सन्
पूर्वं नमस्कृत्य पुनर् अपि प्रणम्यात्यन्त-नम्रो भूत्वाहेति सम्बन्धः ॥३५॥
विश्वनाथः : नमस्कृत्वेत्य् आर्षम् ॥३५॥
बलदेवः : ततो यद् अभूत् तत् सञ्जय उवाच एतद् इति । केशवस्यैतत् पद्य-त्रयात्मकं वचनं श्रुत्वा किरीटी पार्थः वेपमानो ऽत्यद्भुतात्युग्र-रूप-दर्शनजेन सम्भ्रमेण सकम्पः । नमक्ष्ट्वेत्य् आर्षम् । कृष्णं नमस्कृत्य, पुनः प्रणम्य, भीत-भीतो ऽतिभयाकुलः सन् भूयः पुनअर् अप्य् आह स-गद्गदं गद्गदेन कण्ठ-कम्पेन सहितं यथा स्यात् तथा ॥३५॥
११।३६
अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्य् अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥३६॥
श्रीधरः : स्थाने इत्य् एकादशभिर् अर्जुनस्योक्तिः । स्थाने इत्य् अव्ययं युक्तम् इत्य् अस्मिन्न् अर्थे । हे हृषीकेश यत एवं त्वम् अद्भुत-प्रभावो भक्त-वत्सलश् च । अतस् तव प्रकीर्त्या माहात्म्य-सङ्कीर्तनेन न केवलम् अहम् एव प्रहृष्यामीति, किन्तु जगत् सर्वं प्रहृष्यत्य् प्रकर्षेण हर्षं प्राप्नोति । एतत् तु स्थाने युक्तम् इत्य् अर्थः । तथा जगद् अनुरज्यते चानुरागम् उपैतीति यत् । तथा रक्षांसि भीतानि सन्ति । दिशः प्रति द्रवन्ति पलायन्ते इति यत् । सर्वे योग-तपो-मन्त्रादि-सिद्धानां सङ्घा नमस्यन्ति प्रणमन्ति इति यत् । एतच् च स्थाने युक्तम् एव । न चित्रम् इत्य् अर्थः ॥३६॥
मधुसूदनः : एकादशभिर् अर्जुन उवाच स्थान इति । स्थान इत्य् अव्ययं युक्तम् इत्य् अर्थे । हे हृषीकेश ! सर्वेन्द्रिय-प्रवर्तक यतस् त्वम् एवम् अत्यन्ताद्भुत-प्रभावो भक्त-वत्सलश् च ततस् तव प्रकीर्त्या प्रकृष्टया कीर्त्या निरतिशय-प्राशस्त्यस्य कीर्तनेन श्रवणेन च न केवलम् अहम् एव प्रहृष्यामि किन्तु सर्वम् एव जगच् चेतन-मात्रं रक्षो-विरोधि प्रहृष्यति प्रकृष्टं हर्षम् आप्नोतीति यत् तत् स्थाने युक्तम् एवेत्य् अर्थः । तथा सर्वं जगद् अनुरज्यते च तद्-विषयम् अनुरागम् उपैतीति च यत् तद् अपि युक्तम् एव । तथा रक्षांसि भीतानि भयाविष्टानि सन्ति दिशो द्रवन्ति गच्छन्ति सर्वासु दिक्षु पलायन्त इति यत् तद् अपि युक्तम् एव । तथा सर्वे सिद्धानां कपिलादीनां सङ्घा नमस्यन्ति चेति यत् तद् अपि युक्तम् एव । सर्वत्र तव प्रकीर्त्येत्य् अस्यान्वयः स्थान इत्य् अस्य च । अयं श्लोको रक्षोघ्न-मन्त्रत्वेन
मन्त्र-शास्त्रे प्रसिद्धः । स च नारायणाष्टाक्षर-सुदर्शनास्त्र-मन्त्राभ्यां सम्पुटितो ज्ञेय इति रहस्यम् ॥३६॥
विश्वनाथः : भगवद्-विग्रहस्यातिप्रसन्नत्वम् अतिघोरत्वं चेदम् उन्मुख-विमुख-विषयकम् इति सहसेव ज्ञात्वा तद् एव तत्त्वं व्याचक्षणः स्तौति स्थान इति । स्थान इत्य् अव्ययं युक्तम् इत्य् अर्थः । हे हृषीकेश ! स्व-भक्तेन्द्रियानां च स्वाभिमुख्ये स्व-मुख्ये च प्रवर्तक ! तव प्रकीर्त्या प्रकृष्टया त्वन्-माहात्म्य-सङ्कीर्तनेन जगद् इदं प्रहृष्यय् अनुरज्यते अनुरक्तम् भवतीति युक्तम् एव जगतो ऽस्य त्वद्-औन्मुख्याद् इति भावः । तथा रक्षांसि रक्षो ऽसुर-दानव-पिशाचादीनि भीतानि भूत्वा दिशो द्रवन्ति दिशः प्रति पलायन्त इत्य् एतद् अपि स्थाने युक्तम् एव । तेषां त्वद्-वैमुख्याद् इति भावः । तथा त्वद्-भक्त्या ये सिद्धास् तेषां सङ्घाः सर्वे नमस्यन्ति चेत्य् अपि युक्तम् एव । तेषां त्वद्-भक्तत्वाद् इति भावः । श्लोको ऽयं रक्षोघ्न-मन्त्रत्वेन मन्त्र-शास्त्रे प्रसिद्धः
॥३६॥
बलदेवः : परेशस्य सख्युः कृष्णस्यातिरम्यत्वम् अत्युग्रत्वं च तत्र रङ्गवद् युगपद् एव वीक्ष्य तद्-उभयं स्व-सम्मुख-स्व-विमुख-विषयम् इति विद्वान् अर्जुनस् तद्-अनुरूपं स्तौति स्थान इत्य् एकादशभिः । युक्तम् इत्य् अर्थकं स्थान इत्य् एद्-अन्तम् अव्ययम् । हे हृषीकेशेति सम्मुख-विमुखेन्द्रियाणां साम्मुख्ये वैमुख्ये चप्रवरकेत्य् अर्थः । युद्ध-दर्शनायागतं देव-गन्धर्व-सिद्ध-विद्याधर-प्रमुखं त्वत्-सम्मुखं जगत् तव दुष्ट-संहर्तत्व-रूपया प्रकीर्त्या प्रहृष्यत्य् अनुरज्यते चेति युक्तम् एतत् । दुष्ट-स्वभावानि त्वद्-विमुखानि रक्षांसि राक्षसासुर-दानवादीनि देवाद्य्-उद्गीतया तत्-प्रकीर्त्या भीतानि भूत्वा दिशः प्रति द्रवन्ति पलायन्त इति च युक्तम् । तव प्राणि-भावानुसारि-रूप-प्रकाशित्वाद् इति भावः । तद् इत्थं शिष्टाशिष्टानुग्रह-कारितां
तव वीक्ष्य त्वद्-भक्ताः सिद्ध-सङ्घाः सर्वे सनकादयो नमस्यन्ति जय जय भगवान् इत्य् उदीरयन्तः प्रणमन्ति च युक्तं तव भक्त-मनो-हारित्वात् ॥३६॥
११।३७
कस्माच् च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे ।
अनन्त देवेश जगन्निवास
त्वम् अक्षरं सद् असत् तत्परं यत् ॥३७॥
श्रीधरः : तत्र हेतुम् आह कस्माद् इति । हे महात्मन् ! हे अनन्त ! हे देवेश ! हे जगन्निवास ! कस्माद् धेतोस् ते तुभ्यं न नमेरन् न नमस्कारं कुर्युः ? कथम्भूताय ब्रह्मणो ऽप्य् गरीयसे गुरुतराय । आदि-कर्त्रे च ब्रह्मणो ऽपि जनकाय । किं च सद् व्यक्तम् असद्-व्यक्तं ताभ्यां परं मूल-कारणं यद् अक्षरं ब्रह्म । तच् च त्वम् एव । एतैर् नवभिर् हेतुभिस् त्वां सर्वे नमस्यन्तीति न चित्रम् इत्य् अर्थः ॥३७॥
मधुसूदनः : भगवतो हर्षादि-विषयत्वे हेतुम् आह कस्माच् चेति । कस्माच् च हेतोस् ते तुभ्यं न नमेरन् न नमस्कुर्युः सिद्ध-सङ्घाः सर्वे ऽपि । हे महात्मन् परमोदार-चित्त ! हे ऽनन्त सर्व-परिच्छेद-शून्य ! हे देवेश हिरण्यगर्भादीनाम् अपि देवानां नियन्तः ! हे जगन्-निवास सर्वाश्रय ! तुभ्यं कीदृशाय ब्रह्मणो ऽपि गरीयसे गुरुतरायादि-कर्त्रे त्वम् ब्रह्मणो ऽपि जनकाय । नियन्तृत्वम् उपदेष्टृत्वं जनकत्वम् इत्य् आदिर् एकैको ऽपि हेतुर् नमस्कार्यता-प्रयोजकः किं पुनर् महात्मत्वानन्तत्व-जगन्-निवासत्वादि-नाना-कल्याण-गुण-समुच्चित इत्य् अनाश्चर्यता-सूचनार्थं नमस्कारस्य कस्माच् चेति वा-शब्दार्थश् च-कारः । किं च सत् ? विधि-मुखेन प्रतीयमानम् अस्तीइत् । असन् निषेध-मुखेन प्रतीयमानं नास्तीति । अथवा सद्-व्यक्तम् असद्-व्यक्तं त्वम् एव । तथा तत्-परं
ताभ्यां सद्-असद्भ्यां परं मूल-कारणं यद् अक्षरं ब्रह्म तद् अपि त्वम् एव त्वद्-भिन्नं किम् अपि नास्तीत्य् अर्थः । तत्-परं यद् इत्य् अत्र यच्-छब्दात् प्राक्-च-कारम् अपि केचित् पठन्ति । एतैर् हेतुभिस् त्वां सर्वे नमस्यन्तीति न किम् अपि चित्रम् इत्य् अर्थः ॥३७॥
विश्वनाथः : ते कस्मान् न नमेरन्, अपि तु नमेरन्न् एव । आत्मनेपदम् आर्षम् । सत्-कार्यम् असत्-कारणं च ताभ्यां परं यद् अक्षरं ब्रह्म तत् त्वम् ॥३७॥
बलदेवः : अथ भगवतः सर्व-नमस्यत्वम् अभिदधत् सर्व-व्यापित्वात् सर्वात्मकतां प्रतिपादयति कस्माच् चेति चतुर्भिः । हे महात्मन् उदार-मते ! हे अनन्त सर्व-व्यापिन् ! हे देवेश सर्व-देव-नियन्तः ! हे जगन्निवास सर्वाश्रय ! ते सिद्ध-सङ्घास् ते तुभ्यं कस्माद् धेतोर् न नमेरन् ? आत्मनेपदं छान्दसम् । अपि तु प्रणमेयुर् एव ते । कीदृशायेत्य् आह । ब्रह्मणो ऽप्य् गरीयसे गुरुतराय यस्माद् आदि-कर्त्रे तत्त्व-सृष्टि-करायेति नमस्यत्वे ऽनेके हेतवः सन्तीति समुच्चयालङ्कारः । किं च यद् अक्षरं प्रकृति-तत्त्वं तत्-परं यद् इति । तस्मात् प्रकृति-संसृष्टाज् जीवात्म-तत्त्वात् प्रकृति-तत्त्वाच् चोक्त-रूपात् परम् उत्कृष्टं भिन्नं च यन्-मुक्त-जीवात्म-तत्त्वं तच् च त्वम् एव सर्व-रूप इत्य् अर्थः ॥३७॥
११।३८
त्वम् आदि-देवः पुरुषः पुराणस्
त्वम् अस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वम् अनन्त-रूप ॥३८॥
श्रीधरः : किं च त्वम् आदि-देव इति । त्वम् आदि-देवो देवानाम् आदिः । यतः पुराणो ऽनादिः पुरुषस् त्वम् । अतएव त्वम् अस्य परं निधानम् लय-स्थानम् । तथा विश्वस्य ज्ञाता त्वम् । यच् च वेद्यं वस्तु-जातं परं च धाम वैष्णवं पदं तद् अपि त्वम् एवासि । अतएव हे अनन्त-रूप त्वयैवेदं विश्वं ततं व्याप्तम् । एतैश् च सप्तभिर् हेतुभिस् त्वम् एव नमस्कार्य इत्य् अर्थः ॥३८॥
मधुसूदनः : भक्त्य्-उद्रेकात् पुनर् अपि स्तौति त्वम् इति । त्वम् आदि-देवो जगतः सर्ग-हेतुत्वात् । पुरुषः पूरयिता । पुराणो ऽनादिः । त्वम् अस्य विश्वस्य परं निधानम् लय-स्थानत्वान् निधीयते सर्वम् अस्मिन्न् इति । एवं सृष्टि-प्रलय-स्थानत्वेनोपादानत्वम् उक्त्वा सर्वज्ञत्वेन प्रधानं व्यावर्तयन् निमित्तताम् आह वेत्ता वेदिता सर्वस्यासि । द्वैतापत्तिं वारयति यच् च वेद्यं तद् अपि त्वम् एवासि वेदन-रूपे वेदितरि परमार्थ-सम्बन्धाभावेन सर्वस्य वेद्यस्य कल्पितत्वात् । अतएव परं च धाम यत् सच्-चिद्-आनन्द-घनम् अविद्या-तत्-कार्य-निर्मुक्तं विष्णोः परमं पदं तद् अपि त्वम् एवासि । त्वया सद्-रूपेण स्फूरण-रूपेण च कारणेन ततं व्याप्तम् इदं स्वतः-सत्ता-स्फूर्ति-शून्यं विश्वम् कार्यं मायिक-सम्बन्धेनैव स्थिति-काल हे ऽनन्तरूपापरिच्छिन्न-स्वरूप ॥३८॥
विश्वनाथः : निधानं लय-स्थानं परं धाम गुणातीतं स्वरूपम् ॥३८॥
बलदेवः : त्वम् इति । परं निधानम् परमाश्रयो निधीयते ऽस्मिन् इति निरुक्तेः । जगति यो वेत्ता यच् च वेद्यं तद् उभयं त्वम् एव । कुत एवम् इति चेत् तत्राह यत् त्वया विश्वम् इदं ततं तद्-व्यापित्वाद् इत्य् अर्थः । यच् च परं धाम परम-व्योमाख्यं प्राप्य-स्थानम् तद् अपि त्वम् एव पराख्य-त्वच्-छक्ति-वैभवत्वात् तस्य धाम्नः ॥३८॥
११।३९
वायुर् यमो ऽग्निर् वरुणः शशाङ्कः
प्रजापतिस् त्वं प्रपितामहश् च ।
नमो नमस् ते ऽस्तु सहस्र-कृत्वः
पुनश् च भूयो ऽपि नमो नमस् ते ॥३९॥
श्रीधरः : इतश् च सर्वैस् त्वम् एव नमस्कार्यः सर्व-देवात्मकत्वाद् इति स्तुवन् स्वयम् अपि नमस्करोति वायुर् इति । वाय्व्-आदि-रूपस् त्वम् इति सर्व-देवात्मकत्वोपलक्षणार्थम् उक्तम् । प्रजापतिः पितामहः । तस्यापि जनकत्वात् प्रपितामहस् त्वम् । अतस् ते तुभ्यं सहस्रशो नमो ऽस्तु । पुनः सहस्र-कृत्वो नमो ऽस्तु । भूयो ऽपि पुनर् अपि सहस्र-कृत्वो नमो नम इति ॥३९॥
मधुसूदनः : वायुर् यमो ऽग्निर् वरुणः शशाङ्कः सूर्यादीनाम् अप्य् उपलक्षणम् एतत् । प्रजापतिर् विराड् हिरण्यगर्भश् च । प्रपितामहश् पितामहस्य हिरण्य-गर्भस्यापि पिता च त्वम् । यस्माद् एवं सर्व-देवात्मकत्वात् त्वम् एव सर्वैर् नमस्कार्यो ऽसि तस्मान् ममापि वराकस्य नमो नमो नमस् ते तुभ्यम् अस्तु सहस्रकृत्वः । पुनश् च भूयो ऽपि पुनर् अपि च नमो नमस् ते । भक्ति-श्रद्धातिशयेन नमस्कारेष्व् अलं-प्रत्ययाभावो ऽनया नमस्कारावृत्त्या सूच्यते ॥३९॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : अतः सर्व-शब्द-वाच्यस् त्वम् इत्य् आह वायुर् इति । सर्व-देवोपलक्षणं वाय्व्-आदि-सर्व-देव-रूपस् त्वं प्रजापतिश् चतुरास्यः पितामहस् त्वं तत्-पितृत्वात् प्रपितामहस् त्वं भवसि कङ्कणादिषु कनकस्येव चिद्-अचिच्-छक्तिमतस् तव कारणस्य वाय्व्-आदिषु व्याप्तेस् तत् तत् सर्व-रूपस् त्वम् अतः सर्व-नमस्यो ऽसीति मया त्वं नमस्यसे इत्य् आह नमो नमः ॥३९॥
११।४०
नमः पुरस्ताद् अथ पृष्ठतस् ते
नमो ऽस्तु ते सर्वत एव सर्व
अनन्त-वीर्यामित-विक्रमस् त्वं
सर्वं समाप्नोषि ततो ऽसि सर्वः ॥४०॥
श्रीधरः : भक्ति-श्रद्धाभयातिशयेन नमस्कारेषु तृप्तिम् अनधिगच्छन् पुनर् अपि बहुशः प्रणमति नम इति । हे सर्व सर्वात्मन् सर्वासु दिक्षु तुभ्यं नमो ऽस्तु । सर्वात्मकम् उपपादयन्न् आह अनन्तं वीर्यं सामर्थ्यं यस्य तथा । अमितो विक्रमः पराक्रमो यस्य सः । एवं भूतस् त्वं सर्वं विश्वं सम्यग् अन्तर् बहिश् च समाप्नोषि व्याप्नोषि । सुवर्णम् इव कटक-कुण्डलादि स्व-कार्यं व्याप्य वर्तसे ततः सर्व-स्वरूपो ऽसि ॥४०॥
मधुसूदनः : तुभ्यं पुरस्ताद् अग्र-भागे नमो ऽस्तु तुभ्यं पुरो नमः स्याद् इति वा । अथ-शब्दः समुच्चये । पृष्ठतो ऽपि तुभ्यं नमः स्यात् । नमो ऽस्तु ते तुभ्यं सर्वत एव सर्वासु दिक्षु स्थिताय हे सर्व ! वीर्यं शरीर-बलं विक्रमः शिक्षा शस्त्र-प्रयोग-कौशलम् । एकं वीर्याधिकं मन्य उत्तैकं शिक्षयाधिकम् इत्य् उक्तेर् भीम-दुर्योधनयोर् अन्येषु चैकैकं व्यवस्थितम् । त्वं तु अनन्त-वीर्यश् चामित-विक्रमश् चेति समस्तम् एकं पदम् । अनन्त-वीर्येति सम्बोधनं वा । सर्वं समस्तं जगत् समाप्नोषि सम्यग् एकेनअ सद्-रूपेणाप्नोषि सर्वात्मना व्याप्नोषि ततस् तस्मात् सर्वो ऽसि त्वद्-अतिरिक्तं किम् अपि नास्तीत्य् अर्थः ॥४०॥
विश्वनाथः : सर्वं स्व-कार्यं जगद् आप्नोषि व्याप्नोषि स्वर्णम् इव कटक-कुण्डलादिकम् अतस् त्वम् एव सर्वः ॥४०॥
बलदेवः : भक्त्य्-अतिशयेन नमस्कारेष्व् अलं भावम् अविदन् बहुकृत्वः प्रणमति नमः पुरस्ताद् इति । हे सर्व ! पुरस्तात् पृष्ठतः सर्वतश् च स्थिताय ते नमो नमो ऽस्तु । अनन्तेति कर्म-धारयः । वीर्यं देह-बलं विक्रमस् तु धी-बलं शस्त्र-प्रयोगादि-प्रावीण्य-रूपम् । एकं वीर्याधिकं मन्यतैकं शिक्षयाधिकम् इति भीम-दुर्योधनाव् उद्दिश्योक्तेः । सर्व-रूपत्वेहे तुम् आह सर्वं समाप्नोषीति । एवम् एवोक्तं श्री-वैष्णवे -
यो ऽयं तवागतो देव समीपं देवता-गणः ।
स त्वम् एव जगत्-स्रष्टा यतः सर्व-गतो भवान् ॥ इति ॥४०॥
११।४१-४२
सखेति मत्वा प्रसभं यद् उक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वापि ॥४१॥
यच् चावहासार्थम् असत्कृतो ऽसि
विहारशय्यासनभोजनेषु ।
एको ऽथ वाप्य् अच्युत तत्समक्षं
तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥४२॥
श्रीधरः : इदानीं भगवन्तं क्षमापयति सखेतीति द्व्याभ्याम् । त्वं प्राकृतेः सखेत्य् एवं मत्वा प्रसभं हठात् तिरस्कारेण यद् उक्तं तत् क्षामये त्वाम् इत्य् उत्तरेणान्वयः । किं तत् ? हे कृष्ण हे यादव हे सखेति च । सन्धिर् आर्षम् । प्रसभोक्तौ हेतुः - तव महिमानं इदं च विश्व-रूपम् अजानता च मया प्रमादात् प्रणयेन स्नेहेन यद् उक्तम् इति ॥४१॥
किं च यच् चेति । हे अच्युत ! यच् च परिहासार्थं क्रीडादिषु तिरस्कृतो ऽसि । एकत्र एकलः । सखीन् विना रहसि स्थित इत्य् अर्थः । अथवा तत्-समक्षं तेषां परिहसतां सखीनां समक्षं पुरतो ऽपि । तत् सर्वम् अपराध-जातं त्वाम् अप्रमेयम् अचिन्त्य-प्रभावं क्षामये क्षमां कारयामि ॥४२॥
मधुसूदनः : यतो ऽहं त्वन्-माहात्म्यापरिज्ञानाद् अपराधान् अजस्राम् अकार्षं ततः परम-कारुणिकं त्वां प्रणम्यापराध-क्षमां कार्यामीत्याह सखेतीति द्वाभ्याम् । त्वं मम सखा समान-वया इति मत्वा प्रसभं स्वोत्कर्ष-ख्यापन-रूपेणाभिभवेन यद् उक्तं मया तवेदं विश्व-रूपं तथा महिमानम् ऐश्वर्यातिशयम् अजानता । पुं-लिङ्ग-पाठ इमं विश्व-रूपात्मकं महिमानं अजानता । प्रमादाच् चित्त-विक्षेपात् प्रणयेन स्नेहेन वापि किम् उक्तम् इत्य् आह हे कृष्ण हे यादव हे सखेति ॥४१॥
यच् चावहासार्थम् परिहासार्थं विहार-शय्यासन-भोजनेषु विहारः क्रीडा व्यायामो वा, शय्या तूलिकाद्यास्तरण-विशेषः, आसनं सिंहासनादि । भोजनं बहूनां पङ्कावशनं तेषु विषय-भूतेषु असत्कृतो ऽसि मया परिभूतो ऽसि एकः सखीन् विहाय रहसि स्थितो वा त्वम् । अथवा तत्-समक्षं तेषां सखीनां समक्षं वा, हे ऽच्युत ! सर्वदा निर्विकार ! तत् सर्वं वचन-रूपम् असत्-करण-रूपं चापराध-जातं क्षामये क्षामयामि त्वाम् अप्रमेयम् अचिन्त्य-प्रभावेण निर्विकारेण च परम-कारुणिकेन भगवता त्वन्-माहात्म्यानभिज्ञस्य ममापराधाः क्षन्तव्या इत्य् अर्थः ॥४२॥
विश्वनाथः : हन्त हन्तैतादृश-महा-महैश्वर्यमत् त्वय्य् अहं कृत-महापराध-पुञ्जो ऽस्मीत्य् अनुतापम् आविष्कुर्वन्न् आह सखेतीति । हे कृष्णेति । त्वं वसुदेव-नाम्नो नरस्यार्धरथत्वेनाप्य् अप्रसिद्धस्य पुत्रः कृष्ण इति प्रसिद्धः । हे यादवेति । यदु-वंशस्य तव नास्ति राजत्वम्, मम तु पुरु-वंशस्यास्त्य् एव राजत्वम् । हे सखेति । सन्धिर् आर्षः । तद् अपि त्वया सह मम यत् सख्यं तत्र तव पैत्रिक-प्रभावो न हेतुः । नापि कौलिकः । किन्तु तावक एवेत्य् अभिप्रायतो येअत् प्रसभं स-तिरस्कारम् उक्तं मया तत् क्षामये क्षमयामीत्य् उत्तरेणान्वयः । तवेदं विश्व-रूपात्मकं स्वरूपम् एव महिमानं प्रमादाद् वा प्रणयेन स्नेहेन वा परिहासार्थं विहारादिष्व् असत्कृतो ऽसि त्वं सत्यवादी निष्कपटः परम-सरल इत्य्-आदि-वक्रोक्त्या तिरस्कृतो ऽसि । त्वम् एकः
सखीन् विनैव रहसि । अथवा तत् समक्षं तेषां परिहसतां सखीनां समक्षं पुरतो ऽसि यदा स्थितस् तदा जातं तत् सर्वम् अपराध-सहस्रं क्षामये । हे प्रभो ! क्षमस्वेत्य् अनुनयामीत्य् अर्थः ॥४१-४२॥
बलदेवः : एवम् अर्जुनः सहस्र-शीर्षादि-लक्षणं स्व-सखं कृष्णं विलोक्य संस्तुत्य प्रणम्य च स्व-सख्यस्यैश्वर्य-ज्ञान-सम्मिश्रत्वात् तद्-अनुरूपम् अनुनयति सखेति द्वाभ्याम् । कृष्णो भगवान् मे सखा मित्रम् इति मत्वा निश्चित्य तवेदं सहस्र-शीर्षत्वादि-लक्षणं महिमानम् अजानताननुभवता मया प्रमादाद् अनवधानतः प्रणयेन सख्य-प्रेम्णा वा यत् त्वां प्रति प्रसभं हठाद् उक्तम् । तद् इदानीं क्षामये क्षमयामि । किं तद् इति चेत् तत्राह हे कृष्णेत्य् आदि । सखेतीत्य् अत्र सन्धिश् छान्दसः । एतानि त्रीणि सम्बोधनान्य् अनादर-गर्भाणि हे कृष्णेत्य् अत्र श्री-पूर्वकत्वाभावात् । हे यादवेत्य् अत्र राज्य-वंश्यत्वाभावावेदनात् । हे सखेत्य् अत्र सवयस्त्व-मात्र-सूचनात् । किं च, यच् च विहारादिष्व् अवहासार्थं परिहासायासत्कृतो
ऽसि सत्य-वाक् सरलो निष्कपटस् त्वम् इत्य् एवं व्यञ्जक-शब्दैर् अवज्ञातो ऽसि । एकः सखीन् विना विजने स्थितस् तत् समक्षं वा तेषां परिहसतां सखीनां पुरतो वा स्थित इत्य् अर्थः । तत् सर्व-वचन-रूपम् असत्कार-रूपं वापराध-जातं क्षामये क्षमस्व प्रभो भगवन्न् इत्य् अनुनयामि । हे अच्युतेति सत्य् अप्य् अपराधे ऽविच्युत-सखेत्य् अर्थः । अप्रमेयम् अतर्क्य-प्रभावम् ॥४१-४२॥
११।४३
पितासि लोकस्य चराचरस्य
त्वम् अस्य पूज्यश् च गुरुर् गरीयान् ।
न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो
लोक-त्रये ऽप्य् अप्रतिम-प्रभाव ॥४३॥
श्रीधरः : अचिन्त्य-प्रभावत्वम् एवाह पितेति । न विद्यते प्रतिमा उपमा यस्य सो ऽप्रतिमः । तथाविधः प्रभावो यस्य तव हे अप्रतिम-प्रभाव । त्वम् अस्य चराचरस्य लोकस्य पिता जनको ऽसि । अतएव पूज्यश् च गुरुश् च गुरोर् अपि गरीयान् गुरुतरः । अतो लोक-त्रये ऽपि न त्वत्-सम एव तावद्-अन्यो नास्ति । परमेश्वरस्यान्यस्याभावात् । त्वत्तो ऽभ्यधिकः पुनः कुतः स्यात् ? ॥४३॥
मधुसूदनः : अचिन्त्य-प्रभावताम् एव प्रपञ्चयति पितासीति । अस्य चराचरस्य लोकस्य पिता जनकस् त्वम् असि । पूज्यश् चासि सर्वेश्वरत्वात् । गुरुश् चासि शास्त्रोपदेष्टा । अतः सर्वैः प्रकारैर् गरीयान् गुरुतरो ऽसि । अतएव न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽपि । हे अप्रतिम-प्रभाव ! यस्य समो ऽपि नास्ति द्वितीयस्य परमेश्वरस्याभावात् तस्याधिको ऽन्यः कुतः स्यात् सर्वथा न सम्भाव्यत एवेत्य् अर्थः ॥४३॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : अप्रमेयताम् आह पितासीति । अस्य लोकस्य पिता पूज्यो गुरुः शास्त्रोपदेष्टा च त्वम् असि । अतः सर्वैः प्रकारैर् गरीयान् गुरुतरस् त्वम् । हे ऽप्रतिम-प्रभाव ! अतो ऽस्मिन् लोक-त्रये निखिले ऽपि जगति त्वत्-सम एव नास्ति । द्वितीयस्य परेशस्याभावाद् एव त्वद्-अधिको ऽन्यः कुतः स्यात् ? श्रुतिश् चैवम् आह न तत्-समश् चाभ्यधिकश् च दृश्यते इति ॥४३॥
११।४४
तस्मात् प्रणम्य प्रणिधाय कायं
प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥४४॥
श्रीधरः : यस्माद् एवं तस्माद् इति । तस्मात् त्वाम् ईशं जगतः स्वामिनम् । ईड्यं तुभ्यम् । प्रसादये प्रसादयामि । कथं कायं प्रणिधाय दन्तवन् निपात्य । प्रणम्य प्रकर्षेण नत्वा । अतस् त्वं महापराधं सोढुं क्षन्तुम् अर्हति । कस्य क्व इव ? पुत्रस्यापराधं कृपया पिता यथा सहते । सखुर् मित्रस्यापराधं सखा निरुपाधि-बन्धुः सहते । प्रियश् च प्रियाया अपराधं तत्-प्रियार्थं यथा सहते तद्वत् ॥४४॥
मधुसूदनः : यस्माद् एवं तस्माद् इति । तस्मात् प्रणम्य नमस्कृत्य त्वां प्रणिधाय प्रकर्षेण नीचैर् धृत्वा कायं दण्डवद् भूमौ पतित्वेति यावत् । प्रसादये त्वाम् ईशम् ईड्यम् सर्व-स्तुत्यम् अहम् अपराधी । अतो हे देव ! पितेव पुत्रस्यापराधं सखेव सख्युर् अपराधं प्रियः प्रियायाः पतिव्रताया अपराधं ममापराधं त्वं सोढुम् क्षन्तुम् अर्हसि अनन्य-शरणत्वान् मम । प्रियायार्हसीत्य् अत्रेव-शब्द-लोपः सन्धिश् च छान्दसः ॥४४॥
विश्वनाथः : कायं प्रणिधाय भूमौ दण्डवन् निपात्य प्रियायार्हसीति सन्धिर् आर्षः ॥४४॥
बलदेवः : यस्माद् एवं तस्माद् इति । कायं भूमौ प्रणिधाय प्रणम्येति साष्टाङ्गं प्रणतिं कृत्वा । हे देव ! ममापराधं सोढुम् अर्हसि । कः कस्येवेत्य् आह पितेवेति । सखेव सख्युर् इति तु तदा महैश्वर्यं वीक्ष्य स्वस्मिन् दासत्व-मननात् । प्रियायार्हसीति विसर्ग-लोपः सन्धिश् चार्षः ॥४४॥
११।४५
अदृष्ट-पूर्वं हृषितो ऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तद् एव मे दर्शय देव रूपं
प्रसीद देवेश जगन्-निवास ॥४५॥
श्रीधरः : एवं क्षमापयित्वा प्रार्थयते अदृष्ट-पूर्वम् इति द्वाभ्याम् । हे देव पूर्वम् अदृष्टं तव रूपं दृष्ट्वा हृषितो हृष्टो ऽस्मि । तथा भयेन च मे मनः प्रव्यथितं प्रचलितम् । तस्मान् मम व्यथा-निवृन्तये तद् एव रूपं दर्शय । हे देवश हे जगन्निवास प्रसन्नो भव ॥४५॥
मधुसूदनः : एवम् अपराध-क्षमां प्रार्थ्य पुनः प्राग्-रूप-दर्शनं विश्वरूपोपसंहरेण प्रार्थयते अदृष्ट-पूर्वम् इति द्वाभ्याम् । कदाप्य् अदृष्ट-पूर्वं पूर्वम् अदृष्टं विश्व-रूपं दृष्ट्वा हृषितो हृष्टो ऽस्मि । तद्-विकृत-रूप-दर्शनजेन भयेन च प्रव्यथितं व्याकुलीकृतं मनो मे । अतस् तद् एव प्राचीनम् एव मम प्राणापेक्षयापि प्रियं रूपं मे दर्शय हे देव हे देवेश हे जगन्-निवास प्रसीद प्राग्-रूप-दर्शन-रूपं प्रसादं मे कुरु ॥४५॥
विश्वनाथः : यद्यप्य् अदृष्ट-पूर्वम् इदं ते विश्व-रूपात्मकं वपुर् दृष्ट्वा हृषितो ऽस्मि तद् अप्य् अस्य घोरत्वाद् भयेन मनः प्रव्यथितम् अभूत् । तस्मात् तद् एव मानुषं रूपं मत्-प्राण-कोट्य्-अधिक-प्रियं माधुर्य-पारावारं वसुदेव-नन्दनाकारं मे दर्शय प्रसीदेत्य् अलं तवैतादृशैश्वर्यस्य दर्शनायेति भावः । देवेशेति त्वं सर्वेद्वानाम् ईश्वरः सर्व-जगन्-निवासो भवस्य् एवेति मया प्रतीतम् इति भावः । अत्र विश्व-रूप-दर्शन-काले सर्व-स्वरूप-मूल-भूतं नराकारं कृष्ण-वपुस् तत्रैव स्थितम् अपि योगमायाच्छादितत्वाद् अर्जुनेन न दृष्टम् इति गम्यते ॥४५॥
बलदेवः : अथ किं वक्षि किं चेच्छसीति चेत् तत्राह अदृष्टेति । त्वयि कृष्णे सत्त्वेन ज्ञातम् अपीदम् ऐश्वरं रूपं दृष्ट्वाहं हर्षितो ऽस्मि मत्-सखस्येदम् असाधारणं रूपम् इति मुदितो ऽस्मि मनश् च मम तद्-घोरत्व-दर्शन-जेन भयेन प्रव्यथितं भवति । अत इदं प्रार्थयेद् एवेत्य् आदि सर्व-देव-नियन्ता तत्-सर्वाधारः परेशस् त्वम् असीति मया प्रत्यक्षीकृतम् अतःपरं तद्-अन्तर्भाव्य तद् एव मद्-अभीष्टं कृष्ण-रूपं दर्शय प्रादुर्भावयेत्य् अर्थः ॥४५॥
११।४६
किरीटिनं गदिनं चक्र-हस्तम्
इच्छामि त्वां द्रष्टुम् अहं तथैव ।
तेनैव रूपेण चतुर्-भुजेन
सहस्र-बाहो भव विश्व-मूर्ते ॥४६॥
श्रीधरः : तद् एव रूपं विशेषयन्न् आह किरीटिनम् इति । किरीटवन्तम् गदावन्तं चक्र-हस्तं च त्वां द्रष्टुम् इच्छामि । पूर्वं यथा दृष्टो ऽसि तथैव । अतएव हे सहस्र-बाहो । हे विश्व-मूर्ते ! इदं विश्व-रूपम् उपसंहृत्य तेनैव किरीटादि-युक्तेन चतुर्भुजेन भवाविर्भव । तद् अनेन श्री-कृष्णम् अर्जुनः पूर्वम् अपि किरीटादि-युक्तम् एव पश्यतीति गम्यते । यत् तु पूर्वम् उक्तं विश्व-रूप-दर्शने किरीटिनं गदिनं चक्रिणं च पश्यामीति । तद्-बहु-किरीटाद्य्-अभिप्रायेण । यद् वा एतावन्तं कालं यं त्वां किरीटिनं गदिनं चक्रिणं च सुप्रसन्नम् अपश्यं तम् एवेदानीं तेजो-राशिं दुर्निरीक्ष्यं पश्यामीभ्य् एवम् अत्र वचनस्य व्यक्तिर् इत्य् अविरोधः ॥४६॥
मधुसूदनः : तद् एव रूपं विवृणोति किरीटिनम् इति । किरीटवन्तम् गदावन्तं चक्र-हस्तं च त्वां द्रष्टुम् इच्छाम्य् अहं तथैव पूर्ववद् एव । अतस् तेनैव रूपेण चतुर्-भुजेन वसुदेवात्मजत्वेन भव हे इदानीं सहस्र-बाहो हे विश्व-मूर्ते । उपसंहृत्य विश्वरूपं पूर्व-रूपेणैव प्रकटो भवेत्य् अर्थः । एतेन सर्वदा चतुर्भुजादि-रूपम् अर्जुनेन भगवतो दृश्यत इत्य् उक्तम् ॥४६॥
विश्वनाथः : विशेषयन्न् आह किरीटिनम् इति । किरीटवन्तम् गदावन्तं चक्र-हस्तं च त्वां द्रष्टुम् इच्छामि । पूर्वं यथा दृष्टो ऽसि तथैव । अतएव हे सहस्र-बाहो । हे विश्व-मूर्ते ! इदं विश्व-रूपम् उपसंहृत्य तेनैव किरीटादि-युक्तेन चतुर्भुजेन भवाविर्भव । तद् अनेन श्री-कृष्णम् अर्जुनः पूर्वम् अपि किरीटादि-युक्तम् एव पश्यतीति गम्यते । यत् तु पूर्वम् उक्तं विश्व-रूप-दर्शने किरीटिनं गदिनं चक्रिणं च पश्यामीति । तद्-बहु-किरीटाद्य्-अभिप्रायेण । यद् वा एतावन्तं कालं यं त्वां किरीटिनं गदिनं चक्रिणं च सुप्रसन्नम् अपश्यं तम् एवेदानीं तेजो-राशिं दुर्निरीक्ष्यं पश्यामीभ्य् एवम् अत्र वचनस्य व्यक्तिर् इत्य् अविरोधः ॥४६॥
बलदेवः : तत् कीदृग् इत्य् आह किरीटिनम् इति । हे सम्प्रति सहस्र-बाहो ! हे विश्व-मूर्ते ! इदं रूपम् अन्तर्भाव्य दिव्याभिनेतृ-नटवत् तेनैव चतुर्भुजेन रूपेण विशिष्टः सन् प्रादुर्भव ॥४६॥
११।४७
श्री-भगवान् उवाच
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितम् आत्म-योगात् ।
तेजो-मयं विश्वम् अनन्तम्
आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥४७॥
श्रीधरः : एवं प्रार्थितस् तम् आश्वासयन् भगवान् उवाच मयेति त्रिभिः । हे अर्जुन किम् इति त्वं बिभेषि ? यतो मया प्रसन्नेन कृपया तवेदं परम् उत्तमं रूपं दर्शितम् । आत्मनो मम योगाद् योग-माया-सामार्थ्यात् । परत्वम् एवाह तेजो-मयम् । विश्वम् विश्वात्मकम् । अनन्तम् आद्यं च । यन् मम रूपं त्वद्-अन्येन त्वादृशाद् भक्ताद् अन्येन पूर्वं न दृष्टं तत् ॥४७॥
मधुसूदनः : एवम् अर्जुनेन प्रसादितो भय-वाधितम् अर्जुनम् उपलभ्योपसंहृत्य विश्व-रूपम् उचितेन वचनेन तम् आश्वासयन् श्री-भगवान् उवाच मयेति त्रिभिः । हे ऽर्जुन मा भैषीः । यतो मया प्रसन्नेन त्वद्-विषय-कृपातिशयवतेदं विश्व-रूपात्मकं परं श्रेष्ठं रूपं तव दर्शितम् आत्म-योगाद् असाधारणान् निज-सामर्थ्यात् । परत्वं विवृणोति तेजो-मयं तेजः-प्रचुरं विश्वम् समस्तम् अनन्तम् आद्यं च यन् मम रूपं त्वद्-अन्येन केनापि न दृष्ट-पूर्वम् पूर्वं न दृष्टम् ॥४७॥
विश्वनाथः : भो अर्जुन ! द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम इति त्वत्-प्रार्थनयैवेदं मया मद्-अंशस्य विश्व-रूप-पुरुषस्य रूपं दर्शितम् । कथम् अत्र ते मनः प्रव्यथितम् अभूत् ? यतः प्रसीद प्रसीदेत्य् उक्त्या तन्-मानुषम् एव रूपं मे दिदृक्षसे, तस्मात् किम् इदम् आश्चर्यं ब्रूषे इत्य् आह मयेति । प्रसन्नेनैव मया तव तुभ्यम् एवेदं रूपं दर्शितम् । नान्यस्मै, यतस् त्वत्तो ऽन्येन केनापि एतन् न पूर्वं दृष्टम् । तद् अपि त्वम् एतन् न स्पृहयसि किम् इति भावः ॥४७॥
बलदेवः : एवं प्रार्थितो भगवान् उवाच मयेति । हे अर्जुन ! द्रष्टुम् इच्छामि ते रूपम् इत्य् आदि त्वत्-प्रार्थितं प्रसन्नेन मयेदं तेजो-मयं परमैश्वरं रूपं वैदूर्यवद् अभिनेतृ-नटवच् च त्वद्-अभीष्टे कृष्णे मयि स्थितम् एव तव दर्शितम् । आत्म-योगान् निजाचिन्त्य-शक्त्या मे मम यद् रूपं त्वद्-अन्येन जनेन पूर्वं न दृष्टम् । तत्-प्रसङ्गाद् इदानीं त्व् अन्यैर् अपि देवादिभिर् दृष्टं भक्ति-दृश्यं मम तत्-स्वरूपं भक्तं त्वां प्रति प्रदर्शयता मया त्वद्-दृष्टस्य बहु-साक्षिकत्वाय देवादिभ्यो ऽपि भक्तिमद्भ्यः प्रदर्शितम् । यत् तु गज-साह्वये दुर्योधनादिभिर् अपि विश्वरूपं दृष्टं तन् नेदृग्विधम् इति त्वद्-अन्येन न दृष्ट-पूर्वम् इत्य् उक्तम् ॥४७॥
११।४८
न वेद-यज्ञाध्ययनैर् न दानैर्
न च क्रियाभिर् न तपोभिर् उग्रैः ।
एवं-रूपः शक्य अहं नृलोके
द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ॥४८॥
श्रीधरः : एतद्-दर्शनम् अतिदुर्लभं लब्ध्वा त्वं कृतार्थो ऽसीत्य् आह न वेदेति । वेदाध्ययनम् अव्यतिरेकेण यज्ञाध्ययनस्याभावाद् यज्ञ-शब्देन यज्ञ-विद्याः कल्प-सूत्राद्या लक्ष्यन्ते । वेदानां यज्ञ-विद्यानां चाध्ययनैर् इत्य् अर्थः । न च दानैः । न च क्रियाभिर् अग्निहोत्रादिभिः । न चोग्रैस् तपोभिश् चान्द्रायणादिभिः । एवं-रूपो ऽहं त्वत्तो ऽन्येन मनुष्य-लोके द्रष्टुं शक्यः । अपि तु त्वम् एव केवलं मत्-प्रसादेन दृष्ट्वा कृतार्थो ऽसि ॥४८॥
मधुसूदनः : एतद्-रूप-दर्शनात्मकम् अतिदुर्लभं मत्-प्रसादं लब्ध्वा कृतार्थ एवासि त्वम् इत्य् आह न वेदेति । वेदानां चतुर्णाम् अपि अध्ययनैर् अक्षर-ग्रहण-रूपैः, तथा मीमांसाकल्प-सूत्रादि-द्वारा यज्ञानां वेद-बोधित-कर्मणाम् अधययनैर् अर्थ-विचार-रूपैर् वेद-यज्ञाध्ययनैः । दानैस् तुली-पुरुषादिभिः । क्रियाभिर् अग्निहोत्रादि-श्रौत-कर्मभिः । तपोभिः कृच्छ्र-चान्द्रायणादिभिर् उग्रैः कायेन्द्रिय-शोषकत्वेन दुष्करैर् एवं-रूपो ऽहं न शक्यो नृ-लोके मनुष्य-लोके द्रष्टुं त्वद्-अन्येन मद्-अनुग्रह-हीनेन हे कुरु-प्रवीर ! शक्यो ऽहम् इति वक्तव्ये विसर्ग-लोपश् छान्दसः । प्रत्येकं न-काराभ्यासो निषेध-दाढ्याय । न च क्रियाभिर् इत्य् अत्र च-काराद् अनुक्त-साधनान्तर-समुच्चयः ॥४८॥
विश्वनाथः : तुभ्यं दर्शितम् इदं रूपं तु वेदादि-साधनैर् अपि दुर्लभम् इत्य् आह न वेदेति । त्वत्तो ऽन्येन न केनाप्य् अहम् एवंरूपो द्रष्टुं शक्यः । शक्यो ऽहम् इति । यद्-द्वय-लोपाव् आर्षौ । तस्माद् अलभ्य-लाभम् आत्मनो मत्वा त्वम् अस्मिन्न् एवेश्वरे, सर्व-दुर्लभे रूपे मनो-निष्ठां कुरु । एतद्-रूपं दृष्ट्वाप्य् अलं ते पुनर् मे मानुष-रूपेण दिदृक्षितेनेति भावः ॥४८॥
बलदेवः : अथ सहस्र-शीर्षादि-लक्षणस्यैश्वर-रूपस्य पुमर्थताम् आह न वेदेति । वेदानाम् अध्ययनैर् अक्षर-ग्रहणैः । यज्ञानाम् अधययनैर् मीमांशा-कल्प-सूत्रेभ्यो ऽर्पणैः । क्रियाभिर् अग्निहोत्रादि-कर्मभिः । तपोभिः कृच्छ्रादिभिर् उग्रैर् देह-शोषकत्वेन दुष्करैः । एभिः केवलैर् वेदाध्ययनादिभिर् भक्ति-युक्तात् त्वत्तो ऽन्येन भक्ति-रिक्तेन केनापि पुंसा एवं-रूपो ऽहं द्रष्टुं न शक्यो, भक्तिं विना भूतानि वेदाध्ययनादीनि मद्-दर्शन-साधनानि न भवन्तीति । यद् उक्तं -
धर्मः सत्यादयोपेतो विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ इति ।
त्वया तु भक्तिमता दृष्ट एवाहम् अन्यैश् च भक्तिमद्भिर् देवादिभिः । शक्यो ऽहम् इति वक्तव्ये विसर्ग-लोपश् छान्दसः । न-काराभ्यासो निषेधाढ्यार्थः । नृ-लोके इत्य् उक्तेस् तल्-लोके तद्-भक्ता देवा बहवस् तद् द्रष्टुं शक्नुवन्तीत्य् उक्तम् ॥४८॥
११।४९
मा ते व्यथा मा च विमूढ-भावो
दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् ।
व्यपेत-भीः प्रीत-मनाः पुनस् त्वं
तद् एव मे रूपम् इदं प्रपश्य ॥४९॥
श्रीधरः : एवम् अपि चेत् तवेदं घोरं रूपं दृष्ट्वा व्यथा भवति तर्हि तद् एव रूपं दर्शयामीत्य् आह मा त इति । ईदृग् ईदृशं घोरं मदीयं रूपं दृष्ट्वा ते आ ते व्यथा मास्तु । विमूढ-भावो विमूढत्वं च मास्तु । विगत-भयः प्रीत-मनाश् च सन् पुनस् त्वं तद् एवेदं मम रूपं प्रकर्षेण पश्य ॥४९॥
मधुसूदनः : एवं घोरम् ईदृग् अनेक-बाह्व्-आदि-युक्तत्वेन भयङ्करं मम रूपं दृष्ट्वा स्थितस्य ते तव या व्यथा भय-निमित्ता पीडा सा मा भूत् । तथा मद्-रूप-दर्शने ऽपि यो विमूढ-भावो व्याकुल-चित्तत्वम् अपरितोषः सो ऽपि मा भूत् । किन्तु व्यपेत-भीर् अपगत-भयः प्रीत-मनाश् च सन् पुनस् त्वं तद् एव चतुर्भुजं वासुदेवत्वादि-विशिष्टं त्वया सदा पूर्व-दृष्टं रूपम् इदं विश्व-रूपोपसंहारेण प्रकटीक्रियमाणं प्रपश्य प्रकर्षेण भय-राहित्येन सन्तोषेण च पश्य ॥४९॥
विश्वनाथः : भोः परमेश्वर ! मां त्वं किं न गृह्णासि ? यद् अनिच्छते ऽपि मह्यं पुनर् इदम् एव बलाद् दित्ससि । दृष्ट्वेदं तवैश्वर्यं मम गात्राणि व्यथन्ते, मनो मे व्याकुलीभवति । मुहुर् अहं मूर्च्छामि । तवास्मै परमैश्वर्याय दूरत एव मम नमो नमो ऽस्तु, न कदाप्य् अहं एवं द्रष्टुं प्रार्थयिष्ये । क्षमस्व क्षमस्व । तद् एव मानुषाकारं वपुर् अपूर्व-माधुर्य-धुर्य-स्मित-हसित-सुधा-सार-वर्षि-मुख-चन्द्रं मे दर्शय दर्शयेति व्याकुलम् अर्जुनं प्रति साश्वासम् आह मा ते इति ॥४९॥
बलदेवः : यच् च तस्मिन्न् एव मद्-रूपे संहर्तृत्वं मया प्रदर्शितं तत् खलु द्रपदी-प्रघर्षणं वीक्ष्यापि तुष्णीं स्थिता भीष्मादयः सर्वे तत्-प्रघर्षण-कुपितेन मयैव निहन्तव्या न तु तन्-निहनन-भारस् तवेति बोधयितुम् अतस् तेन त्वं व्यथितो माभूर् इत्य् आह मा ते व्यथेति । तद् एव चतुर्भुजं प्रार्थित-रूपम् ॥४९॥
११।५०
सञ्जय उवाच
इत्य् अर्जुनं वासुदेवस् तथोक्त्वा
स्वकं रूपं दर्शयाम् आस भूयः ।
आश्वासयाम् आस च भीतम् एनं
भूत्वा पुनः सौम्यवपुर् महात्मा ॥५०॥
श्रीधरः : एवम् उक्त्वा प्राक्तनम् एव रूपं मत्-सखं प्रसन्नं तव सौम्यं जनार्दन इदानीम् अधुनास्मि संवृत्तः सञ्जातः । किम् ? स-चेताः प्रसन्न-चित्तः । प्रकृतिं स्वभावं गतश् चास्मि ॥५०॥
मधुसूदनः : वासुदेवो ऽर्जुनम् इति प्राग्-उक्तम् उक्त्वा यथा पूर्वम् आसीत् तथा स्वकं रूपं किरीट-मकर-कुण्डल-गदा-चक्रादि-युक्तं चतुर्भुजं श्रीवत्स-कौस्तुभ-वनमाला-पीताम्बरादि-शोभितं दर्शयामास भूयः पुनर् आश्वासयामास च भीतम् एनम् अर्जुनं भूत्वा पुनः पूर्ववत् सौम्य-वपुर् अनुग्र-शरीरो महात्मा परम-कारुणिकः सर्वेश्वरः सर्वज्ञ इत्य् आदि-कल्याण-गुणाकरः ॥५०॥
विश्वनाथः : यथा स्वांशस्य महोग्र-रूपं दर्शयामास । तथा महा-मधुरं स्वकं रूपं चतुर्भुजं किरीट-गदा-चक्रादि-युक्तं तत्-प्रार्थितं मधुरैश्वर्य-मयं भूयो दर्शयामास । ततः पुनः स महात्मा सोम्य-वपुः कटक-कुण्डलोष्णीष-पीताम्बर-धरो द्विभुजो भूत्वा भीतम् एनम् आश्वासयामास ॥५०॥
बलदेवः : ततो यद् अभूत् तत् सञ्जय उवाच इत्य् अर्जुनम् इति । वासुदेवो ऽर्जुनं प्रति पूर्वोक्तम् उक्त्वा यथा सङ्कल्पेनैव सहस्र-शिरस्कं रूपं दर्शितवान् तथैव स्वकं नीलोत्पल-श्यामलत्वादि-गुणकं देवकी-पुत्र-लक्षणं चतुर्भुजं रूपं दर्शयामास एवं सौम्य-वपुः सुन्दर-विग्रहो भूत्वा भीतम् एनम् अर्जुनं पुनर् आश्वासयामास । महात्मा उदार-मना ॥५०॥
११।५१
अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥५१॥
श्रीधरः : ततो निर्भयः सन्न् अर्जुन उवाच दृष्ट्वेदम् इति । स-चेताः प्रसन्न-चित्तः । इदानीं संवृत्तो जातो ऽस्मि । प्रकृतिं स्वास्थ्यं च प्राप्तो ऽस्मि । शेषं स्पष्टम् ॥५१॥
मधुसूदनः : ततो निर्भयः सन् अर्जुन उवाच दृष्ट्वेदम् इति । इदानीं सचेता भय-कृत-व्यामोहाभावेनाव्याकुल-चित्तः संवृत्तो ऽस्मि तथा प्रकृतिं भय-कृत-व्यथा-राहित्येन स्वास्थ्यं गतो ऽस्मि । स्पष्टम् अन्यत् ॥५१॥
विश्वनाथः : ततश् च महा-मधुर-मूर्तिं कृष्णम् आलोक्यानन्द-सिन्धु-स्नातः सन्न् आह इदानीम् एवाहं स-चेताः संवृत्तः स-चेतो अभुवं प्रकृतिं गतः स्वास्थ्यं प्राप्तो ऽस्मि ॥५१॥
बलदेवः : ततो निर्व्यथः प्रसन्न-मनाः सन्न् अर्जुन उवाच दृष्ट्वेदम् इति । हे जनार्दन तवेदं सौम्यं मनोज्ञं चतुर्भुजं रूपं दृष्ट्वाहम् इदानीं स-चेताः प्रसन्न-चित्तः प्रकृतिं व्यथाद्य्-अभावेन स्वास्थ्यं च गतः संवृत्तो जातो ऽस्मि । कीदृशं रूपम् इत्य् आह मानुषम् इति । चैतन्यानन्द-विग्रहः कृष्णो वक्ष्यमाण-श्रुति-स्मृतिभ्यः । स हि यदुषु । पाण्डवेषु द्विभुजः कदाचिच् चतुर्भुजश् च क्रीडति । तद्-उभय-रूपस्यास्य मानुषवत् संस्थानाच् चेष्टिताच् च । मानुष-भावेनैव व्यपदेश इति प्राग् अभाषि ॥५१॥
११।५२
श्री-भगवान् उवाच
सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम ।
देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ॥५२॥
श्रीधरः : स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन भगवान् उवाच सुदुर्दर्शम् इति । यन् मम विश्व-रूपं त्वं दृष्टवान् असि । इदं सुदुर्दर्शम् अत्यन्तं द्रष्टुम् अशक्यम् । यतो देवा अप्य् अस्य रूपस्य नित्यं सर्वदा दर्शनम् इच्छन्ति केवलम् । न पुनर् इदं पश्यन्ति ॥५२॥
मधुसूदनः : स्व-कृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन् श्री-भगवान् उवाच सुदुर्दर्शम् इति चतुर्भिः । मम यद् रूपम् इदानीं त्वं दृष्टवान् असि, इदं विश्व-रूपं सुदुर्दर्शम् अत्यन्तं द्रष्टुम् अशक्यम् । यतो देवा अप्य् अस्य रूपस्य नित्यं सर्वदा दर्शन-काङ्क्षिणो न तु त्वम् इव पूर्वं दृष्टवन्तो न वाग्रे द्रक्ष्यन्तीत्य् अभिप्रायः । दर्शनाकाङ्क्षाया नित्यत्वोक्तेः ॥५२॥
विश्वनाथः : दर्शितस्य स्वरूपस्य माहात्म्यम् आह सुदुर्दर्शम् इति त्रिभिः । देवता अपि अस्य दर्शनाकाङ्क्षिण एव न तु दर्शनं लभन्ते । त्वं तु नैवेदम् अपि स्पृहयसि । मन्-मूल-स्वरूप-नराकार-महा-माधुर्य-नित्यास्वादिने त्वच्-चक्षुसे कथम् एतद् चोरताम् ? अतएव मया दिव्यं ददामि ते चक्षुः इति दिव्यं चक्षुर् दत्तम् । किन्तु दिव्य-चक्षुर् इव दिव्यं मनो न दत्तम् अतएव दिव्य-चक्षुषापि त्वया न सम्यक्तया रोचितं मन्-मानुष-रूप-महा-माधुर्यैक-ग्राहि-मनस्कत्वात् । यदि दिव्यं मनो ऽपि तुभ्यम् अदास्यं तदा देव-लोक इव भवान् अप्य् एतद् विश्वरूप पूरुष-स्वरूपम् अरोचयिष्यद् एवेति भावः ॥५२॥
बलदेवः : मया प्रदर्शितं न वेद-यज्ञाध्ययनिः इत्य् आदिना श्लाघितं च सहस्र-शिरस्कं मद्-रूपं श्रद्दधानो मत्-प्रिय-सखो ऽर्जुनो मनुष्य-भाव-भाविते श्री-कृष्णे मयि कदाचिद् विश्लथ-भावो माभूद् इति भावेन स्वक-रूपस्य परम-पुरुषार्थताम् उपदिशति सुदुर्दर्शम् इति । सहस्र-शिरस्कं मद्-रूपं दुर्दर्शम् एव । इदं च मम कृष्ण-रूपं सुदुर्दर्शम् । नाहं प्रकाशः सर्वस्य इत्य् उक्तेः । यत् त्वं सुचिराद् दृष्टवान् असि कथम् एवं प्रत्य् एमीति चेत् तत्राह देवा अप्य् अस्येति । एतच् च दशमादौ गर्भ-स्तुत्य्-आदिना प्रसिद्धम् एव ॥५२॥
११।५३
नाहं वेदैर् न तपसा न दानेन न चेज्यया ।
शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥५३॥
श्रीधरः : अत्र हेतुम् आह नाहम् इति । स्पष्टो ऽर्थः ॥५३॥
मधुसूदनः : कस्माद् देवा एतद्-रूपं न दृष्टवन्तो न वा द्रक्ष्यन्ति मद्-भक्ति-शून्यत्वाद् इत्य् आह नाहम् इति । न वेद-यज्ञाध्ययनैर् इत्य् आदिना गतार्थः श्लोकः परम-दुर्लभत्व-ख्यापनायाभ्यस्तः ॥५३॥
विश्वनाथः : किं च युष्मद्-अस्पृहणीयम् अप्य् एतत् स्वरूपम् अन्ये पुरुषार्थ-सारत्वेन ये स्पृहयन्ति, तैर् वेदाध्ययनादिभिर् अपि साधनैर् एतज् ज्ञातुं द्रष्टुं चाशक्यम् एवेति प्रतीहीत्य् आह नाहम् इति ॥५३॥
बलदेवः : सुदुर्लभताम् आह नाहम् इति । एवंविधो देवकी-सूनुश् चतुर्भुजस् त्वत्-सखो ऽहं वेदादिभिर् अपि साधनैः केनापि पुंसा भक्ति-शून्येन द्रष्टुं न शक्यो यथा त्वं मां दृष्टवान् असि ॥५३॥
११।५४
भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥५४॥
श्रीधरः : तर्हि केनोपायेन त्वं द्रष्टुं शक्य इति । तत्राह भक्त्या त्व् इति । अनन्यया मद्-एक-निष्ठया भक्त्या त्व् एवम्भूतो विश्वरूपो ऽहं तत्त्वेन परमार्थतो ज्ञातुं शक्यः शास्त्रतः द्रष्टुं प्रत्यक्षतः प्रवेष्टुं च तादात्म्येन शक्यः । नान्यैर् उपायैः ॥५४॥
मधुसूदनः : यदि वेद-तपो-दानेज्याभिर् द्रष्टुम् अशक्यस् त्वं तर्हि केनोपायेन द्रष्टुं शक्यो ऽसीत्य् अत आह भक्त्येति । साधनानन्तर-व्यावृत्त्य-अर्थस् तु-शब्दः । भक्त्यैवानन्यया मद्-एक-निष्ठया निरतिशय-प्रीत्यैवंविधो दिव्य-रूप-धरो ऽहं ज्ञातुं शक्यो ऽनन्यया भक्त्या किन्तु तत्त्वेन द्रष्टुं च स्वरूपेण साक्षात्कर्तुं च शक्यो वेदान्त-वाक्य-श्रवण-मनन-निदिध्यासन-परिपाकेण । ततश् च स्वरूप-साक्षात्काराद् अविद्या-तत्-कार्य-निवृत्तौ तत्त्वेन प्रवेष्टुं च मद्-रूपतयैवासुं चाहं शक्यः । हे परन्तप ! अज्ञान-शत्रु-दमनेति प्रवेश-योग्यता सूचयति ॥५४॥
विश्वनाथः : तर्हि केन साधनेनैवं प्राप्यत इत्य् अत आह भक्त्या त्व् इति । शक्यो ऽहम् इति च । यद् वयलोपावार्य । यदि निर्वाण-मोक्षेच्छा भवेत्, तदा तत्त्वेन ब्रह्म-स्वरूपत्वेन प्रवेष्टुम् अप्य् अनन्यया भक्त्यैव शक्यो नान्यथा । ज्ञानिनां गुणीभूतापि भक्तिर् अन्तिम-समये ज्ञान-सन्न्यासानान्तरम् उर्वरिताल्लीयस्य् अनन्यैव भवेत् तयैव तेषां सायुज्यं भवेद् इति ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् इत्य् अत्र प्रतिपादयिष्यामः ॥५४॥
बलदेवः : अभिमतां पर-भक्तैक-दृश्यतां स्फुटयन्न् आह भक्त्येति । एवंविधो देवकी-सूनुश् चतुर्भुजो ऽहम् अनन्यया मद्-एकान्तया भक्त्या तु वेदादिभिस् तत्त्वतो ज्ञातुं शक्यः । द्रष्टुं प्रत्यक्षं कर्तुं तत्त्वतः प्रवेष्टुं संयोक्तुं च शक्यः । पुरं प्रविशतीत्य् अत्र पुर-संयोग एव प्रतीयते । तत्र वेदो गोपालोपनिषत् । तपो मज्-जन्माष्टम्य्-एकादश्य्-आद्य्-उपोषणम् । दानं मद्-भक्त-सम्प्रदानकं स्व-भोग्यानाम् अर्पणम् । इज्या मन्-मूर्ति-पूजा । श्रुतिश् चैवम् आह यस्य देवे परा भक्तिः इत्य् आद्या ।
तु-शब्दो ऽत्र भिन्नोपक्रमार्थः । न च सुदुर्दर्शम् इत्य् आदि-त्रयं सहस्र-शीर्ष-रूप-परम् इति वाच्यम् । इत्य् अर्जुनं इत्य् आदि-द्वयस्य नराकृति-चतुर्भुज-स्वरूप-परस्याव्यवहित-पूर्वत्वात् । तद्-द्वयेन सहस्र-शीर्ष-रूपस्य व्यवधानाच् च । तत्र यस्य तद्-एक-वाक्यतायां नाहं वेदैः इत्य् आदेः पौनरुक्त्य्-आपत्तेश् च ।
यत् तु दिव्य-दृष्टि-दानेन लिङ्गेन नराकाराच् चतुर्भुजात् सहस्र-शीर्ष्णो देवाकारस्योत्कर्षम् आह तद्-अविचारिताभिधानम् एव देवाकारस्य तस्य चतुर्भुज-नराकाराधीनत्वात् । तत्त्वं च तस्य युक्तम् एव यः कारणार्णव-जले भजति स्म योग-निद्राम् इति स्मरणात् । इदं नराकृति-कृष्ण-रूपं सच्चिदानन्दं सर्व-वेदान्त-वेद्यं विभुं सर्वावतारीति प्रत्येतव्यं -
सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कारिणे ।
नमो वेदान्त-वेद्याय गुरवे बुद्धि-साक्षिणे ॥ [ग्तु १।१]
कृष्णो वै परमं दैवतम् [ग्तु १।३] । एको वशी सर्वगः कृष्ण ईड्यः [ग्तु १।१९] । एको ऽपि सन् बहुधा यो ऽवभाति [ग्तु १।१९] इत्य् आदि श्रवणात् ।
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ [ब्स् ५।१]
यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति । एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं इत्य् आदि स्मरणाच् च ।
अत्रापि स्वयम् एवोक्तं मत्तः परतरं नान्यत् इति, अहम् आदिर् हि देवानां इत्य् आदि च । अर्जुनेन च - परं ब्रह्म परं धाम इत्य् आदि । तस्माद् अतिप्रभावेण सङ्क्रान्ते सहस्र-शीर्ष्णि रूपे तेन सङ्क्रान्तैव दृष्टिर् ग्राहिणी युक्ता, न त्व् अतिसौन्दर्य-लावण्य-निधि-नराकृति-कृष्ण-रूपान्भाविनी दृष्टिस् तत्र ग्राहिणीति भावेन कृष्ण-रूपे सहस्र-शीर्षत्ववद् अर्जुन-चक्षुषि तादृग्-रूप-ग्राहि तेजस्त्वम् एव सङ्क्रमितम् इति मन्तव्यम् । न तु युक्त्याभास-लाभेन हैतुकत्वं स्वीकार्यम्, न चार्जुनो ऽप्य् अन्य-मनुष्यवच् चर्म-चक्षुष्कः । तस्य भारतादिषु नर-भगवद्-अवतारत्वेनासकृद्-उक्तेः । कर्मोद्भूतया विद्यया स-निष्ठैः सहस्र-शिरस्कं रूपं लभ्यम् इति दुर्दर्शं तत् नराकृति-कृष्ण-रूपं त्व् अनन्यया भक्त्यैवेति सुदुर्दर्शं तद् उक्तम् ॥५४॥
११।५५
मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥५५॥
श्रीधरः : अतः सर्व-शास्त्र-सारं परमं रहस्यं शृण्व् इत्य् आह मत्-कर्म-कृद् इति । मद्-अर्थं कर्म करोतीति मत्-कर्म-कृत् । अहम् एव परमः पुरुषार्थो यस्य सः । ममैव भक्त आश्रितः । पुत्रादिषु सङ्ग-वर्जितः । निर्वैरश् च सर्व-भूतेषु । एवं भूतो यः स मां प्राप्नोति । नान्य इति ॥५५॥
देवैर् अपि सुदुर्दर्शं तपो-यज्ञादि-कोटिभिः ।
भक्ताय भगवान् एवं विश्व-रूपम् अदर्शयत् ॥
इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
विश्व-रूप-दर्शं नाम एकादशो ऽध्यायः ॥
॥११॥
मधुसूदनः : अधुना सर्वस्य गीता-शास्त्रस्य सार-भूतो ऽर्थो निःश्रेयसार्थिनाम् अनुष्ठानाय पुञ्जीकृत्योच्यते मद् इति । मद्-अर्थं कर्म वेद-विहितं करोतीति मत्-कर्म-कृत् । स्वर्गादि-कामनायां सत्यां कथम् एवम् इति नेत्य् आह मत्-परमः । अहम् एव परमः प्राप्तव्यत्वेन निश्चितो न तु स्वर्गादिर् यस्य सः । अतएव मत्-प्राप्त्य्-आशया मद्-भक्तः सर्वैः प्रकारैर् मम भजन-परः । पुत्रादिषु स्नेहे सति कथम् एवं स्याद् इति नेत्य् आह सङ्ग-वर्जितः । बाह्य-वस्तु-स्पृहा-शून्यः । शत्रुषु द्वेषे सति कथम् एवं स्याद् इति नेत्य् आह निवैरः सर्व-भूतेषु । अपकारिष्व् अपि द्वेष-शून्यो यः स माम् एत्य् अभेदेन । हे पाण्डव ! अयम् अर्थस् त्वया ज्ञातुम् इष्टो मयोपदिष्टो नातः परं किञ्चित् कर्तव्यम् अस्तीत्य् अर्थः ॥५५॥
शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् विश्व-रूप-दर्शन-निरूपणं नाम एकादशो ऽध्यायः ॥
॥११॥
विश्वनाथः : अथ भक्ति-प्रकरणोपसंहारार्थं सप्तमाध्यायादिषु ये ये भक्ता उक्तास् तेषां सामान्य-लक्षणम् आह मत्-कर्म-कृद् इति । सङ्ग-वर्जितः सङ्ग-रहितः ॥५५॥
कृष्णस्यैव महैश्वर्यं ममैवास्मिन् रणे जयः ।
इत्य् अर्जुनो निश्चिकायेत्य्-अध्यायार्थो निरूपितः ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतास्व् एकादशो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥११॥
बलदेवः : अथ स्व-प्राप्ति-करीम् अनन्यां भक्तिम् उपदिशन्न् उपसंहरति मद् इति । मत्-सम्बन्धिनी मन्-मन्दिर-निर्माण-तद्-विमार्जन-मत्-पुष्प-बाटी-तुलसी-कानन-संस्कार-तत्-सेवनादीनि कर्मादीनि करोतीति मत्-कर्म-कृत् । मत्-परमो माम् एव न तु स्वर्गादिकं स्व-पुमर्थं जानन् । मद्-भक्तो मच्-छ्रवणादि-नव-विध-भक्ति-रस-निरतः । सङ्ग-वर्जितो मद्-विमुख-संसर्गम् असहमानः । सर्व-भूतेषु निर्वैरः । तेष्व् अपि मद्-विमुखेषु प्रतिकूलेषु सत्सु वैर-शून्यः । स्व-क्लेशस्य स्व-पूर्वकर्म-निमित्तकत्व-विमर्शेन तेषु वैर-निमित्ताभावात् । एवम्भूतो यो मां नराकारं कृष्णम् एति लभते, नान्यः ॥५५॥
पूर्णः कृष्णो ऽवतारित्वात् तद्-भक्तानां जयो रणे ।
भारते पाण्डु-पुत्राणाम् इत्य् एकादश-निर्णयः ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये एकादशो ऽध्यायः
॥११॥